भाषावृत्तिः/षष्ठोऽध्यायः /तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
तृतीयः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →

[402]
-6-3-1- अलुगुत्तरपदे ।।
उत्तरपदेऽलुग् वाच्यः। अधिकारोऽयमा पादपरिसमाप्तेः।
[403]
-6-3-2- पञ्चम्याः स्तोकादिभ्यः ।।
स्तोकान्तिकदूरार्थकृच्छ्रेभ्यो ङसेरलुक् स्यात्। स्तोकान्मुक्तः।
[404] उत्तरपद इत्येव -- निष्क्रान्तः स्तोकान् निःस्तोकः।
कथं ब्राह्मणाच्छंसी ऋत्विगिति ? उपसंख्यानात्।
[405]
-6-3-3- ओजः सहोऽम्भस्तमसस्तृतीयायाः ।।
एभ्यस्तृतीयाया अलुक् स्यात्। ओजसाभूतः। तस्यापत्यमौजसाभूतिः। ओजसाकृतम्। सहसाकृतम्। अम्भसाव्याप्तम्। तमसावृतम्। उत्तरपदेऽलुग्विधानात् पूर्वपदभूतं यत्र तमस्तत्रालुक्, न तु यत्र तमोऽन्तं पूर्वपदम्। तेन सततनैशतमोवृतमन्यत इति।
अञ्जस उपसंख्यानम् । अलुक् स्यात्। अञ्जसाकृतम्।
पुंसानुजो जनुषान्ध इति । उपसंख्यानात्। जनुः - जन्म।
इह तमःशब्दं तप इति केचिदूचिरे। तथा च व्योषः -- तमोजसानिर्जितदेवराजं दृष्ट्वा रथस्थं तपसाप्तसिद्धिम् इति, तपःकृशाः शान्त्युदकुम्भहस्ताः इति तु भट्टिः।
-6-3-4- मनसः संज्ञायाम् ।।
नाम्नि मनसस्तृतीयाया अलुक् स्यात्। मनसागुप्ता काचित्। मनसादेवी।
-6-3-5- आज्ञायिनि च ।।
अत्रोत्तरपदे मनसस्तस्या अलुक् स्यात्। मनसाज्ञायिनो योगिनः।
-6-3-6- आत्मनश्च पूरणे ।।
आत्मनस्तस्या अलुक् स्यात् पूरणप्रत्ययान्ते परे। आत्मनापञ्चमः। आत्मनाषष्ठः।
आत्मचतुर्थस्तु बहुव्रीहिः।
-6-3-7- वैयाकरणाख्यायां चतुर्थ्याः।
      
-6-3-8- परस्य च ।।
आत्मनः परस्य च चतुर्थ्या अलुक् स्याद् वैयाकरणी संज्ञा चेत्। आत्मनेभाषः। आत्मनेपदम्। परस्मैभाषः। परस्मैपदम्।
[406]
-6-3-9- हलदन्तात् सप्तम्याः संज्ञायाम् ।।
हलन्ताददन्ताच्च सप्तम्या अलुक् स्यात्। त्वचिसारः। युधिष्ठिरः। वनेकिंशुकाः।
अपो योनियन्मतिषु । अप्सुयोनिरग्निः। दिगादित्वाद् यत्। अप्सव्यः। अप्सुमतिः। संज्ञायाम् इति समासः।
हृद्द्युभ्यां ङेरलुग्वक्तव्यः । हृदिस्पृक्। दिविषदो देवाः।
कथं दिवि कामोऽस्येति द्युकामः ? भाविबहुलवचनात्।
-6-3-10- कारनाम्नि च प्राचां हलादौ ।।
कारः पारिभाषिको नियमः । तन्नाम्नि प्राचां हलादौ परे सप्तम्या अलुक् स्यात्। हलेद्विपदिका। कूपेशाणः।
हलदन्तादित्येव -- नद्यां दोहनी नदीदोहनी।
नियमः किम् ? अविकटे उरणः अविकटोरणः।
-6-3-11- मध्याद् गुरौ ।।
गुरौ परे मध्यात् सप्तम्या अलुक् स्यात्। मध्येगुरुः।
अन्ताच्च । अन्तेगुरुः।
-6-3-12- अमूर्धमस्तकात् स्वाङ्गादकामे ।।
स्वाङ्गात् सप्तम्या अलुक् स्यात्। कण्ठेकालः। उरसिलोमा। उदरेमणिः। शत्रुञ्चकारोरसिबाणमाशु।
अमूर्धमस्तकात् किम् ? मूर्धशिखः। मस्तकशिखः। अकामे किम् ? मुखकामः। स्वाङ्गादिति किम् ? अक्षशौण्डः।
हलदन्तादित्येव -- अङ्गुलित्राणः।
-6-3-13- बन्धे च विभाषा ।।
बन्धे परे सप्तम्या अलुक् स्याद्वा। हस्तेबन्धः, हस्तबन्धो वा। चक्रेबन्धः, चक्रबन्धो वा।
हलदन्तादित्येव -- गुप्तिबन्धः।
[407]
-6-3-14- तत्पुरुषे कृति बहुलम् ।।
तत्पुरुषे कृदन्त उत्तरपदे परे बहुलं सप्तम्या अलुक् स्यात्। वनेचरः। स्तम्बेरमः। पङ्केरुहः। हृदिस्थः।
न च भवति -- कायस्थः। कुरुस्थः। कुरुचरः।
क्वचिद् वा -- सरोजम्, सरसिजम्।
-6-3-15- प्रावृट्शरत्कालदिवाञ्जे ।।
एषाञ्जे सप्तम्या अलुक् स्यात्। प्रावृषिजः। शरदिजः। कालेजः। दिविजः।
एषां किम् ? ग्रीष्मजः।
-6-3-16- विभाषा वर्षक्षरशरवरात् ।।
एभ्यो जे परे सप्तम्या अलुग्वा स्यात्। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः।
-6-3-17- घकालतनेषु कालनाम्नः ।।
घादिषु कालनाम्नः सप्तम्या अलुग्वा स्यात्। पूर्वाह्णेतराम्। पूर्वाह्णतरे गायति। पूर्वाह्णेकालकृतम् । पूवाह्णकालकृतम्। पूर्वाह्णेतने, पूर्वाह्णतेन गायति।
हलदन्तादित्येव -- रात्रितरायां जागर्त्ति।
-6-3-18- शयवासवासिष्वकालात् ।।
शयादिष्वकालवाचिनः सप्तम्या अलुक् स्याद्वा। खेशयः, खशयो वा।
रक्षन् वनेवासकृताद् भयात् तान्। वनवासः। ग्रामेवासी, ग्रामवासी वा।
