भाषावृत्तिः/षष्ठोऽध्यायः /चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
चतुर्थः पादः
पुरुषोत्तमदेव

-6-4-1- अङ्गस्य ।।
अधिकारोऽयम्। अङ्गस्य कार्यं वक्तव्यम् पञ्ञ्चपाद्याम् ( 6-4--7-4 पा0 )।
-6-4-2- हलः ।।
सम्प्रसारणान्तस्याङ्गस्य हलः परस्य दीर्घः स्यात्। संवीतम्। आहूतम्।
अङ्गस्य किम् ? निरुतम्।
कथं तृतीयेति ? निपातनात्।
-6-4-3- नामि।
नामि परेऽङगस्य दीर्घः स्यात्। अग्नीनाम्। वायूनाम्। मातॄणाम्। भ्रातॄणाम्।
-6-4-4- न तिसृचतसृ ।।
अनयोर्दीर्घो न स्यात्। तिसृणाम्। चतसृणाम्।
-6-4-5- छन्दस्युभयथा ।।
छान्दसम्।
-6-4-6- नृ च ।।
नृ चेति नामि दीर्घविकल्पः।
भाषायामपीत्येके। नृणाम्। नॄणां वा।
-6-4-7- नोपधायाः ।।
नान्तस्योपधाया नामि दीर्घः स्यात्। पञ्ञ्चानाम्। सप्तानाम्। दशानाम्।
नामीत्येव--वर्मणाम्। चर्मणाम्।
-6-4-8- सर्वनामस्थाने चासम्बुद्वौ ।।
शिः सुट् सर्वनामस्थानम्, तत्र परे नोपधाया दीर्घः स्यात्। राजा,
राजानौ, राजानः। सीमा, सीमानौ, सीमानः। सामानि सन्ति पश्य वा। कुण्डानि।
असम्बुद्धौ किम् ? हे तक्षन्।
-6-4-9- वा षपूर्वस्य निगमे ।।
छन्दःसूत्रमेकम्।
-6-4-10- सान्तमहतः संयोगस्य ।।
सान्तसंयोगस्य महतश्च नोपधायाः पूर्ववद्दीर्घः स्यात्। श्रेयान्। विद्वान्। श्रेयांसि। पयांसि। सर्पींषि। महान्। महान्ति।
असम्बुद्धावित्येव--हे श्रेयन्।
-6-4-11- अप्तृंस्तृच्स्वसृनेप्तृनष्टृत्वष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तणाम्।।
अप्शब्दस्य तृंस्तृजन्तानाञ्ञ्च स्वस्राद्यष्टकस्य चोपधायाः सर्वनामस्थाने
दीर्घः स्यात्। आपः सन्ति। समासेऽपोऽनङ्गत्वान्न दीर्घः। बह्वपानि तडागानि सारसाः समुपासते। समासान्तविधेरनित्यत्वाद् बह्वाम्पि इत्यपीति केचित्।
तृन्--कर्त्तारः कटान्। तृच्--श्रोतारः शास्त्राणाम्। स्वसारौ। स्वसारः। एवं यावत्--प्रशास्तारौ, प्रशास्तारः।
असम्बुद्धावित्येव। हे कर्त्तः। हे स्वसः। हे नप्तः।
-6-4-12- इन्हन्पूषार्यम्णां शौ ।।
एषामुपधायाः शावेव दीर्घः स्यात्। नान्यत्र। बहुदण्डीनि। बहुवाग्गमीनि। सुवृत्रहाणि। सुपूषाणि। बह्वर्यमाणि।
शौ किम् ? वृत्रहणौ। दण्डिनौ। भ्रूणहनौ। पूषणौ। अर्यमणौ। प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव। तस्मिन् वृत्रहणि स्थितम्।
वृत्रहायत इति नायमुपधाया दीर्घः।
-6-4-13- सौ च ।।
तेषां सौ दीर्घः स्यात्। दण्डी। वृत्रहा। पूषा। अर्यमा।
असम्बुद्धावित्येव--हे अर्यमन्। हे पूषन्।
-6-4-14- अत्वसन्तस्य चाधातोः ।।
अत्वन्तस्यान्तस्य चोपधाया दीर्घः स्यात् सौ। अतु--भवान्। कृतवान्। गोमान्। अस्--सुयशाः। चन्द्रमाः। सुमेधाः।
अधातोः किम् ? पिण्डं ग्रसते पिण्डग्रः।
असम्बुद्धावित्येव--हे गोमन्। हे चन्द्रमः।
-6-4-15- अनुनासिकस्य क्विझलोः क्ङिति ।।
अनुनासिकान्तस्य क्वौ झलादौ च क्ङित्युपधाया दीर्घः स्यात्। क्वौ--प्रतान्, प्रतानौ। प्रतान्भ्याम्। प्रदान्। प्रशान्। झलि--शान्तः। शान्तवान्। शान्त्वा। शान्तिः। यङ्लुकि--शंशान्तः।
क्ङिति किम् ? गन्ता। यन्ता।
-6-4-16- अज्झनगमां सनि ।।
अजन्तानां हनो गमश्च झलि सनि दीर्घः स्यात्। चिचीषति। चिकीर्षति। जिहीर्षति। जिघांसति। अधिजिगांसते शास्त्रम्।
गमेरिङादेशस्य ग्रहणान्नेह--सञ्ञ्जिगंसते वत्सो मात्रा।
-6-4-17- तनोतेर्विभाषा ।।
सनि तनोतेर्वा दीर्घः स्यात्। तितांसति, तितंसति वा।
झलीत्येव--तितनिषति।
-6-4-18- क्रमश्च क्त्वि ।।
क्रमः क्त्वि वा दीर्घः स्यात्। क्रन्त्वा वा।
झलीत्येव--क्रमित्वा।
-6-4-19- च्छ्वोः शूडनुनासिके च ।।
सतुक्कस्य च्छस्य शो वस्य च ःढ़द्य;ठ् स्यादनुनासिके क्वौ झलि क्ङिति। विश्नः। प्रश्नः। पृष्टः। पृष्ट्वा। शब्दप्राशौ ।
इह क्ङितीति नानुवर्त्तते। क्विझलाद्यनुवृत्तिरपि वकारार्था। न च्छकारार्थेत्येके। तन्मतेन व्रश्चादिसूत्रेणैव झलि पदान्ते च च्छस्य षः।
पृष्टः। पृष्ट्वा। शब्दप्राट्। शब्दप्राड्भ्याम्। अजादौ तु शब्दप्राच्छौ इति। वस्योठ। सिवेरौणादिको नः। अक्षद्यूः। हिरण्यष्ठ्यूः। वस्त्रस्यूः। रत्नस्यूः। द्यूतम्। द्यूत्वा।
ये तु क्ङितीति नानुवर्त्तयन्ति, तेषां धावुदिवोर्यङ्लुकि पित्यक्ङित्यपि
झलि वस्योठ्--दाधौति, देद्योति।
अन्येषां वलि लोपे--दाधाति, देदेतीति।
-6-4-20- ज्वरत्वरश्रिव्यविमवामुपधायाश्च ।।
एषां वस्योपधायाश्चोठ् स्यात् क्वौ झलि क्ङिति। जः, जूरौ, जूर्णः जूर्त्तिः। तूः, तूरौ, तूर्णः, तूर्त्तिः। श्रूः श्रुवौ, श्रूतिः। ऊः, उवौ, ऊतिः। मूः, मुवौ, मूतिः।
