सामग्री पर जाएँ

भृगुसंहिता/पञ्चत्रिंशोऽध्यायः

विकिस्रोतः तः
← चतुस्त्रिंशोऽध्यायः भृगुसंहिता
पञ्चत्रिंशोऽध्यायः
[[लेखकः :|]]
षट्त्रिंशोऽध्यायः →

अथ पञ्चत्रिंशोऽध्यायः.

फलश्रुतिः

अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलं ।
यस्तु देवालयं दारुशिलालोहविलेखनैः ।। ३५.१ ।।

कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतं ।
अहन्यहनि यज्ञेन यजतो यन्महत्फलं ।। ३५.२ ।।

प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरं ।
कुलानां शतमागामि समतीतं तथा शतं ।। ३५.३ ।।

तारयेद्भगवद्गेहमिति बुद्धिं करोति यः ।
सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ।। ३५.४ ।।

विष्णोरालयविन्यासप्रारंभादेव नश्यति ।
सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहं ।। ३५.५ ।।

प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीं ।
प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ।। ३५.६ ।।

कारयत्यक्षयान्लोकान्स वरः प्रतिपद्यते ।
इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ।। ३५.७ ।।

तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते ।
प्रतिमां लक्षणवतीं यः कारयति मानवः ।। ३५.८ ।।

केसवस्य स तल्लोकमक्षयं प्रतिपद्यते ।
षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ।। ३५.९ ।।

स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः ।
ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ।। ३५.१० ।।

प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेथ् ।। ३५.११ ।।

ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ।। ३५.१२ ।।

बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा ।
अतीते यजमानेऽपि चिरमस्या अवस्थिते ।। ३५.१३ ।।

अनुशस्ताः किल पुरा यमेव यमकिङ्कराः ।
पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ।। ३५.१४ ।।

विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यतां ।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचिथ् ।। ३५.१५ ।।

केवलं ये जगन्नाथमनस्तं समुपाश्रिताः ।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ।। ३५.१६ ।।

ये तु भागवता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।। ३५.१७ ।।

यस्तिष्ठन्यस्स्वपन्भुञ्जनुत्तिष्ठन्स्खलितेषु च ।
संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ।। ३५.१८ ।।

नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनं ।
नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिं ।। ३५.१९ ।।

ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः ।
अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ।। ३५.२० ।।

उपलेपनकर्तारस्सम्मार्जनकराश्च ये ।
कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलं ।। ३५.२१ ।।

येन चायतनं विष्णोः कारितं तत्कुलोद्भवं ।
पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ।। ३५.२२ ।।

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता ।
नरायुतं तत्कुलजं भवतां शासनातिगं ।। ३५.२३ ।।

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया ।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचिथ् ।। ३५.२४ ।।

यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः ।
तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ।। ३५.२५ ।।

स्थापितं प्रतिमा विष्णोस्सम्यक्संपूज्य मानवः ।
यं यं कामयते कामं तं तमाप्नोत्यसंशयं ।। ३५.२६ ।।

यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनां ।
शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणां ।। ३५.२७ ।।

करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी ।
तथैव कामान्भूतेशस्सददाति यथेप्सितं ।। ३५.२८ ।।

कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते ।
यस्सदायतने विष्णोः कुरुते मार्जनक्रियां ।। ३५.२९ ।।

सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति ।
यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ।। ३५.३० ।।

वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः ।
अहन्यहनि यत्पापं कुरुते विषयी नरः ।। ३५.३१ ।।

यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये ।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेथ् ।। ३५.३२ ।।

गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये ।
सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ।। ३५.३३ ।।

सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? ।
उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ।। ३५.३४ ।।

सोऽपिगच्छति यत्रास्ते भगवान्यादसां पतिः ।
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।। ३५.३५ ।।

विष्णोरायतने नित्यं यः करोत्यनु लेपनं ।
प्रवाते वाति गुणवद्वर्षास्वतिमनोहरं ।। ३५.३६ ।।

स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः ।
पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलं ।। ३५.३७ ।।

प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनं ।
सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमं ।। ३५.३८ ।।

तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः ।
येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ।। ३५.३९ ।।

ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा ।
तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ।। ३५.४० ।।

अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलं ।
श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयाथ् ।। ३५.४१ ।।

यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः ।
तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ।। ३५.४२ ।।

स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः ।
गन्धर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति ।। ३५.४३ ।।

लिप्ता च यावता हस्ता विष्णोरायतने मही ।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेथ् ।। ३५.४४ ।।

पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः ।
मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवं ।। ३५.४५ ।।

तत्क्षयादिह चागत्य विशिष्टे जायते कुले ।
अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवाञ्छितं ।। ३५.४६ ।।

नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः ।
न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ।। ३५.४७ ।।

विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै ।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा ।। ३५.४८ ।।

कृते सम्मार्जने तस्यास्तथा चैवानुलेपने ।
प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ।। ३५.४९ ।।

उपोषितो नरो नारी यःकरोत्यनुलेपनं ।
न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ।। ३५.५० ।।

या च नारी करोत्येवं यथावदनुलेपनं ।
नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ।। ३५.५१ ।।

सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान् ।
गोमहिष्यादिसंभागं गृहमाप्नोति मानव ।। ३५.५२ ।।

तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितं ।
विष्णोरायतने कार्यं सहसै वोपलेपनं ।। ३५.५३ ।।

यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः ।
सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ।। ३५.५४ ।।

पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये ।
उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयाथ् ।। ३५.५५ ।।

स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक् ।
स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ।। ३५.५६ ।।

क्ष्ॐआदिदानादाप्नोति परलोके महत्सुखं ।
आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ।। ३५.५७ ।।

एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी ।
परत्रेह च लोके स्याद्दीर्घकालमसंशयः ।। ३५.५८ ।।

सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः ।
जायते येषु लोकेषु पुलकस्संगमोमहान् ।। ३५.५९ ।।

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
तान्लोकान्पुरुषा यान्तिक्षीरस्नानकरा हरेः ।। ३५.६० ।।

आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता ।
सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ।। ३५.६१ ।।

दध्यादीनां विकाराणां क्षीरतस्संभवो यथा ।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ।। ३५.६२ ।।

यथा च विमलं क्षीरं यथा निर्वृतिकारकं ।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदं ।। ३५.६३ ।।

ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने ।
करोति भगवान्विष्णुःक्षीरस्नापनतोषितः ।। ३५.६४ ।।

सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति ।
यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ।। ३५.६५ ।।

इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतं ।
गवां शतस्य विप्राणां न दत्तस्य भवेत्फलं ।। ३५.६६ ।।

घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनां ।
पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ।। ३५.६७ ।।

घृताढकेन गोविन्द प्रतिमास्नापनात्किल ।
प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिं ।। ३५.६८ ।।

स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते ।
द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ।। ३५.६९ ।।

स्नापनं देवदेवस्य महापातकनाशनं ।
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।। ३५.७० ।।

तत्क्षालयति संध्यायां घृतेन स्नापयन्हरिं ।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ।। ३५.७१ ।।

स गत्वावैष्णवं धाम मोदते सह सूरिभिः ।
स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ।। ३५.७२ ।।

स भुक्त्वा विपुलान्भोगान्नाकपृष्ठे विराजते ।
चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ।। ३५.७३ ।।

दानादाभरणादीनां तेजस्वी दिविमोदते ।
दानाच्च नवरत्नावां देवसालोक्यमश्नुते ।। ३५.७४ ।।

आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति ।
गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेथ् ।। ३५.७५ ।।

धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेथ् ।
उपानहौ पादुके च वाहनं यानमेव च ।। ३५.७६ ।।

ददाति यो संदयित्वा? मणिकाञ्चनचित्रितं ।
स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ।। ३५.७७ ।।

अलङ्कृतं भद्रपीठं प्रयच्छन्सर्वकामभाक् ।
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।। ३५.७८ ।।

सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः ।
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।। ३५.७९ ।।

स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते ।
दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ।। ३५.८० ।।

वासुदेवाय दास्येन मुक्तिः करतलेस्थिता ।
नृत्तभेदैर्गीतभेदैस्तथा वाद्यैरनेकथा ।। ३५.८१ ।।

श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ ।
आसीनमुपचारैस्तैर्ये समाराधयन्तिते ।। ३५.८२ ।।

प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः ।
दीपं प्रयच्छति नरो विष्णोरायतने हि यः ।। ३५.८३ ।।

सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः ।
आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।। ३५.८४ ।।

सर्वपाप विशुद्धात्मा विष्णुलोके महीयते ।
दिनेदिने जपन्नाम केशवेति समाहितः ।। ३५.८५ ।।

सकृद्ददातियोविप्रःप्रदीपं केशवालये ।
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ।। ३५.८६ ।।

अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः ।
सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः ।। ३५.८७ ।।

जायते नरकं चापि तमस्संज्ञं न पश्यति ।
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनं ।। ३५.८८ ।।

दीपमालाकुलं दिव्यं विमानमधिरोहति ।
तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ।। ३५.८९ ।।

तांश्चदत्वान्नहीनस्ते? न च तैलवियोजनं ।
कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ।। ३५.९० ।।

