भृगुसंहिता/अष्टमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमोऽध्यायः भृगुसंहिता
अथाष्टमोऽध्यायः
[[लेखकः :|]]
नवमोऽध्यायः →

अथाष्टमोऽध्यायः.
पीठमानम्
अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः ।
भुवङ्गस्य समं वाथ अध्यर्थं त्रिगुणं तु वा ।। ८.१ ।।

परितः पावयोरस्य नीत्वावै भागमङ्गुलं ।
ध्रुवार्चायामशेषेण षण्मानसहितं शुभं ।। ८.२ ।।

वक्ष्यामि देव्योर्मानं तत्कण्ठान्तं नासिकान्तकं ।
हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाध कारयेथ् ।। ८.३ ।।

चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा ।
ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेथ् ।। ८.४ ।।

चतुरश्रं सुवृत्तं वा दलैष्षोडशभिर्युतं ।
स्थानकं चासनं वापि यानकं वा समाचरेथ् ।। ८.५ ।।

गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलं ।
तस्योर्ध्ववेदिविस्तारं चतुरङ्गुलमेव हि ।। ८.६ ।।

उत्सेधं तस्य चार्धन्तुपरितश्चतुरङ्गुलं ।
विस्तारोत्सेधमानन्तु मध्येनिम्नं षडङ्गुलं ।। ८.७ ।।

उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेथ् ।
प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेथ् ।। ८.८ ।।

मध्ये कलापदं ब्राह्मं परितो दैविकं तथा ।
वैदाथिकाशीतिपदं मानुषं च तथैव च ।। ८.९ ।।

पदं स्यात्षण्नवतिकं षष्टिःपैशाचिकं भवेथ् ।
अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकं ।। ८.१० ।।

तथैव पश्चिमे भागे मध्ये वा स्थानकाय च ।
असनं वापि च तधा देवमानुषमध्यमे ।। ८.११ ।।

शयानं मानुषे पीठे स्थापयित्वा विशेषतः ।
ध्रुवार्चने विशेषेण नागसूत्रान्समर्प्य च ।। ८.१२ ।।

कोष्टमेकान पञ्चाशद्भवति ब्राह्ममन्दिरं ।
दैविकं चाष्टभागन्तु मानुषं चार्त्विजं पदं ।। ८.१३ ।।

शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकं ।
ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ ।। ८.१४ ।।

भोगमेव ध्रुवार्चायां देवमानुषमध्यमे ।
वीरकं स्थापयेद्विद्वान्पैशाचे क्रमशस्सुधीः ।। ८.१५ ।।

ग्राममध्ये ध्रुवार्चायां स्थापयेद्भोगमेव तु ।
योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेथ् ।। ८.१६ ।।

अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा ।
आलयोद्दक्षिणे वापि वूर्वे वापि प्रपां तथा ।। ८.१७ ।।

वेदिं तन्मध्यमे कुर्याद्बिंबाध्यर्धप्रमाणतः ।
सभ्याग्निकुण्डं तत्प्राच्यां स्नानवेदिं तथोत्तरे ।। ८.१८ ।।

भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेथ् ।
कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा ।। ८.१९ ।।

आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा ।
प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि ।। ८.२० ।।

महाकायकृते बेरे प्रोक्षयेत्पञ्चगव्यकैः ।
अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेथ् ।। ८.२१ ।।

आदिमूर्त्यादि सर्वास्तमावाहनमथाचरेथ् ।
अवाहनक्रमेणैव निरुप्याज्याहुतीर्यतेथ् ।। ८.२२ ।।

वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च ।
श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रन्तथैवच ।। ८.२३ ।।

नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च ।
स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादराथ् ।। ८.२४ ।।

गर्भागारं प्रविश्यैव स्थापिते विहितेऽपि वा ।
न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा ।। ८.२५ ।।

ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन् ।
तत्तन्मन्त्रेण देव्यादीन्स्थापयेद्विहिते पदे ।। ८.२६ ।।