अकालात् किम् ? पूर्वाह्णशयः। हलदन्तादित्येव -- भूमिशयः।
-6-3-19- नेन्त्सिद्धबध्नातिषु च ।।
इन्नन्तसिद्धबध्नातिषु च सप्तम्या अलुग् नास्ति। स्थण्डिलशायी। साङ्काश्यसिद्धः। चक्रबन्धः।
कथं चक्रेबन्धः ? घञन्ते विभाषोक्ता।
-6-3-20- स्थे च भाषायाम् ।।
स्थे परे सप्तम्या अलुग् नास्ति। समस्थः। कूटस्थः। कायस्थः। उदरस्थः।
कथं हृदिस्थः ? बाहुल्यात्।
भाषाग्रहणमेकवृत्तावुपयुक्तम्।
[408]
-6-3-21- षष्ठ्या आक्रोशे ।।
आक्रोशगतौ षष्ठ्या अलुक् स्यात्। चौरस्यकुलम्। मातुःसुतः। वृषल्याःपतिः।
आक्रोशे किम् ? ब्राह्मणकुलम्।
वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु । षष्ट्या अलुक् स्यात्। केयं वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः ।
आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च । । षष्ठ्या अलुक् स्यात्। नडादिभ्यः फक्। आमुष्यायणः।
मनोज्ञादित्वाद् वुञ्। आमुष्यपुत्रिका। आमुष्यकुलिका।
देवानां प्रिये। षष्ठ्या अलुक् स्यात् । देवानाम्प्रियः।
शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम् ।। षष्ठ्या अलुक् स्यात्। शुनःशेपो नाम मुनिः। शुनःपुच्छः। शुनोलाङ्गूलः।
दिवोदासश्छान्दसः ।।
-6-3-22- पुत्रेऽन्यतरस्याम् ।।
आक्रोशगतौ पुत्रे षष्ठ्या अलक् स्याद्वा। दास्याः पुत्रः, दासीपुत्रो वा।
-6-3-23- ऋतो विद्यायोनिसम्बन्धेभ्यः ।।
ऋदन्ताद् विद्यायोनिसम्बन्धवाचिनोऽलुक् स्यात् षष्ठ्याः। पितुःपुत्रः। होतुरन्तेवासी।
विद्यायोनिसम्बन्धोभयपदेष्वभिधानान्नेह -- पितृधनम्।
-6-3-24- विभाषा स्वसृपत्योः ।।
ऋदन्तादनयोः षष्ठ्या अलुक् स्याद्वा। मातुःष्वसा, मातृष्वसा वा। पितुःष्वसा, पितृष्वसा वा। दुहितुःपतिः, दुहितृपतिर्वा। उक्तोऽलुक्। उत्तरपदाधिकारः प्रागङ्गात्।
-6-3-25- आनङ् ऋतो द्वन्द्वे ।।
विद्यायोनिसम्बन्धानामृतां द्वन्द्वे आनङ् स्यात्। नकारो रपरत्वनिषेधार्थः। होतापोतारौ। मातापितरौ।
ऋतां द्वन्द्वे किम् ? पितृपितामहौ। कथं पितापुत्रौ, मातापुत्रौ ? पुत्रे इत्यनुवृत्तेः।
[409]
-6-3-26- देवताद्वन्द्वे च ।।
अत्र पूर्वपदस्यानङ् स्यात्। इन्द्राबृहस्पती। सूर्याचन्द्रमसौ।
पुनर्द्वन्द्वग्रहणाल्लोके वेदे सहचरितयोरेवाभिधानम्। नेह -- शिववैश्रवणौ।
कथं रविचन्द्रौ अपि नोपलक्षितौ इति ? तर्हि चिन्त्यम्।
       वायोरुभयत्र प्रतिषेधः । वाय्वग्नी । अग्निवायू।
-6-3-27- ईदग्नेः सोमवरुणयोः ।।
सोमे वरुणे चाग्नेरीत् स्यात्। अग्नीषोमौ। अग्नीवरुणौ।
इदागमेनापि सवर्णदीर्घत्वे सिद्धे ईद्वचनमन्यत्र भावार्थमाहुः, तेन कुशश्च लवश्च कुशीलवाविति वाल्मीकिप्रयोगः।
-6-3-28- इद् वृद्धौ ।।
वृद्धिमत्युत्तरपदेऽग्नेरित् स्यात्। आग्निवारुणम्। आग्निमारुतं कर्म। देवाताद्वन्द्वे च इत्युभयपदवृद्धिः।
न विष्णौ । अत्राग्नेरित्त्वं नास्ति। आग्नावैष्णवम्।
-6-3-29- दिवो द्यावा ।।
देवताद्वन्द्वे दिवो द्यावा स्यात्। द्यावाभूमी। द्यावाधरण्यौ।
-6-3-30- दिवसश्च पृथिव्याम् ।।
पृथिव्यां दिवो दिवसादेशः स्याद् द्यावा च। अकारोच्चारणं पदान्ते रुत्वाद्यभावार्थम्। दिवस्पृथिव्यौ। द्यावापृथिव्यौ।
-6-3-31- उषासोषसः ।।
उषः शब्दस्योषासादेशः स्याद् देवताद्वन्द्वे। उषासासूर्यम्। उषासानक्तम्।
-6-3-32- मातरपितरावुदीचाम् ।।
अन्येषां मातापितरौ। अदन्तत्वान्निपातनस्य मातरपितराभ्यामित्येके। मातरपितृभ्यामित्यन्ये।
[410]
-6-3-33- पितरामातरा च च्छन्दसि ।।
छान्दसम्।
-6-3-34- स्रियाः पुंवद् भाषितपुंस्कादनूङ् समानाधिकरणे स्रियामपूरणीप्रियादिषु ।।
अनूङः स्त्रीलिङ्गस्य पुंवद् रूपं स्यात्। पट्वी भार्यास्य पटुभार्यः। शोभनभार्यः। दीर्घजङ्घः। दीर्घजङ्घभार्यः।
भाषितपुंस्कात् किम् ? खट्वाभार्यः। अनूङः किम् ? धीबन्धूभार्यः। समानाधिकरणे किम् ? कल्याण्या माता कल्याणीमाता। षष्ठीसमासः। स्त्रियामिति किम् ? कल्याणीप्रधाना इमे। अपूरणीतिकिम् ? कल्याणीपञ्चमा रात्रयः।
इह च अप्पूरणीप्रमाण्योः इति समासान्तविधौ प्रधानपूरणीग्रहणात् पूरण्यर्थादन्यस्मिन् समासार्थे न भवति -- कल्याणपञ्चमीकः पक्ष इति। अप्रियादिषु किम् ? कल्याणीप्रियः। कल्याणीकान्तः।