-6-4-21- राल्लोपः ।।
रेफाच्छवयोर्लोपः स्यात् क्वौ झलि क्ङिति। मूर्च्छा, मूः, मुरौ, मूर्त्तिः। उर्वी, ऊः; ऊर्त्तिः। तुर्वी, तूः, तुरौ, तुरः, तूर्त्तिः।
-6-4-22- असिद्धवदत्राभात् ।।
आ भात् कार्याणि परस्परमसिद्धानि बोद्धव्यानि। एधि। शाधि। झलन्ताद्धिः। जहि। हिलोपो न भवति।
अत्रेति किम् ? व्याश्रये मा भूत्--प्रणमय्य गतः। णौ ह्रस्वो ल्यप्ययादेशेनासिद्धः। आ भात् किम् ? अभाजि रागः।
वुग्युटावुवङ्यणोः सिद्धौ वाच्यौ । बभूव। उपदिदीये।
-6-4-23- श्नान्नलोपः ।।
श्नमः परस्य नकारस्य लोपः स्यात्। अनक्ति। हिनस्ति।
-6-4-24- अनिदितां हल उपधायाः क्ङिति ।।
क्ङिति हलन्तानामुपधाया नकारस्य लोपः स्यात्। स्रस्तम्। सनीस्रस्यते।
अनिदितां किम् ? वदि--वन्द्यते। हलः किम् ? नीयते। उपधायाः किम् ? नह्यते। क्ङिति किम् ? स्रंसिता।
लङि्गकमम्प्योरुपतापशरीरविकारयोः । विलगितः। विकपितः।
-6-4-25- दंशसञ्ञ्जस्वञ्ञ्जां शपि ।।
एषां शपि नलोपः स्यात्। दशति। प्रसजति। परिष्वजते।
-6-4-26- रञ्ञ्जेश्च ।।
शपि नलोपः स्यात्। रजति। रजन्ति।
रञ्ञ्जेर्णौ मृगरमेण । रजयति मृगान्। रजिता मृगाः। मृगरमणे किम् ? रञ्ञ्जयति वस्त्रम्। घिनुणि तु त्यजराज इति निपातनान्नलोपः--रागी।
इह तु रजकः, रजनम्, रजतम्, रज इत्यौणादिकानां कित्त्वोः पगमाद् अनिदिताम् इत्येव नलोपः।
-6-4-27- घञ्ञि च भावकरणयोः ।।
अनयोर्घञ्ञि रञ्ञ्जेर्नलोपः स्यात्। रागो वर्त्तते। रागः कुङ्कुम।
अनयोः किम् ? रङ्गः।
-6-4-28-स्यदो जवे ।।
वेगे स्यदः स्यात्। स्यन्दोऽन्यत्र।
-6-4-29- अवोदैधोद्मप्रश्रथहिमश्रथाः ।।
ओद्म मनिन्नन्तम्। अन्ये घञ्ञन्ता निपात्यन्ते। उन्दी--अवोदः किञ्ञ्चिदार्द्रः। इन्धी--एधः काष्ठम्। उन्देर्मनिन्--ओद्म क्निन्नम्। प्रश्रथवद् भ्रमन्तमाजौ इति व्योषः। हिमं श्रथ्नाति मुञ्ञ्चति हिमश्रथश्चन्द्रः। निराकृतहिमश्रथा इति लुट्सर्गे भटि्टप्रयोगः।
-6-4-30- नाञ्ञ्चेः पूजायाम् ।।
पूजार्थस्याञ्ञ्चतेर्नलोपा न स्यात्। अञ्ञ्चिता गुरवः। अञ्ञ्च्यते।
पूजायामिति किम् ? उदक्तमुदकं कूपात्।
-6-4-31- क्त्वि स्कन्दिस्यन्दोः ।।
अनयोः क्त्वि नलोपो न स्यात्। स्कन्त्वा। स्यन्त्वा। प्रस्कन्द्य। प्रस्यन्द्य।
-6-4-32- जान्तनशां विभाषा ।।
जान्तानां नशेश्च नलोपा वा स्यात् क्त्वि। रङ्क्त्वा, रक्त्वा वा। भङ्क्त्वा, भक्त्वा वा। नंष्ट्वा, नष्ट्वा वा।
-6-4-33- भञ्ञ्जेश्च चिणि ।।
चिणि भञ्ञ्जेर्नलोपो वा स्यात्। अभाजि, अभञ्ञ्जि वा।
-6-4-34- शास इदङ्हलोः ।।
शासेरुपधाया इत् स्यादङि हलादौ क्ङिति। अन्वशिषत्। शिष्टः। शिष्टवान्। शिष्यः। वयं शिष्मः।
अङ्हलोः किम् ? अनुशासतमित्यनाकुलम्।
आङ्शासेर्नेष्यते--आशास्ते।
कथं क्विपि--आशीः? क्षियाशीः प्रैष्येषु इति ( 8-2-104 ) निपातनात्।
-6-4-35- शा हौ ।।
शासस्थाने हौ परे शाः स्यात्। शाधि नः करवाम किम्।
-6-4-36- हन्तेर्जः ।।
हौ हन्तेर्जः स्यात्। जहि शत्रून्।
-6-4-37- अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।।
झलि एषां क्ङित्यनुनासिको लुप्यते। यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः। किति। यतम्। यत्वा। यतिः। ङिति हतः। हथः। वनतेः क्तिन्--वतिः। तनोत्यादेर्गणात्--भन्ततिः। ततम्। तत्वा। क्षणु--क्षतम्। क्षत्वा। क्षतिः। ङिति--अतत। अतथाः।
झलि किम् ? गम्यते। रम्यते। रमित्वा। क्ङिति किम् ? गन्ता।
-6-4-38- वा ल्यपि ।।
तेषामनुनासिकलोपो ल्यपि वा स्यात्। उद्यत्य खड्गमर्जुनः। उद्यम्य वा। आगम्य, आगत्य वा। विरम्य, विरत्य वा।
व्यवस्थितविभाषया नकारस्य लोपो नित्य एव--आहत्य। अवमत्य। प्रतत्य।
कथं चतुर्दिगीशानवमन्य मानिनी इति ? तर्हि मन स्तम्भे इत्यस्य चौरादिकस्यानित्यण्यन्तत्वेऽस्तु।
-6-4-39- न क्तिचि दीर्घश्च ।।
क्तिचि तेषां लोपः, अनुनासिकस्य क्विझलो इति दीर्घश्च न स्यात्। यन्ति। रन्तिः। तन्तिः। अनुदात्तोपदेश इत्येव--कान्तिः। शान्तिः।
-6-4-40- गमः क्वौ ।।
क्वौ गमोऽसुनासिकलोपः स्यात्। अङ्गगत्। कलिङ्गगत्।
यमादीनामिति वक्तव्यम् । संयत्। आनत्। परीतत्। सुवत्।
ःढ़द्य;ङ् च गमादीनाम् । अग्रेगूः।
-6-4-41- विड्वनोरनुनासिकस्यात् ।।
अनुनासिकस्यादिति द्वयमधिक्रियते। विड्वनौ छान्दसी। अवावा। अवावरी।
-6-4-42- जनसनखनां सञ्ञ्झलौ ।।
एषामाकारः स्याज् झलादौ सनि क्ङिति च। सिषासति। सातः। तनादिभ्यस्तथासोः सिज्लुकि--असात, असाथाः। खातम्। जातम्। जातिः।
झलीत्येव--जिजनिषति। चिखनिषति। सिसनिषति।
-6-4-43- ये विभाषा ।।
