मध्यमकशास्त्रम्/पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/अग्नीन्धनपरीक्षा दशमं प्रकरणम् मध्यमकशास्त्रम्
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/दुःखपरीक्षा द्वादशमं प्रकरणम् →

पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ ११.१ ॥
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ ११.२ ॥
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥ ११.३ ॥
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥ ११.४ ॥
न जरामरणेनैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ ११.५ ॥
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ ११.६ ॥
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च ।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥ ११.७ ॥
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥ ११.८ ॥