भाषावृत्तिः/पञ्चमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः भाषावृत्तिः
पञ्चमोऽध्यायः
पुरुषोत्तमदेव
तृतीयः पादः →


पञ्ञ्चमाध्याये द्वितीयः पादः
तद्धितेषु पाञ्ञ्चमिकप्रकरणम्
-5-2-1- धान्यानां भवने क्षेत्रे खञ्ञ् ।।
धान्यवाचिभ्योऽत्र खञ्ञ् स्यात्। भवन्त्यत्रेति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्। धान्यीनम्। कौलत्थीनम्। कौद्रवीणम्।
-5-2-2- व्रीहिशाल्योर्ढक् ।।
आभ्यां ढक् स्यात्। व्रैहेयम्। शालेयम्।
-5-2-3- यवयवकषष्टिकाद् यत् ।।
एभ्यो यत् स्यात्। यव्यं क्षेत्रम्। यवक्यम्। षष्टिक्यम्।
-5-2-4- विभाषा तिलमाषोमाभङ्गाणुभ्यः।।
एभ्यो यद्वा स्यात्। तिल्यं क्षेत्रम् तैलीनं वा। माष्यम्, माषीणं वा। उम्यम्, औमीनं वा। भङ्ग्यम्, भाङ्गीनं वा। अणव्यम्, आणवीनं वा।
-5-2-5- सर्वचर्मणः कृतः खखञ्ञौ ।।
अस्मात् कृतार्थे खखञ्ञौ स्याताम्। सर्व एव चर्मणा कृतः सर्वचर्मीणो रथः। सार्वचर्मीणः।
-5-2-6- यथामुखसमम्मुखस्य दर्शनः खः ।।
आभ्यां दर्शनार्थे खः स्यात्। मुखस्य सादृश्यं यथामुखम्। निपातनात् समासः। समं मुखं सम्मुखम्। दृश्यतेऽस्मिन्निति दर्शनः। यथामुखस्य दर्शनो यथामुखीनो दर्पणः। यथामुखीनः सीताया हेमरत्नमयो मृगः। सम्मुखस्य दर्शनः सम्मुखीनः।
-5-2-7- तत्सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रं व्याप्नोति ।।
सर्वादिकात् पथ्यङ्गादेः तद्व्याप्नोति ःथ्द्य;त्यर्थे खः स्यात्। सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वाङ्गीणं वासः। सर्वकर्मीणः पाणिः। सर्वपत्त्रीणः सारथिः। सर्वपात्रीण ओदनः।
-5-2-8- आप्रपदं प्राप्नोति ।।
अत्रार्थे खः स्यात्। आप्रपदीनः पटः।
-5-2-9- अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ।।
अनुपदादेर्बद्धादो खः स्यात्। अनुपदं बद्धा अनुपदीना पादुका।
पादप्रमाणेत्यर्थः। सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः। अयःउप्रदक्षिणम्। अनयःउप्रसव्यम्। अयानयं नेयोऽयानयीनः शारः।
-5-2-10- परोवरपरम्परपुत्रपौत्रमनुभवति।
एभ्योऽनुभवत्यर्थे खः स्यात्। परांश्चावरांश्चानुभवति, परस्योत्त्वं निपातनात्, परोवरीणः। लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय। परांश्च परांश्चेति निपातनान्मत्वम्।
-5-2-11- अवारपारात्यन्तानुकामं गामी ।।
एभ्यः गामी इत्यर्थे खः स्यात्। अवारं गामी अवारीणः। पारीणः। समुदायाच्च-अवारपारीणः। विपरीताच्च-पारावारीणः। अत्यन्तीनः। अनुकामीनतां त्यज।
गामी इति भविष्यन्निर्देशो वैचित्र्यार्थः। गन्तृमात्रे प्रत्ययः।
-5-2-12- समां समां विजायते ।।
अत्रार्थे खः स्यात्। समांसमीना गौः। प्रत्यब्दप्रसवेत्यर्थः। पूर्वपदे सुपोऽलुग्वक्तव्यः।
-5-2-13- अद्यश्वीनावष्टब्धे ।।
इयमवष्टब्धे आसन्ने विजनने निपात्यते। अद्य श्वो वा विजायते अद्यश्वीना गौः। आसन्नप्रसवेत्यर्थः।
कथमद्यश्वीनो वियोगः ? विजायते इत्यस्याननुवृत्तेरिति जयादित्यः।
स्रीलिङ्गनिर्देशादुपमानस्याप्यसम्भवान्नैतदिति भागवृत्तिः।
-5-2-14- आगवीनः ।।
निपात्यते। आ गोः प्रतिपादनात् कर्मकारी आगवीनः।
-5-2-15- अनुग्वलंगामी ।।
खःस्यात्। अनुगु, गोः पश्चाद्, अलंगामी अनुगवीनो गोपः।
-5-2-16- अध्वनो यत्खौ ।।
