भृगुसंहिता/षट्त्रिंशोऽध्यायः
← पञ्चत्रिंशोऽध्यायः | भृगुसंहिता षट्त्रिंशोऽध्यायः [[लेखकः :|]] |
सप्तत्रिंशोऽध्यायः → |
अथषट्त्रिंशोऽध्यायः.
अपचाराः
अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ।
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ।। ३६.१ ।।
देवोत्सवाद्यसेवाचाप्रणामं च तदग्रतः ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणं ।। ३६.२ ।।
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकं ।
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनं ।। ३६.३ ।।
शयनं भोजनं चैव मुधाभाषणमेव च ।
उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः ।। ३६.४ ।।
निग्रहोऽनुग्रहश्चैव स्त्रीषु साकूतभाषणं ।
अश्लीलकथनं चैवाप्यधोवायुविमोक्षणं ।। ३६.५ ।।
कंबलावरणं चैव वरनिन्दा परस्तुतिः ।
शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणं ।। ३६.६ ।।
तत्तत्कालोद्भवानां च फलादीनामनर्पणं ।
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ।। ३६.७ ।।
पृष्ठीकृत्यासनं चैव परेषामभिवन्दनं ।
गुर्ॐऔनं निजस्तोत्रं देवतानिन्दनं तथा ।। ३६.८ ।।
अपचारां स्तु विविधानीदृशान्परिवर्जयेथ् ।
अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः ।। ३६.९ ।।
"क्षमऽऽस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा ।
अन्यथा यदि कुर्वाणःप्रमादात्ज्ञानतोऽथवा ।। ३६.१० ।।
स याति नरकान्घोरान्सन्ततं भृशदारुणान् ।
येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः ।। ३६.११ ।।
द्वात्रिंशन्नरकाः
द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः ।
रौरवध्वान्तशीतोष्णतापांबुजमहांबुजाः ।। ३६.१२ ।।
कालसूत्रोऽष्टमो ह्येते नरका इति विश्रुताः ।
सूच्यग्रकालखड्गाश्च क्षुरधारांचबरीषकाः ।। ३६.१३ ।।
तप्तांगारमहादाहौ संतापश्चेति के चन ।
भवन्त्यष्टासु भीभत्का महाशब्दा भयानकाः ।। ३६.१४ ।।
लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः ।
युग्माद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः ।। ३६.१५ ।।
कृमीणां निचयश्चैव राजानः परिकीर्तिताः ।
लोहस्तम्भोऽथ विण्मूत्रे तथा वैतरणी नदी ।। ३६.१६ ।।
तामिस्रश्चान्धतामिस्रः कुम्भीपाकोऽथ रौरवः ।
महापदानुगामी च राजराजेश्वराह्वयः ।। ३६.१७ ।।
त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसं ।
तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः ।। ३६.१८ ।।
तेषां नरकभेदानामष्टाविंशतिकोटयः ।
एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः ।। ३६.१९ ।।
कूश्माण्ड इति विख्यातः प्रलयार्कालनद्युतिः ।
करालवदनः क्रुद्धो वृत्तकोटरलोचनः ।। ३६.२० ।।
टङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः ।
पापास्त्वेतेषु पच्यन्तेनराः कर्मानुरूपतः ।। ३६.२१ ।।
यातनाभिर्विचित्राभिरापापप्रक्षयान्तकं ।
प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः ।। ३६.२२ ।।
परधर्मरताश्चोराः पतन्ति नरकाग्निषु ।
महापातकिनःकल्पं तिष्ठन्ति नरकाग्निषु ।। ३६.२३ ।।
मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः ।
उपपातकिनो मर्त्या देवदेवाग्नियज्वनां ।। ३६.२४ ।।
द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनं ।
अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः ।। ३६.२५ ।।
तिष्ठन्ति नरके घोरे निजपापानुरूप्यतः ।
द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः ।। ३६.२६ ।।
पतन्ति तेषु घोरेषु नरकेषु नराधमाः ।
न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवं ।। ३६.२७ ।।
"प्यत्यक्षं केन तद्दृष्टं प्रत्युऽऽतेति वदन्ति च ।
कामलोभाभिभूताश्च बिडालव्रतिनस्तथा ।। ३६.२८ ।।
पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः ।
यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः ।। ३६.२९ ।।
पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः ।
इहानुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयंभुवा ।। ३६.३० ।।
निमित्तं किञ्चिदासाद्य विमुच्यन्तेकलेवरैः ।
लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजं ।। ३६.३१ ।।
तन्मात्रगुणसंपन्नं सुखदुःखोपभोगदं ।
पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु ।। ३६.३२ ।।
आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा ।
यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः ।। ३६.३३ ।।
तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु ।
अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः ।। ३६.३४ ।।
सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः ।
घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः ।। ३६.३५ ।।
अतिघोरा महाघोरा घोरघोरा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयावहा ।। ३६.३६ ।।
अष्टमी कालरात्री च नवमी च भयोत्कटा ।
दशमी तदधश्चण्णा महाचण्डा ततोऽप्यधः ।। ३६.३७ ।।
चण्डकोलाहलाचान्या प्रचण्डानरकाधिका ।
पद्मापद्मवती भीमा भीमभीषणनायका ।। ३६.३८ ।।
कराला विकराला च वज्रा विंशतिकास्मृता ।
त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला ।। ३६.३९ ।।
सप्तभ्ॐआष्टभ्ॐआ च दीप्तायामेति चाष्टमी ।
इत्येता नामतः प्रोक्ता घोरा नरककोटयः ।। ३६.४० ।।
अष्टाविंशतिरेवैताः पापानां यातनात्मनां ।
तासां क्रमेण विज्ञेयाः पञ्च पञ्चैकनायकाः ।। ३६.४१ ।।
प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत ।
रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ।। ३६.४२ ।।
महारौरवको यत्र महान्तोऽपि रुदन्तिच ।
तमश्शीतं यथा चोष्णं पञ्चाद्या नायकास्स्मृताः ।। ३६.४३ ।।
सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः ।
महामांसो विलोमश्च सुभीमश्च कटङ्कटः ।। ३६.४४ ।।
तीव्रवेषी करालश्च विकरालः प्रकम्पनः ।
महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः ।। ३६.४५ ।।
सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः ।
कुंभीपाकस्सुपाकश्च चक्रकश्चातिदारुणः ।। ३६.४६ ।।
अङ्गारराशिफवनमसृक्पूयचहद्रस्तथा ।
तीक्ष्णायस्तुण्डशकुनिर्महासंवर्तकस्तता ।। ३६.४७ ।।
सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु ।
उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली ।। ३६.४८ ।।
दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः ।
ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः ।। ३६.४९ ।।
श्वसूकराजमहिषखरमेषहयाननाः ।
ग्रहकुंभीरनक्रास्याः सर्पकूर्मास्यवायसाः ।। ३६.५० ।।
कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः ।
गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः ।। ३६.५१ ।।
कणधूमस्तुषाग्निश्च कृमीणां निचयस्तथा ।
अमेध्यश्चाप्रतीकारो रुधिरान्नस्यभोजनं ।। ३६.५२ ।।
लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः ।
जङ्कटस्सुविलासश्च विकटः कटपूतनः ।। ३६.५३ ।।
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ।
सुतप्तलोहशयनमेकपादप्रतप्तकं ।। ३६.५४ ।।
असितालवनं घोरमस्थिभङ्गप्रपीडनं ।
तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनं ।। ३६.५५ ।।
महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला ।
पर्वतक्षुरधाराख्यं तथा च मलपर्वतः ।। ३६.५६ ।।
मूत्रविष्ठांधकूपेषु क्षारकूपेषु पातनं ।
मुसलोलूखलं यन्त्रं शिलाशकललाङ्गलं ।। ३६.५७ ।।
तालपत्रासिगहनं महामशकमण्डपं ।
सम्मोहनोऽस्थिभङ्गश्च तपुःशूलमयोगुडः(?) ।। ३६.५८ ।।
बहुदुःखं महादुःखं कश्मलं शमलं मलं ।
हालाहलो निरूपश्च सुरूपश्च तमोऽनुगः ।। ३६.५९ ।।
एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः ।
अष्टाविंशतिरेवैतैः क्रमशः पञ्चकाः स्मृताः ।। ३६.६० ।।
कोटीनामानु पूर्व्येण पञ्च पञ्चैव नायकाः ।
रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः ।। ३६.६१ ।।
चत्वारिंशत्समधिकं महानरकमण्डलं ।
तेषु पापाः प्रपच्यन्तेनराः कर्मानुरूपतः ।। ३६.६२ ।।
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशं ।
सुसूढं हस्तयोर्बद्ध्वातप्तशृङ्खलया नराः ।। ३६.६३ ।।
महावृङ्गरशाखासुगम्यन्तेयमकिङ्करैः ।
डोलिताश्चातिवेगेन निस्संज्ञा यान्तियोजनं ।। ३६.६४ ।।
अन्तरिक्षस्थितानां च लोहभारशतं ततः ।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ।। ३६.६५ ।।
तेन भारेण महता भृशमाताडितानराः ।
आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः ।। ३६.६६ ।।
ततस्तप्तैरग्नि वर्णैर्लोहदण्डैस्सकण्टकैः ।
हन्यन्ते किङ्करैर्घोरैस्समर्तात्पापकारिणः ।। ३६.६७ ।।
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।
समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः ।। ३६.६८ ।।
द्रुतेनात्यन्तलिप्तेन क्षताङ्गा जर्जरीकृताः ।
पुनर्विधाय चाङ्गानि शिरःप्रभृति चक्रमाथ् ।। ३६.६९ ।।
वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके ।
निष्ठापूर्णे तथाकूपे कृमीणांनिचये पुनः ।। ३६.७० ।।
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः ।
भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुण्डैश्च वायसैः ।। ३६.७१ ।।
श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः ।
पच्यन्ते चरुवद्वापि प्रदीप्ताङ्गारराशिषु ।। ३६.७२ ।।
प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा ।
शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः ।। ३६.७३ ।।
तिलवत्संप्रपीड्यन्ते चक्राख्ये नरके नराः ।
पच्यन्ते चातितप्तेषु लोहभाण्डेष्वनेकथा ।। ३६.७४ ।।
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।
सर्देन्द्रियाणि संबद्ध्य क्रमात्पापेन यातनाः ।। ३६.७५ ।।
भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च ।
ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते ।। ३६.७६ ।।
अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः ।
त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः ।। ३६.७७ ।।
सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः ।
क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः ।। ३६.७८ ।।
अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः ।
ये तु देव गृहं गत्वा तत्र सेवार्थमागताः ।। ३६.७९ ।।
अथ वान्यत्र तद्रूपा मदमोहपराजिताः ।
परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा ।। ३६.८० ।।
गुरोःकुर्वन्ति भ्रुकुटीं क्रूरनेत्राश्चये नराः ।
सूचीभिरग्निवर्णाभिस्तेषां चक्षुः प्रविध्यते ।। ३६.८१ ।।
क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः ।
स्पर्शलोभेन ये मूढास्संस्पृशन्ति परस्त्रियः ।। ३६.८२ ।।
तेषां तप्ताग्निवर्णाभिस्सूचीभिर्विध्यते करः ।
ततः क्षारादिकैस्सर्वं शरीरमनुलिप्यते ।। ३६.८३ ।।
यातनाश्च महाकष्टास्सर्वेषु नरकेषु च ।
परेष्वजन्ति चात्युग्रं प्रदीप्तं लोहशाल्मलिं ।। ३६.८४ ।।
हन्यन्ते पृष्ठदेशेषु पुनर्भीमैर्महाबलैः ।
दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा ।। ३६.८५ ।।
शिलःपृभृति पाट्यन्तेघोरैः कर्मभिरात्मजैः ।
तेनतेनैव रूपेण हन्यन्ते पारदारिकाः ।। ३६.८६ ।।
गाढमालिङ्ग्यते नारी ज्वलन्तीलोहनिर्मिता ।
पूर्वाकालं ज्वलन्तं तं पूरुषं लोहनिर्मितं ।। ३६.८७ ।।
दुश्चारिण्यःस्त्रीयो गाढमालिङ्गन्तिवदन्ति च ।
किं प्रधावसि वेगेन न ते मोहोऽस्ति संप्रति ।। ३६.८८ ।।
लङ्घितस्ते यथा भर्ता पापं भुङ्क्ष्व तदाधुना ।
लोहकुंभे विनिक्षिप्ताः सापिधाने शनैश्शनैः ।। ३६.८९ ।।
मृद्वग्निना प्रपच्यन्ते स्वपापैरिव मानवाः ।
उलूखलाद्यैः क्षोद्यन्ते प्रपीड्यन्ते शिलासु च ।। ३६.९० ।।
क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशं ।
कृमिभिर्भिन्न सर्वाङ्गाश्शतशो जर्जरीकृताः ।। ३६.९१ ।।
सुतीक्ष्णक्षुरकूपेषु क्षिप्यन्ते तदनन्तरं ।
महज्वाले च नरके पापाः पच्यन्ति सर्वतः ।। ३६.९२ ।।
इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा ।
पृष्ठेनानीय जङ्घे द्वे विन्यस्ते स्रन्धयोजिते ।। ३६.९३ ।।
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः ।
बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः ।। ३६.९४ ।।
पिण्डबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः ।
मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः ।। ३६.९५ ।।
पिण्डबद्धास्स्मृता याम्यमहाज्वाले च यातनाः ।
रिज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ।। ३६.९६ ।।
करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा ।
सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च ।। ३६.९७ ।।
अपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा ।
शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः ।। ३६.९८ ।।
भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशं ।
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ।। ३६.९९ ।।
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः ।
सुतप्तवज्रलेपेन शरीरमुपलिप्यते ।। ३६.१०० ।।
अधोमुखोर्ध्वपादाश्च वृता स्तप्यन्ति वह्निना ।
वदनान्तः प्रविन्यस्तं सुप्रतप्तमयोगुडं ।। ३६.१०१ ।।
ते खादन्ति पराधीना हन्यमानाश्च मुद्गरैः ।
ये देवारामपुष्पाणि लोभात्संसृह्य पाणिना ।। ३६.१०२ ।।
जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च ।
आरोप्यते शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः ।। ३६.१०३ ।।
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमाथ् ।
शरीरे च महाघोराश्चित्रा नरकयातनाः ।। ३६.१०४ ।।
बहुधोत्पाट्यते जीह्वा येऽसत्य प्रियवादिनः ।
संदंशेन सुतप्तेन प्रपीड्योरसि पादतः ।। ३६.१०५ ।।
मिध्यागमप्रवक्तुश्च जीह्वा चास्य विनिर्गता ।
क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते ।। ३६.१०६ ।।
निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुं ।
तेषां वज्रजलूकाभिर्मुखमादश्यते यतः ।। ३६.१०७ ।।
ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः ।
द्रुतैरापूर्यतेऽत्यर्थं तप्तलोहैश्च तन्मुखं ।। ३६.१०८ ।।
इतस्ततः पुनर्धावन्बद्ध्यते यमकिङ्करैः ।
ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकं ।। ३६.१०९ ।।
विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतं ।
तेषामुरसि कन्थे च जिह्मायां दन्तसन्धिषु ।। ३६.११० ।।
तालुन्योष्ठे च नासायां मूर्ध्नि सर्वांगसन्धिषु ।
अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशङ्कवः ।। ३६.१११ ।।
आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः ।
ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ।। ३६.११२ ।।
तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः ।
