भृगुसंहिता/षोडशोऽध्यायः

विकिस्रोतः तः
← पञ्चदशोऽध्यायः भृगुसंहिता
षोडशोऽध्यायः
[[लेखकः :|]]
सप्तदशोऽध्यायः →

अथ षोडशोऽध्यायः.
दशावतारकल्पः(कृष्णः)

अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः ।
कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके ।। १६.१ ।।

कूटे वा गोपुरे वापि पर्वताकृतिकेऽपिवा ।
कृष्णस्य बालरूपस्य वयसा तालमानकं ।। १६.२ ।।

एकवर्षं समारभ्य यावत्बञ्चाब्दमादराथ् ।
तालत्रयक्रमेणैव यथायोगं प्रकल्पयेथ् ।। १६.३ ।।

वेदवर्षं समारभ्यषट्तालत्रयमेव वा ।
सप्तवर्षं समारभ्य सप्ततालत्रयं तथा ।। १६.४ ।।

दशवर्षं समारभ्य अष्टतालत्रयं तथा ।
त्रयोदश समारभ्य नवतालत्रयं तथा ।। १६.५ ।।

एवं वयःक्रमेणैव तालमानं तथोच्यते ।
तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया ।। १६.६ ।।

कृष्णं च बालवपुषं श्यामलं पीतवाससं ।
रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलां ।। १६.७ ।।

वासुदेवं गुडाकेशं सर्वाभरणभूषितं ।
क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतं ।। १६.८ ।।

स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितं ।
तिष्ठन्तमङ्गुलिस्थाने चांगुष्ठस्थितिमाचरेथ् ।। १६.९ ।।

किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेथ् ।
वक्त्रं चैव तथा गात्रं कटिभागं तथैव च. ।। १६.१० ।।

त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते ।
वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः ।। १६.११ ।।

कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतं ।
दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितं ।। १६.१२ ।।

दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतं ।
भूतवेदगुणाङ्गुल्या विधिना सहितालतः? ।। १६.१३ ।।

वामं देव्योर्भुजासक्तं वामहस्तमधोमुखं ।
हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलं ।। १६.१४ ।।

षट्सप्ताष्टांगुलाधिक्योन्नतं वा कालयेत्क्रमाथ् ।
वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेथ् ।। १६.१५ ।।

वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमाथ् ।
ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समं ।। १६.१६ ।।

त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससं ।
चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परं ।। १६.१७ ।।

सुस्थितं वामपादेन दक्षिणेनैव बन्धयेथ् ।
सर्वाभरणसंयुक्तं सुन्दरं स्ॐयलोचनं ।। १६.१८ ।।

देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन ।
देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितं ।। १६.१९ ।।

पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवथ् ।
नवनीतनटं कुर्यात्तथा कालीयमर्दनं ।। १६.२० ।।

पार्थसारथिरूपं तु देव्योश्च रहितं क्रमाथ् ।
पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं ।। १६.२१ ।।

नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते ।
लौकिकप्रतिमोत्सेधं मानांगुलमिति क्रमाथ् ।। १६.२२ ।।

प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनं ।
नवसंख्यमिति प्रोक्तं मानमेवं विधीयते ।। १६.२३ ।।

एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमं ।
मानंप्रमाणमुन्मानं लंबमानोपमानकं ।। १६.२४ ।।

पञ्चतालमिति प्रोक्तं लंबमानं विधीयते ।
सात्त्विकं राजसं चैव तामसं तु विवर्जयेथ् ।। १६.२५ ।।

दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकं ।
कटियोनिसमं वाथ दक्षिणं पादमेव हि ।। १६.२६ ।।

दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा ।
अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः ।। १६.२७ ।।

दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननं ।
केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेथ् ।। १६.२८ ।।

उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके ।
नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे ।। १६.२९ ।।

पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके ।
लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेथ् ।। १६.३० ।।

उष्णीषमङ्गुलार्धं च मुखमष्टांगुलं भवेथ् ।
गलमर्थांगुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेथ् ।। १६.३१ ।।

हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकं ।
अष्टादशांगुलं चैव मूर्ध्वकायं विधीयते ।। १६.३२ ।।

त्रयोदशांगुलं चैव मूरुदीर्ङं विधीयते ।
जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा ।। १६.३३ ।।

चरणं द्व्यङ्गुलं चैव मानमेव न संशयः ।
हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतं ।। १६.३४ ।।

प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतं ।
मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलं ।। १६.३५ ।।

ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवं ।
अभयं बाहुमानं चतुर्विंशतिरङ्गुलं ।। १६.३६ ।।

कक्षयोरन्तरं चैव चतुर्दशांगुल विस्तरं ।
ऊरुर्दशांगुलं चैव श्रोणिरेकादशांगुलं ।। १६.३७ ।।

कटिविस्तारमेवं स्यात्त्रयोदशांगुलमिष्यते ।
ऊरुमूलसुविस्तारमष्टांगुलमिति क्रमाथ् ।। १६.३८ ।।

षडङ्गुलं जानुतारं जङ्घातारं च सप्तकं ।
त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेथ् ।। १६.३९ ।।

पादविस्तारमेवोक्तं सर्वलक्षणसंयुतं ।
कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजं ।। १६.४० ।।

अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसं ।
तारहारावलीरम्यं गरुडोपरि संस्थितं ।। १६.४१ ।।

देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतं ।
आलोल कुन्तलोद्भासि मुखचन्द्र विराजितं ।। १६.४२ ।।

अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांचितं ।
वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणं ।। १६.४३ ।।

दक्षिणं चाभयं हस्तं नवनीतयुतं तथा ।
वामं प्रसार्य चोत्तानं सर्वाभरणभूषितं ।। १६.४४ ।।

सांबरं तु प्रकुर्वीत विगतांबरमेव वा ।
एवं तु विधिना कुर्यान्नवनितनटं बुधः ।। १६.४५ ।।

एवमेव प्रकुर्वीत कालीयाहिफणोपरि ।
नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकं ।। १६.४६ ।।

दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकं ।
अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनं ।। १६.४७ ।।

नीलोत्पलदलश्यामं पीतांबरसुशोभितं ।
चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतं ।। १६.४८ ।।

अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितं ।
सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितं ।। १६.४९ ।।

देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितं ।
कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः ।। १६.५० ।।

कलापकुसुम श्यामं पूर्णचन्द्रनिभानसं ।
बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतं ।। १६.५१ ।।

युवतीवेषलावण्यं श्रीवत्सांकितवक्षसं ।
स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनं ।। १६.५२ ।।

अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये ।
वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिं ।। १६.५३ ।।

तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया ।
निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया ।। १६.५४ ।।

हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितं ।
चन्द्रमण्डलसंकाशश्वेतछत्रेणशोभितं ।। १६.५५ ।।

नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितं ।
इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरं ।। १६.५६ ।।

एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहं ।
गोपीभिरावृतं गोभिः परमानन्दविग्रहं ।। १६.५७ ।।

व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितं ।
चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये ।। १६.५८ ।।

धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च ।
अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन् ।। १६.५९ ।।

दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितं ।
एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः ।। १६.६० ।।

सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितं ।
रक्तांबरधरं चैव श्यामलं कमलेक्षणं ।। १६.६१ ।।

रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितं ।
रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा ।। १६.६२ ।।

वसुदेवं देवकीं च पुरतो दक्षिणे तथा ।
यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितं ।। १६.६३ ।।

प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणं ।
दामं सुमनसं चैव कुर्यादन्यां च गोपिकां ।। १६.६४ ।।

कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितं ।
कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमाथ् ।। १६.६५ ।।

नवतालेन मानेन कुर्यात्तान्समलङ्कृतान् ।
देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेथ् ।। १६.६६ ।।

यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेथ् ।
प्रद्युम्नं श्यामवर्णं च सांबं कालाञ्जनप्रभं ।। १६.६७ ।।

दामं रक्तनिभं चैव गौरं सुमनसं तथा ।
सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः ।। १६.६८ ।।

एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहं ।
चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवथ् ।। १६.६९ ।।

धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना ।
न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि ।। १६.७० ।।

राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुं ।
एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहं ।। १६.७१ ।।

पीतांबरधरं देवं ज्ञानमुद्रालसत्करं ।
वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितं ।। १६.७२ ।।

उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिं ।
कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहं ।। १६.७३ ।।

स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुं ।
इक्षुचापांकुशान्वेणुं शङ्खारिसुमसायकान् ।। १६.७४ ।।

बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहं ।
सर्वाभरणसंयुक्तं योगिनाममृतप्रदं ।। १६.७५ ।।

एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहं ।
गवां गोपकुमाराणां गोपीनां रक्षणायवै ।। १६.७६ ।।

नगं गोवर्धनं नाम दधार भगवान्हरिः ।
वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमं ।। १६.७७ ।।

कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा ।
शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजं ।। १६.७८ ।।

एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिं ।
पुरा महति संग्रामे पार्थं रक्षितवान्हरिः ।। १६.७९ ।।

पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतं ।
समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगं ।। १६.८० ।।

श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलं ।
बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा ।। १६.८१ ।।

अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथं ।
एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहं ।। १६.८२ ।।

वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च ।
तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः ।। १६.८३ ।।

आकुञ्चितान्यपादेव चासनस्थितिशोभिना ।
अन्यहस्तेन संधार्य नवनीतं नवं नवं ।। १६.८४ ।।

मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः ।
एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहं ।। १६.८५ ।।

पुरा संदर्तसमये संहृतेषु जगत्सु च ।
वटपत्रे विनिद्राणो बभूव भगवान्हरिः ।। १६.८६ ।।

वटपत्रे शयानं तु बालरूपं परात्परं ।
आकृष्य दक्षिणं पादं वामहस्तेन लीलया ।। १६.८७ ।।

पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननं ।
दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकं ।। १६.८८ ।।

प्रसारितेतरपदं दिव्यालङ्कारशोभितं ।
वटपत्रं प्रकुर्वीत विशालं चाधराग्रकं ।। १६.८९ ।।

वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेथ् ।
शङ्खचक्रगदापद्म पाशांकुशलसत्करं ।। १६.९० ।।

कराभ्यां वेणुमादाय धमन्तं सर्वमोहनं ।
सूर्यायुतशताभासं पीतांबरसुशोभितं ।। १६.९१ ।।

नानालङ्कारसुभगं सूर्यमण्डलसंस्थितं ।
एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनं ।। १६.९२ ।।

कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेथ् ।
कालीयमर्दनादौ तु नागकन्यादिकल्पनं ।। १६.९३ ।।

कल्पनं भोगभेदस्य चैवमादीन्प्रकल्पयेथ् ।
युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियं ।। १६.९४ ।।

एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेथ् ।
अथवाकौतुकं बिंबं चतुर्भुजसमन्वितं ।। १६.९५ ।।

अभयं वरदं पूर्वं शङ्खचक्रधरं परं ।
एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेथ् ।। १६.९६ ।।

पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च ।
पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।। १६.९७ ।।

"कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि ।
"रुक्मिणीं सुंदरीं देवीं रमाऽमिति च रुक्मिणीं ।। १६.९८ ।।

"सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति ।
इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा ।। १६.९९ ।।

आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेथ् ।
"सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ।। १६.१०० ।।

श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः ।
पूर्वोक्तेन विधानेन स्थापनादीनि कारयेथ् ।। १६.१०१ ।।

कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति ।
खड्गखेटकहस्तस्तु म्लेच्छादीन्स हनिष्यति ।। १६.१०२ ।।

कूटे वा गोपुरे वापि पर्वताकृतिकेऽपि वा ।
कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेथ् ।। १६.१०३ ।।

मध्यमं दशतालेन भिन्नांजनचयप्रभं ।
अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति ।। १६.१०४ ।।

चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि ।
चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा ।। १६.१०५ ।।

अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकं ।
शुद्धस्फचिकसंकाशं खड्गखेटक धारिणं ।। १६.१०६ ।।

अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजं ।
पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च ।। १६.१०७ ।।

पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।
"कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ ।। १६.१०८ ।।

एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेथ् ।
"धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेथ् ।। १६.१०९ ।।

उत्सवस्नपनादीनि विष्णोरिव समाचरेथ् ।
विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणं ।। १६.११० ।।

अनादिर्भगवान्कालो नास्य चान्तोऽपि दृश्यते ।
चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः ।। १६.१११ ।।

अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः ।
धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च ।। १६.११२ ।।

सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया ।
आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरथ् ।। १६.११३ ।।

आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः ।
गजेन्द्रमोक्षणादीनप्याविर्भावान्प्रचक्षते ।। १६.११४ ।।

अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः ।
कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ।। १६.११५ ।।

अथान्तर्मण्डपे वापि तथावरण मण्डपे ।
संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न ।। १६.११६ ।।

नारसिंहं वराहं च वामनं च त्रिविक्रमं ।
ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितं ।। १६.११७ ।।

स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे ।
मत्स्यकूर्मवराहाणां वामनस्य विशेषतः ।। १६.११८ ।।

कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजं ।
ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु ।। १६.११९ ।।

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे षोडशोऽध्यायः