अस्माद् यत्खौ स्याताम्। अध्वानमलंगामी अध्वन्यः। अध्वनीनः।
-5-2-17- अभ्यमित्राच्छ च ।।
अस्माच्छः स्यात्, यत्खौ च। अभ्यमित्रमलंगामी अभ्यमित्रीयः। अभ्यमित्र्यः। अभ्यमित्रीणः। अमित्रस्याभिमुखं सुष्ठु गच्छतीत्यर्थः।
-5-2-18- गोष्ठात् खञ्ञ् भूतपूर्वे ।।
स्यात्। गोष्ठो भूतः पूर्वं यत्र स गौष्ठीनो देशः।
-5-2-19- अश्वस्यैकाहगमः ।।
अश्वादेकाहगम्ये खञ्ञ् स्यात्। आश्वीनोऽध्वा।
-5-2-20- शालीनकौपीने अधृष्टाकार्ययोः ।।
एते द्वे निपात्येते। शालाप्रवेशमर्हति शालीना वधुः। अधृष्टेत्यर्थः। शशाक शालीनतया न वक्तुम। कूपप्रवेशमर्हति कौपीनमकार्यम्।
-5-2-21- व्रातेन जीवति ।।
ये शरीरमायास्य जीवन्ति ते व्राता व्याधादयः, तत् कर्मापि व्रातम्। तस्माज्जीवत्यर्थे खञ्ञ् स्यात्। व्रातीनो विप्रः। व्रातीनसंघाः प्रकटं नरेन्द्रैस्ते राक्षसाः सङ्कटमाशु नीताः इति व्योषः।
-5-2-22- साप्तपदीनं सख्यम् ।।
इदं सख्ये निपात्यते। उपचाराद् तद्वति वृत्तेः--साप्तपदीनः सखापि।
-5-2-23- हैयङ्गवीनं संज्ञायाम् ।।
इदं घृतविशेषस्य संज्ञायां निपात्यते।
-5-2-24- तस्य पाकमूले पील्वादिकर्णादिभ्यः कृणब्जाहचौ ।।
पील्वादेः पाके कुणप् स्यात्। पीलूनां पाकः पीलुकुणः। कर्कन्धुकुणः। शमीकुणः। करीर। कुवल। बदर। अश्वत्थ। खदिर।
कर्णादेर्मूले जाहच्--कर्णस्य मूलं कणजाहम्। कर्णजाहविलोचना। अक्षिजाहम्।
नख। मुख। केश। पाद। भ्रू। गुल्फ। ओष्ठ। शृङ्ग। आकृतिगणोऽयम्।
-5-2-25- पक्षात् तिः ।।
पक्षान्मूले तिः स्यात्। पक्षतिःउप्रतिपत्। चन्द्रलेखेव पक्षतौ। चञ्ञ्चत्पक्षतिभिः खगैः।
-5-2-26- तेन वित्तश्चुप्चणपौ ।।
तेन वित्तार्थे चुञ्ञ्चुप्चणपौ स्याताम्। विद्यया वित्तः प्रतीतो विद्याचुञ्ञ्चुः। विद्याचणः। रामोऽपि मायाचणमस्त्रचुञ्ञ्चुः।
-5-2-27- विनञ्ञ्भ्यां नानाञ्ञौ नसह ।।
असहायवृत्तिभ्यां विनञ्ञ्भ्यां नानाञ्ञौ स्याताम्। विना। नाना। स्वार्थे विधिः।
-5-2-28- वेः शालच्छड्कटचौ ।।
वेरिमौ स्याताम्। विशालः। विशड्कटः। विर्विततार्थः।
-5-2-29- सम्प्रोदश्च कटच् ।।
एभ्यः कटच् स्यात्। संकटः। प्रकटः। उत्कटः। चकाराद्--विकटः। निकटः।
। अलाबूतिलमाषोमाभङ्गाणुभ्यो रजसि ।। एभ्यः कटच् स्यात्। अलाबूनां रजः अलाबूकटः। तिलकटः। उमाकटः। अणुकटः।
। गोष्ठादयः स्थानादिषु पशुनामादिभ्यः ।। गवां स्थानं गोगोष्ठम्।
महिषीगोष्ठम्। उष्ट्रगोष्ठम्। अविगोष्ठम्।
। अवेः सङ्घाते कटच् ।। अविकटः। तत्सङ्घात इत्यर्थः।
। विस्तारे पटच् ।। अविपटः।
। द्वित्वे गोयुगच् ।। गोगोयुगम्। अश्वगोयुगम्।
। प्रकृत्यर्थषट्के षड्गवच् ।। हस्तिषड्गवम्। अश्वषड्गवम्।
। स्नेहने तैलच् ।। इड्गुदीतैलम्।
। भवने क्षेत्रे इक्ष्वादिभ्यः शाकटशाकिनौ ।। इक्षुशाकटम्। मूलकशाकिनम्।
-5-2-30- अवात् कुटारच्च ।।
स्यात्। अवकुटारम्। चकारात् कटच्च--अवकटम्।
-5-2-31- नते नासिकायाः संज्ञायां टीटञ्ञ्नाटज्भ्रटचः ।।
अवाट् टीटजादयः स्युर्नासिकाया नमने संज्ञा चेत् अवटीटः। अवनाटः। अवभ्रटः।
-5-2-32- नेर्बिडज्विरीसचौ ।।
नेरिमौ स्याताम्। निबिडम्। निबिरीसम्। उरुनिबिरीसनितम्बभारखेदि।
-5-2-33- इनच् पिटच् चिक चि च ।।
नेरिनच्पिटचौ स्याताम् तत्सन्नियोगेन चिक, चि चेत्येतावादेशौ स्तः।
चिकिनः। चिपिटः।