यातनाश्च महाचित्राश्शरीरस्यापि सर्वतः ।। ३६.११३ ।।
निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः ।
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ।। ३६.११४ ।।
देवोपकरणांगं च ज्ञानं च लिखितं क्वचिथ् ।
हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः ।। ३६.११५ ।।
क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः ।
नरकेषु च सर्वेषु विचित्रा देहयातनाः ।। ३६.११६ ।।
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः ।
प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा ।। ३६.११७ ।।
पदार्धिनामथान्येषां हठाद्वृत्तिं हरन्तिये ।
ते वै नरककूपेषु पच्यमानास्स्वकर्मभिः ।। ३६.११८ ।।
व्रजन्तियातना भूयो नातियन्तियामाङ्गणं ।
ये देवायतनारामवापीकूपमठाङ्गणं ।। ३६.११९ ।।
उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च ।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनं ।। ३६.१२० ।।
क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च ।
ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः ।। ३६.१२१ ।।
निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकं ।
देवायतनपर्यन्ते देवारामे च कुत्रचिथ् ।। ३६.१२२ ।।
समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा ।
तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, ।। ३६.१२३ ।।
सूचीभीर्नेत्रपर्यन्तैरग्निवर्णैस्सकण्टकैः ।
अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः ।। ३६.१२४ ।।
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः ।
द्रुतेनापूर्यते गाढं गुदं शिश्नं च देहिनां ।। ३६.१२५ ।।
मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनं ।
तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितं ।। ३६.१२६ ।।
अन्न पानमदत्तं यैर्मूढैर्नाप्यनुमोदितं ।
धने सत्यपि ये दानं न च यच्छन्ति तृष्णया ।। ३६.१२७ ।।
अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे ।
तेजोहीना रणे बद्धा हस्तपादानधारिताः ।। ३६.१२८ ।।
विस्तारितांगाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः ।
हस्तपादललाटेषु कीलिता लोहशङ्कुभिः ।। ३६.१२९ ।।
नित्यं च विकृतं वक्रं कीलकद्वयघाटितं ।
कृमिभिःप्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ।। ३६.१३० ।।
उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते ।
जिह्वा ततः प्रभिन्ना च गाढं शृङ्खलया पुनः ।। ३६.१३१ ।।
तिष्टन्ति लंबमानाश्च लोहाकारास्सुवर्तुलाः ।
ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः ।। ३६.१३२ ।।
खादितुं दीयते तेषां सूच्यग्रेण च शोणितं ।
यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः ।। ३६.१३३ ।।
ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते ।
भिद्यन्ते वर्ष धाराभिश्शुष्यन्ते वायुना पुनः ।। ३६.१३४ ।।
पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः ।
इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः ।। ३६.१३५ ।।
म्रियन्ते नैव पापिष्ठा यावत्पापस्य संक्षयः ।
तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ।। ३६.१३६ ।।
एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा ।
ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ।। ३६.१३७ ।।
स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः ।
तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु, ।। ३६.१३८ ।।
निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमाथ् ।
संक्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु ।। ३६.१३९ ।।
मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु ।
क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः ।। ३६.१४० ।।
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवाथ् ।
ततो मनुष्यतां प्राप्य तत्तत्पापानुसारतः ।। ३६.१४१ ।।
संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः ।
देवाभिगमनम्
स्नातो धृतोर्ध्वपुण्ड्रश्च प्रयतश्शान्तमानसः ।। ३६.१४२ ।।
अव्यग्रश्चान्यकार्येषु गृहीत्वा शक्तितस्स्वयं ।
फलादीन्युपहाराणि गन्धान्सुमनसस्तथा ।। ३६.१४३ ।।
हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे ।
उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुं ।। ३६.१४४ ।।
पत्रैः पुष्पैःफलैर्वापि यथाशक्ति समर्पितैः ।
अयत्नसुलभेनापि तोयेनापि स तुष्यति ।। ३६.१४५ ।।
पादचार्येव गच्छेत्तु देवालयमतन्द्रितः ।
अशक्तोऽप्यथ वाशक्त आढ्यो वा दुर्विधोऽध वा ।। ३६.१४६ ।।
आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ।। ३६.१४७ ।।
न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति ।
भोगायतनमे तेषा मेकाकारं कलेपरं ।। ३६.१४८ ।।
अनुगृह्णाति दाता तस्य नोच्चानचो विधिः विष्णुपारम्यं ।
देवतेह परञ्ज्योतिरेक एव परः पुमान् ।। ३६.१४९ ।।
स एव बहुधा लोके मायया भिद्यते स्वया ।
विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा ।। ३६.१५० ।।
स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते ।
विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः ।। ३६.१५१ ।।
विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः ।
चतस्र एव विज्ञेया वेदवर्ण युगाश्रयाः ।। ३६.१५२ ।।
विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छानिरुद्धकः ।
पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ।। ३६.२५३ ।।
मनश्श्रोत्रादिभिष्षड्भिरङ्गैश्च हृदयादिभिः ।
षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते ।। ३६.१५४ ।।
सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा ।
सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः ।। ३६.१५५ ।।
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च ।
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ।। ३६.१५६ ।।
नारायणो नृसिंहश्च वराहो वामनस्तथा ।
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः ।। ३६.१५७ ।।
इन्द्रोऽग्निश्ट यमश्चैव निरृतिर्वरुणस्तथा ।
वायुस्सोमस्तथेशानो ब्रह्मानन्तश्चते दश ।। ३६.१५८ ।।
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमानपैः ।
स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः ।। ३६.१५९ ।।
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः ।
तिथिभिः पञ्चदशधा भिन्नो ज्ञेयस्सु वै प्रभुः ।। ३६.१६० ।।
स्वरैष्षोडशधा भिन्नोदिक्कोणावान्तरैस्तथा ।
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः ।। ३६.१६१ ।।
एकद्वित्रिचतुःपञ्चषडाद्या विश्वतो मुखाः ।
मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः ।। ३६.१६२ ।।
द्व्यादयो विश्वतःपाणेर्भुजभेदस्तथा स्मृताः ।
विविधाभरणा दीर्घा विविधायुधधारिणः ।। ३६.१६३ ।।
मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुण्डलाः ।
हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुन्तलाः ।। ३६.१६४ ।।
स्मेरारुणाधरास्स्ॐयाः प्रसादामृतवर्षिणः ।
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ।। ३६.१६५ ।।
हिरण्यगर्भोऽनेकात्मा विमलश्श्याम एव च ।
नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः ।। ३६.१६६ ।।
चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे ।
ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ।। ३६.१६७ ।।
आस्यं वेदाश्च येऽनन्ता तोयं रुधिरमेव च ।
उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा ।। ३६.१६८ ।।
भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितं ।
रुद्रा एकादश ज्ञे या स्तस्य कण्ठं समाश्रिता ।। ३६.१६९ ।।
नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतोऽपि च ।
धर्माधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ ।। ३६.१७० ।।
इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती ।
दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः ।। ३६.१७१ ।।
वायुःप्राणेषु विज्ञेयस्साध्याश्चांगुलयःस्मृताः ।
ऋषयो रोमकूपेषु सागरा वस्तिगोचराः ।। ३६.१७२ ।।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः ।
जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः ।। ३६.१७३ ।।
गुह्योऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः ।
नखाग्रेषु च विज्ञेया दिव्या ओषधयस्तथा ।। ३६.१७४ ।।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे ।
ऋतवो बाहुमूले तु मासाः करतलेषु च ।। ३६.१७५ ।।
ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः ।
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ।। ३६.१७६ ।।
राक्षसाश्चारणाश्चास्य जठरं समुसाश्रिताः ।
पितरः प्रेतकूश्माण्ड वेतालप्रमथास्तथा ।। ३६.१७७ ।।
पातालगोचराश्चास्य पावयुग्मं समाश्रिताः ।
पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः ।। ३६.१७८ ।।
अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च ।
स्वाहास्वधावषट्का रास्सर्वेऽस्य हृदये श्रिताः ।। ३६.१७९ ।।
नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियथ् ।
अनन्तानन्तरूपस्य यथायोगं समन्वितं ।। ३६.१८० ।।
मूर्तयश्चास्य सर्वास्तास्संख्यातीताः प्रकीर्तिताः ।
देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः ।। ३६.१८१ ।।
तस्मादनन्तन्संप्रोक्तः पुंसूक्ते तदुदीरितं ।
"सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्ऽऽ ।। ३६.१८२ ।।
ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः ।
ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि ।। ३६.१८३ ।।
चन्द्रमा मनसो जातश्चक्षुषोर्मिहिरस्तथा ।
मूखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ।। ३६.१८४ ।।
नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत ।
पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य संबभौ ।। ३६.१८५ ।।
तमीदृशं महाविष्णुमप्रमेयमनामयं ।
तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते ।। ३६.१८६ ।।
सर्वदेवमयो विष्णुः सर्वे देवास्तदात्मकाः ।
अशेषं वाङ्मयं चेदं लोकालोकं चराचरं ।। ३६.१८७ ।।
वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशोऽन्तरं ।
सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः ।। ३६.१८८ ।।
आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति ।
सर्वभूतहितायैव निष्कलस्सकलःस्थितः ।। ३६.१८९ ।।
निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः ।
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखं ।। ३६.१९० ।।
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतं ।। ३६.१९१ ।।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।
अविभक्तं च भूतेषु विभक्तमिव च स्थितं ।। ३६.१९२ ।।
भूतभर्तृच तद्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।। ३६.१९३ ।।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितं ।
तच्चाद्यो जगतामीशः परेशः परमेश्वरः ।। ३६.१९४ ।।
परावरस्वरूपेण विष्णुस्सर्वहृदि स्थितः ।
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान्स्थितः ।। ३६.१९५ ।।
प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः ।
आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः ।। ३६.१९६ ।।
वैराजं लैङ्गिकं चैव बहिरन्तश्च सर्वशः ।
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगं ।। ३६.१९७ ।।
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद्बुधः ।
वेदे च भगवच्छास्त्रे सांख्ये योगे तथैव च ।। ३६.१९८ ।।
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः ।
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगथ् ।। ३६.१९९ ।।
यच्च भूतं भविष्यच्च वर्तमानं तु किं चन ।
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च ।। ३६.२०० ।।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा ।
नियतिश्च कला कालः सर्वमन्यच्च तन्मयं ।। ३६.२०१ ।।
विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः ।
सर्वभूतानि चैवाचौ न तदस्तीह यन्न सः ।। ३६.२०२ ।।
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः ।
तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ।। ३६.२०३ ।।
शैलाब्धिसरिदारामनगराणि सरांसि च ।
लोकाश्चान न्तकालोऽग्नि प्रेतावासोरगालयाः ।। ३६.२०४ ।।
सप्तभूरादयो ब्राह्मशैववैष्णवसंज्ञिताः ।
सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनात्मना ।। ३६.२०५ ।।
वराहो भार्गवस्सिंहो रामश्रीधरवामनाः ।
अश्विकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलं ।। ३६.२०६ ।।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः ।
विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः ।। ३६.२०७ ।।
पुरुसंज्ञेशरीरेऽस्मिन्शयनात्पुरुषः स्मृतः ।
सत्यश्छाबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः ।। ३६.२०८ ।।
अच्युतोऽच्यवनादेव स हरिः समदीरितः ।
अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनाथ् ।। ३६.२०९ ।।
वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान् ।
आदिमूर्तेस्समाकृष्टः स्मृतस्संकर्षणः प्रभुः ।। ३६.२१० ।।
प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः ।
वैकुण्ठामलवर्णत्वाद्वैकुण्ठश्टायमुच्यते ।। ३६.२११ ।।
लीयेते प्रलये त्वस्मिन्केशावित्येष केशवः ।
नरनारीप्रकर्तृत्वान्नराणां चायनादयं ।। ३६.२१२ ।।
नारायणो नरोद्धानामयनत्वादपाञ्च सः ।
माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः ।। ३६.२१३ ।।
गोविन्दतीति गोविन्दो गावो विन्दन्ति यं तथा ।
असुरं मधुनामानं हन्तीति मधुसूदन ।। ३६.२१४ ।।
त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः ।
वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ।। ३६.२१५ ।।
हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः ।
पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः ।। ३६.२१६ ।।
उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः ।
उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः ।। ३६.२१७ ।।
विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः ।
अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः ।। ३६.२१८ ।।
जनार्दनस्स पापिष्ठान्जनानर्दयतीति सः ।
इन्द्रस्यावरजो भूत उपेन्द्रः प्रोच्यते हरिः ।। ३६.२१९ ।।
हरणात्सर्वपापानां हरिर्नायणः स्मृतः ।
कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः ।। ३६.२२० ।।
रुद्रो रोदयते तस्मात्ब्रह्मा बृंहणकर्मणा ।
इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते ।। ३६.२२१ ।।
यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा ।
वायुर्वानात्सवात्सोमरिशश्चेष्टे जनेषु यः ।। ३६.२२२ ।।
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयते यतः ।
इत्येवं गुणवृत्त्योह्यैः शब्देरेकोऽप्यनेकथा ।। ३६.२२३ ।।
श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरथ् ।
तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते ।। ३६.२२४ ।।
सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचिथ् ।
तन्मयत्वेन गोविन्दे न्यस्तसर्वभरा नराः ।। ३६.२२५ ।।
तद्याजीनो महाभागास्तरन्ति भववारिधिं ।
तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः ।। ३६.२२६ ।।
भक्तिनम्रस्सदा गच्छेत्सर्वोऽपि जगतः पतिं ।
तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तथ् ।। ३६.२२७ ।।
तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः ।
दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः ।। ३६.२२८ ।।
आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः ।
नारी वा बालको वाथ वृद्ध आतुर एव वा ।। ३६.२२९ ।।
तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते ।
ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये ।। ३६.२३० ।।
ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते ।
ये वाहयन्ति जन्तूंस्तान्स्तेऽपिमूढाः पतन्ति वै ।। ३६.२३१ ।।
यस्तोदयति तानेव गमने मूढचेतनः ।
स यामीर्यातनाः प्राप्य तोद्यते यमकिङ्करैः ।। ३६.२३२ ।।
पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः ।
यो वा भृतकदानेन वाहनेन तु मानवः ।। ३६.२३३ ।।
वाहयत्यथ वोहेत सोऽपि यास्यति दुर्गतिं ।
अपारे दुर्गसंसारे कर्मबद्धे विशेषतः ।। ३६.२३४ ।।
स्वीयं कर्म समुत्सृज्य पतन्ति नरकेऽशुचौ ।
ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले ।। ३६.२३५ ।।
पादुकामधिरुह्यापि यो देवालयमाप्रजेथ् ।
स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते ।। ३६.२३६ ।।
पादुकां वाहनं चापि योऽधिष्ठित्य विमूढधीः ।
प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः ।। ३६.२३७ ।।
देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेथ् ।
अयत्नाद्गमने जातेऽप्यवरुह्य च वाहनाथ् ।। ३६.२३८ ।।
पादुकादि विमुच्यैव समुपस्पृश्य वारिणा ।
प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः ।। ३६.२३९ ।।
न विशेद्धाम देवस्य यादता वाहनादिभिः ।
तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेथ् ।। ३६.२४० ।।
आद्यस्त्वेषोऽपचारस्स्याद्यत्नहार्योभवेत्ततः ।
श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहं ।। ३६.२४१ ।।
सप्तजन्मकृतात्पुण्यात्तत्क्षणान्मुच्यते नरः ।
सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः ।। ३६.२४२ ।।
दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकं ।
अन्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहं ।। ३६.२४३ ।।
देवदेवस्य मोहात्तु तस्य पापं महाद्भवेथ् ।
गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयं ।। ३६.२४४ ।।
भिक्षामलब्ध्वा कुत्रापि दरिद्रो जायते नरः ।
चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? ।। ३६.२४५ ।।
चण्डालयोनि माप्नोति जन्मानि दश पञ्च च ।
अत्र चोदाहरन्तीमं विशेषं काश्यपादयः ।। ३६.२४६ ।।
सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः ।
तस्यातिरिक्तं नो किञ्चिद्विशेषस्तत्र वक्ष्यते ।। ३६.२४७ ।।
सर्वेऽप्यधिकृता लोके तत्तत्कर्मानुरूपतः ।
आब्रह्मस्तंबपर्यन्तं जगदन्तर्व्यवस्थिताः ।। ३६.२४८ ।।
तस्मादेव जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते ।। ३६.२४९ ।।
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषोऽव्ययः ।
स एव सर्वभूतात्मा नर इत्यभिधीयते ।। ३६.२५० ।।
नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते ।
तान्येव चायनं यस्य स तु नारायणः स्मृतः ।। ३६.२५१ ।।
नारायणः परं ब्रह्म तत्त्वं नारायणः परः ।
विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे ।। ३६.२५२ ।।
संज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितं ।
सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु ।। ३६.२५३ ।।
न जातु लभ्यते किञ्चिद्येनाव्याप्तं तु किं चन ।
तस्मात्तस्मिन्समारोप्य सर्वं देवेश्वरेश्वरे ।। ३६.२५४ ।।
उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः ।
अन्यत्र तं समारोप्य यदि चोपासनं भवेथ् ।। ३६.२५५ ।।
तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलं ।
येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयोऽन्विताः ।। ३६.२५६ ।।
यजन्ते तेऽपि देवेशं तमेवाविधि पूर्वकं ।
अन्ये ते ब्रह्मरुद्रेन्द्रास्तदाद्या देवतास्स्मृताः ।। ३६.२५७ ।।
वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा ।
परमार्थे न भिद्यन्ते नान्यत्वं स्यात्परस्परं ।। ३६.२५८ ।।
विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु ।
तत्स्थानां दैवतानां वा नान्यत्वं जातु संभवेथ् ।। ३६.२५९ ।।
अथ शास्त्रविधिर्भिन्नो यत्र नाप्युपलभ्यते ।
तत्रान्यत्वं विजानीयान्न चेच्छेच्छास्त्रसंकरं ।। ३६.२६० ।।
हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः ।
यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितं ।। ३६.२६१ ।।
सोऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति ।
देवेशस्योत्सवो यत्र ग्रामे वा नगरेऽपि वा ।। ३६.२६२ ।।
पर्वताग्रे महानद्यास्तीरे दुर्गाटवीषुवा ।
तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादराथ् ।। ३६.२६३ ।।
सह पुत्त्रेस्सहामात्यैस्सर्वैः परिजनैर्वृतः ।
वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः ।। ३६.२६४ ।।
यथार्ऽहमुपयुञ्जीत स्वशक्तिं तत्क्रियासु च ।
श्रुत्वा देवोत्सवारंभं पङ्गूभावेन यो नरः ।। ३६.२६५ ।।
तिष्ठेत्स जन्मसाहस्रं पङ्गुरेव भविष्यति ।
तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितं ।। ३६.२६६ ।।
देवेशस्योत्सवे सम्यग्वर्तमाने महाफले ।
योऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः ।। ३६.२६७ ।।
न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेथ् ।
अनाहूतोऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेथ् ।। ३६.२६८ ।।
योऽध्वरं गन्तुकामोऽत्र प्रतीक्षेतार्ङ्गणादिकं ।
तन्य पूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति ।। ३६.२६९ ।।
देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुं ।
वारयेद्येन केनापि हेतुना स तु दुर्मतिः ।। ३६.२७० ।।
अफलस्सफलो वापि पतत्येव न संशयः ।
विष्णुपञ्चदिने वापि पुण्याहेष्वितरेष्वपि ।। ३६.२७१ ।।
उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठाथ् ।
तत्क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेथ् ।। ३६.२७२ ।।
खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे ।
आसीनस्थ्सित एवात्र स यामीर्यातना व्रजेथ् ।। ३६.२७३ ।।
देवेशाभिमुखं गत्वा न कुर्याद्यो नमस्क्रियां ।
स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते ।। ३६.२७४ ।।
उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते ।
प्रत्युद्थानाभिवादाभ्यां पुनस्तान्प्रतिपादयेथ् ।। ३६.२७५ ।।
सर्वेषां प्राणभूतोऽसौ भगवान्हरिरव्ययः ।
प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदोऽपरः ।। ३६.२७६ ।।
अन्यथा चेन्महादोषः संक्षुफ्यन्ते च मानवाः ।
एकहस्तप्रणामेन यत्पापं न तदन्यतः ।। ३६.२७७ ।।
हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेथ् ।
प्राञ्जलीकृत्य हस्तौतु याचेत मधुसूदनं ।। ३६.२७८ ।।
य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिं ।
तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि ।। ३६.२७९ ।।
इह वै जायते पङ्गू रोगी चैव न संशयः ।
किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनं ।। ३६.२८० ।।
यद्येकैकं न चेत्तस्य कैङ्कर्यायोपयुज्यते ।
किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुं ।। ३६.२८१ ।।
अशक्नु वानास्स्वातन्त्षहताः पापहता हताः ।
एकहस्तप्रणामस्तु परिहार्यो विशेषतः ।। ३६.२८२ ।।
प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेथ् ।
तावुभौ नरकं यातस्तयोर्यस्मात्समागमः ।। ३६.२८३ ।।
देवतास्तादृशं मूढं शपन्ति च विशङ्किताः ।
पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणं ।। ३६.२८४ ।।
आत्मना स भवेद्वापस्स द्रुह्येदात्मने बुधः ।
पुरस्ताद्देवबिंबे तु देव्यमङ्गलविग्रहे ।। ३६.२८५ ।।
वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणं ।
यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेथ् ।। ३६.२८६ ।।
अन्तर्यामी य एवास्ते हृदये निष्कलो हरिः ।
स एव सकलो भूत्वा बिंबे यत्सन्निधापितः ।। ३६.२८७ ।।
तस्मात्सकलपूजायां नैव कुर्याद्व्यतिक्रमं ।
न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु ।। ३६.२८८ ।।
विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेथ् ।
उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु ।। ३६.२८९ ।।
नखरोमाणि यश्चैव केशास्थीनि तथैव च ।
क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः ।। ३६.२९० ।।
माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः ।
सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः ।। ३६.२९१ ।।
तांबूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे ।
स याति नरकं घोरं यावदाभूतसंप्लवं ।। ३६.२९२ ।।
ततो मुक्तो महापापी शुनकोऽपरजन्मनि ।
संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ।। ३६.२९३ ।।
निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः ।
कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ।। ३६.२९४ ।।
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकं ।
मूत्रयेन्मन्दिरे यस्तु केशवस्य विमूढधीः ।। ३६.२९५ ।।
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः ।
तस्मान्मुक्तस्तुरक्तादिनिंबकद्रुममास्थितः ।। ३६.२९६ ।।
जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीं ।
पुरीषं वात्र कुर्वीत यो नरो भगवद्गृहे ।। ३६.२९७ ।।
स याति नरकान्घोरान्पर्यायेणैकविंशतिं ।
ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः ।। ३६.२९८ ।।
समीपे मन्दिरस्यापि सकृन्मूत्रं करोति यः ।
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतं ।। ३६.२९९ ।।
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातितां ।
ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा ।। ३६.३०० ।।
यस्तु रेतोविसर्गं च कृत्वा कामादकामतः ।
अस्नातो देवतागारमियात्सद्यस्स नश्यति ।। ३६.३०१ ।।
यो यत्र देवतागेहे दन्तधावनमाचरेथ् ।
तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवं ।। ३६.३०२ ।।
तैलेनाभ्यक्तसर्वाङ्गः कषायोद्वर्तितस्तथा ।
यो नरःप्रविशेद्गेहं देवस्य परमात्मनः ।। ३६.३०३ ।।
स याति गृहगोधात्वं नवजन्मानि पञ्च च ।
अनुगम्य यथा प्रेतं याति देवालयं तु यः ।। ३६.३०४ ।।
आराधितुमथेच्छेद्वास गच्छेन्नरायुतं ।
बलिभुग्योनितां याति जन्मानि सुबहूनि वै ।। ३६.३०५ ।।
भरणं तु तथा कृत्वा मृतकस्य विशेषतः ।
मन्दिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति ।। ३६.३०६ ।।
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च ।
भविष्यति तथा भूयः पृथक्क्रूरोऽथ निष्ठुरः ।। ३६.३०७ ।।
भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः ।
अर्चयेद्वा विशेषेण चटको जायते खलः ।। ३६.३०८ ।।
तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः ।
छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मन्दिरं ।। ३६.३०९ ।।
प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकं ।
सोऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदं ।। ३६.३१० ।।
तिष्सेत्स कानने शून्ये कण्टकैर्बहुभिर्वृतः ।
फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षतां ।। ३६.३११ ।।
यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः ।
अपसव्यं च धृत्वैव धृत्वा चैव निवीतवथ् ।। ३६.३१२ ।।
न गच्छेद्देवतागारं न वा मुक्तशिखो नरः ।
अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक् ।। ३६.३१३ ।।
रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च ।
खादन्नपि च तांबूलमुपहारादि भक्षयन् ।। ३६.३१४ ।।
देवालयं विशेन्नैव तस्य पापं महद्भवेथ् ।
दुराचारो हि पुरुषो नेहायुर्विन्दते महथ् ।। ३६.३१५ ।।
त्रस्यन्ति चास्य भूतानि तथा परिभनन्तिच ।
तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः ।। ३६.३१६ ।।
अपि पापशरीरस्य आचारो हन्त्यलक्षणं ।
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ।। ३६.३१७ ।।
साधूनां च यथावृत्तमेतदाचारलक्षणं ।
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणं ।। ३६.३१८ ।।
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियं ।
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।। ३६.३१९ ।।
अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः ।
विशीला धर्ममर्यादा नित्यं संकीर्णमैथुनाः ।। ३६.३२० ।।
अल्पायुषो भवन्तीहनरा निरयगामिनः ।
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।। ३६.३२१ ।।
नित्योच्छिष्टस्संकुसुको नेहयुर्विन्दते क्वचिथ् ।
विष्णुस्थानसमीपस्थान्विष्णुसेवार्थमागतान् ।। ३६.३२२ ।।
श्वपचान्पतितान्वापि स्पृष्ट्वा न स्नानमाचरेथ् ।
उत्सवे वासुदेवस्य यःस्नाति स्पर्शशङ्कया ।। ३६.३२३ ।।
स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ ।
पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः ।। ३६.३२४ ।।
तत्र नाचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः ।
अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिं ।। ३६.३२५ ।।
सप्तजन्मानि पञ्चापि मुडूकत्वं व्रजन्ति ते ।
जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः ।। ३६.३२६ ।।
कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः ।
स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवं ।। ३६.३२७ ।।
तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत ।
जातकं मृतकं वापि यस्याशौचं विधीयते ।। ३६.३२८ ।।
अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहं ।
पुंप्रसूतौ स्मृतं पूर्वैस्सापिण्ड्यं सप्तपूरुषं ।। ३६.३२९ ।।
कन्यकाजनने तद्वत्सापिण्डन्तु त्रिपूरुषं ।