प्रिया। भक्ति। कान्ता। सुभगा। दुर्भगा। दुहिता। चपला।
कथं दृढभक्तिः ? दृढं भक्तिरस्येति पूर्वपदस्यास्त्रीत्वविवक्षितत्वात्।
श्लिष्टप्रियः, विमुक्तकान्तः इत्यादयस्तु चिन्त्याः।
-6-3-35- तसिलादिष्वाकृत्वसुचः ।।
तसिलादौ स्त्रियाः पुंवत् स्यात्। तत्र परिगणनम् -- त्रल्तसौ। तरप्तमपौ। चरड्जातीयरौ। कल्पब्देश्यदेशीयरः। रूपप्पाशपौ।
थमुथालौ। दार्हिलौ। तिल्थ्यनाविति । तस्यां तत्र। तस्याः ततः। रम्यतरा। रम्यतमा। पटुतरा। पटुतमा। पटुचरी। पटुजातीया। मृदुजातीया। वृद्धकल्पा। पटुकल्पा। मृदुकल्पा। पटुदेश्या। पटुदेशीया। पटुरूपा। वृद्धरूपा। वृद्धपाशा। कया प्रकृत्या कथम्। तया प्रकृत्या तथा। तस्यां वेलायां तदा। तर्हि। तिल् छान्दसः। अजथ्या।
शसि बह्वल्पार्थस्य । पुंवत् स्यात्। बह्वीभ्यो देहि बहुशः। अल्पशः।
त्वतलोर्गुणवचनस्य । पुंवत् स्यात्। पटुत्वम्। पटुता। [411] मृदुता। गुणवणनस्य किम् ? दण्डिनीत्वम्। कठीत्वम्।
कथं व्यभिचारित्वं युक्तीनामिति ? सामान्योपक्रमेण।
तन्वीत्वमिति तु चिन्त्यम्।
भस्याढे तद्धिते । भसंज्ञकस्य तद्धिते पुंवत् स्यात्। हस्तिनीनां समूहो हास्तिकम्। अढे किम् ? श्यैनेयः। रौहिणेयः।
ठक्छसोश्च । अनयोः परतः स्त्रियाः पुंवत् स्यात्। भवत्याच्छात्रा
भावत्काः। भवदीयाः।
सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः इति तु दिङ्नामान्यन्तराले इत्यत्र भाष्यम्। सर्वासां धनं सर्वधनम्। अन्यस्यास्तनयोऽन्यतनयः। न मानिनी संसहतेऽन्यसङ्गमम्। तस्या मुखं तन्मुखम्।
भवतीप्रसादादिति तु चिन्त्यम्।
-6-3-36- क्यङ्मानिनोश्च ।।
क्यङि मानिनि च स्त्रियाः पुंवत् स्यात्। एनी एतायते। दर्शनीयां मन्यते दर्शनीयमानी भार्यायाः।
-6-3-37- न कोपधायाः ।।
कोपधायाः स्त्रियाः पुंवन्न स्यात्। मद्रिकाभार्यः। पाचिकाभार्यः। दाहिकाशक्तिः। पाचिकाकल्पा।
पाचिकायते। पाचिकामानिनी।
कोपघप्रतिषेधे तद्धितवुग्रहणं कर्त्तव्यम् । इह मा भूत् -- एकभार्यः। पाकभार्यः। पाककल्पा।
[412]
-6-3-38- संज्ञापूरण्योश्च ।।
अनयोः स्त्रियाः पुंवन्न स्यात्। दत्ताभार्यः। मन्दोदरीभार्यमतीत्य रेजे। दत्तामानिनी। पञ्चमीभार्यः। द्वितीयाकल्पा। पञ्चमीकल्पा।
-6-3-39- वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ।।
वृद्धिहेतोस्तद्धितान्तायाः स्त्रियाः पुंवन्न स्यात्। औपगवीभार्यः। माथुरीभार्यः। माथुरीमानिनी। माथुरीकल्पा।
वृद्धिहेतोः किम् ? मध्यमभार्यः। अरक्ते किम् ? काषायबृहतिकः। हारिद्रपताकः। अविकारे किम् ? लौहेषो रथः।
-6-3-40- स्वाङ्गाच्चेतोऽमानिनि ।।
स्वाङ्गात् परो य ईकारस्तदन्तस्य स्त्रियाः पुंवन्न स्यात्। दीर्घकेशीभार्यः। सुमुखीभार्यः। सुमुखीकल्पा।
अमानिनि किम् ? सुकेशमानिनी।
-6-3-41- जातेश्च ।।
जातेः स्त्रियाः पुंवन्न स्यात्। कुम्भकारीभार्यः। कठीकल्पा। कठीपाशा। बह्वृचीयते।
औपसंख्यानिकस्य नेष्यते। हास्तिकम्। अमानिनीत्येव -- कठमानिनी।
-6-3-42- पुंवत् कर्मधारयजातीयदेशीयेषु ।।
कर्मधारयादौ भाषितपुंस्कादनूङा स्त्रियाः पुंवत् स्यात्, न प्रतिषेधः। महापञ्चमी। पुण्यषष्ठी। महाषष्ठी। प्रियदुहिता। मृगचपला। पाचकवृन्दारिका। कारकवृन्दारिका। काकवन्ध्या। कारकजातीया। कारकदेशीया। एवं दत्तवृन्दारिका। पञ्चम वृन्दारिका। माथुरवृन्दारिका। माथुरजातीया। माथुरदेशीया। सुकेशवृन्दारिका। कठदेशीया।
स्त्रियामित्येव -- कठीप्रकाण्डम्। मानिनीजनः।
कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्या अण्डं कुक्कुटाण्डम्। मृग्याः पदं मृगपदम्। मृग्याः क्षीर मृगक्षीरम्। काक्याः शावः काकशावः।
[413] पुंवद्भावाद् ह्रस्वत्वं खिद्घादिषु विप्रतिषेधेन । कालिम्मन्या। हरिणिम्मन्या। पट्वितरा। मृद्वितमा। उक्तः पुंवद्भावः।
-6-3-43- घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ।।
घादिषु परतोऽनेकाचो ङ्यन्तस्य ह्रस्वः स्यात्। ब्राह्मणितरा। सुन्दरितमा। गौरिरूपा। भुजङ्गिकल्पा। वृषलिचेली। पट्विब्रुवा। तरुणिगोत्रा। कुमारिमता। गौरिहता।