विधिना चाष्टबन्धन्तु संयोज्यैव तु पूरयेथ् ।
अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणां ।। ८.२७ ।।

शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमाथ् ।
शिलाप्रतिष्ठा चैवं स्याद्दारुसंग्रहणं ततः ।। ८.२८ ।।

दारुसंग्रहणं चन्दनं खदिरं तालमसनं ।
रक्तचन्दनम्
राजानं चिरिबिल्वञ्च अशोकं स्तिमितं तथा ।। ८.२९ ।।

खादिरं धन्विनं चैवशिरीषं पद्मकं तथा ।
इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि ।। ८.३० ।।

चण्डालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते ।
मातृस्थानसमुद्बूते? श्मशाने देवमन्दिरे ।। ८.३१ ।।

कूपवापीतटाकान्ते मुनिवासे सहालये ।
योगस्थानपदे धर्मशालायां मार्गमध्यमे ।। ८.३२ ।।

प्रेतभूतालये चोरसत्त्वानां च निषेविते ।
प्रस्थानशलभस्थाने कल्पास्धिनिलयेऽपि च? ।। ८.३३ ।।

सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके ।
एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः ।। ८.३४ ।।

पादानपावनं तर्धि मशनेर्यातिपीडनं ।
असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतं ।। ८.३५ ।।

सुजनं तरुणं रूक्षं बहुपक्षसमाकुलं ।
अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनं ।। ८.३६ ।।

कर्मान्तरगृहितं च कर्मान्तरप्रयोजनं ।
एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि ।। ८.३७ ।।

आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणं ।
विस्तारयामसंपन्नं शुभायैव समायुतं ।। ८.३८ ।।

सुमध्यवयसोपेतं कालपुष्पफलप्रदं ।
ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते ।। ८.३९ ।।

एवं लक्षण संपन्नं द्रुमं गत्वा प्रसन्नधीः ।
तन्मूले गोमयेनापि लेपयेच्चतुरश्रकं ।। ८.४० ।।

दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणं ।
"वनराजेभ्यऽ इत्युक्त्वापायसं च बलिं ददेथ् ।। ८.४१ ।।

परशं च समादाय सेचयेत्पञ्चगव्यकैः ।
मूलमन्त्रं जपित्वा तु ध्मायेद्विष्णुं परात्परं ।। ८.४२ ।।

परशुञ्च समादाय भेदयेत्तु विचक्षणः ।
पयः परिस्रवे तत्र शुभमेवं विधीयते ।। ८.४३ ।।

शोणितप्रस्रवे तत्र निर्दशेदशुभं पुनः ।
पूर्वं तुपतनं शस्तमाग्नेय्यां तु भयावहं ।। ८.४४ ।।

याम्यायां मरणं विन्द्यान्नैरृत्यां व्याधिमादिशेथ् ।
पश्मिमेतु जनानां तु क्षुत्पिपासाविवर्धनं ।। ८.४५ ।।

वायव्ये च भवेल्लाभ उत्तरे धनधान्यकं ।
ऐशान्यां शान्तिकं तत्र सर्ववृद्धिकरं नृणां ।। ८.४६ ।।

तद्वृक्षपतने कालेकोशस्सर्वोमृदुर्भवेथ् ।
सिहव्याघ्रगजादीनां सर्वसंपत्करं भवेथ् ।। ८.४७ ।।

वृक्षाग्रं भेवयित्वा तु त्वचं सम्यग्व्यपोह्य च ।
प्रक्षाल्यवारिणा श्वेतचन्दनेनानुलेपयेथ् ।। ८.४८ ।।

श्वेतवस्त्रेण संदेष्ट्य जयमङ्गलघोषणैः ।
रथेवा शकटे वाथस्कन्थे वा क्षिप्य वेशयेथ् ।। ८.४९ ।।

ग्रामं प्रदक्षिणङ्कृत्या स्वस्तिसूक्तं समुच्चरन् ।
शिष्टच्छायेसमे देशेतालुकोपरिशाययेथ् ।। ८.५० ।।