अन्धेतमसि दुष्पारे नरके पतितान्किल ।
विक्रोशमानान्मनुजान्वक्ष्यन्ति यमकिङ्कराः ।। ३५.९१ ।।

विलापैरल मत्रेवं किंवो विलपिते फलं ।
तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ।। ३५.९२ ।।

पुर्वमालोचितं नैतत्कथमन्ते भविष्यति ।
इदानीं यातना भौगाःकिं विलापः करिष्यति ।। ३५.९३ ।।

देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः ।
एतत्कोन विजानाति येन यूयं प्रमादिनः ।। ३५.९४ ।।

जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ।
तत्राप्यतिविमाढत्वात्किंभोगानभिधावति ।। ३५.९५ ।।

कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते ।
वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखं ।। ३५.९६ ।।

अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा ।
येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ।। ३५.९७ ।।

महाफलो विष्णुगृहे न दत्तो नरकापहाः ।
न वो विलपिते किं चिदिदानीं दृश्यते फलं ।। ३५.९८ ।।

अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनां ।
अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशं ।। ३५.९९ ।।

दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा ।
एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुं ।। ३५.१०० ।।

इदानीं किं विलापेन सहध्वं यदुपागतं ।
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितं ।। ३५.१०१ ।।

यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न ।
पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनं ।। ३५.१०२ ।।

कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनं ।
विमानमतिविद्योति सर्वरत्नमयं दिवि ।। ३५.१०३ ।।

समाप्नोति नरो दत्वा प्रदीपं केशवालये ।
हविषां पायसादीनां हरये च निवेदनाथ् ।। ३५.१०४ ।।

सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ ।
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।। ३५.१०५ ।।

श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा ।
बहुनात्र किमुक्तेन वासुदेवार्थमादराथ् ।। ३५.१०६ ।।

ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितं ।
कर्मणां मार्जनादीनां फलभोगादनन्तरं ।। ३५.१०७ ।।

कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु ।
उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ।। ३५.१०८ ।।

आरामाणां तटाकानां प्रपाणां च प्रवर्तनाथ् ।
विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ।। ३५.१०९ ।।

सुप्रदर्शा बलवती चित्रा धातुविभूषिता ।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ।। ३५.११० ।।

तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनं ।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ।। ३५.१११ ।।

तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः ।
त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ।। ३५.११२ ।।

अथ वा मित्रसदनं मैत्रं मित्रविवर्धनं ।
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनं ।। ३५.११३ ।।

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयं ।। ३५.११४ ।।

चतुर्विधानां भूतानां तटाकमुपलक्षयेथ् ।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमां ।। ३५.११५ ।।

देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयं ।। ३५.११६ ।।

तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः ।
या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ।। ३५.११७ ।।

वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ।। ३५.११८ ।।

शरत्का ले तु सलिलं तटाके यस्य तिष्ठति ।
गोसहस्रस्य संप्रेत्य लभते फलमुत्तमं ।। ३५.११९ ।।

हेमन्तकाले सलिलं तटाके यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलं ।। ३५.१२० ।।

यस्य वै शैशिरे काले तटाके सलिलं भवेथ् ।
तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ।। ३५.१२१ ।।

तटाकं सुकृतं यस्य वसन्तेतं महाश्रयं ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ।। ३५.१२२ ।।

निदाघकाले पानीयं तटाके यस्य तिष्ठति ।
वाजिमेधपलं तस्य फलं वै मुनयो विदुः ।। ३५.१२३ ।।

स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश्च नरास्सदा ।। ३५.१२४ ।।

तटाके यस्य गावस्तु पिबन्ति तृषिता जलं ।
मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेथ् ।। ३५.१२५ ।।

यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच ।
तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ।। ३५.१२६ ।।

दुर्लभं सलिलं चेह विशेषेण परत्र वै ।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ।। ३५.१२७ ।।

तटाके यस्य पानीयं पानीयाय जगत्पतेः ।
तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ।। ३५.१२८ ।।

तटाके यस्य पानीये सायं प्रातर्द्विजातयः ।
स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेथ् ।। ३५.१२९ ।।

तटाके यस्य देवस्य स्नापनं चाधिवासनं ।
तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ।। ३५.१३० ।।

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।
पानीयावासदानं तु देवस्याग्रे प्रशस्यते ।। ३५.१३१ ।।

अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणं ।
स्थानराणां च भूतानां जातयष्षट्प्रकीर्तिताः ।। ३५.१३२ ।।

वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः ।
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।। ३५.१३३ ।।

कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभं ।
लभते नाम लोके च पितृभिश्च महीयते ।। ३५.१३४ ।।

देवलोकगतस्यापि नामतस्य न नश्यति ।
अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा ।। ३५.१३५ ।।

तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेथ् ।
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।। ३५.१३६ ।।

परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ।
पुष्पैस्सुरगणान्वृक्षाः फलैश्चापि तथा पितृन् ।। ३५.१३७ ।।

चायया चातिथींश्चापि पूजयन्ति महीरुहाः ।
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।। ३५.१३८ ।।

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ।
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।। ३५.१३९ ।।

वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ।
पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते ।। ३५.१४० ।।

अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवं ।
पत्रैःफलैर्वापुष्पैर्वा प्रीयते भगवान्हरिः ।। ३५.१४१ ।।

तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा ।
पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ।। ३५.१४२ ।।

तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः ।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ।। ३५.१४३ ।।

तस्मात्तटाकान्कुर्वीत आरामांश्चैव रोपयेथ् ।
यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेथ् ।। ३५.१४४ ।।

गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे ।
अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ।। ३५.१४५ ।।

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते ।
अचला ह्यक्षयो भूमिस्सर्वान्कामान्प्रयच्छति ।। ३५.१४६ ।।

यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि ।
तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ।। ३५.१४७ ।।

यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधरां ।
तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ।। ३५.१४८ ।।

देवकार्याय वैदद्याद्यो देवाय वसुन्धरां ।
देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलं ।। ३५.१४९ ।।

ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन ।
देवाय देवकार्याय ब्राह्मणायाधिकारिणे ।। ३५.१५० ।।

यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेथ् ।
यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेथ् ।। ३५.१५१ ।।

तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरं ।
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।। ३५.१५२ ।।

आचार्यायार्पिता भूमिरत्यन्तफलदायिनी ।
ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ।। ३५.१५३ ।।

पदार्थिनामथान्वेषां तथान्यविभवस्य च ।
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ।। ३५.१५४ ।।

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं ।
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५५ ।।

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं ।
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५६ ।।

यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः ।
अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ।। ३५.१५७ ।।

सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनं ।
स शतान्येव गोकर्णमिति वेदविदो विदः ।। ३५.१५८ ।।

जितेन्द्रयाय गुणिने पूजकाय तपस्विने ।
दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतं ।। ३५.१५९ ।।

यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति ।
एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ।। ३५.१६० ।।

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ।। ३५.१६१ ।।

यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेथ् ।
एवं दत्ताचिरं कालं भूमिर्भरति भूमिदं ।। ३५.१६२ ।।

इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः ।
यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ।। ३५.१६३ ।।

शुभं भद्रासनं छत्रं वराश्च वरयोषितः ।
भूमिदानस्य चिह्नानि फलमेतन्न संशयः ।। ३५.१६४ ।।

आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदं ।। ३५.१६५ ।।

सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः ।
गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ।। ३५.१६६ ।।

इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः ।
अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः ।। ३५.१६७ ।।

यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं ।
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।। ३५.१६८ ।।

तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ।
दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनं ।। ३५.१६९ ।।

दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं ।
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनं ।। ३५.१७० ।।

भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः ।
पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवं ।। ३५.१७१ ।।

यथा भूमिस्सदा देवी दातारं कुरुते पतिं ।
एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपं ।। ३५.१७२ ।।

अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदं ।
महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ।। ३५.१७३ ।।

नामैव प्रियदत्तेति गुह्यामेतत्सनातनं ।
तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ।। ३५.१७४ ।।

तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता ।
गुरुदैवतपूजा च नातिक्रामति भूमिदं ।। ३५.१७५ ।।

भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः ।
ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदं ।। ३५.१७६ ।।

यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा ।
एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ।। ३५.१७७ ।।

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ।। ३५.१७८ ।।

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदं ।। ३५.१७९ ।।

पीतरः पितृलोकस्था देवलोके दिवौकसः ।
सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः ।। ३५.१८० ।।

आदित्या इव दीप्यन्ते तेजसा दि मानवाः ।
ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ।। ३५.१८१ ।।

कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते ।
देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ।। ३५.१८२ ।।

आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः ।
भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ।। ३५.१८३ ।।

स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः ।
स दाता स च विक्रान्तो यो ददाति वसुंधरां ।। ३५.१८४ ।।

लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा ।
वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ।। ३५.१८५ ।।

तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते ।
धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीं ।। ३५.१८६ ।।

सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च ।
देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ।। ३५.१८७ ।।

न तस्य शक्यते वक्तुं फलं वर्षशतैरपि ।
यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ।। ३५.१८८ ।।