उक्तपुंस्कादित्येव -- बदरीतरा। ब्रूञः पचाद्यचि - ब्रुवः। चेलड्ब्रुवगोत्रशब्दाः कुत्सनार्थाः।
-6-3-44- नद्याः शेषस्यान्यतरस्याम् ।।
घादिषु शेषनद्या ह्रस्वो वा स्यात्। कः शेषः ? अङी नदी ङीरेकाच्। धीबन्धुतरा, धीबन्धूतरा वा। स्त्रीतरा स्त्रितरा वा।
कृन्नद्याः प्रतिषेधः । लक्ष्मीतरा। तन्त्रीतरा।
-6-3-45- उगितश्च ।।
उगितो नद्या घादिषु ह्रस्वो वा स्यात्। श्रेयसीतरा, श्रेयसितरा वा। विदुषीतमा विदुषितमा वा शक्तिं दधानं महतीतमां तम्।
पुंवद्भावोऽप्यत्रेष्टः -- श्रेयस्तरा। विद्वत्तमा।
-6-3-46- आन्महतः समानाधिकरणजातीययोः ।।
तुल्याधिकरणे जातीये च परतो महतः स्यादात्। महापञ्चमी। महाषष्ठी। महाराजः। महाभुजः।
महाजातीयः।
घासकरविशिष्टेषु पुंवच्च । महत्या घासः महाघासः। महत्याः करो महाकरः। महाविशिष्टः।
अष्टनः कपाले हविषि । अष्टाकपालं हविः।
गवि च युक्ते । अष्टागवं शकटम्। युक्ते किम् ? अष्टगवं विप्रस्य।
[414]
-6-3-47- द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।।
द्वि - अष्टन्नित्येतयोः संख्यायामात्त्वं स्यात्। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्।
संख्यायामिति किम् ? द्वैमातुरः।
प्राक्शतादित्यभिधानान्नेह -- द्विशतम्। अष्टसहस्रम्।
अबहुव्रीह्यशीत्योः किम् ? द्विदशाः। द्वित्राः। द्व्यशीतिः।
-6-3-48- त्रेस्त्रयः ।।
त्रेस्त्रयादेशः स्यात्। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्।
संख्यायामित्येव -- त्रैमातुरः।
अबहुव्रीह्यशीत्योरित्येव -- त्रिचतुराः। त्र्यशीतिः। प्राक्शतादित्येव -- त्रिशतम्। त्रिसहस्रम्।
-6-3-49- विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।।
द्व्यष्टंस्त्रिशब्दानां यदुक्तं तच्चत्वारिंशदादौ वा स्यात्। एवं यावद् नवतिः। द्वाचत्वारिंशत्, द्विचत्वारिंशद्वा। अष्टाचत्वारिंशत्, अष्टचत्वारिंशद्वा। त्रयश्चत्वारिंशत्, त्रिचत्वारिंशद्वा। द्वानवतिः। द्विनवतिर्वा। अष्टानवतिः। अष्टनवतिर्वा। त्रयोनवतिः। त्रिनवतिर्वा।
कथमेकादश ? कुसीददशैकादशादिति निपातनात्।
-6-3-50- हृदयस्य हृल्लेखयदण्लासेषु ।।
लेखादौ परे हृदयस्य हृत्स्यात्। हृल्लेखः क्षयव्याधिः। हृदयं लिखतीति कर्मण्यण्। हृदयस्य प्रियं हृद्यम् हृदयस्येदं हार्दम्। हृल्लासः।
-6-3-51- वा शोकष्यञ्रोगेष ।।
एषु हृदयस्य हृद्वा स्यात्। हृच्छोकः। हृदयशोको वा। सौहार्द्यम्, सौहृदय्यं वा। सौहृद्यमिति केचित्। हृद्रोगः, हृदयरोगो वा।
-6-3-52- पादस्य पदाज्यातिगोपहतेषु ।।
आज्यादिषु पादस्य पदः स्यात्। पदाजिः। पदातिः। पदगः। पदगैः बहुभिः स्तुतम्। पदोपहतः।
[415]
-6-3-53- पद्यत्यतदर्थे ।।
पादस्य यति हलन्तः पत् स्यात्। पादौ विध्यन्ति पद्याः कण्ठकाः। अतदर्थे किम् ? पाद्यं जलम्।
इके चरतौ । पादेन चरति पदिकः। पर्पादित्वात् ष्ठन्।
-6-3-54- हिमकाषिहतिषु च ।।
एषु पादस्य पत् स्यात्। पद्धिमम्। मानुषो नाम पत्काषी। पद्धतिः। चकारात् पद्गाः भरद्वाजमुनिं सशिष्यम्।
-6-3-55- ऋचः शे ।।
शे ऋचः पादस्य पत् स्यात्। पच्छो गायत्रीं शंसन्ति। वीप्सायां शस्।
ऋचः किम् ? पादशः कार्षापणं ददाति।
-6-3-56- वा घोषमिश्रशब्देषु ।।
एषु पादस्य पत् स्याद्वा। पद्घोषः, पादघोषो वा। पन्मिश्रः, पादमिश्रो वा। पच्छब्दः, पादशब्दो वा।
निष्के च । पन्निष्कः, पादनिष्को वा।
-6-3-57- उदकस्योदः संज्ञायाम् ।।
नाम्नि उदकस्योदः स्यात्। उदमेघो नाम।
उत्तरपदस्य च । लोहितोदो नाम। क्षीरोदः। लवणोदः।
-6-3-58- पेषंवासवाहनधिषु च ।।
एषूदकस्योदः स्यात्। उदपेषं शुण्ठीं पिनष्टि। सहस्यरात्रीरुदवासतत्परा। उदवाहनः। उदधिः।
-6-3-59- एकहलादौ पूरयितव्येऽन्यतरस्याम् ।।
असंयुक्तहलादावुत्तरपदे उदकस्योदो वा स्यात्। उदकुम्भः, उदककुम्भो वा। उदपात्रम्, उदकपात्रं वा।
एकहलादौ किम् ? उदकस्थानम्। पूरयितव्ये किम् ? उदकगिरिः।
[416]
-6-3-60- मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।।
एषूदकस्योदो वा स्यात्। उदमन्थः। उदौदनः। उदसक्तुः। हिमलवसदृशश्रमोदबिन्दून्। भिन्दानो
हृदयमसाहि नोदवज्रः।