यादौ क्ङिति तेषामाद्वा स्यात्। जायते, जन्यते वा। जाजायते, जञ्ञ्जन्यते वा। सायते, सन्यते वा। सायात्, सन्यात् व। खायते, खन्यते वा। चाखायते, चङ्खन्यते वा।
-6-4-44- तनोतेर्यकि ।।
तनोतेर्यक्याद्वा स्यात्। तायते, तन्यते वा।
यकि किम् ? तन्तन्यते।
-6-4-45- सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।।
सनोतेः क्तिचि लोपः स्याद्वा। आत्त्वं वा। सतिः, सातिः, सन्तिः वा।
-6-4-46- आर्धधातुके ।।
अधिकारोऽयं यावत् ल्यपि ( 6-4-66 ) इति।
-6-4-47- भ्रस्जो रोपधयो रमन्यतरस्याम् ।।
भ्रस्जो रेफोपधयोर्निवर्त्तको रमागमो वा स्यादार्धधातुके। भ्रष्टा,र्भष्टा वा। भ्रज्जनम् र्भज्जनं वा।
कथं भृष्टम् ? सम्प्रसारणस्य बलीयस्त्वात्।
-6-4-48- अतो लोपः ।।
आर्धधातुके ह्रस्वाकारस्य लोपः स्यात्। चिकीर्षिता। धिनुतः। कृणुतः।
वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन । चिकीर्षकः। जिहीर्ष्यते।
आर्धधातुक इत्येव--वृक्षत्वम्। वृक्षवान्।
-6-4-49- यस्य हलः ।।
हलः परस्य यकारस्य लोपः स्यात्। बेभिदिता। चेच्छिदिता।
यस्येति संघातग्रहणान्नेह--इर्र्ष्यिता।
हलः किम् ? लोलूयिता।
-6-4-50- क्यस्य विभाषा ।।
हलः परस्य क्यस्य वा लोपः स्यात्। समिधिता, समिध्यिता वा। समिधितुम्, समिध्यितुं वा। नमसितुम्, नमस्यितुं वा। नमसिता, नमस्यिता वा।
-6-4-51- णेरनिटि ।।
अनिट्यार्धधातुके णेलोपः स्यात्। पाक्तिः। याष्टिः।
इयङ्यण्गुणवृद्धिदीर्घेभ्योऽपि णिलोपः पूर्वविप्रतिषेधेन । अततक्षत्। आटिटत्। कारणा। कारकः। कारणम्। कार्यते।
अनिटि किम् ? कारयितव्यम्।
इह गणयतेर्यति गणेयम्, चिन्तयते रङि चिन्तियेति णिलोपोऽयं नास्ति; व्यवस्थितविभाषानुवर्त्तनादित्युक्तम्।
-6-4-52- निष्ठायां सेटि ।।
सेटि निष्ठायां णिलोपः स्यात्। कारितम्। गणितम्। लक्षितम्। सेटीति किम् ? संज्ञपितः पशुः।
-6-4-53- जनिता मन्त्रे ।।
      
-6-4-54- शमिता यज्ञे ।।
सूत्रद्वयं मन्त्रे।
-6-4-55- अयामान्ताल्वायेत्न्विष्णुषु ।।
आमादिषु णेरयादेशः स्यात्। आम्--कामयामास। कारयामास।
अन्तः--गण्डयन्तः। आलुः--स्पृहयालुः। अय्य -- स्पृहयाय्यः। इत्नुः--स्तनयित्नुः। इष्णुच्--पारयिष्णुश्छान्दसः।
-6-4-56- ल्यपि लघुपूर्वात् ।।
लघुपूर्वाल् ल्यपि णेरयादेशः स्यात्। प्रणमय्य गतः प्रबेभिदय्य गतः। परिगणय्य।
लघुपूर्वात् किम् ? प्रबोध्य। प्रयाच्य। प्रवाच्य।
-6-4-57- विभाषाऽऽपः ।।
आप्नोतेर्णेर्ल्यपि परस्यायादेशः स्याद्वा। प्राप्य, प्रापय्य वा।
-6-4-58- युप्लुवोर्दीर्घश्छन्दसि ।।
छन्दः सूत्रमेकम्।
-6-4-59- क्षियः ।।
क्षियो ल्यपि दीर्घः स्यात्। प्रक्षीय।
-6-4-60- निष्ठायामण्यदर्थे ।।
निष्ठायां क्षियो दीर्घः स्यात्। कर्त्तरि--उपक्षीणः। अधिकरणे--इदमेषां क्षीणम्। ण्यदर्थो भावकर्मणी, तत्र
निषेधः। क्षितमस्य जातम्। भावे क्तः।
-6-4-61- वाऽऽक्रोशदैन्ययोः ।।
आक्रोशे दैन्ये च वाच्येऽनन्तरो विधिर्वा स्यात्। क्षीणायुः, क्षितायुर्वा। दैन्ये--क्षीणो वराकः, क्षितो वा। क्षीणकः, क्षितको वा।
-6-4-62- स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।।
भावे कर्मणि च ये स्यादयस्तेष्वजन्तानां हनग्रहदृशाञ्ञ्च चिण्वत् कार्यं वा स्यात्। इट् च स्यादीनाम् भवति। भावे--शयिष्यते, शायिष्यते वा। कर्मणि--दास्यते, दायिष्यते वा गौः। सिचि--अदिषाताम्, अदायिषातां वा। सीयुट्--दासीष्ट, दायिसीष्ट वा। तासि--दाता, दायिता वा। धाता, धायिता वा।
एवं हन्तेः--हनिष्यते, घानिष्यते वा। वधिषीष्ट, घानिषीष्ट वा।
ग्रहेः--ग्रहीष्यते, ग्राहिष्यते वा। ग्रहीषीष्ट, ग्राहिषीष्ट वा।
दृशेः--द्रक्ष्यते, दर्शिष्यते वा। दृक्षीष्ट, दर्शिषीष्ट वा। द्रष्टा, दर्शिता वा।
इहाङ्गप्रकरणे चिण्वद्भावेनाङ्गमेव कार्यमतिदिश्यते। तेन हनिष्यते, घानिष्यते, अध्यायिष्यते वा। अध्येष्यते, अध्यायिष्वते वा। एष्यते आयिष्यते वा। हनिणिङां प्रकरणान्तरविहिता वधगागाङादेशा न भवन्ति।
-6-4-63- दीङो युडचि क्ङिति ।।
अजादौ क्ङिति दीङो युडागमः स्यात्। उपदिदीये। उपदिदीयिरे।
क्ङिति किम् ? उपदानम्।
-6-4-64- आतो लोप इटि च ।।
इट्यजादौ क्ङिति चातो लोपः स्यात्। पपिथ। तस्थिथ। पपतुः। पपुः। गोदः। सर्वदः। गोज्ञः। सर्वज्ञः।
-6-4-65- इर्द् यति ।।
आकारान्तानामीत् स्याद् यति। देयम्। धेयम्। गेयम्। ग्लेयम्।
दीर्घोच्चारणमुत्तरार्थम्।
-6-4-66- घुमास्थागापाजीहातिसां हलि ।।
हलादौ क्ङित्येषामीत् स्यात्। घु--दीयते। धीयते। देदीयते। मीयते। मेमीयते। गीयते। स्थीयते। अध्यगीष्ट। पीयते जलम्। हीयते। अध्यवसीयते।