तावद्वर्ष सहस्राणि कामान्दुह्येत सा वरा ।
प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनां ।। ३५.१८९ ।।

स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः ।
सा गौः कामदुघा भूत्वा दातारमुपसर्पति ।। ३५.१९० ।।

गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतं ।
परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ।। ३५.१९१ ।।

दश चोभयतःप्रेत्य माता महपितामहाः ।
गच्छेत्सुकृतिनां लोकान्गावो दत्वा यथाविधि ।। ३५.१९२ ।।

दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेथ् ।
तस्यापि चाक्षया लोका भवन्तीह परत्र च ।। ३५.१९३ ।।

यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति ।
स गच्छेद्विरजान्लोकान्गोप्रदानफलार्जितान् ।। ३५.१९४ ।।

प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा ।
स गत्वा दुर्लभं स्थानममरैस्सह मोदते ।। ३५.१९५ ।।

यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि ।
स गत्वा विरजान्लोकान्सुखं वसति देववथ् ।। ३५.१९६ ।।

संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति ।
देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ।। ३५.१९७ ।।

जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, ।
तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेथ् ।। ३५.१९८ ।।

दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी ।
युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेथ् ।। ३५.१९९ ।।

युवानं बलिनं श्यामं हलेन सह यूथपं ।
गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतं ।। ३५.२०० ।।

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतं ।
एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ।। ३५.२०१ ।।

उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा ।
यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ।। ३५.२०२ ।।

प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः ।
मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ।। ३५.२०३ ।।

पुण्याःपापहराश्चेव गवां लोका न संशयः ।
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ।। ३५.२०४ ।।

प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः ।
तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ।। ३५.२०५ ।।

गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः ।
ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः ।। ३५.२०६ ।।

घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह ।
यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ।। ३५.२०७ ।।

गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते ।
मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ।। ३५.२०८ ।।

ब्रह्माणा लोकसारेण गावःपापभयापहाः ।
तानु दत्तासु लोकेऽस्मिन्किं न दत्तं भवेदिह ।। ३५.२०९ ।।

देवेशाय विशेषेण तत्क्रियाय तथा पुनः ।
प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ।। ३५.२१० ।।

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महथ् ।। ३५.२११ ।।

दशपूर्वान्परान्वंश्यानात्मानं च विशेषतः ।
अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेथ् ।। ३५.२१२ ।।

सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा ।
देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतं ।। ३५.२१३ ।।

अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः ।
तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ।। ३५.२१४ ।।

अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनं ।
सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनाथ् ।। ३५.२१५ ।।

यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति ।
दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयाथ् ।। ३५.२१६ ।।

सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते ।
विरजांबरसंवीतः परियाति ततस्ततः ।। ३५.२१७ ।।

विमानेनार्कवर्णेन भास्वरेण विराजता ।
अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा ।। ३५.२१८ ।।

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः ।
दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ।। ३५.२१९ ।।

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि ।
विमानेनार्कवर्णेन स याति स्वर्गमुत्तमं ।। ३५.२२० ।।

न ह्यतः परमं लोके सद्यः पापविनाशनं ।
ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ।। ३५.२२१ ।।

बहून्यब्दसहस्राणि स्वर्गेलोके महीयते ।
इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया ।। ३५.२२२ ।।

अथ वक्ष्ये विशेषेण फलमन्नस्य दापनाथ् ।
विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ।। ३५.२२३ ।।

तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदराथ् ।
न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ।। ३५.२२४ ।।

तथापि गीयते यत्तु विस्तारात्परमर्षिभिः ।
संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलं ।। ३५.२२५ ।।

प्रसादममृतं ब्रूयादन्नं देवनिवेदितं ।
तीर्थं चामृतमित्येव देवपादोदकं वदेथ् ।। ३५.२२६ ।।

अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा ।
लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितं ।। ३५.२२७ ।।

अन्नेन सदृशं दानं न भूतो न भविष्यति ।
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ।। ३५.२२८ ।।

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः ।
अन्नेन धार्यते सर्वं विश्वं जगदिदं महथ् ।। ३५.२२९ ।।

अन्नाद्गृहस्था लोकेस्मिन्भिक्षवस्तापसास्तथा ।
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ।। ३५.२३० ।।

कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ।। ३५.२३१ ।।

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने ।
विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ।। ३५.२३२ ।।

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितं ।
अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतं ।। ३५.२३३ ।।

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखं ।। ३५.२३४ ।।

नावमन्येदभिगतं न प्रणुद्यात्कथं चन ।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ।। ३५.२३५ ।।

यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते ।
शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयाथ् ।। ३५.२३६ ।।

पितॄन्देवानृषीन्विप्रानतिथींश्च विशेषतः ।
यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महथ् ।। ३५.२३७ ।।

कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते ।। ३५.२३८ ।।

ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलं ।
अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ।। ३५.२३९ ।।

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च ।
भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ।। ३५.२४० ।।

अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः ।
भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ।। ३५.२४१ ।।

आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः ।
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ।। ३५.२४२ ।।

ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते ।
अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयाथ् ।। ३५.२४३ ।।

ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् ।
विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ।। ३५.२४४ ।।

सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते ।
महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ।। ३५.२४५ ।।

दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमं ।
नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ।। ३५.२४६ ।।

अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितं ।
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ।। ३५.२४७ ।।

प्राणवांश्चापि भवति रूपवांश्च तथा भवेथ् ।
अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ।। ३५.२४८ ।।

अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि ।
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ।। ३५.२४९ ।।

ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते ।
उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महथ् ।। ३५.२५० ।।

प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत ।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ।। ३५.२५१ ।।

अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते ।
धक्मार्थावन्नतो विद्यात्रोगनाशस्तथान्नतः ।। ३५.२५२ ।।

अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः ।
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितं ।। ३५.२५३ ।।

अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः ।
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ।। ३५.२५४ ।।

आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा ।
निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ।। ३५.२५५ ।।

अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमं ।
त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ।। ३५.२५६ ।।

अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।
आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितं ।। ३५.२५७ ।।

मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः ।
यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ।। ३५.२५८ ।।

आदत्ते च रसान्भ्ॐआनादित्यस्स्वगभस्तिभिः ।
वायुरादित्यतप्तांश्च रसान्देवःप्रवर्षति ।। ३५.२५९ ।।

तद्यथा मेघतो वारि पतितं भवति क्षितौ ।
तदा वसुमती देवी स्निग्धा भवति भाविता ।। ३५.२६० ।।

ततस्सस्यानि रोहन्ति येन वर्तयते जगथ् ।
मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ।। ३५.२६१ ।।

संभवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले ।
अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह ।। ३५.२६२ ।।

एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच ।
एक एव स्मृतो राशिस्ततो भूतानि जङ्गिरे ।। ३५.२६३ ।।

प्राणान्ददाति भूतानां तेजश्च सततप्रभं ।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ।। ३५.२६४ ।।

अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः ।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनां ।। ३५.२६५ ।।

तारासंस्थानरूपाणि नाना स्तंभान्वितानि च ।
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।। ३५.२६६ ।।

तरुणादित्यवर्णानि स्थावराणि चराणिच ।
अनेकशतभ्ॐआनि सांतर्जलचराणि च ।। ३५.२६७ ।।

वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च ।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।। ३५.२६८ ।।

वाप्यो वीथ्यः सभाः कूपादीर्घि काश्चैव सर्वशः ।
घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः ।। ३५.२६९ ।।

भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च ।
क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः ।। ३५.२७० ।।

प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः ।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा ।। ३५.२७१ ।।

दद्यादद्यात्सदैवान्नं विष्णवे विनिवेदितं ।
हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा ।। ३५.२७२ ।।

कांस्यं वाप्यथ यो दद्यादर्घ्य पात्रादिकानपि ।
कलशान्करकान्कुंभानन्यांश्चैव परिच्छदान् ।। ३५.२७३ ।।

शक्तिलोभमकृत्वैव तस्य पुण्यफलं महथ् ।
सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलं ।। ३५.२७४ ।।

राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयाथ् ।
दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः ।। ३५.२७५ ।।

ध्वचान्विचित्रान्यो दद्यान्नानावर्ण समायुतान् ।
सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति ।। ३५.२७६ ।।

श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलं ।
दुकूलेनाथ पट्टेन तन्तुनान्येन वा कृतं ।। ३५.२७७ ।।

यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदं ।
सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः ।। ३५.२७८ ।।

कुबेरलोकमासाद्य तत्र सम्मोदते चिरं ।
आतपत्रं तथा हैमं मुक्तादामविभूषितं ।। ३५.२७९ ।।

हैमदण्डयुतं दद्यादिन्द्रलोकं स गच्छति ।
राज्यकामी तु राजा स्यात्सार्वभ्ॐओऽपि जायते ।। ३५.२८० ।।

मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयाथ् ।
चामरं हेमदण्डं च व्यजनं रत्नभूषितं ।। ३५.२८१ ।।

