सामग्री पर जाएँ

भृगुसंहिता/अष्टाविंशोऽध्यायः

विकिस्रोतः तः
← सप्तविंशोऽध्यायः भृगुसंहिता
अष्टाविंशोऽध्यायः
[[लेखकः :|]]
एकोनत्रिंशोऽध्यायः →

अथाष्टाविंशोऽध्यायः.
प्रायश्चित्तम्

अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते ।
सर्पमूषकमण्डूकमार्जारनकुलादिषु ।। २८.१ ।।

गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने ।
व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ।। २८.२ ।।

वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेथ् ।
ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ।। २८.३ ।।

क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च ।
"आपो हिरण्यवर्णाऽभिः "पापमानीऽभिरेव च ।। २८.४ ।।

संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृथ् ।
स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः ।। २८.५ ।।

उदक्यया सूतिकया रजकेनान्त्यजातिभिः ।
प्रथमावरणे विष्टे चार्चास्थाने च पर्षदां ।। २८.६ ।।

प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना ।
हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ।। २८.७ ।।

कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः ।
दौवारिकमनुं चैव द्वारपालं च वैष्णवं ।। २८.८ ।।

बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः ।
प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ।। २८.९ ।।

अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिं ।
संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ।। २८.१० ।।

प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः ।
एतेषु संप्रविष्टेषु चालयाभ्यन्तरे तथा ।। २८.११ ।।

तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने ।
शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ।। २८.१२ ।।

वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेथ् ।
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेथ् ।। २८.१३ ।।

संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ।। २८.१४ ।।

ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान्भोजयेत्ततः ।
स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः ।। २८.१५ ।।

कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेथ् ।
पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरं ।। २८.१६ ।।

संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा ।
महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेथ् ।। २८.१७ ।।

शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः ।
पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादराथ् ।। २८.१८ ।।

पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेथ् ।
महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ।। २८.१९ ।।

आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते ।
सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ।। २८.२० ।।

संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेथ् ।
पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मन्दिरे ।। २८.२१ ।।

स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च ।
हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुं ।। २८.२२ ।।

प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेथ् ।
पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ।। २८.२३ ।।

प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च ।
हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेथ् ।। २८.२४ ।।

उक्तेष्वेतेषु सततं प्रथमावरणे तथा ।
द्वितीये वा संचरत्सु मासेऽतीते विशेषतः ।। २८.२५ ।।

मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः ।
कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेथ् ।। २८.२६ ।।

तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकं ।
कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ।। २८.२७ ।।

वासयेद्गा विशेषेण मासेऽतीते विशेषतः ।
सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ।। २८.२८ ।।

महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः ।
बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेथ् ।। २८.२९ ।।

जलाधिवासनाद्यैश्च तथा वित्तानुसारतः ।
अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविं ।। २८.३० ।।

ब्राह्मणान्भोजयित्वैव संपूज्यापि च वैष्णवान् ।
बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ।। २८.३१ ।।

आलयं चैव सर्वत्र नवीकृत्य विशेषतः ।
महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेथ् ।। २८.३२ ।।

एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः ।
स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ।। २८.३३ ।।

ततस्संसर्गिणां चैव न दोषः परिकथ्यते ।
अश्ॐअवद्द्विजस्पृष्टहविषां च निवेदने ।। २८.३४ ।।

एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः ।
पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेथ् ।। २८.३५ ।।

स्पृष्टेषु चाथ बिंबेषु कौतुकादिषु वा ध्रुवे ।
पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ।। २८.३६ ।।

प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकं ।
गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेथ् ।। २८.३७ ।।

खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे ।
स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववथ् ।। २८.३८ ।।

संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च ।
प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेथ् ।। २८.३९ ।।

बिंबादीन्तत्समीपस्थान्संशोध्यैव च पूर्ववथ् ।
शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेथ् ।। २८.४० ।।

पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि ।
छेदने ताडने चैव रक्तस्रावे मृतौ तथा ।। २८.४१ ।।

तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः ।
वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ।। २८.४२ ।।

तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः ।
अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेथ् ।। २८.४३ ।।

संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववथ् ।
देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ।। २८.४४ ।।

संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेथ् ।
देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिं ।। २८.४५ ।।

वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः ।
गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ।। २८.४६ ।।

मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलं ।
वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ।। २८.४७ ।।

वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः ।
प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ।। २८.४८ ।।

हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः ।
आलयाभिमुखेऽब्जाग्निं साधयित्वाथ वैष्णवं ।। २८.४९ ।।

विष्णुसूक्तं नृसूक्तं चरिङ्कारान्पारमात्मिकं ।
हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमाथ् ।। २८.५० ।।