। कप्रत्ययश्चिक् चादेशो वक्तव्यः ।। चिक्कः।
गुणशब्दा एते यथाकथञ्ञ्चिदुन्नेयाः। अत एवैते चिल्लपिल्लादयः शब्दा क्लिन्नाक्षिपर्यायाः सूत्रकारेणोपेक्षिताः।
-5-2-34- उपाधिभ्यां त्यकन्नासन्नारूढयोः ।।
आभ्यामनयोस्त्यकन् स्यात्। समुद्रस्यासन्ना भूमिरुपत्यका, समुद्रस्य वनराजी। गिरिमधिरूढाऽधित्यका गिरेः। समुद्रोपत्यका हैमी पर्वताधित्यका पुरी इति भट्टिः।
-5-2-35- कर्मणि घटोऽठच् ।।
कर्मणि घटते कर्मठः। घटत इति घटः--पचाद्यच्।
-5-2-36- तदस्य सञ्ञ्जातं तारकादिभ्य इतच् ।।
अत्रार्थे तारकादेरितच् स्यात्। तारकाः सञ्ञ्जाता अस्य तारकितं नभः। पुष्पितो वृक्षः।
सुख दुःख। फल। कुसुम। मुकुल। स्तवक। तन्द्रा। बुभुक्षा। पिपासा। ज्वर। व्रण। रोग। व्याधि। उत्कण्ठा। लज्जा।
। गर्भादिप्राणिनि । (ग0सू0)। गर्भिताः शालयः।
अप्राणिनि किम् ? गर्भिणी गौः।
तदस्य इति वर्त्तते यावत् तदस्मिन् (5.2.45)।
-5-2-37- प्रमाणे द्वयसज्दघ्रञ्ञ्मात्रचः ।।
अत्र एते स्युः। ऊरुः प्रमाणमस्य ऊरुद्वयसं पयः। जानुद्वयसी नदी। ऊरुदघ्नम्। गिरिकूटदघ्नैः।
द्वयसज्दघ्रचादूर्ध्वमाने, मात्रख् पुनरविशेषेण। प्रस्थमात्रं घृतं तन्मात्रम्। तावन्मात्रम्।
। प्रमाणे लश्च ।। लश्चेति लुकः पूर्वाचार्यसंज्ञा। प्रमाणशब्देभ्यो द्वयसजादेर्लुक् स्यात्। शमः प्रमाणमस्य शमः। मुष्टिः। वितस्तिः। हस्तः। शमः उचतुर्दशाङ्गुलः।
। द्विगोर्नित्यं लुक् ।। द्विजानु जलम्। द्विवितस्तिः। नित्यग्रहणं भाविनोऽपि संशये मात्रचो लुगर्थम्।
। डट् स्तोमे ।। सप्तदशः स्तोः। विंशः स्तोमः। एकविंशः। डित्त्वाट्टिलोपः।
। शञ्ञ्शतोर्डिनिः ।। पञ्ञ्चदश प्रमामेषां पञ्ञ्चदशिनोऽर्धमासाः। त्रिंशिनो मासाः।
विंशतेश्च ।। विंशिनो1ङ्गिरसः।
। प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये । मात्रच्। प्रमाणात्--शमं प्रमाणमस्य स्यान्नवेति शममात्रम्। हस्तमात्रम्। परिमाणात्--प्रस्थमात्रम्। संख्यायाः--पञ्ञ्चमात्रम्। दशमात्रम्।
। वत्वन्तात् स्वार्थे द्वयसञ्ञ्मात्रचौ ।। तांवदेव तावद्द्वयसम्। तावन्मात्रम्।
-5-2-38- पुरुषहस्तिभ्यामण् च ।।
आभ्यां प्रमाणेऽण् स्यात्। पुरुषोऽस्य प्रमाणं पौरुषमम्भः। हास्तिनम्। चकाराद् द्वयसज्दघ्रञ्ञ्मात्रच उदाहार्याः।
-5-2-39- यत्तदेतेभ्यः परिमाणे वतुप् ।।
एभ्योऽत्रार्थे वतुप् स्यात्। यत् परिमाणमस्य यावान्। तावान्।
एतावान्।
-5-2-40- किमिदम्भ्यां वो घः ।।
आभ्यां परिमाणे वतुप् स्यात्, वस्य च घः। कियान्, कियती। इयान्।
इयती।
-5-2-41- किमः संख्यापरिमाणे डति च ।।
किमः संख्यायाः परिच्छेदे डतिः स्यात्। वतुप् च। तस्य वस्य च घादेशः। का संख्या एषां कति गुणिनः। कियन्तः सन्ति गुणिनः।
-5-2-42- संख्याया अवयवे तयप् ।।
अवयववृत्तेः संखायास्तयप् स्यात्। पञ्ञ्चावयवा अस्य वृन्दस्य पञ्ञ्चतयम्। दशतयम्। चतुष्टयी रज्जुः।
-5-2-43- द्वित्रिभ्यां तयस्यायज् वा ।।
आभ्यां तयपोऽयज् वा स्यात्। द्वयम्, द्वितयं वा। त्रयम्, त्रितयं दा। द्वयी, द्वितयी वा। त्रयी, त्रितयी वा।
-5-2-44- उभादुदात्तो नित्यम् ।।
उभात् तयपो नित्यमयच् स्यात्। उभाववयवोऽस्य उभयो मणिः, उभये देवमनुष्याः।
-5-2-45- तदस्मिन्नधिकमिति दशान्ताड् डः ।।