भार-हार-गाहाः कर्मण्यणन्ता घञन्ताश्च गृह्यन्ते -- उदभारः। उदभारी स्त्री।
उदहारी स्त्री। उदवीवधः। रामाणामनवरतोदगाहभाजाम्। पक्षे उदकमन्थादयः। उक्त उदादेशः।
-6-3-61- इको ह्रस्वोऽङ्यो गालवस्य ।।
इगन्तानां ह्रस्वो वा स्यात्। ग्रामणिपुत्रः, ग्रामणीपुत्रो वा। जम्बुलता, जम्बूलता वा। धीबन्धूसुतः, धीबन्धुसुतो वा।
अङ्यः किम् ? गार्गीपुत्रः। व्यवस्थितविभाषया नेह -- कारीषगन्धीपुत्रः।
इयङुवङ्भाविनामव्ययानाञ्च प्रतिषेधो वक्तव्यः । श्रीकुलम्। भ्रूकुलम्। शुक्लीभूतम्।
भ्रूकुंसादीनामिष्यते । भ्रूकुंसः, भ्रुकुंसो वा। भ्रूकुटिः, भ्रुकुटिर्वा।
अकारो वेत्येके । भ्रकुंसः। भ्रकुटिः।
इह तु अलाबुकर्कन्धुदृम्फुफलमिति सर्वान्ते
लोकस्योत्तरपदव्यवहारात् दृम्फ्वा एव ह्रस्वः। प्राप्नोति, न पूर्वयोः। तत्र समासान्तरमास्थेयम् -- अलाबूश्च कर्कन्धूश्च ते अलाबुकर्कन्ध्वौ। ते च दृम्फूश्च तेऽलाबुकर्कन्धुदृम्फ्वः। राजदन्तादिः। तासां फलं तथेति।
-6-3-62- एक तद्धिते च ।।
एकशब्दस्य तद्धिते ह्रस्वः स्यात्। एकस्या आगतमेकरूप्यम्। एकमयम्। एकत्वम्। एकता।
उत्तरपदे च -- एकस्याः क्षीरमेकक्षीरम्।
-6-3-63- ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ।।
ङ्याबन्तस्य ह्रस्वः स्यान्नाम्नि। रेवतिपुत्रः। रोहिणिपुत्रः। कस्यचिन्नाम। शिलवहम्। शिलप्रस्थं नाम नगरम्। बाहुल्यान् नान्दीघोषः।
असंज्ञायाञ्च। कलज्ञः। मन्दुरजः। सुसूक्ष्मजटकेशो व्रती।
[417]
-6-3-64- त्वे च ।।
त्वे चेति च्छन्दसि ।।
-6-3-65- इष्टकेषीकामालानां चिततूलभारिषु ।।
इष्टकादेश्चितादौ ह्रस्वः स्यात्। इष्टकचितम्। इषीकतूलम्। मालभारिणी। तदन्तग्रहणञ्च -- पक्वेष्टकचितम्। नवहाटकेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या।
-6-3-66- खित्यनव्ययस्य ।।
अनव्ययस्य खिदन्ते परे ह्रस्वः स्यात्। कालिमेजयः। कालिम्मन्या।
अनव्ययस्य किम् ? दिवामन्या रात्रिः कथमपि न पद्मैर्विकसितम्।
-6-3-67- अरुर्द्विषदजन्तस्य मुम् ।।
एषां खिति मुम् स्यात् अरुन्तुदः। द्विषन्तपः। द्विषमेजयः। अजन्तानाम्--पण्डितम्मन्यः। सुभगम्मन्या।
हरिम्मन्यः। महिम्मन्या। कालिम्मन्या। विधुम्मन्यः। वधुम्मन्या। सुभ्रुम्मन्या। नलोपे--राजम्मन्यः।
सुराजम्भवम्। गुणिम्मन्यः।
एषां किम् ? विद्वन्मन्यः। श्रीमन्मन्यः।
-6-3-68- इच एकाचोऽम्प्रत्ययवच्च ।।
इजन्तस्य खिति एकाचोऽम् स्यात्। स चाम्प्रत्ययवत्। द्वितीयैकवचनवदित्यर्थः, स्त्रियम्मन्यः। स्त्रीम्मन्यः। भ्रुवम्मन्यः। नरम्मन्यः।
गाम्मन्यः। नावम्मन्यः।
-6-3-69- वाचंयमपुरन्दरौ च ।।
इमौ निपात्येते।
[418]
-6-3-70- कारे सत्यागदस्य ।।
अनयोः कारे मुम् स्यात्। सत्यङ्कारः। अगदङ्कारो वैद्यः।
अस्तोश्च । अस्तुङ्कारः।
धेनोर्भव्यायाम् । धेनुम्भव्या गौः।
लोकस्य पृणे । लोकम्पृणश्चन्द्रमाः।
भ्राष्ट्राग्न्योरिन्धे । भ्राष्ट्रमिन्धः। अग्निमिन्धः।
उष्ट्रभद्रयोः करणे । उष्ट्रंकरणम्। भद्रंकरणम् । एवं तिमिङ्गिल-दीपङ्कर-सर्वन्ददादयोऽपि मुम् इति योगविभागादूह्याः संज्ञाप्रकाराः।
सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रड् वा । एभ्यो दुहितृशब्दस्य पुत्रड् वा स्यात्। सूतपुत्री, सूतदुहिता वा। उग्रपुत्री, उग्रदुहिता वा। अन्यत्रापि दृश्यते - शैलपुत्री। अभिवीक्ष्य विदर्भराजपुत्रीकुचकश्मीरजचिह्नमच्युतोर इति माघः।
केचिच्छार्ङ्गरवादिषु पुत्रशब्दं पठन्तीति वामनवृत्तिः। तेनेदं सिध्यति - कृष्णदासस्य पुत्रीं तुभ्यमहं सम्प्रदद इति।
-6-3-71- श्येनतिलस्य पाते ञे ।।
अनयोः ञान्ते पाते परे मुम् स्यात्। श्यैनम्पाता मृगया। तैलम्पाता क्रिया।
-6-3-72- रात्रेः कृति विभाषा ।।
रात्रेः कृदन्ते परे मुम् स्याद्वा। रात्रिचरः, रात्रिञ्चरो वा। रात्र्यटः, रात्रिमटो वा।
खिति तु पूर्वेण नित्यमिष्यते। रात्रिम्मन्यमहः। उक्तो मुम्।
-6-3-73- नलोपो नञः ।।
उत्तरपदे परे नञो नलोपः स्यात्। अभिक्षुः। अब्राह्मणः। अविज्ञः। अशोच्यः।
कथं नैककीर्त्तिः, नैकयशा इति ? समासे सर्वान्तमुत्तरपदम्। तच्चेह नास्ति।
[419] अवक्षेपे तिङ्युपसंख्यानम् । अ पचसि अ करोषि त्वं जाल्म । हासकरमघटते नितराम्।