पातेः, ओहाङश्च न भवति। पायते राज्ञा लोकः। उद्धायते सूर्येण प्रातः।
कथं स्थः क च इति क्विपि शंस्थाः ? क्वावीत्त्वप्रतिषेधः इति भाष्यम्।
-6-4-67- एर्लिङि ।।
तेषां लिङि स्यादेत्। देयात्। धेयात्। मेयात्। स्थेयात्। गेयात्। सोमं पेयात्। हेयात्। अध्यवसेयात्।
क्ङितीत्येव--दासीष्ट।
-6-4-68- वान्यस्य संयोगादेः ।।
तिष्ठतेरन्यस्य संयोगादेर्लिङि वा स्यादेत्। ग्लेयात्। ग्लायाद्वा। ध्येयात्। ध्यायाद्वा।
अङ्गस्येत्येव--निर्यायात्।
संयोगादेः किम् ? पायाद्वः पुरुशोत्तमः।
-6-4-69- न ल्यपि ।।
ल्यपि घुमादीनामीत्त्वं न स्यात्। प्रदाय। विधाय। प्रस्थाय। प्रमाय।
अनुमाय। उद्गाय। प्रहाय। विहाय। प्रपाय। अवसाय। उपमाय।
कथमापीय प्रातरेवेति ? पीङ् पाने। ते उद्गीय खलेन इति तु चिन्त्यम्।
-6-4-70- मयतेरिदन्यतरस्याम् ।।
मेङो ल्यपि वा स्यादित्। अपमित्य, अपमाय वा।
-6-4-71- लुङ्लङ्लृङ्क्ष्वडुदात्तः ।।
एष्वङ्गस्याडागमः स्यात्। अकार्षीत्। अकरोत्। अकरिष्यत्। अगमिष्यत्। अपचत्।
-6-4-72- आडजादीनाम् ।।
तेष्वजादीनामाट् स्यात्। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत।
-6-4-73- छन्दस्यपि दृश्यते ।।
छन्दः सूत्रमेकम्।
-6-4-74- न माङ्योगे ।।
माङ्योगेऽडाटौ न स्याताम्। मा भवान् कार्षीत्। मा स्म करोत्। मा भवानीक्षिष्ट।
कथं मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समा इति ? अडिता माशब्देनेति केचित्; तन्न, माङि लुङ् इति कालसामान्ये लुङनुपपत्तेः। तस्माच्चिन्त्यमेतत्।
-6-4-75- बहुलं छन्दस्यमाङ्योगेऽपि ।।
      
-6-4-76- इरयो रे ।।
छन्दः सूत्रद्वयम्।
-6-4-77- अचिश्नुधातुभ्रुवां य्वोरियङुवङौ ।।
अजादावेषामिकारोकारयोरियङुवङौ स्याताम्। श्नुः--शक्नुवन्ति। धातोः--चिक्षियतुः, चिक्षियुः। श्रियः। नियः। लुवः। पुवः। भुवः। अक्षद्युवः। भ्रुवौ। भ्रुवः।
अचि किम् ? शक्नुयात्। राध्नुयात्।
इयङुवङ्भ्यां गुणवृद्धी विप्रतिषेधेन । चयनम्। चायकः। लवनम्। लावकः।
-6-4-78- अभ्यासस्यासवर्णे ।।
अभ्यासस्य य्वोरसवर्णेऽचि तौ स्याताम्। इयाय। इयर्त्ति। इयेष। उवोष।
असवर्णे किम् ? ःढ़द्य;षुः।
-6-4-79- स्रियाः ।।
स्रीशब्दस्याचि स्यादियङ्। स्त्रियौ। स्त्रियः।
स्त्रीणामित्यत्र परत्वान्नुट्।
-6-4-80- वाऽम्शसोः ।।
स्त्रिया अमि शसि चेयङ् वा स्यात्। स्त्रियं पश्य। स्त्रीम् पश्य। स्त्रियः पश्य। स्त्रीः पश्य।
-6-4-81- इणो यण् ।।
इणोऽचि यण् स्यात्। यन्ति। यन्तु। इर्युः।
इयङादेशापवादोऽयं योगः।
अयं यण् मध्येऽपवादत्वाद् गुणवृद्धिभ्यां परत्वाद् बाध्यते। अयनम्। आयकः। इयाय।
-6-4-82- एरनेकाचोऽसंयोगपूर्वस्य ।।
इकारान्तस्यानेकाचोऽङ्गस्याचि यण् स्यात्। निन्यतुः, निन्युः। निन्यिरे। उन्नयौ। प्रण्यौ। सेनान्यौ। सेनान्यः। ग्रामण्यौ।
क्विबन्तस्य गतिकारकपूर्वस्यैवेष्येते। ततो नेह--परमनियौ। परमनियः।
गतिसाहचर्यात् कारकपूर्वस्यापि नित्यसमासेऽभ्युपगमान्नेह--श्रवणे धीर्यस्य तेन श्रवणधिया। असंयोगपूर्वस्य किम् ? चिक्षियतुः। चिक्षियुः। यवक्रियौ।
कथमुन्नयौ ? धातोरिस्येव--तेन धात्ववयवसंयोगस्त्याज्यः।
-6-4-83- ओः सुपि ।।
उवर्णान्तस्याजादौ सुपि यण् स्यात्। धर्मस्वौ। धर्मस्वः। खलप्वौ। स्वलप्वः। अङ्गदस्वं पुनर्हन्तुम्।
सुपि किम् ? लुलुवतुः। लुलुवुः। अनेकाजित्येव । लुवौ। लुवः। असंयोगपूर्वस्येत्येव - कटप्रुवौ। कटप्रुवः।
गतिकारकपूर्वस्येत्येव--परमलुवौ, परमलुवः। परमसुवौ।
-6-4-84- वर्षाभ्वश्च ।।
वर्षाभ्वोऽचि सुपि यण् स्यात्। वर्षाभ्वम्। वर्षाभ्वः।
चकारात् दृन्भ्वौ। पुनभ्वौ। कारभ्वौ।
-6-4-85- न भूसुधियोः ।।
अनयोर्यण् नास्ति। प्रतिभुवौ। सुधियौ।
-6-4-86- छन्दस्युभयथा ।।
छन्दः सूत्रमेकम्।
-6-4-87- हुश्नुवोः सार्वधातुके ।।
अनयोरजादौ यण् स्यात्। जुह्वति। श्नुः--चिन्वन्ति।
सार्वधातुके किम् ? जुहुवुः। असंयोगपूर्वस्यैव--प्राप्नुवन्ति। हुश्नुवोः किम् ? योयुवति। रोरुवति।
-6-4-88- भुवो वुग् लुङि्लटोः ।।
लुङि्लटोरचि भुवो वुक् स्यात्। बभूव। बभूवे। अभूवन्। अभूवम्। व्यतिबभूवे। अनुबभूवे।
-6-4-89- ःढ़द्य;दुपधाया गोहः ।।
गोह उपधाया ःढ़द्य;त् स्यात्। निगूहयति। निगूहकः।
गोहः किम् ? निजुगुहुः। अचीत्येव--निगोढुम्, विगोढुम्।
-6-4-90- दोषो णौ ।।
दुषेर्णावुपधाया ऊत् स्यात्। दूषयति। दूषकः। दूषणम्।
-6-4-91- वा चित्तविरागे ।।
अत्र पूर्वो विधिर्वा स्यात्। चित्तं दूषयति, दोषयति वा।
-6-4-92- मितां ह्रस्वः ।।