अत्रार्थे दशान्ताड् डः स्यात्। एकादश अधिका अस्मिञ्ञ् शते एकादशं शतम्। द्वादशं शतम्। चतुर्दशं शतम्। सहस्रं वा। शतसहस्रयोरेवाभिधानम्।
इह षष्ठं शतमिति ? मत्वर्थीयोऽच ।।
-5-2-46- शदन्तविंशतेश्च ।।
शदन्ताद् विंशतेश्च पूर्वार्थे डः स्यात्। त्रिंशं शतम्। चत्वारिंशं शतं सहस्रं वा। विंशतेश्च--विंशं शतम्। तदन्ताच्च--एकविंशं शतं सहस्रं वा। द्वाविंशं सहस्रम्।
संख्यापूर्वस्याभिधानाद् गोत्रिंशदादेरविधिः।
-5-2-47- संख्याया गुणस्य निमाने मयट् ।।
मण्डूकप्लुत्या तदस्य इत्येव। गुणस्य भागस्य निमानेउमूल्ये संख्याया मयट् स्यात्। द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयी द्राक्षा गुडस्य। चतुर्मयम्।
-5-2-48- तस्य पूरणे डट् ।।
अत्रार्थे संख्याया डट् स्यात्। एकादशानां पूरण एकादशः सर्गः। द्वादशः पुत्रः। विंशी कारिका। एकादशी तिथिः।
-5-2-49- नान्तादसंख्यादेर्मट् ।।
नान्तादसंख्यादेर्डटो मडागमः स्यात्। पञ्ञ्चानां पूरणः पञ्ञ्चमः। सप्तमः।
नान्तात् किम् ? विंशः। त्रिंशः। असंख्यादेः किम् ? एकादशः।
-5-2-50- थट् च च्छन्दसि ।।
इदं छन्दःसूत्रमेकम्।
-5-2-51- षट्कतिकतिपयचतुरां थुक् ।।
एषां डटि थुगागमः स्यात्। षष्णां पूरणः षष्ठः। कतिथः। कतिपयथः। चतुर्थः। कतिथी। कतिपयथी।
। चतुरश्छयतावाद्यक्षरलोपश्च ।। तुरीयः। तुर्यः।
-5-2-52- बहुपूगगणसंघस्य तिथुक् ।।
एषां डटि तिथुगागमः स्यात्। बहूनां पूरणो बहुतिथः। पूगतिथः। गणतिथः। भिन्दन् संघतिथान् द्विषः।
इह च बह्वीनां पूरणीति भस्याढे तद्धिते विषयभूते पुंवद्भावः, ततस्तिथुक्---बहुतिथी।
-5-2-53- वतोरिथुक् ।।
वत्वन्ताड् डटि स्यादिथुक्। तावतां पूरणस्तावतिथः। यावतिथः।
-5-2-54- द्वेस्तीयः ।।
द्वेस्तीयः स्यात्। डटो बाधा। द्वितीयः।
-5-2-55- त्रेः सम्प्रसारणञ्ञ्च ।।
पूरणे त्रिशब्दात् सम्प्रसारणम्, तीयश्च स्यात्। तृतीयः।
-5-2-56- विंशत्यादिभ्यस्तमडन्यतरस्याम् ।।
विंशत्यादेर्डटो वा तमडागमः स्यात्। विंशतेः पूरणो विंशतितमः, विंशो वा। त्रिंशत्तमो दिवसः, त्रिंशो वा। एकविंशतितमी, एकविंशी वा। एकत्रिंशत्तमम्, एकत्रिंशं वा।
-5-2-57- नित्यं शतादिमासार्धमाससंवत्सराच्च ।।
शतादेः संख्याया मासार्धमाससंवत्सरेभ्यश्च परस्य डटो नित्यं तमट् स्यात्। शतस्य पूरणः शततमः। सहस्रतमः। लक्षतमः। एकशततमः। द्विसहस्रतमः। सप्तलक्षतमः। मासस्य पूरणो मासतमो दिवसः। अर्धमासतमः। संवत्सरतमः।
-5-2-58- षष्ट्यादेश्चासंख्यादः ।।
षष्टिसप्तत्यशीतिनवतीनां डटो नित्यं तमट् स्यात। विंशत्यादिविकल्पस्य बाधा। षष्टेःपूरणः षष्टितमः। सप्ततितमः। अशीतितमः। नवतितमः।
असंख्यादेः किम् ? एकषष्टिः, एकषष्टितमो वा।

                           ।।उक्तो डट् ।।
-5-2-59- मतौ छः सूक्तसाम्नोः ।।
मत्वर्थे प्रातिपदिकाच्छः स्यात्। सूक्ते साम्रि चाभिधेये। अच्छावाकशब्दोऽस्मिन्नस्तीत्यच्छावाकीयं सूक्तम्। वारतन्तवीयं साम।
-5-2-60- अध्यायानुवाकयोर्लुक् ।।
अनयोर्मत्वर्थे छस्य लुक् स्यात्। गर्दभाण्डोऽध्यायोऽनुवाको वा। गर्दभाण्डः। श्रुतिमपीच्छन्ति।
अन्यतरस्यांग्रहणस्य मण्डूकप्लुत्यानुवृत्तेः--गर्दभाण्डीयोऽध्यायः।
-5-2-61- विमुक्तादिभ्योऽण् ।।
एभ्यो मत्वर्थे तयोरण् स्यात्। विमुक्तोऽत्रास्ति अध्यायोऽनुवाको वा