हेमरूप्यकृतं शूलं सर्वसंपत्समृद्धिदं ।
लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणं ।। ८.५१ ।।

विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च ।
ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयं ।। ८.५२ ।।

ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखं ।
सरन्ध्रयवकं चोर्ध्वे मानशूलं शिरोधरं ।। ८.५३ ।।

हिक्कायां षड्यवं पञ्चाङ्गुलं नाभ्यन्तकं मतं ।
त्रयोदशाङ्गुलयवं ततो मेढ्रन्तु नाभ्यधः ।। ८.५४ ।।

योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्ट्ॐअतं ततः ।
हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांशकं ।। ८.५५ ।।

उष्णीषं मातृकं शूलं स्थानादीनां सनातनं ।
स्थानासनशयानानां चतुरश्राष्टवर्तुलं ।। ८.५६ ।।

यथाक्रमेण युञ्जीयादेवं वा पूर्वमुक्तवथ् ।
सर्वेषां देवतानां च सामान्यं च तुरश्रकं ।। ८.५७ ।।

चतुर्मात्रार्धविस्तारं शूलमूलविशालकं ।
अग्रतारं चतुर्मात्रमष्टांशोनमथापि वा ।। ८.५८ ।।

द्वात्रिंशदङ्गुलायामं वक्षोदण्डस्य चोच्यते ।
तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः ।। ८.५९ ।।

वक्षोदण्डायतं स्वेन मुखेन द्विगुणं मतं ।
उक्त्वासमन्तु बाह्यग्रेतत्सप्तांशविहीनकं ।। ८.६० ।।

तारं सप्ताङ्गुलं तेषां येन सार्थं त्रिमात्रकं ।
षोढशाष्ट चतुर्मात्रायामतारसमन्वितं ।। ८.६१ ।।

कटिदण्डं भवेत्तस्य पार्श्वमध्यमनिम्नकं ।
कृत्वैव निम्नकं वक्षोदण्डमध्ये प्रकल्पयेथ् ।। ८.६२ ।।

शेषयोर्वंशदण्डे तु नाभ्यन्तं निम्नमध्यकं ।
दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि ।। ८.६३ ।।

वक्षोदण्डस्यमूलाग्रे शिखा सूदस्रदायतं ।
कालाङ्गुलकलातारं कलार्धविपुलं मतं ।। ८.६४ ।।

एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा ।
चतस्रश्शिबिका स्तस्मात्तस्या मेवाष्टबाहुके ।। ८.६५ ।।

यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः ।
अध्यर्धाङ्गुलविस्तारं शिखायामं तदेव हि ।। ८.६६ ।।

कटिदण्डं शिखायामं तारे द्वित्षङ्गुले क्रमाथ् ।
विन?द्विमात्रमेव स्याद्द्विशिखं कटिदण्डकं ।। ८.६७ ।।

श्रोणिभागादधस्तेन शेषयेद्वंशदण्डकं ।
ऊरुदण्डालयं सप्तविंशदङ्गुलमुच्यते ।। ८.६८ ।।

जानुभागं ततो जङ्घा प्यूर्ध्वदण्डसमायता ।
पादभागाभवे दूरुर्जङ्घयोर्झानुमानकं ।। ८.६९ ।।

आरोप्य मानयेज्जानुदण्डस्यासंभवादपि ।
पाददण्डे समारोप्य मानयेत्तलतुङ्गकं ।। ८.७० ।।

ऊरुदण्डविशालं स्यान्मूलेभागं तदश्रके ।
कलाङ्गुलं तदेकं स्याज्जङ्घामूलविशालकं ।। ८.७१ ।।

कलाविशालं जङ्घाग्रं कलायामं दशाङ्गुलं ।
त्रिमात्रकलमूलस्य तारमग्रेऽधिकांगुलं ।। ८.७२ ।।

सप्तविंशति वाग्रोषं दण्डदीर्घं ततः कला ।
कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलाङ्गुलं ।। ८.७३ ।।