केवलं हेमदण्डं वा भक्त्या शक्त्या च संयुतं ।
अर्पयेद्धरये यस्तु देवलोके महीयते ।। ३५.२८२ ।।

मयूरव्यजनं तद्वद्रुक्मदण्डं च शक्तितः ।
भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते ।। ३५.२८३ ।।

विमानं हैवसंच्छन्नं विष्णोर्यः कारयेन्नरः ।
अशक्यं तत्फलं वक्तुं सर्वैरपि सुरासुरैः ।। ३५.२८४ ।।

सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेथ् ।
तस्यापि यत्फलं सर्वमनन्तमिति नश्श्रुतं ।। ३५.२८५ ।।

मण्डपं वा प्रपां वाथ रत्नमुक्तोपशोभितं ।
हेमलंब? समायुक्तं हैमस्तंभपरिष्कृतं ।। ३५.२८६ ।।

कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभं ।
हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवार्ऽपयेद्धरेः ।। ३५.२८७ ।।

सिंहासनं समास्थाय माहेन्द्रीं संपदं व्रजेथ् ।
हैमीर्याश्शिबिकाश्चैव रङ्गादीन्यश्च कारयेथ् ।। ३५.२८८ ।।

हैमं यानं तथारुह्य विष्णुलोकं स गच्छति ।
अशक्तोदारवान्वाथरङ्गादीन्शिबिकास्तथा ।। ३५.२८९ ।।

सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति ।
यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेथ् ।। ३५.२९० ।।

हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः ।
शङ्खभेर्यादिदानेन शक्रलोके स पूज्यते ।। ३५.२९१ ।।

नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः ।
नर्तयेदप्सरोभिर्वा गान्धर्वं लोकमाप्नुयाथ् ।। ३५.२९२ ।।

वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिं ।
भुक्त्वात्रमहदैश्वर्यं वैष्णवं पदमाप्नुयाथ् ।। ३५.२९३ ।।

यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः ।
तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः ।। ३५.२९४ ।।

तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः ।
समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयं ।। ३५.२९५ ।।

यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः ।
यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या ।। ३५.२९६ ।।

तस्योपचारं यत्कर्म करोति श्रद्धया तु यः ।
सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु याथ् ।। ३५.२९७ ।।

तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरं ।
शक्तिलोभमकृत्वैव विभवानाञ्चभक्तितः ।। ३५.२९८ ।।

बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमं ।
अथार्ऽचने फलं वक्ष्ये विशेषेण मधुद्विषः ।। ३५.२९९ ।।

भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः ।
सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन् ।। ३५.३०० ।।

यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेथ् ।
उपचारविशेषाणाद्वक्ष्यते फलं ।। ३५.३०१ ।।

ध्यानमावाहनं कृत्वा सर्वान्कामानवाप्नुयाथ् ।
अष्टाङ्गयोगमार्गेण मनसा भावयन्हरिं ।। ३५.३०२ ।।

संचिन्त्य मनसा पूर्वं पूतकायो महामनाः ।
यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवं ।। ३५.३०३ ।।

अर्चकस्य तपोयोगात्पूजाया श्चातिशायनाथ् ।
आभिरूप्याच्च बिंबस्य सन्निधेः प्रोच्यते हरेः ।। ३५.३०४ ।।

आसनं हरये दत्वा प्रतिष्ठां लभते चिरं ।
स्वागतेनानुमानेन यः पूजयति माधवं ।। ३५.३०५ ।।

सर्वैरनुमतो भूत्वा स्वागतं सोऽभिपद्यते ।
पाद्यमाचमनीयं च समर्प्य हरये नरः ।। ३५.३०६ ।।

बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते ।
नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेथ् ।। ३५.३०७ ।।

सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः ।
विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरं ।। ३५.३०८ ।।

देवेशं पुष्पमालाद्यैरलङ्कुर्याच्च यो बुधः ।
तस्यानन्तफलं प्रोक्त मनन्तो भगवान्हरिः ।। ३५.३०९ ।।

चंपकाशोकपुन्नाग जातीमलयपङ्कजं ।
समर्प्य देवदेवाय शुभानामाश्रयो भवेथ् ।। ३५.३१० ।।

दमनोशीरलामज्जा केतक्युत्पलमर्पयेथ् ।
मङ्गलं तस्य निश्छिद्रं भवेदेव न संशयः ।। ३५.३११ ।।

तुलसीमर्पयेद्विद्वान्पादयोर्भक्तितो हरेः ।
स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ ।। ३५.३१२ ।।

सुगन्धिपुष्पदानेन सुगन्धिर्जायते नरः ।
बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः ।। ३५.३१३ ।।

बहुजातिसुमानां च दानेन प्रीयते स वै ।
पादयोरर्पणाद्विष्णोः पुष्पाणां संचयं सकृथ् ।। ३५.३१४ ।।

पदेपदे चाश्वमेधफलं प्राप्नोत्यसंशयं ।
तुलसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ।। ३५.३१५ ।।

नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते ।
सर्वाङ्गेष्वर्पयन्पुष्पं सर्वगस्य नरो हरेः ।। ३५.३१६ ।।

सर्वदा सर्वलोकेषु कामचोरो भविष्यति ।
अलङ्कृत्य फलैर्देवं पुष्पार्पणफलं लभेथ् ।। ३५.३१७ ।।

संगन्धचन्दनद्रव्यं कर्पूरादियुतं तथा ।
यथार्हमर्पयेदङ्गेश्लक्ष्णं सर्वाङ्गसुन्दरं ।। ३५.३१८ ।।

स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभं ।
स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवं ।। ३५.३१९ ।।

स सर्वान्समवाप्नोति पुष्पार्पणफलादिकान् ।
सर्वेषामपि पुष्पाणां तुलसी प्रीतिदा हरेः ।। ३५.३२० ।।

तुलसीदलमादाय यत्र गच्छति पूजकः ।
अनुगच्छति तं देवो यथा गोर्वत्सला भृशं ।। ३५.३२१ ।।

प्रत्यहं पूजयेद्यस्तु तुलस्या गरुडध्वजं ।
जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयाथ् ।। ३५.३२२ ।।

मणिकाञ्चनपुष्पाणि मुक्तावैदूर्यकानि च ।
तुलसीदलदानस्य कलां नार्ऽहन्ति षोडशीं ।। ३५.३२३ ।।

सुमञ्जरीदलैर्युक्तैः कोमलैस्तुलसीदलैः ।
ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे ।। ३५.३२४ ।।

शुष्कं पर्युषितं वार्ऽद्रं काष्ठं वा तुलसीदलं ।
अर्चने वासुदेवस्य लक्षकोटिगुणं भवेथ् ।। ३५.३२५ ।।

तुलसीग्रहणं शस्तं विष्णोरर्चनहेतवे ।
वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुलसीदलं ।। ३५.३२६ ।।

वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलं ।
अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकं ।। ३५.३२७ ।।

शुष्कैः पर्युषितैर्वापि काष्ठमूलमृदादिभिः ।
अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः ।। ३५.३२८ ।।

पुष्कराद्यानि तीर्थानि गङ्गाद्यास्सरितस्तथा ।
देवा दिविस्थिता ये वैतिष्ठन्ति तुलसीदले ।। ३५.३२९ ।।

तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः ।
यावन्न प्राप्यते पुण्या तुलसी विष्णुवल्लभा ।। ३५.३३० ।।

सकृदभ्यर्च्य गोविन्दं तुलस्या चैव मानवः ।
मुक्तिभागी निरातङ्कं कृष्णस्यानुचरो भवेथ् ।। ३५.३३१ ।।

नाक्षतैरर्चयेद्विष्णुं न शंभुं शङ्खवारिणा ।
नार्चयेद्दूर्वया दुर्गां न तुलस्या सुरान्तरं ।। ३५.३३२ ।।

दलालाभे तुलस्यास्तु पत्रैराराधयेद्धरिं ।
पत्रालाभे शिफाभिर्वा शिफाभावे शिफालवैः ।। ३५.३३३ ।।

लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिं ।
हरेरभ्यर्चनायां च तुलसी साधनं परं ।। ३५.३३४ ।।

अलाभे तुलसी च तन्नामग्रहणं परं ।
भगवानरविन्दाक्षस्सन्तुष्यति सहस्रधा ।। ३५.३३५ ।।

न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि ।
तथा तुष्यति गोविन्दो यथैन तुलसीदलैः ।। ३५.३३६ ।।

संगृह्य तुलसीं भक्त्या सर्वानिष्ट ।
तुलस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि ।। ३५.३३७ ।।

तस्मात्तुलस्या सदृशं स च भूतं न भावि च ।
तुलसीकाननामोदवापिता यत्र मारुताः ।। ३५.३३८ ।।

न तत्र धरणीभागे चरन्ति यमकिङ्कराः ।
"तुलसी तुलसीऽऽत्येवं नामान्यावर्तयन्तिये ।। ३५.३३९ ।।

ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनं ।
दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि ।। ३५.३४० ।।