-6-3-74- तस्मान्नुडचि ।।
लुप्तनकारान्नञोऽचि नुडागमः स्यात्। अनश्वः। अनुष्ट्रः। अनूरुः।
-6-3-75- नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु
प्रकृत्या ।।
एष्वेकादशसु नञ् प्रकृत्या स्यात्। न भ्राजते नभ्राट्। न पाति नपात् -- शत्रन्तः। न वेति नवेदाः -- असुन्नन्तः। नासत्याः साधवः।
नमुच्यादयः संज्ञाशब्दाः यथाकथञ्चिदुन्नेयाः।
-6-3-76- एकादिश्चैकस्य चादुक् ।।
एकादिर्नञ् प्रकृत्या स्यादेकस्य चादुगागमः। एकेन न विंशति एकान्नविंशतिः। एकान्नशतम्। ऊनार्थे चात्र नञ्।
-6-3-77- नगोऽप्राणिष्वन्यतरस्याम् ।।
नगो नञ् प्रकृत्या वा स्यात्। शैलवृक्षौ नगावगौ।
अप्राणिषु किम् ? अगो वृषलः शीतेन।
-6-3-78- सहस्य सः संज्ञायाम् ।।
सहस्य नाम्नि सः स्यात्। साश्वत्थम्।
नाम्नि किम् ? सहयुध्वा।
-6-3-79- ग्रन्थान्ताधिके च ।।
ग्रन्थान्तेऽधिके च सहस्य सः स्यात्। सकलं ज्यौतिषमधीते -- कलान्तमित्यर्थः। समुहूर्तम् अधीते। ससङ्ग्रहं व्याकरणमधीते। अन्तवचनेऽव्ययीभावः। अधिके -- सद्रोणा खारी। द्रोणाधिकेत्यर्थः।
-6-3-80- द्वितीये चानुपाख्ये ।।
उपाख्यायत इत्युपाख्यः - प्रत्यक्षः, ततोऽन्योऽनुपाख्यः - अनुमेयो द्वितीयः सम्बन्धी। तद्वाचिन्युपपदे सहस्य सः स्यात्। साग्निः कपोतः। सपिशाचिका वात्या। गृहे कपोतपतनात् तस्य द्वितीयो भाव्यग्निरनुमीयते।
[420]
-6-3-81- अव्ययीभावे चाकाले ।।
अत्र सहस्य सः स्यात्। सचक्रं निधेहि। सधुरं व्रज।
अकाले किम् ? सहापराह्णम्।
-6-3-82- वोपसर्जनस्य ।।
सर्वोपसर्जनस्य समासस्योत्तरपदे सहस्य सो वा स्यात्। सपुत्रः सहपुत्रो वा। सपरिवारः, सहपरिवारो वा।
-6-3-83- प्रकृत्याशिष्यगोवत्सहलेषु ।।
आशिषि सह प्रकृत्या स्यात्। स्वस्ति ते सहपुत्राय। सहबन्धवे।
अगोवत्सहलेषु किम् ? सगवे। सवत्साय। सहलाय। पक्षे -- सहगवे। सहवत्साय। सहहलाय।
-6-3-84- समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु ।।
छान्दसम्।
-6-3-85- ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।।
एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात्। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सनाम्नी कन्या। सरूपः। सवयाः। सवचनः। सबन्धुः।
इह समानस्येति योगविभागः, तेन सपक्ष - सधर्म - सजातीयाः सिध्यन्तीति वामनवृत्तिः।
अनार्षोऽयं योगविभागः। तथा हि -- अव्ययानामनेकार्थत्वात् सदृशार्थस्य सहशब्दस्यैते प्रयोगाः। कथं नाम समानपक्ष इत्यादयोऽपि भवन्तीति भागवृत्तिः।
चान्द्रास्तु नामादिषु सभावं विकल्पेन ब्रुवन्ति।
-6-3-86- चरणे ब्रह्मचारिणि
आचारगतौ ब्रह्मचारिणि परे समासस्य सः स्यात्। सब्रह्मचारी।
[421]
-6-3-87- तीर्थे ये ।।
      
-6-3-88- विभाषोदरे ।।
यदन्ते तीर्थे समानस्य सः स्यात्। सतीर्थ्याश्चैकगुरवः। उदरे वा। समानोदर्यः, सोदर्यो वा।
-6-3-89- दृग्दृशवतुषु ।।
एषु समानस्य सः स्यात्। सदृक्। सदृशः। सदृक्षस्तु छान्दसः। वतुग्रहणमुत्तरार्थम्। उक्तः सभावः।
-6-3-90- इदं किमोरीश्की ।।
इदम इर्श् किमः कीः स्यात् तेषु परतः। ईदृक्, ईदृशः। इयान्। इयती। कीदृक्, कीदृशः। कियान्, कियती।
-6-3-91- आ सर्वनाम्नः ।।
तेषु सर्वनाम्न आकारः स्यात्। तादृक्, तादृशः। तावान्। एतावान्। एतादृशः, एतादृक्। यावान्। यादृक्, यादृशः। अन्यादृक्, अन्यादृशः। युष्मादृक्, युष्मादृशः। भवादृक्, भवादृशः। अमूदृक्, अमूदृक् अस्मादृक्, अस्मादृशः।
-6-3-92- विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये।।
 विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये। विष्वगञ्चति विष्वद्र्यङ्
विष्वद्र्यञ्ञ्तौ। देवद्र्यहङ्। यद्र्यङ्। तद्र्यङ्। कद्र्यङ्। कद्रीची।
वप्रत्यये किम् ? विष्वगञ्चनम्।
-6-3-93- समः समि ।।
समोऽञ्चतौ समिरादिश्यते। सम्यङ् सम्यञ्ञ्चौ। समीची।
-6-3-94- तिरसस्तिर्यलोपे ।।
तिरसस्तिरिरादिश्यते तस्मिन्नलोपे। तिर्यङ्। अलोपे किम् ? लोपे मा भूत्। तिरश्चः पश्य। लज्जा तिरश्चां यदि चेतसि स्यात्।
[422]
-6-3-95- सहस्य सध्रिः ।।