वैमुक्तः। दैवासुरः।
-5-2-62- गोषदादिभ्यो वुन् ।।
एभ्यस्तथैव वुन् स्यात्। गोषदशब्दोऽस्मिन्नस्ति गोषदकोऽध्यायः, अनुवाको वा। गोषद। इषेत्व। मातरिश्वन्।
-5-2-63- तत्र कुशलः पथः ।।
अत्रार्थे पथो वुन् स्यात्। पथि कुशलः। पथकः।
-5-2-64- आकर्षादिभ्यः कन् ।।
आकर्षे कुशलः आकर्षकः। जयकः। त्सरुकः।
-5-2-65- धनहिरण्यात् कामे ।।
आभ्यां कामे कन् स्यात्। धने कामोऽभिलाषो धनकः। हिरण्यकः। देहेऽपि निःस्पृहस्यास्य मुमुक्षोर्धनकः कुतः।
-5-2-66- स्वाङ्गेभ्यः प्रसिते ।।
एभ्योऽत्र कन् स्यात्। केशेषु प्रसितः केशकः। नखकः। दन्तकः।
-5-2-67- उदराट् ठगाद्यूने ।।
स्यात्। उदरे प्रसित औदरिक आद्यूनः। आद्यूनःउअविजिगीषुः।
-5-2-68- सस्येन परिजातः ।।
सस्यात् कन् स्यात्। सस्येन गुणेन परिजातः सम्पन्नोऽयं सस्यको मणिः। सस्यकः शालिः। सस्यको वत्सः।

-5-2-69- अंशंहारौ ।।
अत्रार्थे कन् स्यात्। अंशको दायादः।
-5-2-70- तन्त्रादचिरापहृते ।।
कन् स्यात्। तन्त्रको नवकर्पटः।
-5-2-71- ब्राह्मणकोष्णिके संज्ञायाम् ।।
एते कन्नन्तौ नाम्रि निपात्येते। ब्राह्मणको देशः, यत्रायुधजीविनो ब्राह्मणाः। उष्णिका यवागूः।
-5-2-72- शीतोष्णाभ्यां कारिणि ।।
कन् स्यात्। शीतम्उशिथिलं कारी शीतकोऽलसः। उष्णम्उशीघ्रं कारी उष्णको दक्षः।
-5-2-73- अधिकम् ।।
इदं निपात्यते अध्यारूढार्थे। अध्यारूढात् कन् स्यादुत्तरपदलोपश्च।
-5-2-74- अनुकाभिकाभीकः कमिता ।।
अनुकम्, अभिकम्, अभीकञ्ञ्च कमितरि निपात्यन्ते।
-5-2-75- पार्श्वेनान्विच्छति ।।
पाश्वैमनृजूपायोपलक्षणम्। तेनान्विच्छत्यनुसरतीति कन् स्यात्। पार्श्वकः शठः।
-5-2-76- अयःशूलदण्डाजिनाभ्यां ठक्ठञ्ञौ ।।
तैक्ष्ण्यदम्भार्थाभ्यां ठक्ठञ्ञौ स्याताम्। तेनान्विच्छतिःथ्द्य;त्यर्थे। आयः शूलिकस्तीक्ष्णकारी। दाण्डाजिनिको दाम्भिकः।
-5-2-77- तावतिथं ग्रहणमिति लुग् वा ।।
तावतां पूरणं तावतिथम्, तस्माद् ग्रहणभूतात् स्वार्थे कन् स्यात्, पूरणप्रत्ययस्य च लुग्वा। द्वितीयेन रूपेण ग्रन्थग्रहणं द्विकम्, द्वितीयकं वा। त्रिकम्, तृतीयकं वा। चतुष्कम्, चतुर्थकं वा।
।तावतिथेन गृह्णातीति कन् वक्तव्यो लुक् च नित्यम् ।। षष्ठेन रूपेण गृह्णाति षट्को मेधावी।
-5-2-78- स एषां ग्रामणीः ।।
अत्रार्थे कन् स्यात्। त्वं ग्रामीणीरेषामिमे त्वत्काः। मत्काः। देवदत्तका इमे। मत्कं मतम्।
-5-2-79- शृङ्खलमस्य बन्धनं करभे ।।
शृङ्खलं बन्धनमस्य इत्यर्थे कन् स्यात्। शृङ्खलकः करभस्य नाम।
-5-2-80- उत्क उन्मनाः ।।
उत्कः स्याद् उन्मनाश्चेत्।
-5-2-81- कालप्रयोजनाद् रोगे ।।
आभ्यां रोगे कन् स्यात्। कालात्--दिवसे सम्भवति दिवसको ज्वरः।
मासकः। द्वितीयेऽह्नि भवो द्वितीयकः। चतुर्थकः।
प्रयुज्यतेऽनेनेति प्रयोजनम्उकारणम्। विषपुष्पेण प्रयुक्तो विषषुष्पको ज्वरः। काशपुष्पकः। तापेन भाविना प्रयुक्तस्तापकः। शीतकः।
फलञ्ञ्च प्रयोजनम् इति जयादित्यः। शीतं कार्यमस्येति शीतको ज्वरः।
इह चोत्तरं संज्ञाग्रहणं सम्बध्यते, तेनेष्टार्थपरिग्रहः।
-5-2-82- तदस्मिन्नन्नं प्रायेण संज्ञायाम् ।।
अत्रार्थे नाम्रि कन् स्यात्। गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पूर्णिका। तिलापूपिका।
