भृगुसंहिता/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः भृगुसंहिता
सप्तमोऽध्यायः
[[लेखकः :|]]
अथाष्टमोऽध्यायः →

अथ सप्तमोऽध्यायः.
परिवारालयलक्षणम्.
अथातः परिवाराणामालयस्य च लक्षणं ।
विमानात्पादहीनं वा तदर्धं वा समाचरेथ् ।। ७.१ ।।

वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकं ।
सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेथ् ।। ७.२ ।।

द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयं ।
तस्य पश्चिमदेशेतु पानीयस्थानमेवच ।। ७.३ ।।

याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपं ।
ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयं ।। ७.४ ।।

ईशानसोमयोर्मध्ये स्थापनं ... तथा ।
इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ।। ७.५ ।।

सोपानमध्ये श्रीभूतमर्चयेद्बहिराननं ।
पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेथ् ।। ७.६ ।।

विमानपालान्दिक्पालान्भास्करेण समायुतं ।
चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकं ।। ७.७ ।।

प्रथमावरणे देहुस्तत्तद्देशे समर्चयेथ् ।
उत्सवं बलिमारभ्य अनपायिविशेषतः ।। ७.८ ।।

अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेथ् ।
देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितं ।। ७.९ ।।

नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमाथ् ।
धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ।। ७.१० ।।

वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकं ।
मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणं ।। ७.११ ।।


बेरलक्षणम्-(शैलादि भेदः)

अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमं ।
शैलजं रत्नजं चैव धातुजं दारवं तथा ।। ७.१२ ।।

मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते ।
चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ।। ७.१३ ।।

अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते ।
मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ।। ७.१४ ।।

शैलजलक्षणम्
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयं ।
शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ।। ७.१५ ।।

गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा ।
शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ।। ७.१६ ।।

जपाकुसुमसंकाशा शिला शोणितसन्निभा ।
बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ।। ७.१७ ।।

शिला रक्ता समाख्याता जयदा लक्षणान्विता ।
पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ।। ७.१८ ।।

शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा ।
माषमुद्गल?संकाशा तथाजंबूफलोपमा ।। ७.१९ ।।

भृङ्ग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता ।
शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ।। ७.२० ।।

विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि ।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमं ।। ७.२१ ।।

द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा ।
श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ।। ७.२२ ।।

एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः ।
माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ।। ७.२३ ।।

मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः ।
माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकं ।। ७.२४ ।।

आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदं ।
विद्वेषणं मरतकं स्तंभनं पूष्यरागकं ।। ७.२५ ।।

नीलं तुरमणैः कार्यं रत्नजानां फलं भवेथ् ।
एतेषां कौतुकं कुर्या दन्येषां च विधीयते ।। ७.२६ ।।

हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकं ।
आयसं सीसकं चैव त्रपुकं चेति धातुजं ।। ७.२७ ।।

हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकं ।
ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकं ।। ७.२८ ।।

प्रोच्चारणे चारकूट मायसं क्षयकारणं ।
सीसं नीरौगकरणं त्रपुरायुर्विनाशनं ।। ७.२९ ।।

एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते ।
देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ।। ७.३० ।।

असनं खदिरञ्चैव वकुलं शङ्खि वातनं ।
मयूरपद्मडुण्डूक कर्णिकारं तथैव च ।। ७.३१ ।।

निबूकाञ्जनिकाचैव प्लक्षमौदुंबरं तथा ।
एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ।। ७.३२ ।।

मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च ।
पक्वं च नाशकं चैवं अपक्वं सर्वसिद्धितं ।। ७.३३ ।।


निमित्तदर्शनम्-(शुभनिमित्तानि)

यस्मिन्देशे शिलास्तीति गच्छेन्निश्चितमानसः ।
प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ।। ७.३४ ।।

शुभवाक्योदकुंभास्थि गजराजद्विजोत्तमाः ।
चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ।। ७.३५ ।।

(अशुभनिमित्तानि)
अशोभनांस्तथावक्ष्येशपमाना यथायति ।
विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनं ।। ७.३६ ।।

रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनं ।
प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ।। ७.३७ ।।

शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणं ।
शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेथ् ।। ७.३८ ।।

वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च ।
परिषेकं ततःकृत्वा कलशान्पञ्च सुन्यसेथ् ।। ७.३९ ।।

मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा ।
संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेथ् ।। ७.४० ।।

अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते ।
अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ।। ७.४१ ।।

अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेथ् ।
पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेथ् ।। ७.४२ ।।

मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा ।
लाञ्छयित्वा विधानेन ततस्तक्षण माचरेथ् ।। ७.४३ ।।

बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता ।
स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ।। ७.४४ ।।

सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता ।
असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ।। ७.४५ ।।

बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा ।
कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ।। ७.४६ ।।

मूर्धनस्तक्षणङ्कृत्वा शिलादोषांन्तु लक्षयेथ् ।
शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ।। ७.४७ ।।

एकरात्रोषितशिलां संप्रक्षाल्यांभसाततः ।
शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितं ।। ७.४८ ।।

रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः ।
मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेथ् ।। ७.४९ ।।

सिते तु मण्डले सर्पोरक्तेतु कृकलासकं ।
पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेथ् ।। ७.५० ।।

कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः ।
श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ।। ७.५१ ।।

रक्तमिश्रेतु मण्डूको मण्डलोभवेथ् ।
सिंदूरवर्णे खद्योतः कपोते गृहगौलिका ।। ७.५२ ।।

गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेथ् ।
वर्जयेद्गर्भ संयुक्तां विमलैरञ्चिन्तां तथा ।। ७.५३ ।।

विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतं ।
परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ।। ७.५४ ।।

प्रासादगर्भमानं वा हस्तमानमथापि वा ।
प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ।। ७.५५ ।।

द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा ।
मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ।। ७.५६ ।।

अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः ।
कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ।। ७.५७ ।।

त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेथ् ।
स्तंभादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ।। ७.५८ ।।

उत्तमाधमयोर्मध्ये द्वारमानेन योजयेथ् ।
गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेथ् ।। ७.५९ ।।

पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते ।
(उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) ।
हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमं ।। ७.६० ।।

षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि ।
एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ।। ७.६१ ।।

जङ्गमानां भवेन्नाम मूलबेरवशात्तथा ।
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ।। ७.६२ ।।

बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ।
वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितं ।। ७.६३ ।।

मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः ।
पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ।। ७.६४ ।।

मूलबेरांगुलान्मानमारभ्यैकादशांगुलं ।
द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलं? भवेथ् ।। ७.६५ ।।

प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः ।
उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकं ।। ७.६६ ।।

निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकं ।
एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ।। ७.६७ ।।

कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु ।
अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ।। ७.६८ ।।

मात्रांगुलेन यन्मारं गृहार्चाणां तु नान्यथा ।। ७.६९ ।।


इति श्रीवैखानसे भगवच्छास्त्रे
भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे
सप्तमोऽध्यायः.