सामग्री पर जाएँ

भृगुसंहिता/एकोनत्रिंशोऽध्यायः

विकिस्रोतः तः
← अष्टाविंशोऽध्यायः भृगुसंहिता
एकोनत्रिंशोऽध्यायः
[[लेखकः :|]]
त्रिंशोऽध्यायः →

अथैकोनत्रिंशोऽध्यायः.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिं ।
ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति ।। २९.१ ।।

चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितं ।
षण्मानसहितं कृत्वासनालं पादपद्मकं ।। २९.२ ।।

कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना ।
कृत्वाक्ष्युन्मोचनं चाधिवासान्संस्थाप्य चाचलं ।। २९.३ ।।

स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु ।
शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच ।। २९.४ ।।

पुष्पन्यासं च कृत्वैव सर्वान्परिषदः क्रमाथ् ।
शैलानेव प्रकुर्वीत यथा शातातपोऽब्रवीथ् ।। २९.५ ।।

शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च ।
पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमाथ् ।। २९.६ ।।

देव्यावन्यांश्च देवांश्च तदालयगतानपि ।
तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतं ।। २९.७ ।।

कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि ।
करपादतले चैव नखेषु मुकुटेऽपि च ।। २९.८ ।।

भूषणेषु विधानेन तत्तद्वर्णेन लेपयेथ् ।
मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः ।। २९.९ ।।

तदालयगताः कुर्यादन्यथा विपरीतकृथ् ।
अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेथ् ।। २९.१० ।।

अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि ।
प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह ।। २९.११ ।।

बालागारेऽथ तच्छक्तिं नीत्वा बिंबं समाहरेथ् ।
भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च ।। २९.१२ ।।

हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा ।
तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेथ् ।। २९.१३ ।।

हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ ।
त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेथ् ।। २९.१४ ।।

बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि ।
विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेथ् ।। २९.१५ ।।

ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयं ।
अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः ।। २९.१६ ।।

प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः ।
एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः ।। २९.१७ ।।

अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा ।
सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेथ् ।। २९.१८ ।।

मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेथ् ।
तं देवीसहितं कृत्वा विमानं च विशेषतः ।। २९.१९ ।।

शैलं तु कर्तुमिच्छेच्चेद्देवो दैविकमाश्रयेथ् ।
यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः ।। २९.२० ।।

लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेथ् ।
कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेथ् ।। २९.२१ ।।

लघुबेरं प्रतिष्ठाप्य विमाने मृण्मयेऽर्चिते ।
कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजं ।। २९.२२ ।।

विमानं परिकल्प्यैव विधिना हस्तमानतः ।
देवीभ्यां सहितं देवं दैविकांशे विधाय च ।। २९.२३ ।।

पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि ।
तस्योत्तरे चौत्सवादीन्प्रतिष्ठाप्य समर्चयेथ् ।। २९.२४ ।।

पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये ।
शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया ।। २९.२५ ।।

रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये ।
काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः ।। २९.२६ ।।

संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः ।
विमानं युग्महस्तेन तद्बेरस्य वशादपि ।। २९.२७ ।।

यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेथ् ।
तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकं ।। २९.२८ ।।

अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितं ।
कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा ।। २९.२९ ।।

गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च ।
समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः ।। २९.३० ।।

शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा ।
कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशं ।। २९.३१ ।।

अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः ।
मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेथ् ।। २९.३२ ।।

वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः ।
अल्पदोषेऽपि वाशक्तिं ध्रुवबेरस्थितां तदा ।। २९.३३ ।।

कुंभेऽंभसि समावाह्य तत्कुंभं कौतुकादि च ।
समादाय विधानेन मालिकायां तु मण्डपे ।। २९.३४ ।।

सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेथ् ।
काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेथ् ।। २९.३५ ।।

अतीते द्विदिने कुंभमन्यदादायचात्वरः ।
कुंभाच्छक्तिं समादाय कुंभेऽन्यस्मिन्विधालतः ।। २९.३६ ।।

अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेथ् ।
पश्चाच्च वर्णलेपादीन्कृत्वा संशोद्य चैवहि ।। २९.३७ ।।

वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेथ् ।
कुंभं बिंबं समादाय प्रविश्याभ्यन्तरं ततः ।। २९.३८ ।।

कौतुकादीन्सुसंस्थाप्य न्यासादींश्च विधाय च ।
कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् ।। २९.३९ ।।

ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेथ् ।
दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते ।। २९.४० ।।

देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः ।
यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमाथ् ।। २९.४१ ।।

नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतं ।
यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च ।। २९.४२ ।।

कौतुकादीन्सुसंस्थाप्य विधिना सम्यगर्चयेथ् ।
पश्चात्तले तु निर्दुष्टे कौतुकादीन्प्रगृह्य च ।। २९.४३ ।।

स्थापयित्वा पुनश्चैव विधिनापि समर्चयेथ् ।
अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमाथ् ।। २९.४४ ।।

ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि ।
कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयं ।। २९.४५ ।।

तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः ।
नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः ।। २९.४६ ।।

ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगां ।
अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे ।। २९.४७ ।।

प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः ।
आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः ।। २९.४८ ।।

"दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः ।
वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः ।। २९.४९ ।।

वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले ।
स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः ।। २९.५० ।।

दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले ।
देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवं ।। २९.५१ ।।

हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणां ।
अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते ।। २९.५२ ।।

महाङ्गानि शिरः कुक्षि वक्षः कण्ठान्प्रचक्षते ।
पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि ।। २९.५३ ।।

अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः ।
शिरश्चक्रं च पीठं च प्रभामण्डलमेव च ।। २९.५४ ।।

उपाङ्गान्यूचिरे भूषणायुधांबरपूर्वकान् ।
तत्रोपाङ्गस्य हीने तु कुंभं संसाध्य पूर्ववथ् ।। २९.५५ ।।

आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववथ् ।
कृत्वा जलाधिवासादीन्वास्तुहोमं विधाय च ।। २९.५६ ।।

संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः ।
सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादराथ् ।। २९.५७ ।।

समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेथ् ।
प्रत्यङ्गहीने तच्छक्तिं महाबेरेऽवरोप्य च ।। २९.५८ ।।

उध्रुत्य बिंबं संप्रोक्ष्य पञ्चगव्यैः कुशोदकैः ।
तुल्यलोहेन संधाय चाधिवास्य कुशादिषु ।। २९.५९ ।।

पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेथ् ।
अङ्गहीनेतु संधानयोग्यं संधाय पूर्ववथ् ।। २९.६० ।।

अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके ।
भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमाथ् ।। २९.६१ ।।

अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनं ।
उद्धृत्य बिंबं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः ।। २९.६२ ।।

त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा ।
राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः ।। २९.६३ ।।

कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमं ।
पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमाथ् ।। २९.६४ ।।

पटे कुड्येऽथ वा लिख्य बेरे विधिवदर्चिते ।
जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले ।। २९.६५ ।।

नवीकृत्य पुनस्तस्मिन्प्रतिष्ठाप्य समर्चयेथ् ।
आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः ।। २९.६६ ।।

प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेथ् ।
नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि ।। २९.६७ ।।

तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च ।
तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः ।। २९.६८ ।।

आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचिथ् ।
वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयं ।। २९.६९ ।।

भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति ।
तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरं ।। २९.७० ।।

अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे ।
अब्जानले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुं ।। २९.७१ ।।

याचयित्वा "क्षमऽऽस्वेति पूजयित्वा विशेषतः ।
पनस्तेनैव तत्कर्म कारयेदिति शासनं ।। २९.७२ ।।

आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे ।
तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा ।। २९.७३ ।।

एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणां ।
आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः ।। २९.७४ ।।

कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः ।
पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः ।। २९.७५ ।।

देवीभ्यां सह पश्चात्तु कारयेत्स्थापनं यदि ।
आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृथ् ।। २९.७६ ।।

ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः ।
विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, ।। २९.७७ ।।

कौतुकं चोत्सवस्थाने स्थापयेदिति के चन ।
स्थानके चासनं कुर्याच्छयनं वापि चेच्छया ।। २९.७८ ।।

असनेशयनं कुर्यात्थ्सानकं न तु कारयेथ् ।
शयने नासनं चैव स्थानकं कारयेद्विधिः ।। २९.७९ ।।

कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा ।
असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा ।। २९.८० ।।

स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेथ् ।
अवतारगणस्यैव मूर्तीनां पञ्चकस्य च ।। २९.८१ ।।

अन्योन्यसंकरेणैव स्थापने कौतुकस्य च ।
महत्तरो भवेद्दो, स्तद्दोषशमवाय वै ।। २९.८२ ।।

हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेथ् ।
अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनं ।। २९.८३ ।।