। वटकेभ्य इनिर्वक्तव्यः ।। वटकिनी पौर्णमासी। पृथुकिनी।
-5-2-83- कुल्माषादञ्ञ् ।।
पूर्वार्थेऽञ्ञ् स्यात्। कौल्माषी तिथिः।
-5-2-84- श्रोत्रियंश्छन्दोऽधीते ।।
अयमत्रार्थे निपात्यते। घन् प्रत्ययः, तस्य नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः।
-5-2-85- श्राद्धमनेन भुक्तमिनिठनौ ।।
श्राद्धाद् अनेन भुक्तम् इत्यर्थे इनिठनौ स्याताम्। श्राद्धी। श्राद्धिकः।
-5-2-86- पूर्वादिनिः ।।
अनेन इति कर्त्तानुवर्त्तते, स च क्रियापेक्षः। ततो यां काञ्ञ्चित् क्रियामध्याहृत्य पूर्वादिनिः स्यात्। पूर्वमनेनासितं गृहीतं गतं भुक्तं पीतं वा पूर्वी, पूर्विणौ, पूर्विणः।
-5-2-87- सपूर्वाच्च ।।
सपूर्वपदाच्च पूर्वादिनिः स्यात्। कृतं पूर्वमनेनेति सुप्सुपा इति
समासः। कृतपूर्वी कटान्। भुक्तपूर्वी ओदनम्। भुक्तपूर्वी दधीनि।
-5-2-88- इष्टादिभ्यश्च ।।
इनिः स्यात्। इष्टमनेनेति इष्टी यागेषु। अधीती व्याकरणे। निराकृती। गृहीती। कृती श्रुती वृद्धमतेषु धीमान्।
-5-2-89- छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।।
छन्दःसूत्रमेकम्।
-5-2-90- अनुपद्यन्वेष्टा ।।
अनुपदी स्याद् अन्वेष्टा चेत्। मृगस्यानुपदी रामः।
-5-2-91- साक्षाद् द्रष्टरि संज्ञायाम् ।।
साक्षाच्छब्दादिनिः स्याद् द्रष्टरि वाच्ये संज्ञा चेत्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ ।।
-5-2-92- क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।।

परक्षेत्रम्उजन्मान्तरशरीरम्, तत्र चिकित्स्यः---इत्यर्थे क्षेत्रियोनिपात्यते। क्षेत्रियः कुष्ठव्याधिः। असाध्य इत्यर्थः।
-5-2-93- इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ।।
इन्द्रियम् निपात्यते, इन्द्रःउआत्मा, तस्य लिङ्ग्, तेन वा दृष्टं सृष्टमित्यादावर्थे।
संज्ञाशब्दानां व्युत्पत्तेरनियमदर्शनार्थोऽयं योगः।
।।तद्धितेषु मत्वर्थीयाः।।
-5-2-94- तदस्यास्त्यस्मिन्निति मतुप् ।।
तदिति प्रथमान्तादस्त्युपाधिकात् षष्ठीसप्तम्योरर्थे मतुप् स्यात्। गावोऽस्य सन्ति गोमान्। यवा अस्मिन् सन्ति यवमान् देशः।
इतिकरणादर्थनियमः--
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ।।
गोमान्। ककुदावर्त्ती। रूपावान्। क्षीरी वृक्षः। उदरिणी कन्या। दण्डी। छत्री।
। गुणवचनेभ्यो मतुपो लुग् वक्तव्यः ।। शुक्लोऽस्यास्तीति शुक्लः
पटः।
यदा तु स्वभावाद् गुणिनि गुणे च शुक्लादयो वर्त्तन्त इत्युपगमः, तदा नार्थो लुका।
-5-2-15- रसादिभ्यश्च ।।
रसादेर्मतुबेव स्यात्, नान्ये मत्वर्थीयाः। रसवान्। रूपवान्। गन्ध। शब्द। स्पर्श। स्नेह।
भाष्यकारस्य तु सूत्रस्यास्य प्रत्याख्यानमभिमतम; रसिको राजा, रूपिण्योऽप्सरसः, स्पर्शी वायुः--इत्यादिदर्शनात्।
-5-2-96- प्राणिस्थादातो लजन्यतरस्याम् ।।
प्राण्यङ्गादादन्तान्मत्वर्थे लज् वा स्यात्। चूडालः। शिरालः। जङ्घालः।
विकल्पो मतुप्समुच्चयार्थः--चूडावानिति।
प्राणिस्थात् किम् ? शिखावान् प्रदीपः।
-5-2-97- सिध्मादिभ्यश्च ।।
एभ्यो लच् स्यात्। सिध्मलः। गडुलः।
। पाष्णिंधमन्योर्दीर्धश्च । (ग0 सू0)। पार्ष्णीलः। धमनीलः।
। वातदन्तबलललाटगलानामूङ् च । (ग0 सू0)। वातूलः। दन्तूलः। बलूल्ः। ललादूलः। गलूलः।
। जटाघटाकालात् क्षेपे । (ग0 सू0) लच् स्यात्। जटालः। घटालः।