णौ मित्संज्ञकानामुपधाया ह्रस्वः स्यात्। घटयति। व्यथयति। गमयति। जनयति।
वेत्येव, सा च व्यवस्थितविभाषा, तेन सङ्क्रामयति इत्यादि सिद्धमित्येके।
-6-4-93- चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।।
चिणि णमुलि च परे णौ मितामुपधाया दीर्घो वा स्यात्। अशामि, अशमि वा। शामं शामम्। शमं शमं वा। हेडृ वेष्टने। मित्। अहिडि, अहीडि वा।
-6-4-94- खचि ह्रस्वः ।।
खचि णावुपधाया ह्रस्वः स्यात्। द्विषन्तपः। परन्तपः। पुरन्दरः।
-6-4-95- ह्लादो निष्ठायाम् ।।
अस्योपधाया ह्रस्वः स्यात्। प्रह्लन्नः। प्रहृलन्नवान्।
निष्ठायां किम् ? प्रह्लादयति। क्तिन्यपि--प्रह्लत्तिः।
-6-4-96- छादेर्घेऽद्व्युपसर्गस्य ।।
घे परतश्छादेरुपधाया ह्रस्वः स्यात्। उरश्छदः प्रच्छदः।
वचनसार्मथ्यादत्र णिलोपदर्शनं बाध्यते।
अद्व्युपसर्गस्य किम् ? समुपच्छादः।
द्विग्रहणमनेकोपलक्षणार्थम्। समुपातिच्छादः।
-6-4-97- इस्मन्त्रन्क्विषु च ।।
एषु च्छादेर्ह्रस्वः स्यात्। इस्--छदिः। मन्--छद्म। त्रन्--छत्रम्। क्विप्--परिच्छत्।
-6-4-98- गमहनजनखनघसां लोपः क्ङित्यनङि ।।
एषां क्ङित्युपधाया लोपः स्यात्। जग्मुः। सञ्ञ्जग्माते। घ्नन्ति। घ्नन्। जघ्नुः। जज्ञिरे। उच्चख्नुः।
जक्षुर्विसम्। क्षुद्रान्न जक्षुर्हरिणान् मृगेन्द्राः।
अनङि किम् ? अगमत्। अघसत्। अचीत्येव--गम्यते। हन्यते।
-6-4-99- तनिपत्योश्छन्दसि ।।
      
-6-4-100- घसिभसोर्हलि च ।।
छन्दः सूत्रद्वयम्।
-6-4-101- हुझल्भ्यो हेर्धिः ।।
जुहोतेर्झलन्ताच्च हेर्धिः स्यात्। जुहुधि। पूर्वमङ्ग जुहुधि त्वमेव वा। भिन्धि। छिन्धि।
हुझल्भ्योः किम् ? लुनीहि। पुनीहि।
भिन्तात्त्वमिति परत्वात् तातङ्।
कथं रुदिहि ? निर्दिश्यमानस्यैवादेशा भवन्ति इति वचनात्, इह त्विटा व्यवधानात्।
कथं तर्हि भिन्धकि ? परत्वादग्रे धिभावः, ततोऽकच्।
-6-4-102- श्रुशृणुपॄकृवृभ्यश्छन्दसि ।।
      
-6-4-103- अङितश्च ।।
छन्दःसूत्रद्वयम्।
-6-4-104- चिणो लुक् ।।
क्ङितीत्येव। चिणः परस्य क्ङितोर्लुक् स्यात्। अलावि। अहारि सीता दशकन्धरेण।
क्ङितः किम् ? अकारितराम्।
-6-4-105- अतो हेः ।।
अदन्तात् परस्य हेर्लुक् स्यात्। पच। पठ। भव।
अतः किम् ? प्राप्नुहि। तपरः किम् ? याहि।
-6-4-106- उतश्च प्रत्ययादसंयोगपूर्वात् ।।
उत्प्रत्ययाद्धेर्लुक् स्यात्। चिनु। तनु। कुरु।
प्रत्ययात् किम् ? युहि। रुहि। असंयोगपूर्वात्। किम् ? शक्नुहि। प्राप्नुहि। ःढ़द्य;र्णुहि। घर्णुहि।
-6-4-107- लोपश्चास्यान्यतरस्यां म्वोः ।।
अस्येत्युप्रत्ययस्य म्वोः परयोर्वा लोपः स्यात्। चिन्वः, चिनुवो वा। चिन्मः, चिनुमो वा।
लुकि लोपग्रहणमन्त्यलोपार्थम्। असंयोगपूर्वस्येत्येव--शक्नुवः।
-6-4-108- नित्यं करोतेः ।।
कृञ्ञ उप्रत्ययस्य नित्यं लोपः स्यान् म्वोः। कुर्वः। कुर्वहे। कुर्मः। कुर्महे।
-6-4-109- ये च ।।
ये परे कृञ्ञ उपत्ययो लुप्यते। कुर्यात्। कुर्याताम्।
-6-4-110- अत उत् सार्वधातुके ।।
उप्रत्ययान्तस्य करोतेरत उत् स्यात्। कुरुतः। कुर्वन्ति। कुरु। कुर्वन्। कुर्वाणः।
क्ङितीत्येव--करोति।
-6-4-111- श्नसोरल्लोपः ।।
श्नसोरल्लोपः स्यात् सार्वधातुके क्ङिति। भिन्दति। भिन्द्यात्। भिन्द्युः। छिन्दन्ति। अस--स्तः। सन्ति। स्यात्। एधि।
कथमस्यति ? अस्तेरिह ग्रहणात् निरनुबन्धकत्वात्।
श्नसोः इति पररूपत्वं सौत्रत्वात्।
-6-4-112- श्नाभ्यस्तयोरातः ।।
श्ना इत्यस्याभ्यस्तानां चातो लोपः स्यात् सार्वधातुके क्ङिति। लुनन्ति। लुनते। लनन्। पुनते। ददति। ददत्।
-6-4-113- इर् हल्यघोः ।।
श्नाभ्यरतयोरातः इर्ः स्याद् हलादौ क्ङिति सार्वधातुके। लुनीते। मिमीते। जिहीते।
अघोः किम् ? दत्ते। धत्ते।
-6-4-114- इद् दरिद्रस्य ।।
दरिद्रातेरित् स्यात् तस्मिन् परतः। दरिद्रितः। दरिद्रिथः। हलीत्येव--दरिद्रति।
दरिद्रातेरार्धधातुके लोपः । सिद्धश्च प्रत्ययविधौ। दरिद्रः। पचाद्यच्। श्याद्वघ इति णो न भवति।
अद्यतन्यां वा । अदरिद्रीत्। अदरिद्रासीत्। अदरिद्रि। अदरिद्रायि।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ।।
-6-4-115- भियोऽन्यतरस्याम् ।
हलि क्ङिति सार्वधातुके भिय इद्वा स्यात्। बिभितः, बिभीतो वा। न तदा बिभिमः स्वयम्। बिभीमो वा। अन्योन्यतः पथि वताबिभिताविभोष्ट्रौ।
-6-4-116- जहातेश्च ।।
जहातेरिद्वा स्यात् पूर्ववत्। जहितः, जहीतो वा।
-6-4-117- आ च हौ ।।
हौ जहातेरा च इच्च वा स्यात्। जहाहि, जहिहि, जहीहि वा।
-6-4-118- लोपो यि ।।
यादौ क्ङिति जहातेर्लोपः स्यात्। जह्यात्। जह्युः।