प्रकोष्ठबाह्वैरारोप्य कोर्परं जानुवद्भवेथ् ।
त्षङ्गुलं द्व्यङ्गुलं बाहुदण्डमूलाग्रविस्तरं ।। ८.७४ ।।

प्रकोष्ठं दण्डमूलस्य विशालं चद्विमात्रकं ।
अध्यर्धाङ्गुलमग्रस्य विशालं लक्षणान्वितं ।। ८.७५ ।।

वक्षोदण्डशिखामध्ये बाहुमूलगते शिखे ।
बाहुमूलगताभ्यां तु वक्षोदण्डशिखागतां ।। ८.७६ ।।

शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः ।
प्रकोष्ठमूलगाभ्यां तु वक्षोदण्डशिखागतां ।। ८.७७ ।।

कटिदण्डोरुदण्डाभ्यां तच्छेषं बाहुदण्डवथ् ।
जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतं ।। ८.७८ ।।

शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः ।
प्रसारितानां पादानां जानुसन्धौतु गृह्यतां ।। ८.७९ ।।

तथैव विसृजानां च बुधानां कोर्परं मतं ।
स्थानादीनां क्रमास्छूलसंघातं वक्ष्यतेऽपि च ।। ८.८० ।।

वंशदण्डं तथा वक्ष्ये दण्डं च कटिदण्डकं ।
जानुदण्डद्वयं चैव पाददण्डद्वयं तथा ।। ८.८१ ।।

बाहुदण्डाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः ।
तथा चरणदण्डौ द्वौ दण्डास्सप्त दश स्मृताः ।। ८.८२ ।।

कटिदण्डार्धमारभ्य यावदासीनरपि ।
तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेथ् ।। ८.८३ ।।

कटिदण्डादधस्ताच्च वक्षोदण्डधरस्तथा ।
योजयेदुपयानीलं? पृष्ठतो वृत्तमेव वा ।। ८.८४ ।।

वंशदण्डं तथा तेन क्लेशयेद्विशिखेन तु ।
शिखाग्रसुषीरे कीलं लोहं वा स्कामथापि वा ।। ८.८५ ।।

दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि ।
अन्यत्कीलं तु सुषिरं कर्तव्यं कथञ्चन ।। ८.८६ ।।

एवं स्थानस्य संप्रोक्तमासनस्य प्रवक्ष्यते ।
मेढ्रमूलादधोमूलं नाहमष्टांगुलं भवेथ् ।। ८.८७ ।।

भागमासनमानस्य भागं श्वभ्रप्रवेशनं ।
मेढ्रसूत्रसमे सम्यक्शेषयेत्कटिदण्डकं ।। ८.८८ ।।

कटिदण्डशिखाह्यूरु दण्डमूलशिखानि च ।
आसने शयने चैव जानुसन्धिः प्रशस्यते ।। ८.८९ ।।

एकोनविंशतिश्शूलदण्डानां तु समाकृतिः ।
नेष्यते कोर्परे संधिशयने दण्डहस्तके ।। ८.९० ।।

तस्मादथ दश प्रोक्ता शूलसंख्या चतुर्भुजे ।
पञ्चान्ये द्विभुजे दण्ड दण्डा हस्ते चतुर्दश ।। ८.९१ ।।

दक्षिणे वक्षोदण्डस्यायतमेकादशांगुलं ।
शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखान्विता ।। ८.९२ ।।

तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः ।
कटीडण्डद्वयादन्यत्स्थानस्योक्तवदाचरेथ् ।। ८.९३ ।।

उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमं ।
उद्दण्डस्योरुदण्डस्य शिखा भागायते स्मृते ।। ८.९४ ।।

तावत्यः कटिदण्डस्य शिखायास्सम्यगन्वये ।
तदायतं तु कार्यार्थं तलदण्डं तु तद्द्वितं ।। ८.९५ ।।