कालालः।
। क्षुद्रजन्तूपतापयोश्च । (ग0 सू0)। यूकालः। मूर्च्छालः। विचर्चिकालः।
विकल्पानुवृत्त्या सर्वत्र मतुप् समुच्चीयते--सिध्मवानिति।
-5-2-98- वन्सांसाभ्यां कामबले ।।
आभ्यां कामबलयोर्मत्वर्थे लच् स्यात्। वत्सलः कामवान्। अंसलो बलवान्।
-5-2-99- फेनादिलच्च ।।
फेनादिलच्-लचौ स्याताम्। फेनिलः। फेनलः। मतुप् च--फेनवान्।
-5-2-100- लोमादिपामादिपिच्छादिभ्यः शनेलचः ।।
लोमादेर्मत्वर्थे शः स्यात्। लोमशः, लोमवान्। कपिशः, गिरिशः।
पामादेर्नः--पामनः, पामवान्। श्लेष्मणः। हेमन। बलिनः।
।अङ्गात् कल्याणे । (ग0 सू0)। अङ्गना प्रशस्ताङ्गी।
। लक्ष्म्या अच्च । (ग0 सू0)। लक्ष्मणः
। दद्र्वा ह्रस्वत्वं च । (ग0 सू0)। दद्रुणः।
पिच्छादेरिलच्--पिच्छिलः। जटिलः। उरसिलः।
-5-2-101- प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ।।
मत्वर्थे एभ्यो णः स्यात्। प्राज्ञः, प्रज्ञावान् पण्डितः। प्राज्ञा स्त्री। श्राद्धः, श्रद्धावान्। आर्चः, अर्चावान्।
वार्त्तः, वृत्तिमान्।
-5-2-102- तपःसहस्राभ्यां विनीनी ।।
आभ्यामेतौ स्यात्म्। तपस्वी। सहस्री।
असन्तादन्ताच्च विनीनिसिद्धौ वचनमिदम्--अणा बाधा मा भूदिति।
-5-2-103- अण् च ।।
आभ्यामण् स्यात्। तापसः। साहस्रः।
। ज्योत्स्रादिभ्य उपसंख्यानम् ।। अण् स्यात्। ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डिनः।
-5-2-104- सिकताशर्कराभ्याञ्ञ्च ।।
आभ्यामण् स्यात्। सैकतो घटः। शार्करं मघ।
-5-2-105- देशे लुबिलचौ च ।।
आभ्यां देशे लुप् स्यात्, इलच्च। चकारादण च। सिकता देशः, सिकलितः, सैकतः मतुप् च--सिकतावान्। शर्करा--शर्करिलः, शार्करः, शर्करावान्।
-5-2-106- दन्त उन्नत उरच् ।।
दन्त उन्नतोऽस्यास्तीति दन्तुरः।
-5-2-107- ऊषसुषिमुष्कमधो रः ।।
एभ्यो मत्वर्थे रः स्यात्। ऊषरः। सुषिरम्। मुष्करः। मधुरः।
। खमुखकुञ्ञ्जनगनखपाण्डुपांसुभ्यश्च ।। खरः। मुखरः। कुञ्ञ्जरः।
नगरम्। नखरः। पाण्डुरः। पांसुरः पादः।
कच्छा ह्रस्वश्च इति जयादित्यः। कच्छुरः।
-5-2-108- द्युद्रुभ्यां मः ।।
आभ्यां मः स्यात्। द्युमः। द्रुमः।
-5-2-109- केशाद्वोऽन्यतरस्याम् ।।
केशाद् वो वा स्यात्। केशवः, केशी, केशिकः, केशवान् वा।
। अन्येभ्योऽपि दृश्यते इति वक्तव्यम् ।। वः स्यात्। मणिवः। हिरण्यवः। इष्टकावः। राजीवम्।
। अर्णसो लोपश्च ।। अर्णवः।
। मेधारथाभ्यामिरन्निरचौ । इत्येके। मेधिरः। रथिरः। रथिररथिकौ रथी ( 2.8.76 ) इत्यमरः।
-5-2-110- गाण्ड्यजगात् संज्ञायाम् ।।
आभ्यां नाम्नि वः स्यात्। गाण्डीवं पार्थस्य धनुः।
ह्रस्वादपि--गाण्डिवम् इति जयादित्यः।
अजगवं पिनाकः। अजो विष्णुः को ब्रह्मा, तद्योगाद् अजकवमित्यन्ये।
-5-2-111- काण्डाण्डादीरन्नीरचौ ।।
आभ्यामिमौ स्याताम्। काण्डीरः। अण्डीरः। स्वरे भेदः।
-5-2-112- रजःकृष्यासुतिपरिषदौ वलच् ।।
एभ्यो मत्वर्थे वलच् स्यात्। रजस्वला स्त्री। वलः इति दीर्घः। कृषीवलः। आसुतीवलः शौण्डिकः। परिषद्वलो राजा। परिपूर्वात् सदेः सत्सूद्विष इत्यादिना क्विप्, सदिरप्रतेः इति षत्वम्। या सम्प्रति प्राक् परिषद्वलानाम् इति व्योषः।
परिषद्वलान् महाब्रह्मैः इति भटि्टः। इह तु नवाक्षरैकपादेऽपि वृत्तभेदोऽस्यास्तीति, यथा प्रधाने कर्मण्यभिधेये लादीनाहुर्द्विकर्मणाम् इति भागवृत्तिः।