उक्तं सार्वधातुके ।।
-6-4-119- घ्वसोरेद्भावभ्यासलोपश्च ।।
हौ परतो घ्वसोरेत् स्यादभ्यासलोपश्च। घु--देहि, धेहि। अस्--एधि।
-6-4-120- अत एकहल्मध्येऽनादेशादेर्लिटि ।।
लिटि एकैकहल्मध्यगतस्यात एत्त्वं स्यादभ्यासलोपश्च। रेणतुः, रेणुः। रेभे । पेचे।
अनादेशादेरङ्गस्य किम् ? बभणतुः। बभणुः। कथं नेमतुः, नेमुः, सेहे ? लिट्यादेशादिं वर्जयेत्। एकहल्मध्ये किम् ? ततक्षतुः, ततक्षुः। तत्सरतुः, तत्सरुः।
क्ङितीत्येव--अहं पपच। अतः किम् ? ररासे।
नशिमन्योरलिट्येत्त्वं क्वापि । अनेशम्। लुङि पुषाद्यङ। मेनका। आशिषि वुन्। क्षिपकादिः। स चाकृतिगणः, तेन नेत्त्वम्।
-6-4-121- थलि च सेटि ।।
पूर्ववदत्र एत्त्वाभ्यासलोपौ स्याताम्। पेचिथ। शेकिथ। सेटि किम् ? पपक्थ।
अतः परं क्ङिति लिट्यभ्यासलोपस्थलि च सेटीत्युनवर्त्तते।
-6-4-122- तॄफलभजत्रपश्च ।।
एषामत एत्त्वं स्यात्, तस्मिन् अभ्यासलोपश्च। तेरतुः। तेरुः। तेरिथ। फेलतुः। फेलुः। फेलिथ। भेजतुः।
भेजुः। भेजिथ। त्रेपे। त्रेपिरे।
तरतेर्गुणार्थं वचनम्, फलिभज्योरादेशार्थम्, त्रपेरनेकहल्मध्यार्थम्। चकारात्--श्रेथुतुः। श्रेथुः। देभतुः। देभुः। दम्भेरपि पूर्वेणाप्राप्तिः; नलोपस्यासिद्धत्वात्।
-6-4-123- राधो हिंसायाम् ।।
राधेः स्यादेत्त्वमेकहल्मध्यस्थस्य। अपरेधतुः। अपरेधुः। अपरेधिथ।
हिंसायां किम् ? आरराधुर्देवताम्।
-6-4-124- वा जॄभ्रमुत्रसाम् ।।
एषां लिट्येत्त्वं स्याद्वा। जेरुः, जर्जरुवा। जेरिथ, जजरिथ वा। भ्रेमुः, बभ्रमुर्वा। त्रेसतुः, तत्रसतुर्वा।
-6-4-125- फणाञ्ञ्च सप्तानाम् ।।
फणराजृभ्राजृभ्राशभ्लाशस्यमुखनामेत्त्वं स्याद्वा फेणुः, पफणुर्वा। फेणिथ, पफणिथ वा। रेजे, रराजे वा। भ्रेजे, बभ्राजे वा। भ्रेजिरे, बभ्राजिरे वा। भ्लेशे, बभ्लाशे वा। भ्लेशिरे, बभ्लाशिरे वा। स्येमतुः, सस्यमतुर्वा। स्येमुः, सस्यमुर्वा। स्वेनतुः, सस्वनतुर्वा। स्वेनुः, सस्वनुर्वा।
क्ङितीत्येव--रराज। सप्तानां किम् ? दध्वनतुः, दध्वनुः।
-6-4-126- न शसददवादिगुणानाम् ।।
शसिदद्योर्दन्तौष्ठ्यवकारादीनां गुण इत्यभिनिर्वृत्तस्य च लिट्येत्त्वं न स्यात्। विशशसतुः, विशशसुः। विशशसिथ। दददे। दददाते। ववमुः शोणितं दैत्याः। ववमिथ। गुणस्य--विशशरतुः। विशशरुः। विशशरिथ। लुलविथ।
रूपाभेदादादेशादित्वं न गृह्यत इति ज्ञापनार्थं शशिददिग्रहणम्। तेन पेचतुः, चेलुरित्यादावप्येत्त्वं सिध्यति।
-6-4-127- अर्वणस्रसावनञ्ञः ।।
                          
-6-4-128- मघवा बहुलम् ।।
इह छन्दःसूत्रद्वयम्। युदुक्तं भाष्ये--अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् इति।
कथं श्लथीकृतप्रग्रहमर्वतां व्रजम इति माघः, मघवद्वज्रलज्जानिदानम् इति व्योषः ? छान्दसानपि संज्ञाशब्दत्वात् कवयो भाषायां प्रयुञ्ञ्जते। यथा--परिपन्थी, अध्वर्युः, दीधितिः, तुराषाट्। पृतनाषाडित्यादि।
-6-4-129- भस्य ।।
अधिकारोऽयमा पादपरिसमाप्तेः।
-6-4-130- पादः पत् ।।
पादन्तस्य पत् स्यात्। द्विपदः। द्विपदा। द्विपदे। द्विपदिका। वैयाघ्रपद्यः।
भस्य किम् ? द्विपादं पश्य।
-6-4-131- वसोः सम्प्रसारणम् ।।
स्यात्। क्वसुः--उपेयुषामपि दिवम्। ःढ़द्य;षुषाम्। वसुः--विदुषा। विदुषी स्त्री।
-6-4-132- वाह ःढ़द्य;ठ् ।।
छान्दसोऽयम्। वहेश्छन्दसि ण्विविधानात्।
-6-4-133- श्वयुवमघोनामतद्धिते ।।
एषां सम्प्रसारणं स्यात्। शुना, शुने। यूना, यूने। मघोना, मघोने।
कथं युवतीः पश्येति ? लिङ्गविशिष्टग्रहणं नेष्यते। अतद्धित इति किम् ? विकारेऽञ्ञ्। शौवं मांसम्।
-6-4-134- अल्लोपोऽनः ।।
भस्य अन्नन्तस्याल्लोपः स्यात्। राज्ञा। राज्ञे। राज्ञी। तक्ष्णः। तक्ष्णा।
अह्ना निर्वृत्तमाह्निकम्।
इहाङ्गाधिकारोपगमाद् वृषणश्वः, वृषण्वसुरित्यत्र सत्यपि भत्वेऽङ्गत्वाभावादल्लोपो नास्ति।
-6-4-135- षपूर्वहन्धृतराज्ञामणि ।।
एषामल्लोपः स्यादणि। औक्ष्णः। ताक्ष्णः। भ्रौणघ्रः। वार्त्रघ्नः। धार्त्तराज्ञः। एभ्योऽन्यत्र--सामनः।
अणि किम् ? ताक्षण्यः।
-6-4-136- विभाषा ङिश्योः ।।
अनोऽकारलोपो ङिश्योर्वा स्यात्। राज्ञि, राजनि वा। दध्नि, दधनि वा। श्याम्--साम्नी, सामनी वा। दाम्नी, दामनी वा।
-6-4-137- न संयोगाद् वमन्तात् ।।
वमन्तात् संयोगात् परस्यानोऽल्लोऽपो न स्यात्। पर्वणा। पर्वणे। चर्मणि। वर्मणि। शर्मणा। शर्मणि। वर्मणा। कर्मणा। कर्मणि। सुपर्वणः। अथर्वणा। अथर्वणः।
-6-4-138- अचः ।।
लुप्तनकारस्याञ्ञ्चतेर्भस्याल्लोपः। स्यात्। दधीचा। दधीचः। मधूचे। मधचः। प्रतीची। प्रतीच्यम्। समीची। समीचीनम्।