नराणां पापबाहुल्यादपराधविशेषतः ।
देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरं ।। २९.८४ ।।

कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृथ् ।
कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः ।। २९.८५ ।।

संक्षोभो जायते सद्यो विनाशो भवति ध्रुवं ।
द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः ।। २९.८६ ।।

अतीते द्वादशाहेतु महाशान्तिपुरस्सरं ।
संपूज्य वैष्णवान्शक्त्यादत्वा वै भूरिदक्षिणां ।। २९.८७ ।।

आरभेदुत्तरं कर्म मासेऽतीते विशेषतः ।
सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा ।। २९.८८ ।।

भोजयित्वा च देवेशमनुमान्य तु कारयेथ् ।
षण्मासे समतीते तु रमते तत्र नोहरिः ।। २९.८९ ।।

तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदितां ।
भ्ॐआन्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतं ।। २९.९० ।।

ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले ।
सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनं ।। २९.९१ ।।

एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते ।
आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः ।। २९.९२ ।।

वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः ।
रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले ।। २९.९३ ।।

अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनं ।
नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनं ।। २९.९४ ।।

गन्धर्वनगरस्यापि दर्शनं पतनं तु वा ।
प्रतिसूर्याब्जनक्षत्रदर्शनं संप्रचक्षते ।। २९.९५ ।।

भ्ॐआन्यनेकथोक्तानि चरस्थिरविभेदतः ।
देशकालस्वभावादिविरुद्धं प्रसवादिकं ।। २९.९६ ।।

पृषदंशकसर्पाश्वयोनिजानां विशेषतः ।
गोनागमहिषाद्येषु तिर्यक्षु जननं तथा ।। २९.९७ ।।

कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु ।
विवर्णाकारवासादिराश्रयादिस्तथालये ।। २९.९८ ।।

रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु ।
दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमं ।। २९.९९ ।।

नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमं ।
सरीसृपादिषु भवान्यथमानि वदन्तिहि ।। २९.१०० ।।

रोदनं हसनं जल्पो ज्वलनं परिवर्तनं ।
स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः ।। २९.१०१ ।।

अकालस्फोटनं धूमश्चाङ्गकंपनमेव च ।
स्वापनास्वादनेचैव तृणवल्मीक संभवः ।। २९.१०२ ।।

प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा ।
पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा ।। २९.१०३ ।।

सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने ।
स्थूणाविरोहणे चैव चलने परिवर्तने ।। २९.१०४ ।।

तथापसर्पणे चैव कवाटशयनासने ।
भित्त्यायुधांबरे तद्वदग्निहोत्राद्युपस्करे ।। २९.१०५ ।।

विमाने च विकारश्च मक्षिकावृक्षपातने ।
प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च ।। २९.१०६ ।।

शाखादौ विपरीतस्य दर्शनं च विशेषतः ।
रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु ।। २९.१०७ ।।

तेषु गर्भकृहे चैव पीठे चैव भवानि तु ।
राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः ।। २९.१०८ ।।

कर्त्राराधकयोर्नाश इति शातातपोऽब्रवीथ् ।
प्रासादजानि राज्ञां स्युः प्रासादेऽपि विशेषतः ।। २९.१०९ ।।

अधिष्ठाने च पादे च प्रस्तरे च गलेऽपि च ।
शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु ।। २९.११० ।।

अभिषेकस्य योग्यस्य युवराजस्य चैव हि ।
अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु ।। २९.१११ ।।

प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा ।
पुरोहितस्य तन्मण्डलाधिपानां महद्भयं ।। २९.११२ ।।

शूद्रजातिविपद्धेत्द्वितीयावरणादिषु ।
सस्यनाशो गजाश्वादिपशुनाशस्च जायते ।। २९.११३ ।।

पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनां ।
रुद्रालये तु सर्वेषां नृपस्य तु गुहालये ।। २९.११४ ।।

सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा ।
श्षालये राजपत्नीनां दुर्गास्थानेऽन्ययोषितां ।। २९.११५ ।।

मातृस्थानेऽन्त्यजातीनामोषधीनां कुबेरके ।
नृपवाहनशस्त्रोपजीविनां भास्करालये ।। २९.११६ ।।

अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेथ् ।
आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च ।। २९.११७ ।।

महानसे नृपावासे क्रीडास्थाने विशेषतः ।
आचार्ययजमानादिपदार्थिनिलयेषु च ।। २९.११८ ।।

चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः ।
वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः ।। २९.११९ ।।