समभ्यर्च्य हविर्दत्वा ब्राह्मणान्भोज्य सादरं ।
वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणां ।। २८.५१ ।।

तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववथ् ।
शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ।। २८.५२ ।।

देवं बालालये स्थाप्य नवीकरणमाचरेथ् ।
विमाने तु हठाद्भिन्ने पतिते वा विधानतः ।। २८.५३ ।।

शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च ।
बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनं ।। २८.५४ ।।

बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिं ।
अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरं ।। २८.५५ ।।

ब्राह्मणान्भोजयित्वैव संपूज्यैव तु वैष्णवान् ।
देवं बालालये स्थाप्य नवीकृत्यालयादिकं ।। २८.५६ ।।

सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेथ् ।
तत्राशनिहते चैव मक्षिकादिफिरावृते ।। २८.५७ ।।

संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः ।
प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ।। २८.५८ ।।

ब्राह्मणान्भौजयित्वैव पुनस्संधानमाचरेथ् ।
स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ।। २८.५९ ।।

विमानकल्पवत्कृत्वा पुनस्संधानमाचरेथ् ।
अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ।। २८.६० ।।

सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः ।
दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ।। २८.६१ ।।

शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता ।
अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ।। २८.६२ ।।

महोत्पाते च महतीं हुत्वा शान्तिं विधानतः ।
देवं विशेषतोऽभ्यर्च ब्राह्मणान्भोजयेत्ततः ।। २८.६३ ।।

आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः ।
रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ।। २८.६४ ।।

देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेथ् ।
ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदितां ।। २८.६५ ।।

शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः ।
गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ।। २८.६६ ।।

गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः ।
औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेथ् ।। २८.६७ ।।

पुण्याहं वाचयित्वैव ब्राह्मणान्भोजयेत्ततः ।
सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ।। २८.६८ ।।

पञ्चगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च ।
संस्नाप्य कलशैर्देवं चतुर्विंशतिभिस्तदा ।। २८.६९ ।।

एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च ।
ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा ।। २८.७० ।।

देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च ।
पुण्याहं वाचयित्वैव विशेषार्चनमाचरेथ् ।। २८.७१ ।।

मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववथ् ।
प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदं ।। २८.७२ ।।

पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च ।
उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ।। २८.७३ ।।

तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः ।
आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा ।। २८.७४ ।।

महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे ।
संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ।। २८.७५ ।।

पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः ।
पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकं ।। २८.७६ ।।

नृसूक्तं श्रीमहीमन्त्रान्ब्राह्मं रौद्रं विशेषतः ।
प्राजापत्यं च हुत्वैव ब्राह्मणान्भोजयेद्विधिः ।। २८.७७ ।।

अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिं ।
चोरैरमित्रैरथ वा परचक्रेण संकुले ।। २८.७८ ।।

लोहजप्रतिमानां च तिरोधानं प्रकल्पयेथ् ।
शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनं ।। २८.७९ ।।

सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि ।
अवटेऽभ्यर्च्य भूदेवी "मपो हिऽष्ठेति प्रोक्ष्य च ।। २८.८० ।।

देवागारं प्रविश्यैव यजमानयुतो गुरुः ।
देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ।। २८.८१ ।।

"यावत्कालं भयं भूयात्तावदीश जनार्दन ।
हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुं ।। २८.८२ ।।

वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेथ् ।
बेराभावे तु हृदये समारोप्य विधानतः ।। २८.८३ ।।

"परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः ।
"प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितं ।। २८.८४ ।।

"यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः ।
अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ।। २८.८५ ।।

अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितं ।
पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ।। २८.८६ ।।

ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च ।
द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ।। २८.८७ ।।

ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेथ् ।
बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ।। २८.८८ ।।

कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच ।
कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ।। २८.८९ ।।

तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेथ् ।
स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः ।। २८.९० ।।

मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेथ् ।
काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा ।। २८.९१ ।।

पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितं ।
कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकं ।। २८.९२ ।।

आलयाभिमुखे वापि दक्षिणे वा मनोरमे ।
प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ।। २८.९३ ।।

तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः ।
पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ।। २८.९४ ।।

अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृतां ।
भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ।। २८.९५ ।।

वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च ।
संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ।। २८.९६ ।।

पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकं ।
बेराणि देवीसहितं शाययेच्छयने शुभे ।। २८.९७ ।।

अवताराणां तु शयनं पृथगेव विधीयते ।
परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेथ् ।। २८.९८ ।।

देवेशस्य च देव्याश्च अवतारगणस्य च ।
दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ।। २८.९९ ।।

आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमाथ् ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २८.१०० ।।

गायत्री वैष्णवी चैव द्वादशाक्षरमेव च ।
प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयं ।। २८.१०१ ।।

शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे ।
षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ।। २८.१०२ ।।

सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवं ।
विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ।। २८.१०३ ।।

श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदं ।
घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ।। २८.१०४ ।।

सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकं ।
एनमेके महाशान्तिहोममाचक्षते बुधाः ।। २८.१०५ ।।

पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः ।
पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ।। २८.१०६ ।।

स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु ।
बोधयित्वाभिवन्द्यैव "करुणाब्धे क्षमस्य मे ।। २८.१०७ ।।

शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः ।
कृतानामपराधानाऽमिति संप्रार्थ्य भक्तितः ।। २८.१०८ ।।

प्राचीन वस्त्रमाल्यादीन्द्यपोह्यन्यैर्विभूष्य च ।
सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ।। २८.१०९ ।।

तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः ।
स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणं ।। २८.११० ।।

अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववथ् ।
देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकं ।। २८.१११ ।।

पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः ।
ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ।। २८.११२ ।।

कृत्वाक्षराणां विन्यासमावाहनमथाचरेथ् ।
तदालयगतांश्चैव देवानन्यां त्समाह्वयेथ् ।। २८.११३ ।।

पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेथ् ।
यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणां ।। २८.११४ ।।

पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेथ् ।
यथाविभवविस्तारमुत्सवं स्नपनं चरेथ् ।। २८.११५ ।।

अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववथ् ।
कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेथ् ।। २८.११६ ।।

एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेथ् ।
अवतारविशेषस्य पृथक्कुर्यादितीतरे ।। २८.११७ ।।

तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन ।
इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ।। २८.११८ ।।

अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः ।
महाबेरे विमाने च पतिते जरिते तथा ।। २८.११९ ।।

भिन्नेंगहीने निहते वात्ययाशनिनाथ वा ।
वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ।। २८.१२० ।।

पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने ।
उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ।। २८.१२१ ।।

बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे ।
चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ।। २८.१२२ ।।

अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः ।
कर्षणादिक्रियास्सर्वा बिंबमानीय चादराथ् ।। २८.१२३ ।।

प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः ।
बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ।। २८.१२४ ।।

मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने ।
विना बालालयस्थानं शक्तिं गृह्य विमानगां ।। २८.१२५ ।।

तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः ।
नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेथ् ।। २८.१२६ ।।

अकृत्वा देवतारोपं महाबेरे विशेषतः ।
विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ।। २८.१२७ ।।

विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः ।
कौतुकादीन्प्रतिष्ठाप्य विहाय प्रार्थनामनुं ।। २८.१२८ ।।

बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेथ् ।
तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृथ् ।। २८.१२९ ।।

यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेथ् ।
कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेथ् ।। २८.१३० ।।

कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा ।
विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ।। २८.१३१ ।।

यथालाभेन मानेन बिंबमाहृत्य दारवं ।
प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ।। २८.१३२ ।।

कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमाथ् ।
अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ।। २८.१३३ ।।

बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवं ।
तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ।। २८.१३४ ।।

विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेथ् ।
बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ।। २८.१३५ ।।

मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा ।
द्वितीयावरणे वाथ मण्टपादौ मनोरमे ।। २८.१३६ ।।

यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेथ् ।
द्वितीयावरणादूर्ध्वं न बालागारकल्पनं ।। २८.१३७ ।।

एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते ।
अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ।। २८.१३८ ।।

उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकं ।
भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतं ।। २८.१३९ ।।

लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः ।
भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा ।। २८.१४० ।।

द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतं ।
नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयं ।। २८.१४१ ।।

मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकं ।
नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ।। २८.१४२ ।।

सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा ।
पूर्वापरयुतं वाथ दक्षिणोत्तरमायतं ।। २८.१४३ ।।

समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेथ् ।
पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ।। २८.१४४ ।।

मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकं ।
मानुषं तस्य परितः पदान्यन्यानि षोडश ।। २८.१४५ ।।

कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेथ् ।
दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेथ् ।। २८.१४६ ।।

त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा ।
अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ।। २८.१४७ ।।

प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलं ।
यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतं ।। २८.१४८ ।।

रत्नन्यासविहीनं वा कृत्वा विभवविस्तराथ् ।
आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः ।। २८.१४९ ।।

यागशालां तु कृत्वैव तोरणादीन्विधाय च ।
सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमाथ् ।। २८.१५० ।।

शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरं ।
चतुरश्रां पादहीनामर्धहीनां विशेषतः ।। २८.१५१ ।।

तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्तां ।
पञ्चत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्. ।। २८.१५२ ।।

पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः ।
बालागारं यज्ञशालां पुण्याहमपि वाचयेथ् ।। २८.१५३ ।।

हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च ।
गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकं ।। २८.१५४ ।।

पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणं ।
पञ्चमन्त्रान्जयानभ्यातानान्राष्ट्रभृतस्तथा ।। २८.१५५ ।।

मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतं ।
प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरं ।। २८.१५६ ।।

श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकं ।
हुनेदष्टोत्तरशतं सर्वदोषविनाशनं ।। २८.१५७ ।।

रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः ।
हविर्निवेद्य तां शक्तिं कौतुकादिषु संगतां ।। २८.१५८ ।।

महाबेरे समारोप्य कुंभमाहृत्य पूर्ववथ् ।
तन्तुना परिवेष्ट्यैव "शुची वो हव्यऽमन्त्रतः ।। २८.१५९ ।।

प्रक्षाल्योत्पवनं कृत्वा "धारास्विऽति च मन्त्रतः ।
अद्भिरापूर्याभिमृश्य "इदमापश्शिवाऽ इति ।। २८.१६० ।।

वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेथ् ।
उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेथ् ।। २८.१६१ ।।

ततोऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले ।
सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः ।। २८.१६२ ।।

समाहितो हरिं ध्यायन्प्रार्थयेन्मन्त्रमुच्चरन् ।
"अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ।। २८.१६३ ।।

किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो ।
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ।। २८.१६४ ।।

प्रसादं कुरु तावत्त्वमस्मिन्गेहे जगत्पतेऽ ।
इत्युक्त्वाब्दमथ द्वौत्रीन्संकल्प्यावधिमादराथ् ।। २८.१६५ ।।

देव्यादिसहितं देवमावाह्यांभसि कुंभके ।
आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियाथ् ।। २८.१६६ ।।

तदनु स्थापकाबिंबन्यादाय स्नपनावटे ।
यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ।। २८.१६७ ।।

कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच ।
शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ।। २८.१६८ ।।

आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः ।
तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ।। २८.१६९ ।।

परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेथ् ।
कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववथ् ।। २८.१७० ।।

प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवं ।
गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ।। २८.१७१ ।।

एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च ।
त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ।। २८.१७२ ।।

हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः ।
स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ।। २८.१७३ ।।

विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः ।
ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ।। २८.१७४ ।।

पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः ।
धारयन्शिरसा कुंभं शाकुनं सू"क्तमुच्चरन् ।। २८.१७५ ।।

आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरं ।
हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतं ।। २८.१७६ ।।

सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरं ।
आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ।। २८.१७७ ।।

विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः ।
"प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ।। २८.१७८ ।।

प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः ।
श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमाथ् ।। २८.१७९ ।।

देवपादौ स्पृशन्पश्चाद्विष्णुसूक्तं जपन्गुरुः ।
कृत्वाक्षराणां न्यासादी "निदं विष्णुंऽति ब्रुवन् ।। २८.१८० ।।

कूर्चेनादाय कुंभस्थां शक्ति"मायातुऽ मन्त्रतः ।
"विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ।। २८.१८१ ।।

"श्रियंच "हरिणींऽचेति देव्यौ दक्षिणवामयोः ।
संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ।। २८.१८२ ।।

कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकाथ् ।
संस्थाप्य तु समावाह्य तावत्कालं समर्चयेथ् ।। २८.१८३ ।।

स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः ।
हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकं ।। २८.१८४ ।।

बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च ।
स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमाथ् ।। २८.१८५ ।।

बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः ।
आवाहनं विसर्गं च हित्वा सर्वं समाचरेथ् ।। २८.१८६ ।।

महानसादिनिर्माणं बालालयविधौ पुनः ।
सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेथ् ।। २८.१८७ ।।

अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति ।
देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतं ।। २८.१८८ ।।

हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा ।
संप्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ।। २८.१८९ ।।

भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादराथ् ।
एवं द्वादशवर्षान्तं कारयेच्छ ततः परं ।। २८.१९० ।।

न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेथ् ।
अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ।। २८.१९१ ।।

संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा ।
देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ।। २८.१९२ ।।

तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः ।
प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते ।। २८.१९३ ।।

दुष्टे वा येन केनापि मण्डपादौ मनोरमं ।
देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ।। २८.१९४ ।।

संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः ।
बालालयं नवीकृत्य तदेव त्वरितं यथा ।। २८.१९५ ।।

वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेथ् ।
अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरं ।। २८.१९६ ।।

पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेथ् ।। २८.१९७ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टाविंशोऽध्यायः