-6-4-139- उत इर्त् ।।
उदः परस्याच इर्त् स्यात्। उदीचः पश्य। उदीचा। उदीचाम्। उदीची। उदीच्यम्।
-6-4-140- आतो धातोः ।।
भस्यातो धातोर्लोपः स्यात्। शंस्थः पश्य। शंस्था कृतम्। शंस्थ इदं शांस्थम्। सोमपा। सोमपे।
धातोः किम् ? खट्वाः पश्य।
[449] कथं क्त्वो ल्यप्, क्रमश्च क्त्वि इति ? निपातनात्। एकदेशानुकरणं वा, यथा प्राग्दीव्यतोऽण्।
आत इति योगविभागादित्येके। अथ वा--आतोऽनापः इति वक्तव्यमस्ति।
-6-4-141- मन्त्रेष्वाङ्यादेरात्मनः ।।
छान्दसम्।
-6-4-142- ति विंशतेर्डिति ।।
विंशतेर्डिति तिशब्दो लुप्यते। डुन् -- विंशकोऽश्वः। द्वाविंशकः। डः -- विंशं शतम्।
डिति किम् ? विंशतिकोऽश्वः।
-6-4-143- टेः ।।
डिति भस्य टेर्लोपः स्यात्। त्रिंशकः। एकादशः सर्गः।
कथं कुमुद्वानिति ? डित्यभस्याप्यनुबन्धकरणसार्मथ्याटि्टलोपः।
-6-4-144- नस्तद्धिते ।।
भस्य नान्तस्य तद्धिते टिलोपः स्यात्। आग्निशर्मिः। और्ध्वलोमिः। बाह्वादित्वादिञ्।
सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिशूकरसद्मसुपर्वणाम् ।। एषां प्रकृतिभावापवादष्टिलोपः स्यात्। सब्रह्मचारिण इमे साब्रह्मचाराः। पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः। कौथुमाः। तैतिलाः। जाजलाः। लाङ्गलाः। शैलालाः। शैखण्डाः। शौकरसद्माः। सौपर्वाः।
चर्मणः कोशे । चार्मः कोशः। चार्मणोऽन्यत्र।
अश्मनो विकारे । आश्मः प्रासादः। आश्मनः। तस्येदम् इत्यण्।
शुनः सङ्कोचे । शौवः सङ्कोचः।
अव्ययानां च भमात्रे टिलोपः सायम्प्रातिकाद्यर्थः । सायम्प्रातिकः। पौनःपुनिकः। कालाट् ठञ्। सायम्प्रातिकाद्यर्थ इति किम् ? [450]
आरातीयः -- वृद्धाच्छः। सन्धिवेलाद्यण् -- शाश्वतः। शाश्वतिकस्तु निपातनात्।
-6-4-145- अह्नष्टखोरेव ।।
टखोरेवाह्नष्टिलोपः स्यात्। द्वयोरह्नोः समाहारो द्व्यहः। त्र्यहः। द्वे अहनी भृतो भूतो भावी वा द्व्यहीनः।
टखोः किम् ? अह्ना निर्वृत्तमाह्निकम्।
-6-4-146- ओर्गुणः ।।
उवर्णान्तस्य भस्य तद्धिते गुणः स्यात्। औपगवः। बाभ्रव्यः। संज्ञापूर्वकस्यानित्यत्वाद् -- धाम स्वायम्भुवं
ययुः।
-6-4-147-ढे लोपोऽकद्र्वाः ।।
उवर्णान्तस्य ढे लोपः स्यात्। कामण्डलेयः। जाम्बेयः।
अकद्रवाः किम् ? काद्रवेयः।
-6-4-148- यस्येति च ।।
इ अ यः, तदन्तस्य भस्य लोपः स्यादीति तद्धिते च परतः। सखी। गार्गी। दाक्षी कुमारी। तद्धिते-वलिः। वालेयास्तण्डुलाः। दाक्षिः। चौङिः।
श्यां प्रतिषेधः । काण्डे। कुण्डे।
इयङ्कवङ्भ्यां लोपो विप्रतिषेधेन । वत्सप्रीः गौः, तस्यापत्यं वात्सप्रेयः--चतुष्पाद्भ्यो ढञ्ञ्। लैखाभ्रेयः--शुभ्रादिभ्यो ढक्।
-6-4-149- सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।।
एषामुपधायकारो लुप्यते।
सूर्यस्य ङ्यां छे च । सौरी बलाका। सौरीयास्तण्डुलाः।
तिष्यपुष्योर्नक्षत्राणि । तैषः। पौषः।
आगस्त्यस्य ङ्यां च च्छे च । आगस्ती। ऋष्यणि ङीप्--आगस्तीयाः।
मत्यस्य ङ्यामेव । मत्सी। ङ्यां किम् ? मात्स्यो न्यायः प्रवर्तते। उपधायाः किम् ? मत्स्यचरी।
इहान्तिकस्य तसि कादिलोपो बहुलम् । अन्तिकः। अन्तितः।
तमे तादेश्च । अन्तमः। अन्तिकतम इति भाषायामपीच्छन्ति। कादिलोपे अन्तितमः।
-6-4-150- हलस्तद्धितस्य ।।
हलः परस्य तद्धितयकारस्य लोपः स्यादीति परतः। सौमी इष्टिः। आनुपूर्वी। वैदग्धी। औचिती। वार्केणी। गार्गी। वात्सी।
हलः किम् ? कारिकेयी।
तद्धितस्य किम् ? वैद्यी। वैद्यस्य भार्या।
-6-4-151- आपत्यस्य च तद्धितेऽनाति ।।
आपत्ययकारस्य तद्धितेऽनाकारादौ लोपः स्यात। गार्गीयः। वात्सीयः। समूहे गोत्राद् वुञ्ञ्--गार्गकम्।
आपत्यस्य किम् ? साङ्काश्यकः। अनाति किम् ? गार्ग्यायणः। यञ्ञिञ्ञोश्च इति फक्। हल इत्येव--कारिकेयिः।
-6-4-152- क्यच्व्योश्च ।।
क्यच्व्योश्चापत्ययकारस्य लोपः स्यात्। वात्सीयति। वात्सायते। गार्गीभूतः। वात्सीभूतः। हल इत्येव--आत्रेयीयति।
आपत्यस्य किम् ? साङ्काश्यीयति।
-6-4-153- बिल्वकादिभ्यश्छस्य लुक् ।
एभ्यो नडादीनां कुक् च इति च्छप्रत्ययान्तेभ्यस्तद्धिते च्छमात्रस्य लुक् स्यात्। बिल्वा यस्यां सन्ति बिल्वकीया, बिल्वकीयायां भूमौ भवा वैल्वकाः। बैणुकाः।
-6-4-154- तुरिष्ठेमेयःसु ।।
इष्ठेमेयःसु इवत्यधिक्रियते। तु इति च्छन्दोभागः।
-6-4-155- टेः
भस्य टेरिष्ठन्नादिषु लोपः स्यात्। पटुः, पटिष्ठः, पटिमा, पटीयान्।
णाविष्ठवत् कार्यं प्रातिपदिकस्य ।
पुंवद्भावरभावटिलोपयणादिपलोपाद्यर्थं वचनम्। एनीमाचष्टे एतयति। प्रथयति। दूषद्--दृषयति। दूर--दवयति।