पुनाति तुलसी पुण्या दशपूर्वान्दशावरान् ।
तुलसीकाननं यत्र यत्र वा हरिकीर्तनं ।। ३५.३४१ ।।

तत्रैवास्ते हरिश्श्रीमान्शङ्खचक्रगदायुधः ।
यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः ।। ३५.३४२ ।।

पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते ।
चन्दनागुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः ।। ३५.३४३ ।।

सूर्यलोकं स गत्वैव याति विष्णोः परं पदं ।
घृतेन कापिलेनैव दृढवर्तियुतं तु यः ।। ३५.३४४ ।।

दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरं ।
सोऽन्धं नैव प्रविशति नरकं नरपुङ्गवः ।। ३५.३४५ ।।

यस्तु तैलेन संदीप्तं दर्शयेद्दीपमुज्ज्वलं ।
विमानमतिविद्योति यात्यारुह्य तमःपरं ।। ३५.३४६ ।।

कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः ।
तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति ।। ३५.३४७ ।।

विधिनार्ऽघ्यं हरेर्दद्यादष्ठाङ्गं भक्तितो नरः ।
चन्द्रलोकं स गत्वैव याति विष्णोः परं पदं ।। ३५.३४८ ।।

सुगन्धि शुभमुत्पूतं स्नानतोयं च यो ददेथ् ।
देवेशस्य विशेषण स भवेद्वीतकल्मषः ।। ३५.३४९ ।।

ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते ।
प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च ।। ३५.३५० ।।

देवदेवस्य दत्वा तु स्ॐयं लोकमवाप्नुयाथ् ।
कार्पासमथ च क्ष्ॐअं कौशेयं राङ्कवं तथा ।। ३५.३५१ ।।

यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते ।
कार्पासाद्राङ्गवं तस्मात्कौ शेयं क्ष्ॐअमित्यपि ।। ३५.३५२ ।।

प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः ।
सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा ।। ३५.३५३ ।।

अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि ।
जांबूनदं शातकुंभं हाटकं वैणवं तथा ।। ३५.३५४ ।।

श्रुङ्गी च शुक्तिजं चैव जातरूपमतः परं ।
रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि ।। ३५.३५५ ।।

प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परं ।
प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः ।। ३५.३५६ ।।

भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः ।
राजश्रियं च भुक्त्वा न्ते विष्णुलोकं स गच्छति ।। ३५.३५७ ।।

उपवीतं तु यो दद्यात्सौवर्णैस्तन्तुभिः कृतां ।
द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयाथ् ।। ३५.३५८ ।।

सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः ।
अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिं ।। ३५.३५९ ।।

लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्यानपायिनी ।
स्वसंकाल्पानुविद्धा च शक्तिस्सर्वात्मिका परा ।। ३५.३६० ।।

प्रकृतेर्मूलभूता च स्वामिनी जगतां सतां ।
लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना ।। ३५.३६१ ।।

आबध्य मालिकायां यो देवेशाय समर्पयेथ् ।
तस्य प्रसन्नौ जायेते दंपती जगतः पती ।। ३५.३६२ ।।

मात्रां च देवदेस्य दत्वा हस्ते विशेषतः ।
सर्वान्कामानवाप्नोति चरांशस्तर्पितो हरेः ।। ३५.३६३ ।।

मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः ।
विरजांऽ बरसंवीतश्शशाङ्कधवलो मुदा ।। ३५.३६४ ।।

चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महथ् ।
हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते ।। ३५.३६५ ।।

प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा ।
पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः ।। ३५.३६६ ।।

पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु ।
कृसरं विनिवेद्यैव देवस्य मुदितो नरः ।। ३५.३६७ ।।

अक्षयं प्रतिपद्येत स्वगृहेऽन्नं चिरं चिरं ।
गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ।। ३५.३६८ ।।

मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयाथ् ।
यवोदनस्य दोनेन नीरोगो भवति ध्रुवं ।। ३५.३६९ ।।

शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा ।
अपूपादिप्रदानेन मनस्वी जायते नरः ।। ३५.३७० ।।

उपदंशादिदानेन नोपदंशो भविष्यति? ।
सुगन्धि स्वादु शुद्धं च पानीयं यो हरेर्ददेथ् ।। ३५.३७१ ।।

हविर्दानफलस्यार्धं फलं सम्यक्समश्नुते ।
कदल्या नारिकेलस्य चूतस्य पनसस्य च ।। ३५.३७२ ।।

फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेथ् ।
हविर्दानाच्चतुर्भागं फलं सोऽपि समाप्नुयाथ् ।। ३५.३७३ ।।

कर्पूरैलालवङ्गैश्च तथा जातीफलादिभिः ।
मातुलुङ्गफलैश्शुद्धैस्सुपक्वैश्च युतं तथा ।। ३५.३७४ ।।

तांबूलं क्रमुकैर्युक्तं मुखवासं च यो ददेथ् ।
सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति ।। ३५.३७५ ।।

विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणं ।
बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति ।। ३५.३७६ ।।

बलिं सेवेत यो भक्त्या सोऽपि यज्ञफलं लभेथ् ।
देवस्य मण्डपं कुर्याद्गन्धपुष्पैः प्रपान्तुवा ।। ३५.३७७ ।।

सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेथ् ।
विष्णोः कथास्तु संकीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः ।। ३५.३७८ ।।

श्रुत्वाभक्त्या हरिं ध्यायन्विष्णुलोके महीयते ।
स्ॐयान्पुण्यानिमान्विष्णोश्चतुरोऽप्यर्चनाविधीन् ।। ३५.३७९ ।।

श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि ।
सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ।। ३५.३८० ।।

अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः ।
सकामानां फलं काम्यमकामानां परं पदं ।। ३५.३८१ ।।

उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः ।
उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ।। ३५.३८२ ।।

उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः ।
तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ।। ३५.३८३ ।।

वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः ।
उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकं ।। ३५.३८४ ।।

उत्तारयन्स्वयं विष्णोस्स याति परमं पदं ।
सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ।। ३५.३८५ ।।

स यज्ञो वो नरान्युष्मानुत्तारयति निश्चयं ।
इति वेदा वदन्तीति स उत्सव उदीर्य ते ।। ३५.३८६ ।।

वाजीमेधसहस्रेण यजतो यत्फलं भवेथ् ।
यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतं ।। ३५.३८७ ।।

यागानामपि सर्वेषां फलमुत्सवकर्मणा ।
देवस्याश्नुवते सर्वं ये यजन्ते संशयः ।। ३५.३८८ ।।

सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते ।
उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ।। ३५.३८९ ।।

कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु ।
ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ।। ३५.३९० ।।

यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै ।
यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ।। ३५.३९१ ।।

नापमृत्युभयं तत्र नैनावग्रहसंभवः ।
नैव चोराद्युपहतिर्न तापत्रयसंगतिः ।। ३५.३९२ ।।

धर्मश्चतुष्पाद्वर्तेत कलौ तत्रादिमो युगः ।
धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः ।। ३५.३९३ ।।

भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः ।
महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते ।। ३५.३९४ ।।

पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेथ् ।
पुष्पमुलफलैरिज्या देवस्याभरणादिकैः ।। ३५.३९५ ।।

क्रियमाणा यथाशक्ति नित्यानन्त्याय कल्पते ।
सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः ।। ३५.३९६ ।।

तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः ।
आलेपनं मार्जनं च रजः प्रशमनं तथा ।। ३५.३९७ ।।

वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकं ।
कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभं ।। ३५.३९८ ।।

यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदं ।
रथं वहन्ति ये चाश्वास्तेऽपि यान्तिसुरालयं ।। ३५.३९९ ।।

छत्रादिधारिणश्चापि मोदन्ते दिवि मानवाः ।
आचार्याश्चार्चकाश्चैव तथैव परिचारकाः ।। ३५.४०० ।।

उत्सवेऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितं ।
ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ।। ३५.४०१ ।।

ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः ।
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमं ।। ३५.४०२ ।।

राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनं ।
प्रजानां वासुदेवस्य कल्याणाराधनं महथ् ।। ३५.४०३ ।।

इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमं ।
कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभं ।। ३५.४०४ ।।

अथ वक्ष्ये विशेषेण महास्नपनजं फलं ।
येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः ।। ३५.४०५ ।।

तद्द्रव्यं वर्थते तस्य नश्यं त्येवाशुभानि तु ।
राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति ।। ३५.४०६ ।।

अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च ।
निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै ।। ३५.४०७ ।।

तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः ।
मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्यान्विता भवेथ् ।। ३५.४०८ ।।

नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते ।
धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते ।। ३५.४०९ ।।

अङ्कुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति ।
मङ्गलैः पूजनात्सर्वमङ्गलानि भवन्ति वै ।। ३५.४१० ।।

स्नापनात्पञ्चभिर्गव्यैः पापं सश्यति सर्वधा ।
घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलं ।। ३५.४११ ।।

क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियाथ् ।
मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः ।। ३५.४१२ ।।

दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः ।
गन्धोदस्नापनाद्विष्णोस्सर्वसंपद्वृतोभवेथ् ।। ३५.४१३ ।।

