मध्यमकशास्त्रम्/कालपरीक्षा एकोनविंशतितमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/आत्मपरीक्षा अष्टादशमं प्रकरणम् मध्यमकशास्त्रम्
कालपरीक्षा एकोनविंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/सामग्रीपरीक्षा विंशतितमं प्रकरणम् →

प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः ॥ १९.१ ॥
प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥ १९.२ ॥
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते ॥ १९.३ ॥
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ॥ १९.४ ॥
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥ १९.५ ॥
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः ।
न च कश्चन भावोऽस्ति कुतः कालो भविष्यति ॥ १९.६ ॥