व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणां ।। ३६.३३० ।।
नाशौचः कथ्यते प्राज्ञैर्यथा शातातपोऽब्रवीथ् ।
व्रतसंकल्पमात्रेण व्रतित्वं व्रतिनो भवेथ् ।। ३६.३३१ ।।
वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः ।
काषायदण्डमात्रेण यतित्वञ्च यतेर्मतं ।। ३६.३३२ ।।
उपनीतो वसेन्मा वा तथा गुरुकुले क्रमाथ् ।
ब्रह्माध्येति नचाध्येति ब्रह्मचारी कुमारकः ।। ३६.३३३ ।।
राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य चर् ।
इदृशानामथान्येषामत्रास्तर्भावरिरितः ।। ३६.३३४ ।।
न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेथ् ।
नार्ऽपयेदुपहारांश्च तीर्थादीन्नापि सेवते ।। ३६.३३५ ।।
आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेथ् ।
सप्तजन्मसु दारिद्षमत्यन्तं समवाप्नुयाथ् ।। ३६.३३६ ।।
श्वानयोनिशतं प्राप्य ततश्चण्डालतामियाथ् ।
योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु ।। ३६.३३७ ।।
गच्छेदन्यत्र वा प्रास्यात्सोपि मूढो विपद्यते ।
यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचिथ् ।। ३६.३३८ ।।
शेते निद्राति सम्मोहात्स याति नरकायुतं ।
पुनश्च जन्म संप्राप्य नीचयोनिष्वनेकशः ।। ३६.३३९ ।।
यातनाश्चानुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः ।
यस्तु देवगृहे मूढश्सयीत मदमोहितः ।। ३६.३४० ।।
तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः ।
दुर्गन्धी जायते मर्त्योजायते जन्मपञ्चकं ।। ३६.३४१ ।।
ततस्सूकरतां प्राप्य जन्मानि नव पञ्च च ।
क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे ।। ३६.३४२ ।।
उपधानादिसहितं य स्तल्पमधितिष्ठति ।
देवालये विशेषेण प्राकारे वापि मूढधीः ।। ३६.३४३ ।।
स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते ।
सप्त पञ्च च जन्मानि ततो मानुषतां व्रजेथ् ।। ३६.३४४ ।।
शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः ।
स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि ।। ३६.३४५ ।।
यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे ।
स भवेद्दुरितष्षण्डस्सप्तजन्मानि पञ्च च ।। ३६.३४६ ।।
योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः ।
आसनानि त्वसंख्यानि देवागारे न चाचरेथ् ।। ३६.३४७ ।।
मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः ।
हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः ।। ३६.३४८ ।।
स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा ।
सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा ।। ३६.३४९ ।।
मयूरं मत्स्यमत्स्येन्द्रं मण्डूकं मुद्गरं मृगं ।
कुञ्जरं कुक्कुटं नागं काष्ठं क्रैञ्चं च कूर्मकं ।। ३६.३५० ।।
खड्गं च कामदहनं वैयाघ्रं वेणुकासनं ।
योन्यासनं वासकं च धीरं पद्मासनं तथा ।। ३६.३५१ ।।
वाराहं चैव पर्यङ्कं पतगासनमेव च ।
त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा ।। ३६.३५२ ।।
इत्यादीना मासना नामशीतिश्च तुरुत्तरा ।
अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः ।। ३६.३५३ ।।
तान्यास्थायि तु देवाग्रेनो पतिष्ठेत बुद्धिमान् ।
भुञ्जीयाद्देवतागारे यः पापस्स तु दुर्मनाः ।। ३६.३५४ ।।
कुक्षिरोगार्दितो भूत्वा जन्मानि दश पञ्च च ।
ततस्सृगालतां प्राप्य पतेद्धि नरकेऽशुचौ ।। ३६.३५५ ।।
यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनं ।
देवागारे विशेषेण स भवेन्निन्दितो जनः ।। ३६.३५६ ।।
गर्भागारे चान्तराले तथा चैवार्धमण्डपे ।
महामण्डपमध्ये च नान्नमद्याद्विशेषतः ।। ३६.३५७ ।।
अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते ।
आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतथ् ।। ३६.३५८ ।।
न देवताप्रसादस्य गृहीतस्याञ्जलौ तथा ।
न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतं ।। ३६.३५९ ।।
यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेथ् ।
स गच्छेन्नरकान्क्रूरान्यावन्त उदबिन्दवः ।। ३६.३६० ।।
पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः ।
निवेदितं तु देवस्य देवस्याग्रे विशेषतः ।। ३६.३६१ ।।
प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः ।
अश्नन्तिभक्तास्सर्वेऽपिगृहीत्वैवांजलौ पुनः ।। ३६.३६२ ।।
ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियं ।
नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरं ।। ३६.३६३ ।।
ब्राह्मणान्भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये ।
तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः ।। ३६.३६४ ।।
कारयेन्नोक्तदेशेषु कदापि द्विजभोजनं ।
यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः ।। ३६.३६५ ।।
निवेदितं तु देवस्य संतुष्ट्यैस्वस्य तस्य च ।
तस्य तुष्यति देवेश आदाता तु विपद्यते ।। ३६.३६६ ।।
दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः ।
बहुशस्संचितं पूर्वमादाता समवाप्नुयाथ् ।। ३६.३६७ ।।
प्रसादोऽपिहि देवस्य परपाकरुचिं नरं ।
न जातु पावयेन्नैव पावयेत्पावयेन्न तु ।। ३६.३६८ ।।
यदृच्छालाभसंतुष्टं यथा भक्तवरं तथा ।
महिमानं प्रसादस्य योऽवजानाति मूढधीः ।। ३६.३६९ ।।
तेन भुक्तं भवेत्पापं दातुरेव न संशयः ।
अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलं ।। ३६.३७० ।।
तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु ।
अथान्नविक्रयेदोषः कथ्यते विधिवित्तमैः ।। ३६.३७१ ।।
अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः ।
प्रेत्य सृगालतां यान्ति नव जन्मानि पञ्च च ।। ३६.३७२ ।।
यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः ।
चण्डालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः ।। ३६.३७३ ।।
विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः ।
येऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे ।। ३६.३७४ ।।
तेऽपि यान्ति महाघोरं नरकं भृशदारुणं ।
यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः ।। ३६.३७५ ।।
कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः ।
ये गृहीत्वा तदन्नादि भुञ्जते क्षुधिता जनाः ।। ३६.३७६ ।।
उपकुर्वन्तिये वा तानुच्यन्तेऽभक्ष्यभोजनाः ।
अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितं ।। ३६.३७७ ।।
अन्नं ब्रह्मात्मकं विन्द्याद्विन्द्यादन्नमयीं तनुं ।
अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः ।। ३६.३७८ ।।
तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ ।
न कुर्याद्देवता गेहेऽभ्युदयं श्राद्धभोजनं ।। ३६.३७९ ।।
कुर्यान्न चापि श्राद्धादीन्विहायापि द्विजाशनं ।
तस्मात्सर्वप्रयत्नेन नाश्नीयाद्धरिमन्दिरे ।। ३६.३८० ।।
मुधा संभाषते यस्तु प्रविश्य हरिमन्दिरं ।
स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीं ।। ३६.३८१ ।।
यस्तु संभाषते व्यर्थं देवालयमुपाश्रितः ।
सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः ।। ३६.३८२ ।।
यन्मुहूर्तं क्षणं वापि परमात्मान चिन्त्यते ।
सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया ।। ३६.३८३ ।।
दस्युभिर्मुषितेनेव दग्धेनेव दवाग्निना ।
व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना ।। ३६.३८४ ।।
भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः ।
मग्नेनेव महासिंधौ हतेनेव च वात्यया ।। ३६.३८५ ।।
संपिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते ।
सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः ।। ३६.३८६ ।।
लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः ।
तस्माद्देवगृहं गत्वा नरो नान्यपरो भवेथ् ।। ३६.३८७ ।।
यत्प्रसंगे हरेर्नाम तन्ममहत्त्वं च नाप्यते ।
स सर्वोऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितं ।। ३६.३८८ ।।
न हि देवस्य पुरतः क्वचिदप्यनृतं वदेथ् ।
सत्यस्वरूपी भगवान्सत्यं तस्मैन गूहयेथ् ।। ३६.३८९ ।।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।
सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतं ।। ३६.३९० ।।
सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलं ।
तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनं ।। ३६.३९१ ।।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितं ।
सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती ।। ३६.३९२ ।।
व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च ।
सत्येन वायुरावाति सत्येनार्ऽकः प्रकाशते ।। ३६.३९३ ।।
दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिं ।
पर्जन्यो धरणीभागे सत्येनापः प्रवर्षति ।। ३६.३९४ ।।
स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनं ।
सत्यं तु वदतो लोके तुलितं स्यान्न संशयः ।। ३६.३९५ ।।
अश्वमेधसहस्रं च सत्यं च तुलया कृतं ।
अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते ।। ३६.३९६ ।।
सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा ।
सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदं ।। ३६.३९७ ।।
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेथ् ।
ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः ।। ३६.३९८ ।।
महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन् ।
दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः ।। ३६.३९९ ।।
अप्चरोगणसंकीर्णैर्विमानैस्संचरन्ति च ।
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परं ।। ३६.४०० ।।
अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे ।
स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतं ।। ३६.४०१ ।।
देवार्थे वा परार्थे वा पुत्रार्थे वाऽऽत्मने तथा ।
येऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः ।। ३६.४०२ ।।
यस्सत्यवादी पुरुषो नानृतं परिभाषते ।
संप्राप्य विरजान्लोकानुषित्वा शाश्वतीस्समाः ।। ३६.४०३ ।।
भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले ।
साक्षिणस्सन्तिसर्वेते देवता भास्करादयः ।। ३६.४०४ ।।
परीक्षन्ते च सर्वासु दशासु पुरुषं सदा ।
न वाच्यमनृतं तस्मात्प्राणैः कण्ठगतैरपि ।। ३६.४०५ ।।
येऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते ।
देवागारे विशेषेण ते प्रणश्यन्ति सान्वयं ।। ३६.४०६ ।।
पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः ।
गीतवादित्रनृत्तादीन्पुण्याख्यानकथाश्च ये ।। ३६.४०७ ।।
लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः ।
ते यान्ति नरकं पापा जायन्ते नीचयोनिषु ।। ३६.४०८ ।।
तथा तेऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः ।
तथान्ते क्रूरा नव जन्मानि पञ्च च ।। ३६.४०९ ।।
अनिबद्धप्रलापान्ये कुर्वते देवमन्दिरे ।
तेऽपि तित्तिरितां भूत्वा जायन्ते जन्मपञ्चकं ।। ३६.४१० ।।
देवभाषां परित्यज्य देशभाषासु यो नरः ।
स्तुवीत देवतागेहे देवस्याग्रे विशेषतः ।। ३६.४११ ।।
तस्य दोषोमहानाशु नैव पूजाफलं भवेथ् ।
असाराणि तु शास्त्राणि भूयांसि पृथिवीतले ।। ३६.४१२ ।।
यत्र देवस्य महात्म्यकथनं न प्रपञ्च्यते ।
तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः ।। ३६.४१३ ।।
वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि ।
चित्रशिल्पा न संदेहो नरस्तेन न मुच्यते ।। ३६.४१४ ।।
सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनं ।
या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका ।। ३६.४१५ ।।
न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः ।
मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना ।। ३६.४१६ ।।
विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः ।
तदन्तस्संप्रविश्यैव वाच्यवाचकभेदतः ।। ३६.४१७ ।।
विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः ।
सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा ।। ३६.४१८ ।।
सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरं ।
तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा ।। ३६.४१९ ।।
पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः ।
स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमं ।। ३६.४२० ।।
द्रुह्येत्स वाङ्मयायापि तस्माद्युक्ततरो भवेथ् ।
यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा ।। ३६.४२१ ।।
दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलं ।
निर्वाणपरमं स्थानं म्लानेन मनसा तु यः ।। ३६.४२२ ।।
सेवते स न जानाति तद्विष्णोः परमं पदं ।
नारी वा पुरुषो वापि गत्वा देवगृहं क्वचिथ् ।। ३६.४२३ ।।
न रोदेत्पातयेन्नाश्रु नैवान्यं रोदयेदपि ।
यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे ।। ३६.४२४ ।।
तावन्त्यब्दसहस्राणि ते वसन्ति यमालये ।
अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः ।। ३६.४२५ ।।
प्राप्य तित्तिरितां कालं वसिष्यन्ति चिरं भुवि ।
नैवात्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचिथ् ।। ३६.४२६ ।।
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः ।
तपोऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः ।। ३६.४२७ ।।
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेथ् ।
त्रीदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः ।। ३६.४२८ ।।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नु ते ।
अहिंसकानि भूतानि दण्डेन विनिहन्तियः ।। ३६.४२९ ।।
आत्मनस्सुखमन्विच्छन्स प्रेत्य न सुखी भवेथ् ।
आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः ।। ३६.४३० ।।
त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते ।
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।। ३६.४३१ ।।
मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः ।
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ।। ३६.४३२ ।।
एष सांग्राहिको धर्मःकामादन्यः प्रवर्तते ।
प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ।। ३६.४३३ ।।
आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति ।
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः ।। ३६.४३४ ।।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनाथ् ।
कर्मणा न नरः कुर्वन्हिंसां जातु विचक्षणः, ।। ३६.४३५ ।।
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते ।
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ।। ३६.४३६ ।।
एकैकतोऽपि विभ्रष्टा न भवेन्नात्र संशयः ।
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ।। ३६.४३७ ।।
तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः ।
यथा नागपदेऽन्यानि पदानि पदगामिनां ।। ३६.४३८ ।।
