भृगुसंहिता/सप्तदशोऽध्यायः

विकिस्रोतः तः
← षोडशोऽध्यायः भृगुसंहिता
सप्तदशोऽध्यायः
[[लेखकः :|]]
अष्टादशोऽध्यायः →

अथ सप्तदशोऽध्यायः.अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयं ।
केशवं तु प्रकुर्वीत स्ॐयरूपं चतुर्भुजं ।। १७.१ ।।

शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च ।
सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितं ।। १७.२ ।।

स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुं ।
नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजं ।। १७.३ ।।

शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिं ।
भूषितं मणिभूषाभिः वीतवाससमच्युतं ।। १७.४ ।।

प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभं ।
उत्तमं दशतालेन मानोन्मानप्रमाणतः ।। १७.५ ।।

सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च ।
आसने निहितं वामं लक्षणं पूर्ववत्तथा ।। १७.६ ।।

लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्वितां ।
प्रसारितकरां देवीं पञ्चतालप्रमाणतः ।। १७.७ ।।

प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषितां ।
वामेन तां परिष्वज्य दक्षिणेनाभयप्रदं ।। १७.८ ।।

अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परं ।
तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववथ् ।। १७.९ ।।

तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखं ।
दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ।। १७.१० ।।

नागभोगे समासीनमेवं कुर्यात्तु वा हरिं ।
सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतं ।। १७.११ ।।

शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणं ।
माधवं चोत्पलनिभं चक्रचावगदासिभिः ।। १७.१२ ।।

चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिं ।
गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिं ।। १७.१३ ।।

गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः ।
विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतं ।। १७.१४ ।।

सर्वाभरण संयुक्तं पीतवाससमच्युतं ।
रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनं ।। १७.१५ ।।

शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयं ।
त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतं ।। १७.१६ ।।

चतुर्भुजधरं देवं सर्वाभरणभूषितं ।
वामनं मेघवर्णं तु चतुर्बाहुं महाबलं ।। १७.१७ ।।

गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणं ।
अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये ।। १७.१८ ।।

दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिं ।
अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ।। १७.१९ ।।

स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिं ।
सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजं ।। १७.२० ।।

क्ॐओदकीशङ्खचक्रपद्मधारिणमीश्वरं ।
हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजं ।। १७.२१ ।।

गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययं ।
सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेथ् ।। १७.२२ ।।

क्ॐओदकीचक्रपद्मशङ्खपाणिं रमाधवं ।
दामोदरं प्रकुर्वीत सितगौराभमीश्वरं ।। १७.२३ ।।

पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजं ।
संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजं ।। १७.२४ ।।

शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनं ।
वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभं ।। १७.२५ ।।

शङ्खचक्रगदापद्मधरं सर्वधरं विभुं ।
चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिं ।। १७.२६ ।।

प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजं ।
चक्रशङ्खगदापद्मधरं देवं महाबलं ।। १७.२७ ।।

अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतं ।
शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरं ।। १७.२८ ।।

सितासिताभं कुर्वीत देवेशं पुरुषोत्तमं ।
शङ्खचक्रगदापद्मधरं देवं चतुर्भुजं ।। १७.२९ ।।

अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजं ।
चक्रशङ्खगदापद्मधरं भूषणभूषितं ।। १७.३० ।।

नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतं ।
शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदं ।। १७.३१ ।।

सितमेचकवर्णं तु कुर्वीत विभुमच्युतं ।
गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितं ।। १७.३२ ।।

जनार्दनमुदाराङ्गं नीलवर्णं समाचरेथ् ।
चक्रशङ्खगदापद्मधरं देवं सनातनं ।। १७.३३ ।।

अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेथ् ।
उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितं ।। १७.३४ ।।

शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुं ।
हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितं ।। १७.३५ ।।

शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरं ।
कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणं ।। १७.३६ ।।

शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः ।
सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेथ् ।। १७.३७ ।।

सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
"केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ।। १७.३८ ।।

"नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि ।
"माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति, ।। १७.३९ ।।

"गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ ।
.विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ।। १७.४० ।।

"मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि ।
"त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ।। १७.४१ ।।

"वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ ।
"श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ।। १७.४२ ।।

"हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा ।
"पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ ।। १७.४३ ।।

"दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ ।
"संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा ।। १७.४४ ।।

"वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ ।
"प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा ।। १७.४५ ।।

"अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ ।
"पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा ।। १७.४६ ।।

"अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि ।
"नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ।। १७.४७ ।।

"अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा ।
.जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा ।। १७.४८ ।।

"उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि ।
"हरिं पापहरं चेति विष्णुं मङ्गलविग्रहं ।। १७.४९ ।।

"कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि ।
आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ।। १७.५० ।।

"विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा ।
केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेथ् ।। १७.५१ ।।

नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः ।
इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ।। १७.५२ ।।

"विष्णुस्सर्वेषाऽमित्यादि "यं यज्ञैऽरन्तमीरिताः ।
तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ।। १७.५३ ।।

शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेथ् ।
एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुं ।। १७.५४ ।।

तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितं ।
कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेथ् ।। १७.५५ ।।

लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमं ।
अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ।। १७.५६ ।।

विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता ।
दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ।। १७.५७ ।।

पद्ममध्ये समासीनां पद्मद्वयकराञ्चितां ।
वरदाभयहस्तां च मन्दस्मित मुखांबुजां ।। १७.५८ ।।

एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता ।
योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेथ् ।। १७.५९ ।।

देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमं ।
कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ।। १७.६० ।।

कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययं ।
तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणं ।। १७.६१ ।।

भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः ।
ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ।। १७.६२ ।।

वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता ।
श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितं ।। १७.६३ ।।

देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः ।
पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवथ् ।। १७.६४ ।।

वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता ।
अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयं ।। १७.६५ ।।

दशतालेन मानेन कुर्याद्देवीन सलक्षणां ।
पद्मद्वयकरां चैव वन्दा भयधारिणीं ।। १७.६६ ।।

किरीटमुकुचोपेतां सर्वालङ्कारशोभितं ।
पद्मासने समासीनां हेमाभां सर्वमङ्गलां ।। १७.६७ ।।

गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधां ।
नवतालें मानेन कुर्यादन्यालयाश्रितां ।। १७.६८ ।।

दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा ।
प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीं ।। १७.६९ ।।

सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेथ् ।
गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ।। १७.७० ।।

पाकलक्ष्मीस्समाख्याता पचनालयसंगता ।
अष्टतालेन मानेन कुर्यात्तां पचनालये ।। १७.७१ ।।

पद्मद्वयाञ्चितकरां वरदाभयधारिणीं ।
आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषितां ।। १७.७२ ।।

द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेथ् ।
पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभितां ।। १७.७३ ।।

पद्मद्वयाञ्चितकरां वरदाभयधारिणीं ।
पद्मासने समासीनां किरीटादिविभूषितां ।। १७.७४ ।।

गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः ।
सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा ।। १७.७५ ।।

श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते ।
ध्रवबेरानुरूपेण बेरान्तरसमर्चनं ।। १७.७६ ।।

तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया ।
अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेथ् ।। १७.७७ ।।

पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकं ।। १७.७८ ।।

"गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेथ् ।
आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूथ् ।। १७.७९ ।।

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् ।
नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ।। १७.८० ।।

द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा ।
अन्येषां परिवाराणां स्थापनं विधिवच्चरेथ् ।। १७.८१ ।।

यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे ।
तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेथ् ।। १७.८२ ।।

असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेथ् ।
भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदं ।। १७.८३ ।।

बेरालङ्कारयोग्यानि धामालङ्करणानि च ।
यथाहंन्संस्कृतान्येव गृह्णीयात्सफलं भवेथ् ।। १७.८४ ।।

तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकं ।
जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेथ् ।। १७.८५ ।।

द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ।। १७.८६ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे सप्तदशोऽध्यायः