स्थिताङ्घ्रिस्थ्सितिमान्प्रोक्तश्शेषं चेदं शयानवथ् ।
एवमष्टभुजोपेतं चतुर्भुजसमन्विते ।। ८.९६ ।।

शूलसंख्यानुरूपेण योजयेत्तु विचक्षणः ।
शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेथ् ।। ८.९७ ।।

स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते ।
नासामानविभागं च शूलदण्डायतं मतं ।। ८.९८ ।।

भागतारं भवेद्वंशं दण्डं तच्चतुरश्रकं ।
यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः ।। ८.९९ ।।

बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरं ।
तावत्तु परमं वक्षोदण्डस्यायाममुच्यते ।। ८.१०० ।।

कच्छांशोनं कराकारं कटिदण्डायतं मतं ।
ऊरुतारं तु तुर्यांशा दूरुदण्डविशालकं ।। ८.१०१ ।।

जङ्घादण्डं
त्रिभागैकं तावश्चे?दष्टांशदण्डकं ।
मूलमेव मतं चैषामग्रमष्टांशहीनकं ।। ८.१०२ ।।

पार्श्वदण्डं न योक्तव्यं स्त्रीणां शूले कथं चन ।
पुरुषाणां प्रयोक्तव्य मध्यर्धाङ्गुलिविस्तरं ।। ८.१०३ ।।

सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः ।
भुवङ्गस्य समं प्रोक्तं स्थानके पीठकोन्नतं ।। ८.१०४ ।।

भुवङ्गोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः ।
ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलं ।। ८.१०५ ।।

विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलैर्युतं ।
मण्डलं चतुरश्रं वा पीठं कुर्यात्तदर्हकं ।। ८.१०६ ।।

दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेथ् ।
अपरे स्थानकं स्थाप्य मध्यभागेऽथ वा पुलः ।। ८.१०७ ।।

देवमानुषयार्मध्ये वाऽसनं संप्रकल्पयेथ् ।
किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतं ।। ८.१०८ ।।

एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते ।
ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयं ।। ८.१०९ ।।

तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतं ।
पादाश्रयेण पीठेन पद्माकारौ? च संयुतं ।। ८.११० ।।

यथासैन्दर्यकं कृत्वा शेषं युक्त्या समाचरेथ् ।
बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते ।। ८.१११ ।।

तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः ।
पादयोरुभयोश्चैव समं तत्रैव मूह्य च ।। ८.११२ ।।

शेषभोगं त्रिरावेष्ट्य पञ्चवर्णसमायुतं ।
अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते ।। ८.११३ ।।

तदुत्संगगतं देवं शयानं संप्रचक्षते ।
फणानां पञ्चकं कुर्याद्विषवेगसमन्वितं ।। ८.११४ ।।

एवमेव प्रकुर्वीत स्थानासनशयानकान् ।
पीठं कृत्वा प्रयत्नेन स्थापनारंभमाचरेथ् ।। ८.११५ ।।

अङ्कुरानर्पयित्वैव यागशालां प्रकल्पयेथ् ।
शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः ।। ८.११६ ।।

अथाचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च ।
यजमानसमायुक्तो गर्भगेहं प्रविश्य च ।। ८.११७ ।।

स्थानासनशयानानां पदमुक्तं विचार्य च ।
पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः ।। ८.११८ ।।

प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेथ् ।
आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेथ् ।। ८.११९ ।।

शूले सार्थं समादाय गायत्रीं वैष्णवं जपन् ।
स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमाथ् ।। ८.१२० ।।

आधारदण्डयोः पश्चाच्छिष्टदण्डान्नियोजयेथ् ।
पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च ।। ८.१२१ ।।

ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्? ।
वस्त्रैराभरणैश्चापि पूजयित्वान्ववेक्ष्य च ।। ८.१२२ ।।

रज्जुबन्धादिकं कर्म बेरोक्तं तत्र कारयेथ् ।
अत्रानुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः ।। ८.१२३ ।।

इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारेऽष्टमोऽध्यायः.