भ्ॐएषु देवबेरार्चापीठगर्भगृहार्ते ।
जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः ।। २९.१२० ।।

उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे ।
मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः ।। २९.१२१ ।।

तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः ।
अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः ।। २९.१२२ ।।

अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतं ।
दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते ।। २९.१२३ ।।

भ्ॐएषु तु चरेष्वत्र निमित्तं च निमित्तिनं ।
देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेथ् ।। २९.१२४ ।।

स्थिरेषु प्रतिमानां तु रोदने हसने तथा ।
ज्वलने च तथा देवं संस्थाप्य तरुणालये ।। २९.१२५ ।।

तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः ।
शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमाथ् ।। २९.१२६ ।।

परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववथ् ।
स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेथ् ।। २९.१२७ ।।

कृमिकीटपतङ्गानां कृणादीनामथोद्भवे ।
आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः ।। २९.१२८ ।।

शान्त्यादीनाचरेदेवमकालस्फोटनादिके ।
बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च ।। २९.१२९ ।।

वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये ।
यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः ।। २९.१३० ।।

संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेथ् ।
प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते ।। २९.१३१ ।।

पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना ।
आलिप्य शर्करां कुर्याच्छान्तिं दिव्यप्रचोदितां ।। २९.१३२ ।।

पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः ।
मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितं ।। २९.१३३ ।।

शोधयित्वा ततश्शान्तिमारभेत विचक्षणः ।
अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेथ् ।। २९.१३४ ।।

स्थूणाविरोहणादौ च पुनस्संधाय चाचरेथ् ।
हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका ।। २९.१३५ ।।

राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः ।
वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचितां ।। २९.१३६ ।।

अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेथ् ।
अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च ।। २९.१३७ ।।

अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमं ।
क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा ।। २९.१३८ ।।

शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते ।
आलयाभिमुखे तद्वदैशान्यां चोत्तरेऽथ वा ।। २९.१३९ ।।

पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपां ।
कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरं ।। २९.१४० ।।

चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुतां ।
तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः ।। २९.१४१ ।।

कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलं ।
खनित्वैव चत्प्राच्यां द्विहस्तायत विस्तृतं ।। २९.१४२ ।।

हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमं ।
प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकं ।। २९.१४३ ।।

अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेथ् ।
अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च ।। २९.१४४ ।।

कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेथ् ।
पूर्मकंभैरङ्कुरैश्च कदलीभिर्ध्वजैरपि ।। २९.१४५ ।।

स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च ।
अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरं ।। २९.१४६ ।।

स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे ।
पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे ।। २९.१४७ ।।

सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः ।
द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवथ् ।। २९.१४८ ।।

तन्तुना परिष्ट्यैव यवान्तरमनन्तं ।
वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च ।। २९.१४९ ।।

सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च ।
वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि ।। २९.१५० ।।

रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु ।
सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि ।। २९.१५१ ।।

निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः ।
कर्पूरचन्दनोशीरलवङ्गैलादिकानपि ।। २९.१५२ ।।

गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् ।
तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै ।। २९.१५३ ।।

आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः ।
नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः ।। २९.१५४ ।।

अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितं ।
मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा ।। २९.१५५ ।।

मन्दं गुरुं पावकादि चन्द्रराहुध्वजान्बुधं ।
प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत्ततः ।। २९.१५६ ।।

अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतं ।
अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै ।। २९.१५७ ।।

हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमाथ् ।
हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले ।। २९.१५८ ।।

घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकं ।
हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः ।। २९.१५९ ।।

दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः ।
वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः ।। २९.१६० ।।

घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतं ।
हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकं ।। २९.१६१ ।।

जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेथ् ।
यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमाथ् ।। २९.१६२ ।।

कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा ।
स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः ।। २९.१६३ ।।

ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेथ् ।
यदि देवालये दोषः कुंभपार्श्वेथ स्थण्डिले ।। २९.१६४ ।।

देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः ।
देवस्याभिमुखे हुत्वा होममन्ते यथाविधि ।। २९.१६५ ।।

नवाहं वाथ स्ताहं उत्सवं कारयेद्विधिः ।
दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपं ।। २९.१६६ ।।

भ्ॐएषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपं ।
तत्पत्नीं चाभिषिञ्चेच्च गुरुं संपूज्य पार्थिवः ।। २९.१६७ ।।