स्नापयेदक्षतोदैस्तु प्रजा तस्याक्षता भवेथ् ।
फलोदकस्नापनेन शुभानीयात्फलानि तु ।। ३५.४१४ ।।

स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयाथ् ।
रत्नोदकस्नापनेन मणिरत्नादि वर्धयेथ् ।। ३५.४१५ ।।

जप्योदकस्य स्नानेन सर्वजापफलं लभेथ् ।
भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवाथ् ।। ३५.४१६ ।।

पुण्यपुष्पार्चनेनैव पुण्यवान्जायते नरः ।
चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः ।। ३५.४१७ ।।

उद्वर्तनात्कषायेण चूर्णेनावाप्यते रुचिः ।
तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेथ् ।। ३५.४१८ ।।

वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता ।
हारिद्रचूर्णस्नानेन प्रीतो भवति चाच्युतः ।। ३५.४१९ ।।

मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला ।
मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः ।। ३५.४२० ।।

धातुभिश्चाप्यलङ्काराद्धातुवृद्धिर्भविष्यति ।
अन्यैरनुक्तैर्वा यस्तुद्रव्यैः स्नापनकर्मणि ।। ३५.४२१ ।।

उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतं ।
यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः ।। ३५.४२२ ।।

स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेथ् ।
एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः ।। ३५.४२३ ।।

यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि ।
अन्ते विमासमारुह्य हैमं देवैः परीवृतः ।। ३५.४२४ ।।

किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः ।
यक्षैर्वृतोऽथ गन्धर्वैस्त्सूयामानो मुदान्वितः ।। ३५.४२५ ।।

सर्वलोकात्परं पुण्यं वैकुण्ठं लोकमाप्नुयाथ् ।
देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः ।। ३५.४२६ ।।

सेवेत सोऽपि पाप्मभ्यो मुच्यते नात्र संशयः ।
स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेथ् ।। ३५.४२७ ।।

प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः ।
उत्सवं सेवतेयस्तु सोऽपि यज्ञफलं लभेथ् ।। ३५.४२८ ।।

विष्णुपञ्चदिने यस्तु देवेशं स्नापयेत्प्रभुं ।
तस्य स्यान्महती संपत्पशुपुत्रादि सम्मिता ।। ३५.४२९ ।।

ग्रहणे विषुवे तद्वत्संक्रमादिषु चैवहि ।
अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुं ।। ३५.४३० ।।

स्नापयेद्यश्च सेवेत फलमाप्नोति सोऽपि सः ।
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः ।। ३५.४३१ ।।

खण्डिते स्फटिते धाम्नि दूषिते च सूधादिभिः ।
समादध्यात्पुनर्धाम स लोकं याति वैष्णवं ।। ३५.४३२ ।।

चोरैरपहृते बिंबेयः कुर्यात्प्रतिमां पुनः ।
स्थापयेद्भक्ति युक्तश्च स याति परमां गतिं ।। ३५.४३३ ।।

प्रमादात्पतिते बिंबे स्फुटते दूषितेऽथ वा ।
यः सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा ।। ३५.४३४ ।।

तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति ।
शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः ।। ३५.४३५ ।।

नवीकृत्यार्ऽपयेद्यस्तु तस्य पापं प्रणश्यति ।
यानानि रथङ्गादीन्यालोक्य शिथिलानि वै ।। ३५.४३६ ।।

समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति ।। ३५.४३७ ।।

यस्तु वीक्ष्य हरेरर्चां पतमानामनादराथ् ।
नर्धयेद्धनदानेन तस्य लोका मधुद्विषः ।। ३५.४३८ ।।

सीदतां वृत्तिहीनानां देवस्याघ्रे पदार्थिनां ।
यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति ।। ३५.४३९ ।।

यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः ।
लुप्तप्रायाणि तस्याऽऽपि भवेत्फलमन न्तकं ।। ३५.४४० ।।

यः कुर्याद्देवतागारे लुप्तकार्याणि सत्तमः ।
न तस्य कृतकृत्यत्वादमात्या यमकिङ्कराः ।। ३५.४४१ ।।

देवार्धे ब्राह्मणस्यार्ऽथे यस्त्यजेत्तनुमुत्तमां ।
तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश ।। ३५.४४२ ।।

देवार्थे ब्राह्मणस्यार्ऽधे सर्वस्वं स्वन्त्यजेत्तु यः ।
तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते ।। ३५.४४३ ।।

प्रायश्चित्तनिमित्तानि संभूतानितु धामनि ।
दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते ।। ३५.४४४ ।।

तस्य तुष्यति देवेशः प्र हृष्टस्संप्रसीदति ।
प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै ।। ३५.४४५ ।।

निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना ।
लोकानुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः ।। ३५.४४६ ।।

नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः ।
प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः ।। ३५.४४७ ।।

न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमाथ् ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेथ् ।। ३५.४४८ ।।

प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियां ।
तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनं ।। ३५.४४९ ।।

भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमाथ् ।
देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः ।। ३५.४५० ।।

तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि ।
इह लोकेऽखिलान्कामाननुभूय सुखं चिराथ् ।। ३५.४५१ ।।

देहन्तेजायते सद्यश्शङ्खचक्रगदाधरः ।
श्रीवत्सांकश्चतुर्बाहुश्श्यामलाङ्गस्सु सुन्दरः ।। ३५.४५२ ।।

गगने गरुडारूढस्सर्व देवनमस्कृतः ।
अदित्यमण्डलं भित्वा गत्वा शुभ्रांशुमण्डलं ।। ३५.४५३ ।।

ततोऽवतीर्य निखिलान्लोकानपि यथाक्रमं ।
सत्यस्थं सत्यरोकस्थं जगतः प्रभवाप्ययं ।। ३५.४५४ ।।

तथाशेषविशेषं च नित्यानन्दं निरञ्जनं ।
सुधारससमास्वादतुलितं नित्यतृप्तिदं ।। ३५.४५५ ।।

शाश्वतं तत्परञ्ज्योतिः प्रविशेन्नात्र संशयः ।
अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलं ।। ३५.४५६ ।।

निर्मातुमालयं यस्तु संकल्प्य मतिमान्नरः ।
परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते ।। ३५.४५७ ।।

तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ ।
कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।। ३५.४५८ ।।

सुकृते दुष्कृते चैव वदन्ति समभागिनः ।
निर्मातुमिच्छया धाम देवस्य मधुविद्विषः ।। ३५.४५९ ।।

स्वयं निवर्तते यस्तु तस्य स्यान्महती विपथ् ।
संकल्प्य देवतागारं निर्मातुं यो विशेषतः ।। ३५.४६० ।।

आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति ।
आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः ।। ३५.४६१ ।।

आचार्यस्सर्वमेवेति यो मन्येत स मन्यते ।
आरभ्य गेहनिर्माणं देवस्य जगतः पतेः ।। ३५.४६२ ।।

असमाप्य तु यो मूढो निवर्ते प्रविलोभतः ।
तस्य संपद्विनाशस्स्यात्क्रुद्धो भवति चाव्ययः ।। ३५.४६३ ।।

प्रवृत्तायां प्रतिष्ठायां येन केनापि हेतुना ।
यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति ।। ३५.४६४ ।।

येन विघ्नस्तदा भूयात्तं हत्वापि न दोषभाक् ।
यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनं ।। ३५.४६५ ।।

शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचिथ् ।
विवदेत य उच्छास्त्रमाचार्येण पदार्थिना ।। ३५.४६६ ।।

तस्याशुभानि भूयांसि भवेयुर्नात्र संशयः ।
अध्वरे वर्तमाने तु संभारान्शास्त्रचोदितान् ।। ३५.४६७ ।।

यो न दद्यात्स पापीयान्नाप्नुयात्कर्मजं फलं ।
प्रतिष्ठाप्य हरेर्बिंबं यो न सत्कुरुते गुरुं ।। ३५.४६८ ।।

अन्यान्पदार्थिनश्चापि स किञ्चिन्नाप्नुयात्फलं ।
प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुं ।। ३५.४६९ ।।

अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति ।
अर्चकं च तथाचार्यमन्यांश्चापि पदार्थिनः ।। ३५.४७० ।।

कालावधिं विनिश्चित्य यः कर्मसु नियोजयेथ् ।
स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति ।। ३५.४७१ ।।

दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि ।
यजमानो विपद्येत देवावासो नशिष्यति ।। ३५.४७२ ।।

आचार्यमर्चकं कुर्यात्स्वस्थानाद्योऽवरोपितं ।
अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः ।। ३५.४७३ ।।

आपद्यपि च कष्ठायां न कदाप्यन्यमर्चकं ।
पूर्वावरोपणादेव नियुञ्ज्यात्तु कथं चन ।। ३५.४७४ ।।

आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः ।
सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः ।। ३५.४७५ ।।

पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः ।
तस्मात्तद्वंशजान्हित्वा यद्यन्यैः कारितार्ऽचना ।। ३५.४७६ ।।

ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेथ् ।
यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनं ।। ३५.४७७ ।।

अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति ।
लोभान्मोहादथाज्ञानाद्य आदत्तेर्ऽचको धनं ।। ३५.४७८ ।।

वेतनार्धं तथा दद्याद्यजमानो विमूढधीः ।
उभौतौनरकं यातो यादच्चन्द्र दिवाकरं ।। ३५.४७९ ।।

वित्तार्थं पूजयेद्यस्तु नियम्याप्यवधिं हरिं ।
सवैदेवलको नाम सर्वकर्म बहिर्कृतः ।। ३५.४८० ।।

अदत्वा वसुधामग्रे पूजनार्थ मथार्चके ।
निर्माति ब्राह्मणं भूयो यजमानस्तु देवलं ।। ३५.४८१ ।।

नह्यस्मात्पातकं किञ्चि द्ब्राह्मणायाऽपराध्यति ।
अलब्ध्वादेवतागारनिर्माणसदृशं फलं ।। ३५.४८२ ।।

ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः ।
हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः ।। ३५.४८३ ।।

तत्किङ्कराणामन्येषां यो मूढस्स तमोवृतः ।
संबद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः ।। ३५.४८४ ।।

दुःखितो नरके भूयस्तिर्यग्योनिषु जायते ।
स्वदत्तां वरदत्तां वा यो हरेत वसुन्धरां ।। ३५.४८५ ।।

षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनं ।। ३५.४८६ ।।

परदत्तापहारेण स्वदत्तं निष्पलं भवेथ् ।
अन्यायेन हृता भूमिरन्यायेनैन हारिता ।। ३५.४८७ ।।

हरतो हारकस्यापि दहत्यासप्तमं कुलं ।
पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ।। ३५.४८८ ।।

शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।
हन्ति जातानजातांश्च हिरण्यार्ऽधेऽनृतं वदन् ।। ३५.४८९ ।।

सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचिथ् ।
विन्ध्याटवीष्वतोयासु शुष्ककोजरवासिनः ।। ३५.४९० ।।

कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः ।
तटाकानां सहस्रेण हयमेधशतेन च ।। ३५.४९१ ।।

गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति ।
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनं ।। ३५.४९२ ।।

गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेथ् ।
ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कण्ठगतैरपि ।। ३५.४९३ ।।

अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।। ३५.४९४ ।।

विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकं ।
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलं ।। ३५.४९५ ।।

विक्रमेण तु भोक्तॄणां दशपूर्वान्दशावरान् ।
लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान् ।। ३५.४९६ ।।

ब्रह्मस्वं त्रिषु लोकेषु कःपुमान्जरयिष्यति ।
देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः ।। ३५.४९७ ।।

स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति ।
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।। ३५.४९८ ।।

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।
सहस्रसम्मिता धेनुरनड्वान्दशधेनवः ।। ३५.४९९ ।।

दशावड्वत्समं यानं दशयानसमो हयः ।
दशवाजिसमा कन्या भूमिदानेन सा समा ।। ३५.५०० ।।

षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः ।
आच्छेत्ताचानुमन्ता च तान्येन नरके वसेथ् ।। ३५.५०१ ।।

पतन्त्यश्रूणि रुदतां दीनानामवसीदतां ।
ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलं ।। ३५.५०२ ।।

साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचिथ् ।
ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमां ।। ३५.५०३ ।।

अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः ।
स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते ।। ३५.५०४ ।।

तस्मात्तदर्पितां वृत्तिं नैव शङ्केत बुद्धिमान् ।
तदर्चकार्पितां भूमिं यो हरेत यतेत वा ।। ३५.५०५ ।।

किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः ।
न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः ।। ३५.५०६ ।।

म्रियेत सद्य एवासौ जायतेऽथ पुनः पुनः ।
न तस्य शरणं क्वापि लभ्यते पापकर्मणः ।। ३५.५०७ ।।

देवस्येऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचिथ् ।
प्रासादमण्डपादीनां भोक्तारः कैटभद्विषः ।। ३५.५०८ ।।

तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः ।
वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवं ।। ३५.५०९ ।।

भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः ।
गले निगलितः पाशैः कृष्यते निरयेषु सः ।। ३५.५१० ।।

वाहनानि च यानानि वैष्णवानि हरन्तिये ।
मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे ।। ३५.५११ ।।

प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु ।
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ।। ३५.५१२ ।।

व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्? ।
अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः ।। ३५.५१३ ।।

उपानत्पादुकापीठवाहनानि हरन्तिये ।
उषित्वा नरकेष्वेते जायन्ते फणिनां कुले ।। ३५.५१४ ।।

गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहं ।
आहृत्य येऽनुभुञ्जन्ते नरकेषु दुरत्ययाः ।। ३५.५१५ ।।

उषित्वा प्रेत्य भूयोऽपि जायन्ते श्वादियोनिषु ।
सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ।। ३५.५१६ ।।

नसन्ति मूढमतयो याम्यदुःखेषु यातनाः ।
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ।। ३५.५१७ ।।

विक्रीडादीनियान्येषु यतन्ते पापचेतसः ।
एते यान्ति क्रमात्सर्वास्नरकान्भृशदारुणान् ।। ३५.५१८ ।।

अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः ।
कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः ।। ३५.५१९ ।।

अथनित्यार्चनायां वै देवेशस्य विशेषतः ।
उपचारादिहानो तु पापस्येदं फलं भवेथ् ।। ३५.५२० ।।

आसनस्य विहीने तु धर्मनाशो भविष्यति ।
स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके ।। ३५.५२१ ।।

विहीने पादुकायास्तु पङ्गुत्वं संभवत्युत ।
पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति ।। ३५.५२२ ।।

दन्त धावनहीने च दुष्टदन्तोऽभिजायते ।
तांबूलहीने विद्वेषं कुष्टं तैलविहीनके ।। ३५.५२३ ।।

केशसंशोधने हीने गलरोगो भविष्यति ।
स्नानद्रव्यविहीने च स्नानहीने तथैव च ।। ३५.५२४ ।।

राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः ।
प्लोतहीने वातरोगो वस्त्रहीने जलोदरः ।। ३५.५२५ ।।

संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके ।
अग्निदाहभयं चैव मन्दाग्नित्वं च जायते ।। ३५.५२६ ।।

गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयं ।
पुष्पहीने त्वलाभस्स्यात्तथा च कफसंभवः ।। ३५.५२७ ।।

(शूद्राहृतैः क्रयक्रीतैरर्चनं निष्फलं सुमैः ।
अरण्याद्वागृहाद्वापि विक्रीतान्यापणान्तराथ् ।। ३५.५२८ ।।

अयाचितानि पुष्पाणि लब्धान्यर्हाणि नार्ऽचने ।
तथा पर्युषितैर्यापि जन्तुभिर्दूषितैरपि ।। ३५.५२९ ।।

म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गन्धैः पादलङ्घितैः ।
प्रतिलोमान्त्यजानीतैरर्चनं त्वफलं भवेथ् ।। ३५.५३० ।।

उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते ।
अधमं तु क्रयक्रीतं पारक्यमधमाधमं ।। ३५.५३१ ।।

हस्तानीतं पटानीतं स्वयं पतितमेव वा ।
अन्यारामोद्भवं पुष्पं नार्ऽपयेदिति के चन ।। ३५.५३२ ।।

आरहरे च शुक्रे च मन्वादिषु युगादिषु ।
नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्तथा ।। ३५.५३३ ।।

संक्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि संध्ययोः ।
तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ।। ३५.५३४ ।।

भृग्वर्कांगारके वारे द्वादश्यां पञ्चपर्वसु ।
नाहरेत्तुलसीपत्रं नन्दायां श्रवणेऽपि च ।। ३५.५३५ ।।

केशकीटापविद्धानि शीर्णपर्युषितानि च ।
भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाहरेथ् ।। ३५.५३६ ।।

वर्जयेदूर्णनाभेन वासितं यदि शोभनं ।
स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु ।। ३५.५३७ ।।

निषिद्धैर्दुःखदैर्देवं नार्ऽचयेत कदा चन ।
न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः ।। ३५.५३८ ।।

न विशीर्णतरैश्शिष्टैर्नाशुभैर्नाविकासिभिः ।
पूतिगन्धोग्रन्धानि ह्युग्रगन्धानि वर्जयेथ् ।। ३५.५३९ ।।

स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः ।
देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः ।। ३५.५४० ।।

पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवथ् ।
स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेथ् ।। ३५.५४१ ।।

तेभ्यःक्रुद्धोऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति ।
अन्यदेवार्ऽथसन्दिष्टैः पूजयेद्यो हरिं प्रभुं ।। ३५.५४२ ।।

स तु तेनैव पापेन मण्डूको जायते नरः ।
ततस्स नरकं याति यावदाभूतसंप्लवं ।। ३५.५४३ ।।

कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः ।
स पूति गन्धसंयुक्तः कुष्ठी चैव प्रजायते ।। ३५.५४४ ।।

जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः ।
असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनं ।। ३५.५४५ ।।

अवालुकायुतं तोयं सर्वं पर्युषितं भवेथ् ।
एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः ।। ३५.५४६ ।।

आदर्शनविहीने तु कामिला च भविष्यति ।
बाधिर्यं धूपहीने च दीपहीनेऽन्धतामियाथ् ।। ३५.५४७ ।।

अर्घ्यहीने तु देवस्य कुलं भवति निन्दितं ।
मधुपर्कविहीने च मधुमेहो भविष्यति ।। ३५.५४८ ।।

मात्रादानविहीने तु सर्वनाशो भविष्यति ।
रक्षानीराजने हीने राङ्गसैर्(?) आवृतिर्भवेथ् ।। ३५.५४९ ।।

वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवं ।
हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवं ।। ३५.५५० ।।

उपदंशविहीने च दारिद्षं ग्रामवासिनां ।
नालिकेरफले हीने हीने क्षीरादिके तथा ।। ३५.५५१ ।।

विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवं ।
हीने भक्ष्यादिके चैव विविधे हविषी प्रभो ।। ३५.५५२ ।।

तद्ग्रामयजमानस्य विशेषेणाशुभं भवेथ् ।
विनियोगक्रमस्यात्रहीने पूजैव नश्यति ।। ३५.५५३ ।।

काले यवनिकाहीने कर्ता चैव विनश्यति ।
द्वारपूजाविहीने तु तस्क रादिप्रवेशनं ।। ३५.५५४ ।।

द्वारपालकपूजायो हीने चौराद्युपद्रवः ।
शान्तस्य पूजने हीने तथा चैवानपायिनां ।। ३५.५५५ ।।

राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः ।
यजमानस्य तत्रापि परराजाद्युपद्रवः ।। ३५.५५६ ।।

पापरोगादिपीडा च भविष्यति तथा पुनः, ।
सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु ।। ३५.५५७ ।।

पुष्पन्यासेर्ऽचनेहीने न्यूने वा मन्त्रवर्जिते, ।
तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति ।। ३५.५५८ ।।

भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, ।
भूतादिनागपर्यन्तं बल्यर्चनविहीनके ।। ३५.५५९ ।।

शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः ।
श्रीदेव्या अर्चने हीने संपदां तु भवेत्क्षयः ।। ३५.५६० ।।

हरिण्यर्चनहीने च स्थाननाशो भविष्यति, ।
अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते ।। ३५.५६१ ।।

निवेदनाज्यहीने वा संभवेद्वर्णसंकरः, ।
वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेथ् ।। ३५.५६२ ।।

पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः, ।
मुखवासविहीने तु जनविद्वेषणं भवेथ् ।। ३५.५६३ ।।

बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते ।
बलक्षयो जनानां स्यात्पितॄणां पतनं भवेथ् ।। ३५.५६४ ।।

पुष्पांजलिविहीने तु राजकोपा भविष्यति, ।
प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, ।। ३५.५६५ ।।

ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेथ् ।
प्राणायामविहीने तु परचक्रभयं भवेथ् ।। ३५.५६६ ।।

शौचाचारविहीने तु पशुपुत्रादिनाशनं ।
बिंबन्यासविहीने तु कलत्रं तस्य नश्यति ।। ३५.५६७ ।।

प्रदक्षिणविहीने तु पातकी जायते नरः ।
नित्यमर्चावसानेतु पूजकाचार्ययोर्मुदे ।। ३५.५६८ ।।

दक्षिणादानहीने तु सा पूजा निष्फला भवेथ् ।
राष्ट्रस्य यजमानस्य राज्ञश्चापि भवेद्भयं ।। ३५.५६९ ।।

हीने तु पाचकादीनां दक्षिणादानकर्मणि ।
पशुवाहननाशश्च तद्ग्रामे संभवेन्नृणां ।। ३५.५७० ।।

प्रातः पूजाविहीने तु तद्ग्रामेऽवग्रहो भवेथ् ।
ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनं ।। ३५.५७१ ।।

मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति ।
सायङ्कालार्ऽचने हीने तद्ग्रामयजमानयोः ।। ३५.५७२ ।।

अर्थहानिः प्रजाहानिर्भविष्यति न संशयः ।
उपसंध्यार्चने हीने कर्मलोपो भविष्यति ।। ३५.५७३ ।।

विष्णुपञ्चदिने चैव हीने स्नानेर्ऽचने तथा ।
उत्सवे च विशेषण यजमानभयं भवेथ् ।। ३५.५७४ ।।

मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति ।
विषुदे चायने चैव हीने तत्रोक्तकर्मणि ।। ३५.५७५ ।।

ग्रामस्य यजमानस्य यशोहानिर्भविष्यति ।
स्नपनोक्ते तथान्यस्मिन्दिवसे स्नानवर्जिते ।। ३५.५७६ ।।

अकाले च कृते वापि भवेत्क्षामभयं तथा ।
नित्योत्सवविहीने तु निरानन्दो भवेज्जनः ।। ३५.५७७ ।।

अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेथ् ।
निमित्ते यदि संप्राप्ते स्नापयेच्चेन्न माधवं ।। ३५.५७८ ।।

तस्य पापफलं नक्तुं न केनापि हि शक्यते ।
राज्ञो राष्ट्रस्य च भवेत्सर्वत्रात्याहितं ध्रुवं ।। ३५.५७९ ।।

गृहनाशः प्रपाहीने हीनायां चाप्यलङ्कृतौ ।
मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः ।। ३५.५८० ।।

पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते ।
धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा ।। ३५.५८१ ।।

अङ्कुराणामभावे तु प्रजाहानिश्च संभवेथ् ।
मङ्गलेष्वथ हीनेषु तस्य भूयादमङ्गलं ।। ३५.५८२ ।।

पञ्चगव्यविहीने तु गोहत्या समवाप्यते ।
घृतहीने बुद्धिनाशोऽनायुष्यं क्षीरहीनके ।। ३५.५८३ ।।

मधुहीने महान्व्याधिर्दधिहीने तु संज्वरः ।
क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि ।। ३५.५८४ ।।

गन्धोदकविहीने तु दुर्गन्धो जायते भृशं ।
अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते ।। ३५.५८५ ।।

फलोदकविहीने तु विफलं तस्य जीवितं ।
कुशोदकविहीने च नैधेत ब्रह्मवर्चसं ।। ३५.५८६ ।।

रत्नोदकविहीने च धनध्यान्य विनाशनं ।
अभावे चौषधीनान्तु व्याधिपीडा भविष्यति ।। ३५.५८७ ।।

उपस्नानविहीने तु मलिनं जायते कुलं ।
उष्णांभसामभोवे तु भवेदुष्णशरीरता ।। ३५.५८८ ।।

पुण्यपुष्पविहिने तु पापीयान्जायते नरः ।
जातीफलादिचूर्णस्य चाभावे तु विपद्भवेथ् ।। ३५.५८९ ।।

कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः ।
वनौषधीनां चालाभे रोगी भवति निश्चयः ।। ३५.५९० ।।

हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः ।
मूलगन्धविहीने तु वार्धक्यं भवति ध्रवं ।। ३५.५९१ ।।

धातूनामप्यभावेतु सिर्धातुर्जायते नरः ।
प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके ।। ३५.५९२ ।।

कर्मनाशो भवेदेव न तुष्टति रमापतिः ।
आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनां ।। ३५.५९३ ।।

दक्षिणादानहीने च सर्वनाशो भविष्यति ।
हीने हविषि देवस्य निष्फलं स्नपनं भवेथ् ।। ३५.५९४ ।।

स्नपनान्तोत्सवे हीने न देवःपरितुष्यति ।
शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः ।। ३५.५९५ ।।

तत्क्रिया लोपिता वापि स भवेद्देवहा ध्रुवं ।
तद्ग्रामवासिनस्सर्वे राजा चान्योधनी पुनः ।। ३५.५९६ ।।

शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेथ् ।
अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति ।। ३५.५९७ ।।

धर्मसेतुमिमं विन्द्यात्सर्वसाधारणं नरः ।
पालनीयस्सदा सोऽयं जगतां यत्र संस्थितिः ।। ३५.५९८ ।।

प्रायश्चित्तनिमित्तेतु संप्राप्ते यस्तु मूढधीः ।
अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरं ।। ३५.५९९ ।।

लोभान्मोहदथाज्ञानादनादृत्य च शासनं ।
भगवच्छासनद्रोही स भवेत्पातकी जनः ।। ३५.६०० ।।

प्रमादिनां मनुष्याणां स्खलनं नियतं यतः ।
निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचिथ् ।। ३५.६०१ ।।

ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः ।
तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचिथ् ।। ३५.६०२ ।।

निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितं ।
न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेथ् ।। ३५.६०३ ।।

तस्मान्निमित्ते संप्राप्ते निष्कृतिं सद्य आचरेथ् ।
इति संक्षेपतः प्रोक्तं क्रियायोगाश्रितं फलं ।। ३५.६०४ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे पञ्चत्रिंशोऽध्यायः