सर्वाण्येवापिधीयन्ते पदजातानि कैञ्जरे ।
एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा ।। ३६.४३९ ।।
न ह्यतस्सदृशं किञ्चिदिहलोके परत्र च ।
यत्सर्वेष्विह भूतेषु दयाहिंसात्मिका तु या ।। ३६.४४० ।।
न भयं विद्यते जातु नरस्येह दयावतः ।
दयावतामिमे लोकाः परत्रापि तपस्विनां ।। ३६.४४१ ।।
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं सर्वभूतानि ददतीति जगौ श्रुतिः ।। ३६.४४२ ।।
क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतं ।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च ।। ३६.४४३ ।।
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ।। ३६.४४४ ।।
प्राणदानात्परं दानं न भूतं न भविष्यति ।
न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितं ।। ३६.४४५ ।।
अनिष्टं सर्वभूतानां मरणं नाम कथ्यते ।
मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः ।। ३६.४४६ ।।
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ।। ३६.४४७ ।।
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ।। ३६.४४८ ।।
जाताश्चाप्यवशास्तत्र छिद्यमानाः पुनः पुनः ।
हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः ।। ३६.४४९ ।।
कुंभीपाकेच पच्यन्तेतां तां योनिमुपागताः ।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः ।। ३६.४५० ।।
नात्मनोऽस्ति प्रियतमः पृथिवीमनुसृत्य ह ।
तस्मात्राणेषु सर्वेषु दयावानात्मवान्भवेथ् ।। ३६.४५१ ।।
येन येन शरीरण यद्यत्कर्मकरोति यः ।
तेन तेन शरीरण तत्तत्फलमुपाश्नुते ।। ३६.४५२ ।।
अहिंसा परमो धर्मस्तथाहिंसा परो दमः ।
अहिंसा परमं दानमहिंसा परमं तपः ।। ३६.४५३ ।।
अहिंसा परमो यज्ञस्तथाहिंसा परं फलं ।
अहिंसा परमं मित्रमहिंसा परमं सुखं ।। ३६.४५४ ।।
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतं ।
सर्वदानफलं वापि नैतत्तुल्यमहिंसया ।। ३६.४५५ ।।
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो जयते सदा ।
अहिंस्रस्सर्वभूतानां यथा माता यथा पिता ।। ३६.४५६ ।।
तस्मादहिंस्रस्सततमुपवास व्रतं चरेथ् ।
फलमङ्गिरसाप्रोक्तमुपवासस्य विस्तराथ् ।। ३६.४५७ ।।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः ।। ३६.४५८ ।।
नाश्नाति यावतो जीवस्तावत्पुण्येन यज्यते ।
आहारस्य वियोगेन शरीरं परितप्यते ।। ३६.४५९ ।।
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु ।
तिष्ठन्ति स्ववशे तस्य नृपाणामिव किङ्कराः ।। ३६.४६० ।।
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः ।
इन्द्रियाणां निरोधेन दानेन च दमेन च ।। ३६.४६१ ।।
नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति ।
एवं मूलमहिंसाया उपवासः प्रकीर्तितः ।। ३६.४६२ ।।
कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवाथ् ।
व्रतोपवासनात्प्रीतस्तान्प्रयच्छत्यसौ हरिः ।। ३६.४६३ ।।
मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेथ् ।। ३६.४६४ ।।
उपवासव्रतमिदं तस्यानन्तं फलं भवेथ् ।
एकादश्यां निराहारस्संपूज्य हरिमव्ययं ।। ३६.४६५ ।।
तत्पादसलिलं तद्वत्तुलसीं च तदर्पितामा ।
पीत्वा च भक्षयित्वा च उपवासव्रतं चरेथ् ।। ३६.४६६ ।।
उपवासदिने यस्तु तीर्धं श्रीतुलसीयुतं ।
न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेथ् ।। ३६.४६७ ।।
न हि देवगृहं गत्वा विवदेत नरः क्वचिथ् ।
न तत्स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेथ् ।। ३६.४६८ ।।
मनोऽनवस्थितं यस्य स नालं पूजितं हरिं ।
यस्यैव निर्मलं चित्तं सोर्ऽहस्सर्वेषु कर्मसु ।। ३६.४६९ ।।
रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितः कायः केशवाराधने त्रयं ।। ३६.४७० ।।
रागादिदूषिते चित्तं नास्पदं कुरुते हरिः ।
न बध्नाति पदं हंसः कदाचित्कर्दमांभसि ।। ३६.४७१ ।।
न योग्या माधवं स्तोतुं वाग्दुष्टा चानृतादिना ।
तमसो नाशनायालं मेघच्छन्नोन चन्द्रयाः ।। ३६.४७२ ।।
हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः ।
जनचित्तप्रसादाय यथा काशस्तमोवृतः ।। ३६.४७३ ।।
मनोदोषविहीनानां न दोषस्स्यात्कथं च न ।
अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा ।। ३६.४७४ ।।
यतेश्च कामुकानां च योषिद्रूबेऽन्यथा मतिः ।
अशिक्षयैव मनसः प्रायो लोकश्च वञ्च्यते ।। ३६.४७५ ।।
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा ।
विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः ।। ३६.४७६ ।।
विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेथ् ।
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ।। ३६.४७७ ।।
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेथ् ।
साधुसज्जनसन्तापः साधूनां च विमानना ।। ३६.४७८ ।।
दहत्यासप्तमं तस्य कुलं नात्र विचारणा ।
वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चिथ् ।। ३६.४७९ ।।
नाकार्यमस्ते क्रुद्धस्य नावाच्यं विद्यते क्वचिथ् ।
यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति ।। ३६.४८० ।।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।
ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितं ।। ३६.४८१ ।।
निर्वापयन्ते ये नित्यं दीप्तमग्निमिवांभसा ।
परापवादं न ब्रूयान्नाप्रियं च कदा चन ।। ३६.४८२ ।।
न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ ।
स्वयं दत्तावधानस्तु देवकार्ये विशेषतः ।। ३६.४८३ ।।
मन्येत भगवत्सर्गे स्वात्मानं चाप्यकिञ्चनं ।
स एव भगवान्देवस्सर्वज्ञः सर्वशक्तियुक् ।। ३६.४८४ ।।
सर्वेशस्सर्ववित्सर्वोनिग्रहानुग्रहे रतः ।
तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः ।। ३६.४८५ ।।
इति संचिन्त्य भूयोऽपि सर्वेष्वपि च जन्तुषु ।
भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेथ् ।। ३६.४८६ ।।
यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितं ।
यद्यहङ्कारमाश्रित्य स्वातन्त्षमदमोहितः ।। ३६.४८७ ।।
निग्रहेऽनुग्रहे वापि शक्तिं स्वस्यावबोधयेथ् ।
स याति नरकं घोरं न दैवं तस्य मृष्यति ।। ३६.४८८ ।।
तथा स्त्रीणां विशेषण त्याज्या स्यादतिसंगतिः ।
देवतामन्दिरं प्राप्य कालेष्वन्येषु वा तथा ।। ३६.४८९ ।।
आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसंगिनां ।
पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि ।। ३६.४९० ।।
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ।। ३६.४९१ ।।
न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै ।
स्त्रियो हि मूलं दोषाणां सर्वेषां नात्र संशयः ।। ३६.४९२ ।।
समाज्ञातानृद्धिमतः प्रतिरूपान्व शेस्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुं ।। ३६.४९३ ।।
असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि ।
पापीयसो नरान्यद्वै त्यक्तलज्जा भजन्तिताः ।। ३६.४९४ ।।
स्त्रीयं हि यः प्रार्थयते सन्निकर्षं च गच्छतिर् ।
इषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ।। ३६.४९५ ।।
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु ।। ३६.४९६ ।।
नासां कश्चिदगम्योऽस्तिनासां वयसि संस्थितिः ।
रूपवन्तं विरूपं वा पुमानित्येव भुञ्जते ।। ३६.४९७ ।।
न भयान्नाप्यनुक्रोश्नान्नार्ऽथहेतोः कथं च न ।
न ज्ञातिकुलसंबन्धात्त्स्रियस्तिष्ठन्ति भर्तृषु ।। ३६.४९८ ।।
यौवने वर्तमानानां मृष्टाभरणवाससां ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः ।। ३६.४९९ ।।
याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः ।
अपि ताः संप्रसज्जन्ते कुब्जान्धजूवामनैः ।। ३६.५०० ।।
पङ्गुष्वन्येषु कुष्ठेषु ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्छिदिहोद्यते ।। ३६.५०१ ।।
यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु ।। ३६.५०२ ।।
दुष्ठाचाराः पापरता असत्या मायया वृताः ।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते ।। ३६.५०३ ।।
अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ।। ३६.५०४ ।।
चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा ।
प्राजस्य पुरुषस्येव यथा भावास्तथा स्त्रीयः ।। ३६.५०५ ।।
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ।। ३६.५०६ ।।
रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषितां ।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ।। ३६.५०७ ।।
कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ।। ३६.५०८ ।।
न कामभोगान्विपुलान्नालङ्कारार्थ संचयान् ।
तथैव बहुमन्यन्ते यथा रत्यामनुग्रहं ।। ३६.५०९ ।।
अन्तकः शमनो मृत्युः पातालं बडबामुखं ।
क्षुरधारा विषः सर्पो वह्निरित्येकतः स्त्रियः ।। ३६.५१० ।।
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ।। ३६.५११ ।।
गावो नवतृणानीव गृह्णन्त्येता नवं नवं ।
शंबरस्य च या माया या माया नमुचेरपि ।। ३६.५१२ ।।
बलेः कुंभीनसेश्चैव तास्सर्वायोषितो विदुः ।
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ।। ३६.५१३ ।।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ।
यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतं ।। ३६.५१४ ।।
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेथ् ।
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।। ३६.५१५ ।।
स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः ।
अनृतं सत्यमित्याहुस्सत्यं चापि तथानृतं ।। ३६.५१६ ।।
इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः ।
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ।। ३६.५१७ ।।
अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः ।
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ।। ३६.५१८ ।।
निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयोऽनृतमिति श्रुतिः ।
शय्यासनमलङ्कारमन्न पानमनार्यतां ।। ३६.५१९ ।।
दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ।
न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन ।। ३६.५२० ।।
अपि विश्वकृता चैव कुतस्तु पुरुषैरिह ।
वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ।। ३६.५२१ ।।
न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः ।
अविद्वांसमलंलोके विद्वांसमपि वा पुनः ।। ३६.५२२ ।।
प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगं ।
नातः परं हि नारीणां विद्यते च कदा चन ।। ३६.५२३ ।।
यथा पुरुष संसर्गः परमेतत्फलं विदुः ।
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।। ३६.५२४ ।।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ।
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशान्तथा ।। ३६.५२५ ।।
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ।
सहस्रेकिल नारीणां प्राप्येतैका कदा चन ।। ३६.५२६ ।।
तथा शतसहस्रेषु यदि काचित्पतिव्रता ।
नैता जानन्ति पितरं न कुलं न च मातरं ।। ३६.५२७ ।।
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ।
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।। ३६.५२८ ।।
स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः ।
न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ।। ३६.५२९ ।।
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा ।
कण्डूयनाग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः ।। ३६.५३० ।।
यादृशं विद्यते सौख्यं कण्डूपूयविनिर्गमे ।
तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ।। ३६.५३१ ।।
ग्रन्थेस्तु वेदना यद्वत्स्फुटितस्य निवर्तने ।
तद्वत्स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः ।। ३६.५३२ ।।
वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशं ।
तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ।। ३६.५३३ ।।
न चाणुमात्रमप्येवे सुखमस्ति विचारतः ।
तथा देवोत्सवादीनां सेवा तासां निषिध्यते ।। ३६.५३४ ।।
न हि स्वतन्त्रतो योषिज्जातु गच्छेत्स्थलान्तरं ।
न हि निर्मिमते वृद्धा लीलया देवमन्दिरान् ।। ३६.५३५ ।।
कामुकानां विलासार्थं तस्माद्युक्ततरो भवेथ् ।
अनुगच्छेत्पिता भ्राता भर्ता पुत्रोऽथ वा यदि ।। ३६.५३६ ।।
तदा देवगृहं यायान्नान्यथा जातु कामिनी ।
ध्यायतो विषयान्पुंसस्संगस्तेषूपजायते ।। ३६.५३७ ।।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ।
क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः ।। ३६.५३८ ।।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।
बलवानिन्द्रियग्रामो विद्वांसमपिकर्षति ।। ३६.५३९ ।।
तस्मात्स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन ।
तस्मात्स्त्रीषु न कर्तव्यः प्रसंगो देवताकृहे ।। ३६.५४० ।।
तथैव परदारेभ्यो मनः प्रहिणुयान्न च ।
परदारा न गन्तव्या नरैरृद्धिमभीप्सुभिः ।। ३६.५४१ ।।
न हीदृशमनायुष्यं लोके किं चन विद्यते ।
यादृशं पुरुषस्येह परदारनिषेवनं ।। ३६.५४२ ।।
तादृशं विद्यते किञ्चि दनायुष्यं नृणामिह ।
यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ।। ३६.५४३ ।।
तावद्वर्षसहस्राणि नरकं पर्युपासते ।
अतिसंगं त्यजेत्तस्माद्योषितां देवमन्दिरे ।। ३६.५४४ ।।
यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा ।
गम्यते कथनं तादृगश्लीलं परिवर्जयेथ् ।। ३६.५४५ ।।
अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणां ।
भक्तानां भगवद्गेहे भवेच्चित्तमथाविलं ।। ३६.५४६ ।।
निवर्तेत मनस्तत्र निविष्टं परमात्मनि ।
तस्मादश्लीलमाभाष्ट नरः पापपरो भवेथ् ।। ३६.५४७ ।।
स तु चण्डालतां प्राप्य जायते जन्मनां शतं ।
अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः ।। ३६.५४८ ।।
वायुभूते शरीरेऽस्मिन्वायुसंचारकर्मणि ।
मलवायुविसर्गस्तु देवगेहे विशेषतः ।। ३६.५४९ ।।
पातयेत्पुरुषं सत्यमपि वेदान्तपारगं ।
तस्मादपानगन्धस्य विसर्गं नैव चाचरेथ् ।। ३६.५५० ।।
अथ वायुनिरोधेतु व्याधिकोपो भविष्यति ।
तस्माद्वायुविसर्गं तु कुर्यादेवाविचारयन् ।। ३६.५५१ ।।
इति देवगृहं गन्तुं व्याधितो नैव चार्हति ।
तथा कुष्ठी विशेषेण पापरोगार्दितास्समे ।। ३६.५५२ ।।
उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनं ।
अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा ।। ३६.५५३ ।।
नार्हन्तियस्मात्तत्सक्तं पापं सांक्रामिकं भवेथ् ।
यद्यन्यथा भवेत्सद्यस्स पापी संप्रजायते ।। ३६.५५४ ।।
जन्मानि नव पञ्चापि जायते मलभुक्कृमिः ।
यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः ।। ३६.५५५ ।।
कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरं ।
सेवेत देवदेवशमुपवीतः सदा शुचिः ।। ३६.५५६ ।।
कञ्चुकेनावृताङ्गस्तु न गच्छेद्धरिमन्दिरं ।
नैवाभिवादनं कुर्यान्नाभिवाद्यः स उच्चते ।। ३६.५५७ ।।