तस्मिन् सहस्य सध्रिः स्यात्। सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्। सध्र्यञ्ञ्चौ। सध्रीचा वलयितपद्मनालसूत्रः। सध्रीची।
-6-3-96- सध मादस्थयोश्छन्दसि ।।
छान्दसम्।
-6-3-97- द्व्यन्तरुषसर्गेभ्योऽप इर्त् ।।
एभ्यः परस्याप आदेरीत् स्यात्। द्वीपम्। अन्तरीपम्।
प्रादेरनवर्णान्तादभिधानम्--समीपम्, नीपम्।
नेह--प्रापम्। परापम्।
-6-3-98- ऊदनोर्देशे ।।
अनोः परस्याप ऊत् स्यात्। अनूपो देशः। अन्वीपमन्यत्र।
-6-3-99- अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ।।
अषष्ठ्यतृतीयास्थस्य अन्यस्य दुगागमः स्यादाशीरित्यादौ परे। अन्या आशीरन्यदाशीः। अन्यदाशा। अन्यदास्था। अन्यदास्थितः। अन्यदुत्सुकः। अन्यदूतिः। अन्यद्रागः।
अषष्ठ्यतृतीयास्थस्य किम् ? अन्यस्याशीरन्याशीः। अन्येनास्थितोऽन्यास्थितः।
इहाविशेषेण दुक् कारकच्छयोः इति भाष्यम्। अन्येनान्यस्य
वा कारकः अन्यत्कारकः। अन्यस्मिन् भवम्, अन्यस्येदं वा अन्यदीयम् -- गहादित्वाच्छः शैषिकः।
-6-3-100- अर्थे विभाषा ।।
अर्थे परेऽन्यस्य दुग्वा स्यात्। अन्यदर्थः, अन्यार्थो वा।
-6-3-101- कोः कत् तत्पुरुषेऽचि ।।
तत्पुरुषेऽचि कोः स्थाने कत् स्यात्। कदन्नम्। कदिन्धनम्। कदुष्णम्।
अचि किम् ? कुब्राह्मणः।
त्रावुपसंख्यानम् । कुत्सितास्त्रयः कत्त्रयः।
[423] कृतशस्त्रो न यो जिष्णुर्यश्चाढ्यो यज्ञनिस्पृहः।
कामी यश्च जरन्नेते क्षत्रवंशेषु कत्त्रयः ।।
-6-3-102- रथवदयोश्च ।।
अनयोः कोः कत् स्यात्। कद्रथः। कद्वदः।
-6-3-103- तृणे च जातौ ।।
अत्र कोः कत् स्यात्। कत्तृणम्।
जातौ किम् ? कुतृणानि।
-6-3-104- का पथ्यक्षयोः ।।
अनयोः कोः स्थाने का स्यात्। कापथः। काक्षम्। काक्षेणानादरेक्षितः।
-6-3-105- इर्षदर्थे ।।
अत्र कोः का स्यात्। कामधुरम्। कातन्त्रम्। काम्लम्।
देवाकानिनिकावादे वाहिकास्वस्वकाहि वा।
काकारेभभरेकाकानिस्वभव्यव्यभस्वनि ।।
-6-3-106- विभाषा पुरुषे ।।
पुरुषे कोः का वा स्यात्। कापुरुषः, कुपुरुषो वा।
-6-3-107- कवञ्चोष्णे ।।
उष्णे परे कोः का कवं च वा स्यात्। कोष्णम्, कवोष्णम्, कदुष्णं वा।
-6-3-108- पथि च च्छन्दसि ।।
छान्दसम्।
-6-3-109- पृषोदरादीनि यथोपदिष्टम् ।।
पृषोदरप्रकाराणि साधूनि स्युः शिष्टैर्यथाप्रयुक्तानि। शिष्टलक्षणं तु भाष्यादवधार्यम्। पृषदुदरमस्य पृषोदरः। वारिवाहको वलाहकः। ब्रुवन्तः सीदन्त्यस्यां बृसी। मह्यां रौति मयूरः। पूर्यन्ते गलन्ति च पुद्गला देहाः।
[424] तथ्यस्य भावस्तथता। रतेस्तननं रत्नम्। वाहितं पापमनेन ब्राह्मणः। जितमेनोऽनेन जिनः। यशः कौति यक्षः। कौ जीर्यति कुञ्जरः। हिनस्तीति सिंहः। अङ्गन्त्यस्मिन्नङ्गनम्। शवानां शयनं श्मशानम्। ऊर्ध्वं मुखमस्य उलूखलम्। पिशिताशः पिशाचः। एवं षोडन्, षोडशः, षोढा, षड्धा चेत्यादि।
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।
-6-3-110- संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ ।।
संख्यादेः परस्याह्नस्याहन् वा ङौ स्यात्। द्व्यह्ने, द्व्यहनि, द्व्यहे वा। त्र्यह्ने, त्र्यहनि, त्र्यहे वा। व्यह्ने, व्यह्नि वा। सायाह्नि, सायाह्ने, सायाहनि वा।
ङौ किम् ? द्वयोरेह्नोर्भवो द्व्यह्नः। तद्धितार्थे समासः। विगतमह्नो व्यह्नः। प्रादिसमासः। अह्नः सर्वत्र टच्। अह्नः सायः सायाह्नः। एकदेशिसमासः।
-6-3-111- ढ्रलोपे पूर्वस्य दीर्घोऽणः ।।
ढरयोर्लोपे पूर्वस्याणो दीर्घः स्यात्। लीढम्। गूढम् नीरक्तम्। इन्दूराजते। पुनारमते। पुनारक्तम्। पुनारोढुम्। धातूरजः।
पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम्।
इह ढलोप सहचरितस्य रो रि लोपस्य ग्रहणादनीयरो रलोप न दीर्घः। दर्शनीयः पटः।
दीर्घाधिकारो यावत् क्रमश्च क्त्विः ( 6-4-18 ) इति।
-6-3-112- सहिवहोरोदवर्णस्य ।।
सहिवहोरवर्णस्यौत् स्याड्ढलोपे। सोढा। सोढुम्। सोढ़व्यम्। वनोढा। वोढुम्। वोढ़व्यम्।
वर्णग्रहणं कृतायामपि वृद्धौ यथा स्यात्। वहेर्लुङि तसि उदवोढाम्।
अवर्णस्य किम् ? ऊढः ऊढवान्।
-6-3-113- साढ्वैसाढ्वासाढेति निगमे ।।
      
-6-3-114- संहितायाम् ।।