सुवर्णपशुभूम्यादीन्दद्यादृत्विग्भ्य एव च ।
दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा ।। २९.१६८ ।।

यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके ।
पूर्ववद्ग्रहयज्ञं च होमं श्रामणकेऽनले ।। २९.१६९ ।।

कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा ।
स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै ।। २९.१७० ।।

दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांकुरार्ऽपणं ।
शुभेऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनं ।। २९.१७१ ।।

प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः ।
एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः ।। २९.१७२ ।।

राज्ञां परार्थवृत्तित्वात्सोऽत्र तु प्रकृतीकृतः ।
सर्वग्रासोपरागादिदिव्याद्भुतशमायवै ।। २९.१७३ ।।

यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि ।
दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मितां ।। २९.१७४ ।।

अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववथ् ।
सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः ।। २९.१७५ ।।

ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतं ।
हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च ।। २९.१७६ ।।

अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च ।
कुंभमूले तु सुषिरं सूचीमात्रं विधाय च ।। २९.१७७ ।।

तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिं ।
समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा ।। २९.१७८ ।।

अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणं ।
अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववथ् ।। २९.१७९ ।।

अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणं ।
समिद्भिर्जुहुयाद्विद्वान्वैतसीभिर्यधाविथि ।। २९.१८० ।।

समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेथ् ।
अष्टाधिकसहस्रं तु "इन्द्रं प्रणयन्तऽऽ मित्यपि ।। २९.१८१ ।।

श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणं ।
आवाह्य तु समभ्यर्च्य "शचीसहाऽऽयेति होमयेथ् ।। २९.१८२ ।।

देवं विशेषतोऽभ्यर्च्य कारयेत्स्नपनादिकं ।
एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवं ।। २९.१८३ ।।

त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि ।
दिने दिने पूरयित्वा कुंभं तेनैव सेचयेथ् ।। २९.१८४ ।।

सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेथ् ।
कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेथ् ।। २९.१८५ ।।

अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः ।
सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः ।। २९.१८६ ।।

स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववथ् ।
कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः ।। २९.१८७ ।।

पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः ।
आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः ।। २९.१८८ ।।

कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तरां ।
श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु ।। २९.१८९ ।।

अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तन्तुना ।
अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः ।। २९.१९० ।।

क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै ।
पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमाथ् ।। २९.१९१ ।।

वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिं ।
स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे ।। २९.१९२ ।।

अर्चनोक्तविधानेन सर्वं पूर्वनदायरेथ् ।
तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः ।। २९.१९३ ।।

विष्णुसूक्तेन "चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः ।
तया संस्नापयेद्देनमुक्तयो क्षीरधारया ।। २९.१९४ ।।

तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः ।
"अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा ।। २९.१९५ ।।

जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकं ।
अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः ।। २९.१९६ ।।

हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः ।
गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः ।। २९.१९७ ।।

वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः ।
पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणां ।। २९.१९८ ।।

अनेन सर्वान्कामांश्च लभेताविशयं नरः ।
ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटं ।। २९.१९९ ।।

तस्मादानीय तत्रैव स्नापयेदुक्तगौरवाथ् ।
सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेथ् ।। २९.२०० ।।

एवं घृताभिषेकं च कारयेत्सदृशं फलं ।
इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते ।। २९.२०१ ।।

अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः ।
पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि ।। २९.२०२ ।।

विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितं ।
कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः ।। २९.२०३ ।।

अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा ।
संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च ।। २९.२०४ ।।

देवं विशेषतोऽभ्यर्च्य हविर्दद्यादयं विधिः ।
महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनं ।। २९.२०५ ।।

अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमाथ् ।
अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु ।। २९.२०६ ।।

आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च ।
हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना ।। २९.२०७ ।।

समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेथ् ।
औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः ।। २९.२०८ ।।

ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणां ।
अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः ।। २९.२०९ ।।

बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतं ।
पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि ।। २९.२१० ।।

सर्वत्रतु विकल्पेन घटसंस्कारमाचरेथ् ।
अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा ।। २९.२११ ।।

ग्रहकोपे महाव्याधौ परचक्रभये तथा ।
अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये ।। २९.२१२ ।।

अभिचारभये चैव तापत्रयनिपीडने ।
विरुद्धेऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेथ् ।। २९.२१३ ।।

सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् ।
अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमाथ् ।। २९.२१४ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशोऽध्यः.