प्रादयोऽपीष्टाः। प्रियं स्थिरमाचष्टे प्रापयति स्थापयति।
-6-4-156- स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।
तेषु स्थूलादिशब्दानां परो यणादिभागे लुप्यते, पूर्वस्य च गुणः। स्थविष्ठः, स्थवीयान्। दविष्ठः, दवीयान्। यविष्ठः, यवीयान्। ह्रस्वक्षिप्रौ पृथ्वादी। ह्रसिष्ठः, ह्रसिमा, ह्रसीयान्। क्षेपिष्ठः, क्षेपिमा, क्षेपीयान्। क्षोदिष्ठः, क्षोदीयान्।
पूर्वग्रहणं विस्पष्टार्थम्।
-6-4-157- प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ।।
तेषु प्रियादिदशकस्य प्रादयो दशैव स्युः। प्रियोरुलघुगुरुबहुलदीर्घाः पृथ्वादयः। तेषामेवेमनिजुदाहार्यः। प्रेमा, प्रेष्ठः, प्रेयान्। एवं स्थेष्ठः। स्फेष्ठः। वरिष्ठः। गरिष्ठः। त्रपिष्ठः। द्राघीयान् द्राघिमा, द्राघिष्ठः। वृन्दिष्ठः। वृन्दीयान्। बंहिवर्षीकार उच्चारणार्थः। बंहिष्ठः। वर्षिष्ठः।
-6-4-158- बहोर्लोपो भू च बहोः ।।
      
-6-4-159- इष्ठस्य यिट् च ।।
बहोरिष्ठादीनामादिलोपः स्याद् बहोश्च भूरादेशः। भूयान्। भूमा। भूम्नां रसानां गहनाः प्रयोगाः। इष्ठस्य यिडागमश्च--भूयिष्ठः।
-6-4-160- ज्यादादीयसः ।।
ज्यात् परस्येयस आत् स्यात्। ज्यायान्, ज्यायांसौ।
आद्वचनं वैचित्र्यार्थम्। आदिलोपे कृते ह्यकृद्यकारे दीर्घोऽस्त्येव।
-6-4-161- र ऋतो हलादेर्लघोः ।।
हलादेरङ्गस्य लघुर्य ऋकारस्तस्य रेफः स्यात्। प्रथिष्ठः, प्रथिमा,प्रथीयान्। पृथुमृदुभृशदृढपरिढवृढानामेवाभिधानान्नेह--कृतमाचष्टे कृतयति। कृतिष्ठः। मातयति। पितयति। भ्रातयति।
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् ।।
-6-4-162- विभाषर्जोश्छन्दसि ।।
छान्दसम्।
-6-4-163- प्रकृत्यैकाच् ।।
तेषु भसंज्ञकैकाजङ्गं प्रकृत्या स्यात्। स्रजिष्ठः, स्रजीयान्। त्वचिष्ठः। त्वचीयान्। इष्ठेयसोर्विन्मतोर्लुक्। प्रेष्ठः, प्रेमा।
एकाजिति किम् ? पटिष्ठः।
इष्ठादिभ्योऽन्यत्र--अस्यापत्यम् इः। ज्ञा देवतास्य ज्ञः।
अके राजन्यमनुष्ययुवानः प्रकृत्या । राजन्यकम्। मानुष्यकम्--आपत्ययलोपो मा भूत्। यौवनिका--वुञ्ञ मनोज्ञादित्वात्। नस्तद्धिते इति टिलोपो मा भूत्।
-6-4-164- इनण्यनपत्ये ।।
अनपत्ये इन्नन्तमणि प्रकृत्या स्यात्। सांराविणम्। सांकूटिनम्। सांमार्जिनम्। स्रग्विण इदं स्राग्विणम्।
अनपत्ये किम् ? मेधाविनोऽपत्यं मैधावः पुत्रः।
-6-4-165- गाथिविदथिकेशिगणिपणिनश्च ।।
अपत्यार्थोऽयमारम्भः। इमेऽपत्येऽप्यणि प्रकृत्याः स्युः। गाथिनः। वैदथिन-। कैशिनः। गाणिनः। पाणिनः।
-6-4-166- संयोगादिश्च ।।
अपत्येऽणि संयोगादिरिन् प्रकृत्या स्यात्। शाङि्खनः। वाज्रिणः। वाग्मिनः। नान्दिनः।
-6-4-167- अन् ।।
अन्नन्तमण्मात्रे प्रकृत्या स्यात्। सामनः। सौत्वनः।
-6-4-168- ये चाभावकर्मणोः ।।
यादौ तद्धितेऽन् प्रकृत्या स्यात्। सामन्यः। अध्वन्यः। शीर्षण्यः।
ब्रह्मण्यः।
अभावाकर्मणोः किम् ? राज्ञो भावः कर्म वा राज्यम् पुरोहितादिः।
-6-4-169- आत्माध्वानौ खे ।।
एतौ खे प्रकृत्या स्याताम्। आत्मनीनम्। अध्वनीनम्।
खे किम् ? अध्यात्मम्। प्रत्यात्मम्। प्राध्वम्।
-6-4-170- न मपूर्वोऽपत्येऽवर्मणः ।।
अनिति वर्त्तते। अन्नित्येव। मकारपूर्वोऽन् न प्रकृत्या स्यात्। भाद्रसामः। सौषामः पुत्रः।
अपत्ये किम् ? चार्मणो रथः। तेन परिवृतः। अवर्मणः किम् ? चान्द्रवर्मणः। चाक्रवर्मणः पुत्रः।
वा हितनाम्रः । हैतनामः पुत्रः, हैतनामनो वा।
-6-4-171- ब्राह्मोऽजातौ ।।
अणि निपात्यते। ब्राह्मो दण्डः। ब्राह्मी ओषधिः।
जातावपत्ये निषेध इत्यागमः। ब्रह्मणोऽपत्यं जातिर्ब्राह्मणः।
अपत्यमात्रे तु ब्राह्मो नारद इत्याहुः।
-6-4-172- कार्मस्ताच्छील्ये ।।
कर्मशीलः कार्मश्छत्रादिः। कार्मणमन्यत्र।
-6-4-173- औक्षमनपत्ये ।।
इदमत्र निपात्यते। औक्षं पदम्। अनपत्ये किम् ? औक्ष्णो वत्सः।
-6-4-174- दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्यमयानि ।।
पञ्ञ्चानां प्रकृतिभावो द्वयोस्तत्वं लोपश्चतुर्णां निपात्यते। दण्डिन्हस्तिनौ नडादी। अथर्वन्नुक्थादिः। जिह्माशिन् शुभ्रादिः। वासिन् वृद्धाद् इति फिञ्ञ्। भ्रूणहन्। धीवन्। भावे ष्यञ्ञ्। धैवत्यं
छान्दसमित्येके। नेत्यन्ये। सरय्वा अण् यलोपश्च। सारवः। इक्ष्वाकोरपत्यमुलोपः। ऐक्ष्वाकः, ऐक्ष्वाकौ। क्षत्रियादञ्ञ्। बहुत्वे लुक्--इक्ष्वाकवः। तेषामयमैक्ष्वाको वंशः। मित्रयोर्गृष्ट्यादिढञ्ञ्। यादिलोपः। मैत्रेयः। हिरण्यस्य मयटि यलोपः। हिरण्मयः।
-6-4-175- ऋत्व्यवास्त्वास्त्वयवमाध्वीहिरण्ययानिच्छन्दसि ।।
छान्दसम्।