छान्दसमेतद् द्वयम्। संहिताधिकारस्य च्छन्दस्येव प्रयोजनम्।
[425]
-6-3-115- कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ।।
कर्णे परे लक्षणवाचिनो दीर्घः स्यात्। दात्राकर्णः। स्थूणाकर्णः।
अविष्टादीनां किम् ? विष्टकर्णः। अष्टकर्णः। स्वस्तिककर्णः।
-6-3-116- नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।।
एषुक्वबन्तेषु परतो दीर्घः स्यात्। उपानत्। नीवृत्। प्रावृट्। मृगावित्। मर्मावित्। नीरुक्। सहेः छन्दसि ण्विः -- तुराषाट्। तनि -- परीतत्।
क्कौ किम् ? परिणहनम्। गतिकारकपूर्वस्याभिधानान्नेह -- तिग्मरुचः। पटुरुचः।
-6-3-117- वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ।।
कोटरादेर्वने किंशुलकादेर्गिरौ दीर्घः स्यात्। कोटरावणम्। मिश्रकावणम्। किंशुलकागिरिः।
-6-3-118- वले ।।
वले परे दीर्घः स्यात्। दन्तावलो हस्ती। कृषीवलः।
अण इत्येव -- भ्रातृवलः।
संज्ञायामित्येव -- पुत्रवलः।
-6-3-119- मतौ बह्वचोऽनजिरादीनाम् ।।
बह्वचां मतुपि दीर्घः स्यात्। वीरणावती। मशकावती। नद्यां मतुप्।
बह्वचः किम् ? व्रीहिमती। अनजिरादेः किम् ? अजिरवती। मलयवती।
संज्ञायामित्येव -- वलयवती।
-6-3-120- शरादीनाञ्च ।।
मतुपि दीर्घः स्यात्। शरावती। अहीवती। पद्मावती। नद्यां मतुप्।
संज्ञायामित्येव -- शरवती भूमिः। अहिमती।
[426]
-6-3-121- इको वहेऽपीलोः ।।
इगन्तस्य वहेर्दीर्घः स्यात्। ऋषीवहम्। कपीवहम्।
अपीलोः किम् ? पीलुवहम्।
-6-3-122- उपसर्गस्य घञ्यमनुष्ये बहुलम् ।।
प्रादेर्घञि दीर्घः स्यात्। वीमार्गः। अपामार्गः।
बाहुल्यान्न च भवति -- विहारः। निहारः।
सादकारयोः कृत्रिमे । प्राकारः। प्रासादः। अन्यत्र प्रसादः। प्रकारः।
विशादिषु वा । प्रतिवेशः, प्रतीवेशो वा। प्रतिकारः, प्रतीकारो वा। क्वचिन्नैव -- प्रसारः। प्रहारः। प्रवेशः। प्रसेवः।
अमनुष्ये किम् ? निषादश्चण्डालः।
-6-3-123- इकः काशे ।।
प्रादेरिगन्तस्य काशे दीर्घः स्यात्। प्रतीकाशः। आसक्तो भव नीकाशैः। अनूकाशः।
इकः किम् ? प्रकाशः।
-6-3-124- दस्ति ।।
दः स्थाने यस्तकारस्तस्मिन्नुपसर्गस्य दीर्घः स्यात्। परीत्तम्। नीत्तम्।
वीत्तम्। अभीत्तम्। सूत्तम्।
इकः किम् ? प्रत्तम्।
-6-3-125- अष्टनः संज्ञायाम् ।।
अष्टनो नाम्नि दीर्घः स्यात्। अष्टावक्रो मुनिः। अष्टापदं सुवर्णम्।
संज्ञायां किम् ? अष्टभार्योऽसि पुण्यकृत्।
-6-3-126- छन्दसि च ।।
छान्दसम्।
-6-3-127- चितेः कपि ।।
दीर्घः स्यात्। एकचितीकः। द्विचितीकः।
-6-3-128- विश्वस्य वसुराटोः ।।
अस्यानयोर्दीर्घः स्यात्। विश्वावसुः। विश्वाराट्। राडिति निर्देशाद् -- विश्वराजौ।
[427]
-6-3-129- नरे संज्ञायम् ।।
विश्वस्य दीर्घः स्यात्। विश्वानरो नाम मुनिः।
-6-3-130- मित्रे चर्षौ ।।
मित्रे विश्वस्य दीर्घः स्यादृषिश्चेत्। विश्वामित्रः।
इह मन्त्रे षट् सूत्राणि । तानि यथा--
-6-3-131- मन्त्रे सोमाश्वेन्द्रिविश्वदेव्यस्य मतौ ।।
      
-6-3-132- ओषधेश्च विभक्तावप्रथमायाम् ।।
                               
-6-3-133- ऋचि तुनुधमक्षुतङ्कुत्रोरु- ष्याणाम् ।।
      
-6-3-134- इकः सुञ्ञि ।।
      
-6-3-135- द्व्यचोऽतस्तिङः ।।
      
-6-3-136- निपातस्य च ।।
      
-6-3-137- अन्येषामपि दृश्यते ।।
दीर्घः इत्येव। दण्डादण्डि। बाहूबाहवि। यष्टीयष्टि।
शुनः संज्ञायाम्। शुनो दंष्ट्रा श्वादंष्ट्रा, ततोऽण् -- शौवादंष्ट्रः। इञ् -- शौवादंष्ट्रिः। श्वाकर्णः। पूर्वामुखः। उत्तरामुखः। दक्षिणामुखः।
दृशिग्रहणादिह पूरुषः, नारक इत्यादावप्ययं दीर्घः इति वामनवृत्तिः।
अनेनोत्तरपदविधानादप्राप्तिरिति पूरुषादयो दीर्घोपदेशा एव संज्ञाशब्दाः इति भागवृत्ति।
-6-3-138- चौ ।।
अञ्चतौ लुप्ताकारनकारे दीर्घः स्यात्। दधीचः पश्य। दधीचा। सध्रीचा। सध्रीचः। सध्रीची। मधूचः। मधूचा। विष्वद्रीचः। विष्वद्रीचीर्विक्षिपन् सैन्यवीचीः। सध्रीचा वलयितपद्मनालसूत्रः।
-6-3-139- सम्प्रसारणस्य ।।
संप्रसारणान्तस्योत्तरपदे दीर्घः स्यात्। कारीषगन्धीपुत्रः। कौमुदगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपतिः। पूर्ण उत्तरपदाधिकारः।