उष्णीषी न च सेवेत नैव पाणौ धृतायुधः ।
वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण वा ।। ३६.५५८ ।।
योगच्छेद्वैष्णवं धाम यो वापि प्रणमेद्धरिं ।
श्वित्री संजायते मूढो नवजन्मानि पञ्च च ।। ३६.५५९ ।।
क्ष्ॐआदिभिर्वा संवीतो यो नरःप्रणमेद्धरिं ।
चण्डालयोनितां याति नव जन्मानि पञ्च च ।। ३६.५६० ।।
न जातु त्वमितब्रूयादापन्नोपि महत्तरं ।
त्वङ्कारो वा वधो वेति विद्वत्सु न निशिष्यते ।। ३६.५६१ ।।
परनिन्दा परस्यैव पुंसो निन्दा भविष्यति ।
परनिन्दा च शास्त्रस्य परस्य तु विनिन्दनं ।। ३६.५६२ ।।
परनिन्दा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति ।
निन्दया वै परेषां तु निन्दितास्ते पुनस्स्मृताः ।। ३६.५६३ ।।
तस्मान्निदां परेषां तुदेवाग्रे परिवर्जयेथ् ।
तथा परस्तुतिं चैव विधिना संत्यजेन्नरः ।। ३६.५६४ ।।
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः ।
तदग्रेऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः ।। ३६.५६५ ।।
यस्तु सर्वेश्वरादन्यमधिकं तस्य चाग्रतः ।
पूजयेद्यदि मन्येत पूजार्हं वास नश्यति ।। ३६.५६६ ।।
सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः ।
तथापि तत्तद्रूषेण तारतम्यजुषा पुनः ।। ३६.५६७ ।।
पूज्यते भगवान्भक्तैस्तत्र शास्त्रोदिता गतिः ।
तस्माद्देवेश्वरादन्यद्यत्किञ्चित्थ्साणु जङ्गमं ।। ३६.५६८ ।।
पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः ।
तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयं ।। ३६.५६९ ।।
त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुं ।
शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः ।। ३६.५७० ।।
गौणैरर्चयते विष्णमुपचारैरुदीरितैः ।
न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते ।। ३६.५७१ ।।
यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः ।
तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः ।। ३६.५७२ ।।
यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजां ।
तथैव तुलसीदाम्ना दुर्विधस्यापि तुष्यति ।। ३६.५७३ ।।
तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चिथ् ।
अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते ।। ३६.५७४ ।।
प्रेत्य मार्जारतां प्राप्य जायते जन्मपञ्चकं ।
विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः ।। ३६.५७५ ।।
योऽद्यादन्नं कणं वापि यद्विष्णोरनिवेदितं ।
स भवेद्ब्रह्महाभूयः स भुङ्क्तेपूयशोणितं ।। ३६.५७६ ।।
यत्पिबेच्च यदश्नीयात्यच्चजिघ्रेच्च धारयेथ् ।
अनुलिंपेच्च यत्तत्तन्निवेद्याग्रे मधुद्विषे ।। ३६.५७७ ।।
तन्निवेदितशेषं तु भुञ्जीयाद्वोपयोजयेथ् ।
विष्णोर्निवेदितं यस्तु न भुङ्क्ते मनुजाधमः ।। ३६.५७८ ।।
कल्पकोटिशतेनापि निष्कृतिर्नास्य विद्यते ।
निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनाथ् ।। ३६.५७९ ।।
प्रीयत्भगवान्देवस्तत्परस्तु भवेन्नरः ।
निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः ।। ३६.५८० ।।
स तु दुर्गतिमासाद्य विन्दते यमयातनाः ।
विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतं ।। ३६.५८१ ।।
समृद्धा धरणी सेयं सशैलवनकानना ।
या च भूयांसि लोकेऽस्मिन्नुत्पादयति सन्ततं ।। ३६.५८२ ।।
ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च ।
तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः ।। ३६.५८३ ।।
यस्तु नार्ऽपयते विष्णोस्तत्तत्कालोद्भवानि तु ।
सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च ।। ३६.५८४ ।।
संभृतानि यथाशक्ति सभवेद्ब्रह्मह्नरः ।
नवानि काले जातानि सस्यादीनि विशेषतः ।। ३६.५८५ ।।
ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च ।
कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परं ।। ३६.५८६ ।।
औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुञ्जते ।
तेयान्तिनरकान्घोरान्कृतघ्ना यान्तियान्बहून् ।। ३६.५८७ ।।
शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः ।
नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु ।। ३६.५८८ ।।
यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेथ् ।
लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेथ् ।। ३६.५८९ ।।
देवेशाय विशेषेण स भवेत्पातकी नरः ।
उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेथ् ।। ३६.५९० ।।
सोऽपि चण्डालतां प्राप्य नश्येदेव न संशयः ।
निवेदितं तु देवस्य य उच्छिष्टेन योजयेथ् ।। ३६.५९१ ।।
देवानामित रेषां वा मनुष्याणामथापि वा ।
स पापी जन्मसाहस्रं श्वानयोनिषु जायते ।। ३६.५९२ ।।
न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेथ् ।
देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः ।। ३६.५९३ ।।
न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः ।
पार्श्वतस्तु चरन्नेव निवर्तेतालयं प्रति ।। ३६.५९४ ।।
नैवान्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरं ।
स हि सर्वेश्वर श्शेषी यस्तत्रास्ते रमाधवः ।। ३६.५९५ ।।
पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः ।
यस्तथा प्रणमेन्मूढस्स याति नरकायुतं ।। ३६.५९६ ।।
चण्डालयोनिमासाद्य भजते यातना मुहुः ।
यस्तु देवगृहं प्राप्तान्वैष्णवान्भगवत्प्रियान् ।। ३६.५९७ ।।
आचार्यमृत्विजश्चाथ पूजकान्परिचारकान् ।
नार्ऽचयेन्मौनमास्थाय स विनश्यति सान्वयः ।। ३६.५९८ ।।
यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु ।
भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः ।। ३६.५९९ ।।
अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेथ् ।
अत्मानं यो विशेषेणस्तौत्यहङ्कार भाविदः ।। ३६.६०० ।।
अनादृत्य गुरून्दैवमनिबद्धं च संपदेथ् ।
अवलीप्तोन जानाति दोषमात्मनि संगतं ।। ३६.६०१ ।।
कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः ।
न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयं ।। ३६.६०२ ।।
तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयं ।
ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः ।। ३६.६०३ ।।
जायते म्रियतेऽभीक्ष्णं तस्य पापं महद्भवेथ् ।
यस्देवगृहं गत्वा वाञ्छत्यपचितिं जनः ।। ३६.६०४ ।।
स तु तित्तिरितां याति नवजन्मानि पञ्च च ।
देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः ।। ३६.६०५ ।।
अधिकारः समाख्यातस्तत्क्रमं न विमानयेथ् ।
विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः ।। ३६.६०६ ।।
गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचिथ् ।
अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते ।। ३६.६०७ ।।
अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः ।
ते द्विजास्तत्स्त्रीयश्चापि सेवन्ते तत्र संगताः ।। ३६.६०८ ।।
क्षत्रजाता विशेषण स्थित्वा चैवार्ऽधमण्डपे ।
देवेशमभिसेवन्ते तदीया याश्च योषितः ।। ३६.६०९ ।।
संगताश्शूद्रजाताश्च प्रतिलोमभवाश्चये ।
महामण्डपमास्थाय सेवन्ते पुरुषोत्तमं ।। ३६.६१० ।।
अनुलोमभुवश्चैवये चान्ये म्लेच्छजातयः ।
गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः ।। ३६.६११ ।।
तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिं ।
देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते ।। ३६.६१२ ।।
अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमं ।
चण्डालयोनितामेति नव जन्मानि पञ्च च ।। ३६.६१३ ।।
अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः ।
स भवेद्देवहा सत्यं जायते श्वादियोनिषु, ।। ३६.६१४ ।।
तिरस्कृत्य तथा देवान्भगवच्छास्त्रमेव च ।
कर्माणि स्वेच्छया कुर्यात्सोऽपि स्याद्देवहा नरः ।। ३६.६१५ ।।
कथायां कथ्यमानायां देवस्य मधुविद्विषः ।
अनादृत्य च ये यान्ति ते नराः पापकारिणः ।। ३६.६१६ ।।
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षतां ।
जायन्ते सप्तजन्मानि ततश्चण्डालतां ययुः ।। ३६.६१७ ।।
देवेषु गोषु विप्रेषु देवागारेषु चैव हि ।
वहेन्नैवाधिपत्यं यन्नासावृद्धिमवाप्नुयाथ् ।। ३६.६१८ ।।
दोषाश्च बहुला स्तस्मिन्नाधिपत्ये स्मृता बुधैः ।
कामतोऽकामतश्चापि सर्वं तस्य विचेष्टितं ।। ३६.६१९ ।।
पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेथ् ।
सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः ।। ३६.६२० ।।
गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च ।
देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते ।। ३६.६२१ ।।
पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरथ् ।
दायाद्यमर्चकानां तु यो मोहादपनिह्नुते ।। ३६.६२२ ।।
स्वयं वाप्युपयुञ्जीत स पापी नरकं व्रजेथ् ।
विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः ।। ३६.६२३ ।।
तन्नाम्ना पूजकानेव जानन्ति फलभागिनः ।
स्थिरजङ्गमयोः पूजा यतस्सम्पादिता भवेथ् ।। ३६.६२४ ।।
तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे ।
विहायाभरणादीनि वासांस्यन्यत्परिच्छदं ।। ३६.६२५ ।।
देवालङ्कारयोग्यानि मूल्यवन्ति विशेषतः ।
अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः ।। ३६.६२६ ।।
यस्त्वधीकारगर्वेण देवागारमुपाश्रितः ।
अकाले सेवितुं चेच्छेत्सोऽपि यास्यति दुर्गतिं ।। ३६.६२७ ।।
अथ वा सेवितुं चेच्छेत्कारणेनापि केन चिथ् ।
उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः ।। ३६.६२८ ।।
अन्त्यार्चनावसाने यत्कवाटो बध्यते ततः ।
पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति ।। ३६.६२९ ।।
तावन्नैव हरिं सेवेदकालस्स विशेषतः ।
प्रत्यूषाद्यन्त्यकालान्तपूजनेऽपि तु मन्त्रतः ।। ३६.६३० ।।
तत्तत्काले कवाटस्य बन्धने विहितेऽपि च ।
न तदा तावती हानिरवबद्धेऽप्यमन्त्रकं ।। ३६.६३१ ।।
अथार्ऽचनार्हकालेपि भक्तानां सेवनाय तु ।
अकाला बहवः प्रोक्तास्तथा यवसिकोदिता ।। ३६.६३२ ।।
तस्मादकालसेवां तु विधिना परिवर्जयेथ् ।
विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वतां ।। ३६.६३३ ।।
कर्मभूमौ नृणां जन्म कर्मापि विभलं ध्रुवं ।
यो गुरौ मानुषं भावं शिलाभावं च दैवते ।। ३६.६३४ ।।
मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च ।
पूजकेषु च पूजायां नीरसं भावमेति सः ।। ३६.६३५ ।।
सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलं ।
क्षमामन्त्रः
अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परं ।। ३६.६३६ ।।
अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः ।
अपराधः कृतो येन जानता स्ववशेन सः ।। ३६.६३७ ।।
क्षमामन्त्रसहस्रस्य जापेनापि न मुच्यते ।
क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते ।। ३६.६३८ ।।
"नारायण नमस्तेऽस्तु नमो भक्तपरायण ।
नमो नमो नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ।। ३६.६३९ ।।
अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४० ।।
संध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४१ ।।
कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४२ ।।
तिष्ठता प्रजता चैव शय्यासनगतेन च ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४३ ।।
स्नास्यता जपता वापि यजता जुह्वता मया ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४४ ।।
भुजता ध्यायता नूनं विषयानुपसेवता ।
अपराधाः कृता ये तान्क्षमस्व पुरुषोत्तम ।। ३६.६४५ ।।
मया वा मज्जनैर्वापि मम बन्धुभिरेववा ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४६ ।।
राज्ञा वा तदमात्यैर्वा राजभृत्यैरथापिवा ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४७ ।।
आचार्येणार्ऽचकेनापि भक्तैर्वापरिचारकैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४८ ।।
गायकैर्नर्तकैर्वाथ वादित्राणां च वादकैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ।। ३६.६४९ ।।
प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकं ।
अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम ।। ३६.६५० ।।
उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च ।
श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम ।। ३६.६५१ ।।
कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययं ।
तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम ।। ३६.६५२ ।।
प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि ।
प्रसीदतु रं मह्यं तव वक्षःस्थलालया ।। ३६.६५३ ।।
इशाना जगतो देवी माता नित्यानपायिनी ।
प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि ।। ३६.६५४ ।।
स्वस्त्यस्तु कृपयास्माकं युवयोः सुप्रसन्नयोः ।
उपचारापदेशेन कृतानहरहर्मया ।। ३६.६५५ ।।
अपचारानिमान्त्सर्वान्क्षमस्व पुरुषोत्तम ।
इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः ।। ३६.६५६ ।।
तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः ।
क्षमामन्त्रमिमं देयान्न चाशुश्रूषवे क्वचिथ् ।। ३६.६५७ ।।
गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशोऽध्यायः.
_____________________________________________________________
अथ सप्तत्रिंशोऽध्यायः.
त्रियुगधर्म प्रपञ्चः.
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परं ।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगं ।। ३७.१ ।।
कृतमेव च कर्तव्यं तस्मिन्काले यदीप्सितं ।
न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः ।। ३७.२ ।।
ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै ।
न तस्मिन्युगसंसर्गेव्यवायो नेन्द्रियक्षयः ।। ३७.३ ।।
नानूया नापि रुदितं न दर्पो न च पैशुनं ।
न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनं ।। ३७.४ ।।
न भयं न च सन्तापो न लोभो न च मानिता ।
तदा ज्योतिःपरं ब्रह्म वैखानसमनामयं ।। ३७.५ ।।
या गतिर्योगिनामेका ह्यपुनर्भवकाङ्क्षिणां ।
विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः ।। ३७.६ ।।
अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ ।
स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति ।। ३७.७ ।।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः ।
स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते ।। ३७.८ ।।
समाश्रमं समाचारं सत्यभूतं तपोरतं ।
विज्ञानभरितं सर्वं जगद्भवति सन्ततं ।। ३७.९ ।।
एक वेदसमायुक्ता एकधर्मविधिक्रियाः ।
पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः ।। ३७.१० ।।
चतुराश्रमयुस्तेन कर्मणा कालयोगिना ।
अकामभलसंयोगाः प्राप्नुवन्ति परां गतिं ।। ३७.११ ।।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ।
एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितं ।। ३७.१२ ।।
ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेथ् ।
रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः ।। ३७.१३ ।।
सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः ।
यजन्ते विविधैर्यज्ञैर्नारायणमनामयं ।। ३७.१४ ।।
ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरं ।
यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे ।। ३७.१५ ।।
युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते ।
विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते ।। ३७.१६ ।।
द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते ।
द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे ।। ३७.१७ ।।
विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः ।
प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततं ।। ३७.१८ ।।
राजसं भावमाश्रित्य राजसी भवति प्रजा ।
सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः ।। ३७.१९ ।।
अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरं ।
कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः ।। ३७.२० ।।
प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः ।
कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते ।। ३७.२१ ।।
पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे ।
तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते ।। ३७.२२ ।।
तामसं युगमासाद्य हरिः कृष्णत्वमेति च ।
यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेथ् ।। ३७.२३ ।।
नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते ।
वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः ।। ३७.२४ ।।
व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा ।
उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनाथ् ।। ३७.२५ ।।
असूयानिरतास्सर्वे दंभाचारपरायणाः ।
प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे ।। ३७.२६ ।।
सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते ।
यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः ।। ३७.२७ ।।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः ।
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ।। ३७.२८ ।।
व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः ।
सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः ।। ३७.२९ ।।
अहमेवाधिक इति सर्वो विवदते जनः ।
अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः ।। ३७.३० ।।
अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे ।
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेथ् ।। ३७.३१ ।।
विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते ।
व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः ।। ३७.३२ ।।
ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरं ।
कामक्रोधपरा मूढा वृधाहं कारपूरिताः ।। ३७.३३ ।।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ।
जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता ।। ३७.३४ ।।
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः ।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ।। ३७.३५ ।।
राजानो द्रव्यनिरता लोभमोहपरायणाः ।
धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ।। ३७.३६ ।।
यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति ।
किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः ।। ३७.३७ ।।
म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधरां ।
अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः ।। ३७.३८ ।।
भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः ।
कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः ।। ३७.३९ ।।
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ।
दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः ।। ३७.४० ।।
परुषानृतभाषिण्यो देहसंस्कार वर्जिताः ।
वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः ।। ३७.४१ ।।
नगरेषु च ग्रामेषु प्राकाराट्टादिकान्जनाः ।
चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते ।। ३७.४२ ।।
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान्देशान्प्राप्स्यन्ति दुःखिताः ।। ३७.४३ ।।
स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः ।। ३७.४४ ।।
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति सर्वतः ।
उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः ।। ३७.४५ ।।
कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः ।
पाषण्डालापनिरताः पाषण्डिजनसंगिनः ।। ३७.४६ ।।
भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः ।
अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा ।। ३७.४७ ।।
अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते ।
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ।। ३७.४८ ।।
नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः ।
सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः ।। ३७.४९ ।।
मैत्री परजने भूयाद्वैरं च स्वजने भवेथ् ।
पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः ।। ३७.५० ।।
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।
त्यक्ष्यन्तिहि प्रियान्प्राणान्हनिष्यन्ति स्वबान्धवान् ।। ३७.५१ ।।
पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु ।। ३७.५२ ।।
शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च ।
करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः ।। ३७.५३ ।।
काषायपरिनीताश्च जटिला भक्मधूसराः ।
अशौचावक्रमतयः परपाकान्नजीविनः ।। ३७.५४ ।।
देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः ।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा ।। ३७.५५ ।।
उत्कोच जीविनस्तत्र महापापरतास्तथा ।
भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः ।। ३७.५६ ।।
धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः ।
शूद्रा धर्मान्प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनोऽधमाः ।। ३७.५७ ।।
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः ।
भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः ।। ३७.५८ ।।
हर्तारो न च दातारोभविष्यन्ति कलौ युगे ।
विश्वासहीनाः पिशुना वेददेवद्विजातिषु ।। ३७.५९ ।।
असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा ।
परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश ।। ३७.६० ।।
पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते ।
सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः ।। ३७.६१ ।।
स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः ।
याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ।। ३७.६२ ।।
परावमाननिरता आत्मस्तुतिपरायणाः ।
परस्वहरणोपायचिन्तकाः सर्वदा नराः ।। ३७.६३ ।।
निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु ।
वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ।। ३७.६४ ।।
छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजं ।
अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः ।। ३७.६५ ।।
धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः ।
भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः ।। ३७.६६ ।।
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः ।
अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परं ।। ३७.६७ ।।
न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता ।
न भार्या न पतिस्तत्र भविता सर्वसंकरः ।। ३७.६८ ।।
कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः ।
रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे ।। ३७.६९ ।।
धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणं ।
द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च ।। ३७.७० ।।
पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः ।
लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः ।। ३७.७१ ।।
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ।
परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः ।। ३७.७२ ।।
मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् ।
सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः ।। ३७.७३ ।।
अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे ।
वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः ।। ३७.७४ ।।
धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च ।
न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः ।। ३७.७५ ।।
कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परं ।
प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः ।। ३७.७६ ।।
साधूनां विविधानां च वित्तान्यपहरन्ति च ।
न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः ।। ३७.७७ ।।
नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिं ।
न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः ।। ३७.७८ ।।
अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः ।
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ।। ३७.७९ ।।
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः ।
अकालकर्मनिरताः कूटयुक्तिविशारदाः ।। ३७.८० ।।
देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा ।
त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः ।। ३७.८१ ।।
विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चिथ् ।
देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च ।। ३७.८२ ।।
शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः ।
तान्परित्यज्य मोहेन नराः कालबलात्कृताः ।। ३७.८३ ।।
हेतुवादपरान्देवान्करिष्यन्त्यपरां स्तदा ।
निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः ।। ३७.८४ ।।
नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले ।
दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः ।। ३७.८५ ।।
प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः ।
शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः ।। ३७.८६ ।।
रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे ।
शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च ।। ३७.८७ ।।
अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ।। ३७.८८ ।।
कुहकाश्च जनास्तत्र हेतुवादविशारदाः ।
पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः ।। ३७.८९ ।।
न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीं ।
गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु ।। ३७.९० ।।
ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा ।
कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः ।। ३७.९१ ।।
वीत्तमेव कलौ नॄणां जन्माचारगुणोदयं ।
दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके ।। ३७.९२ ।।
धर्मन्यायव्यवस्थानां कारणं बलमेव हि ।
स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि ।। ३७.९३ ।।
लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणं ।
अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः ।। ३७.९४ ।।
स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतं ।
उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि ।। ३७.९५ ।।
दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनं ।
इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते ।। ३७.९६ ।।
यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनं ।
शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः ।। ३७.९७ ।।
यदायदा सतां हानिर्वैदिकानां द्विजन्मनां ।
तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः ।। ३७.९८ ।।
अहो दुःखमहोदुःखमहोदुःखमहो महथ् ।
स्वरूपमतिभीमस्य संसारस्य सुदुर्भरं ।। ३७.९९ ।।
विण्मूत्रपूयकलिते गर्भवासे निपीडनाथ् ।
अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहं ।। ३७.१०० ।।
दुःखं च जायमानानां गात्रभङ्गादिपीडने ।
वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदं ।। ३७.१०१ ।।
बालके निर्विवेकानां भूतदैवात्मसंभवं ।
यौवने वार्धके चैव मरणे चाति दारुणे ।। ३७.१०२ ।।
एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितं ।
तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः ।। ३७.१०३ ।।
ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः ।
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। ३७.१०४ ।।
विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस्तथा ।
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनां ।। ३७.१०५ ।।
नौषधं न तपो दानं न मन्त्रान च बान्धवाः ।
शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितं ।। ३७.१०६ ।।
रसायनतपोजप्ययोगसिद्धैर्महात्मभिः ।
कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः ।। ३७.१०७ ।।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयं ।
सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च ।। ३७.१०८ ।।
आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेथ् ।
यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचिथ् ।। ३७.१०९ ।।
मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगथ् ।
बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः ।। ३७.११० ।।
निश्श्वपन्दीर्घमुष्णं च मुखेन परिशुष्यता ।
चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः ।। ३७.१११ ।।
सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः ।
खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीं ।। ३७.११२ ।।
विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः ।
याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः ।। ३७.११३ ।।
चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि ।
नखाग्रैश्च स्पृशन्भूमिं कालपाशेन कर्षितः ।। ३७.११४ ।।
म्रियते पश्यतामेव गले खुरखुरायते ।
जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ ।। ३७.११५ ।।
संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीं ।
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयाथ् ।। ३७.११६ ।।
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ।
जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः ।। ३७.११७ ।।
शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः ।
सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः ।। ३७.११८ ।।
दुःखातिशयभूतं हि यदन्ते नासुखं नृणां ।
तस्योपमानं नैवास्ति कार्येणैवानु मीयते ।। ३७.११९ ।।
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहं ।
दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुं ।। ३७.१२० ।।
ततश्चैव पुनस्तस्य योनिसंक्रमणे च यथ् ।
गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणं ।। ३७.१२१ ।।
पुनश्च जायमानस्य बाल्ययौवनजं च यथ् ।
दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः ।। ३७.१२२ ।।
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ।
न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे ।। ३७.१२३ ।।
संसारसंकटे संगमुपेतानां कदा चन ।
विषयासक्तमनसस्सततं पामरा जनाः ।। ३७.१२४ ।।
न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे ।
अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः ।। ३७.१२५ ।।
विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः ।
ते विष्णुसदृशा ज्ञेया न हि तान्बाधते कलिः ।। ३७.१२६ ।।
मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा ।
दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः ।। ३७.१२७ ।।
असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः ।
छिनत्ति वैष्णवीं मायां केशवाराधने रतः ।। ३७.१२८ ।।
विषयानविरोधेन सेवमानोऽपि माधवं ।
अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययां ।। ३७.१२९ ।।
यत एवमतो लब्ध्वाशरीरं कर्मसाधनं ।
शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, ।। ३७.१३० ।।
प्रसादितेऽस्मिन्सर्वेषां स्ववर्णाश्रमकर्मभिः ।
सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता ।। ३७.१३१ ।।
कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः ।
अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयाथ् ।। ३७.१३२ ।।
इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययं ।
यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयं ।। ३७.१३३ ।।
न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता ।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ।। ३७.१३४ ।।
उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेथ् ।
सर्वत्र क्रमवान्यत्नःकार्यो नैच्छैव केवला ।। ३७.१३५ ।।
तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिं ।
निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा ।। ३७.१३६ ।।
रमणीयमिवाभाति तदनर्थस्य कारणं ।
स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु ।। ३७.१३७ ।।
सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिराथ् ।
न च रूपं विना दोवो ध्यातुं केनापि शक्यते ।। ३७.१३८ ।।
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति ।
निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते ।। ३७.१३९ ।।
तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तं ।
अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेथ् ।। ३७.१४० ।।
सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः ।
परं देवमुपासीत मुक्तये वा फलायवा ।। ३७.१४१ ।।
भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः ।
पूजाद्यनुग्रहायाऽदावाविर्भूतश्चतुर्भुजः ।। ३७.१४२ ।।
तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः ।
ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः ।। ३७.१४३ ।।
साकारेऽस्मिन्कृता पूजा स्तुतिर्वा ध्यानमेव वा ।
विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेथ् ।। ३७.१४४ ।।
तदेवाराधनं विष्णोरवज्ञातं विशेषतः ।
ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः ।। ३७.१४५ ।।
धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति ।
तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना ।। ३७.१४६ ।।
श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः ।
श्रीनिवासस्समाख्यातो भूमाववतरिष्यति ।। ३७.१४७ ।।
उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा ।
जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति ।। ३७.१४८ ।।
पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः ।
संस्कृतोऽखिलसंस्कारैर्ब्रह्मवर्चससेवितः ।। ३७.१४९ ।।
सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिं ।
चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितं ।। ३७.१५० ।।
श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरं ।
किरीटमुकुटोपेतं वरदाभयचिह्नितं ।। ३७.१५१ ।।
हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजं ।
वैखानसैर्महाभागैरर्च्यमानं निरन्तरं ।। ३७.१५२ ।।
कृतास्पदं कलियुगे तदीयं कुलदैवतं ।
"अरायि काणऽऽ इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतं ।। ३७.१५३ ।।
"रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः ।
इज्यमानं विशेषेण विविधैः पारमात्मिकैः ।। ३७.१५४ ।।
कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहं ।
स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परं ।। ३७.१५५ ।।
विधिना शास्त्रदृष्टेन देवमाराधयिष्यति ।
प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयं ।। ३७.१५६ ।।
अवनम्य च मूर्धानं गृहीष्यति गले स्रजं ।
दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः ।। ३७.१५७ ।।
स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति ।
संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः ।। ३७.१५८ ।।
वैखानसैर्महाभागैरुपेतैः सह मन्दिरे ।
हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति ।। ३७.१५९ ।।
अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति ।
देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति ।। ३७.१६० ।।
तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरं ।
यज्ञैर्बहुविधैरन्यैर्यज्ञेशं संयजिष्यति ।। ३७.१६१ ।।
विशाले बहुसंस्कारसंकुले वसुधातले ।
स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे ।। ३७.१६२ ।।
पुराणि च जनावासा गृहाणि गृहिणां तथा ।
मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः ।। ३७.१६३ ।।
मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति ।
इत आचार्य निर्देश इतश्शिष्योपसर्पणं ।। ३७.१६४ ।।
इहैव गृहिणां भूयः प्रसंग इह मन्त्रणं ।
अचार्यवरणं चेह शिल्पिनामिह मार्गणं ।। ३७.१६५ ।।
इह प्रस्तरसंग्राह इह दारुग्रहस्तथा ।
इह दिक्साथनं चैह वसुधासंपरीक्षणं ।। ३७.१६६ ।।
इतो मङ्गलघोषश्च इतःपुण्याहवाचनं ।
इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः ।। ३७.१६७ ।।
इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनं ।
इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनं ।। ३७.१६८ ।।
इतो मधूच्छिष्टविधिरितोऽलङ्कारकल्पनं ।
इतो ध्वजस्य निर्माणमितो भक्तसमागमः ।। ३७.१६९ ।।
इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणं ।
इतोऽधिवासनं चेतो प्रभूतबलिदापनं ।। ३७.१७० ।।
इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः ।
इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरं ।। ३७.१७१ ।।
इह प्रतिष्ठा देवस्य इह च द्विजभोजनं ।
इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः ।। ३७.१७२ ।।
मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनं ।
अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ।। ३७.१७३ ।।
अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः ।
अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलं ।। ३७.१७४ ।।
अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा ।
अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः ।। ३७.१७५ ।।
अद्य दाशरथिर्जातो द्वादशी माघसंभवा ।
अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ।। ३७.१७६ ।।
अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः ।
चैत्रमासस्त देवस्य महाप्रीतिकरः किल ।। ३७.१७७ ।।
कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवं ।
जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचिथ् ।। ३७.१७८ ।।
केतकीमालतीजातीमल्लिकादोलिकोत्सवः ।
गन्धोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनं ।। ३७.१७९ ।।
कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः ।
कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी ।। ३७.१८० ।।
वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः ।
कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः ।। ३७.१८१ ।।
कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा ।
प्रपोत्सवः कदा भूयादाषाढी च भविष्यति ।। ३७.१८२ ।।
कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः ।
रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः ।। ३७.१८३ ।।
कदा च श्रावणी भूयाद्यत्र नारायणो हरिः ।
स्वात्मानं जनयामास लोककल्याणहेतवे ।। ३७.१८४ ।।
वैखानसं विखनसं विरिञ्चमिति यं विदुः ।
कदा भाद्रपदो मासस्तत्र चैकादशी भवेथ् ।। ३७.१८५ ।।
कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी ।
तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ ।। ३७.१८६ ।।
कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा ।
अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिं ।। ३७.१८७ ।।
कदा भवेदमावास्या यस्यां स नरकोहतः ।
कदा वा कार्तिकोमासो भविष्यति हरिप्रियः ।। ३७.१८८ ।।
दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा ।
कदायुगादय स्तद्वत्पुण्यकाला विशेषतः ।। ३७.१८९ ।।
कदा भविष्यति हरे रथयात्रा महात्मनः ।
कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणं ।। ३७.१९० ।।
कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरं ।
कदा लभिष्टति हरेस्तीर्थं परमपावनं ।। ३७.१९१ ।।
कदा प्रसादं देवस्य कणस्यापि लभिष्यति ।
कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता ।। ३७.१९२ ।।
पादुका देवदेवस्य संस्करिष्यति मे शिरः ।
कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः ।। ३७.१९३ ।।
अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीं ।
कदा वा पुण्यपुष्पाणामेकं देवसमर्पितं ।। ३७.१९४ ।।
शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवथ् ।
देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरं ।। ३७.१९५ ।।
आपादमौलिपर्यन्तं लावण्यमधुरं वपुः ।
इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च ।। ३७.१९६ ।।
सर्वे धर्मपरास्सर्वे नारायण परायणाः ।
अर्चने वासुदेवस्य भविष्यन्ति रता नराः ।। ३७.१९७ ।।
इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति ।
श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि ।। ३७.१९८ ।।
पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवं ।
इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति ।। ३७.१९९ ।।
सर्वतन्त्रस्वतन्त्रोऽसौ बहून्ग्रन्धान्प्रणेष्यति ।
असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति ।। ३७.२०० ।।
धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे ।
समेष्यति परं स्थानं तद्विष्णोः परमं पदं ।। ३७.२०१ ।।
युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति ।
तदा हरिर्महावीरः कल्की नाम भविष्यति ।। ३७.२०२ ।।
अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति ।
हरेर्दिव्यावताराणामवतारकथामिमां ।। ३७.२०३ ।।
यः पठेच्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिं ।
धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे ।। ३७.२०४ ।।
ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः ।
ध्यायन्कृतयुगे विष्णुं त्रेतायां दापरे यजन् ।। ३७.२०५ ।।
यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः ।
हरेर्हरति पापानि नामसंकीर्तितं सकृथ् ।। ३७.२०६ ।।
पाषण्डबहुले लोके कलावतिभयङ्करे ।
तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरं ।। ३७.२०७ ।।
तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः ।
समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयाथ् ।। ३७.२०८ ।।
नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमाथ् ।
भूपरीक्षादिकर्माणि विमानानां च कल्पनं ।। ३७.२०९ ।।
विविधानां च बेराणां निर्माणविधिविस्तरः ।
दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः ।। ३७.२१० ।।
प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः ।
पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः ।। ३७.२११ ।।
तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः ।
अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः ।। ३७.२१२ ।।
द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः ।
एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः ।। ३७.२१३ ।।
द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः ।
विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः ।। ३७.२१४ ।।
ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः ।
प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः ।। ३७.२१५ ।।
अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः ।
स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः ।। ३७.२१६ ।।
पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलं ।
षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः ।। ३७.२१७ ।।
कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः ।
सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलाथ् ।। ३७.२१८ ।।
षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितं ।। ३७.२१९ ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां सहितायां प्रकीर्णाधिकारे सप्तत्रिंशोऽध्यायः
इति श्रीमति प्रकीर्णाधिकारे क्रियापादः.
श्री विखनसमहागुरवे नमः श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितं तस्मै समस्तवेदार्थविदे विखनसे नमः.
जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियातिथिः श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही.
श्रीरामचन्द्राय नमः.