पृषोदरादित्वादिकारलोप एकदेशविकारद्वारेण पर्पच्छब्दादपि वलजिति केशवः।
। अन्येभ्योऽपि दृश्यते इति वक्तव्यम् । । वलच्--भ्रातृवलः। पुत्रवलः।
-5-2-113- दन्तशिखात् संज्ञायाम् ।।
आभ्यां वलच् स्यात्। दन्तावलो हस्ती। शिखावलो मयूरः।
-5-2-114- ज्योत्स्नातमिस्राशृङि्गणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः ।।
अष्टा एते नाम्रि निपात्यन्ते।
तमिस्रा इति स्त्रीत्वमतन्त्रम्। अन्यत्रापि दृश्यते--तमिस्रं नभः।
-5-2-115- अत इनिठनौ ।।
अदन्तादिनिठनौ स्पाताम्। दण्डी, दण्डिकः। मतुप् च सर्वत्र। दण्डवान्। तण्डुली, तण्डुलिकः। कार्यी, कार्यिकः। हार्यी, हार्यिकः।
क्वचिदनभिधानान्न--खवान्। कारकवान्। वृक्षवान्। व्याघ्रवान्। दण्डा अस्यां सन्ति दण्डवती शाला। तदुक्तम्--
एकाक्षरात् कृतो जातेः सप्तम्याञ्ञ्च न तौ स्मृतौ।
तद्धितानां विधाने यदभिधानमपेक्षते ।। इति ।।
-5-2-116- व्रीह्यादिभ्यश्च ।।
व्रीह्यादेर्यथाभिधानमिनिठनौ स्याताम्। व्रीही, व्रीहिकः। मतुप् च
सर्वत्रेत्युक्तम्। व्रीहिमान्। मायी, मायिकः।
शिखादिभ्य इनिरेव--शिखी, शिखावान्। माली, मालावान्।
मेखली। वीणी। संज्ञी। मनीषी। पताकी। कर्मी। वर्मी।
नावादिभ्यष्ठन्नेव--नाविकः। यवखदिकः। यवखदवान्।
-5-2-117- तुन्दादिभ्य इलच्च ।।
एभ्य इलच् स्यात्। तौ च। तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान्। उदरिलः, उदरिकः, उदरी, उदरवान्। पिचिण्डिलः।
एवं पिचिन्द। यव। व्रीहि।
। व्रीहित्यर्थग्रहणम् । (ग0 सू0)। शालिलः। शालिकः। शी। मतुप् सर्वत्रेत्युक्तम्।
। स्वाङ्गाद् विवृद्धौ । (ग0 सू0)। स्थलकर्णः, कर्णी, कर्णिलः, कर्णिकः। अपृद्धौ तु--कर्णवान्। न ह्यत्र।
-5-2-118- एकगोपूर्वाट्टञ्ञ् नित्यम् ।।
एकपूर्वाद् गोपूर्वाच्च नित्यं ठञ्ञ् स्यात्। ऐकशतिकः। ऐकसहस्रिकः। गौसहस्रिकः।
कथमेकदेशी अवयवी ? इतिकरणानुवृत्तेः।
कर्मधारयादेवायं ठञ्ञिष्यते।
नित्यग्रहणं प्रत्ययान्तरनिवृत्त्यर्थम्।
-5-2-119- शतसहस्रान्ताच्च निष्कात् ।।
नित्यं ठञ्ञ् स्यात्। नैष्कशतिकः। नैष्कसहस्रिकः।
-5-2-120- रूपादाहतप्रशंसयोर्यप् ।।
रूपादाहते प्रशंसायाञ्ञ्च मत्वर्थे यप् स्यात्। आहतं ताडनान्निष्पादितम् पुरुषादि। रूपमस्यास्तीति रूप्यो दीनारः। प्रशस्तं रूपमस्यास्ति रूप्यः पुरुषः।
। अन्येभ्योऽपि दृश्यते । यप्। हिममत्रास्ति हिम्याः पर्वताः। पद्यं श्लोकः। गुण्या मुनयः। अर्थिनं गुण्यगुण्य इति न व्यचारयत्।
-5-2-121- अस्मायामेधास्रजो विनिः ।।
एभ्यो विनिः स्यात्। असन्तात्--पयस्वी। यशस्वी। भवन्ति मायाविषु ये न मायिनः। मायी, मायिकः। मायाशब्दाद् व्रीह्यादित्वादिनिठनौ च। मेधावी। स्रग्वी। तसौ मत्वर्थे इत्यत्र पयस्वान्, यशस्वान् इति
भाष्योदाहरणाद् एकगोपूर्वाट्टञ्ञ् नित्यम् इत्यतः परेणापि मतुप्समुच्चयोऽनुमीयते।
सरस्वान् सरस्वतीत्यत्र विनेरनभिधानम्।
-5-2-122- बहुलं छन्दसि ।।
छन्दःसूत्रम्।
। आमयस्य दीर्घः ।। विनिश्च स्यात्। आमयावी।
। शृङ्गवृन्दाभ्यामारकन् ।। आभ्यामारकन् स्यात्। शृङ्गारकः। वृन्दारकः।
। फलबर्हाभ्यामिनच् ।। फलिनः। बर्हिणः। हनिश्च दृश्यते--फली। बर्ही।
। हृदयादालुजन्यतरस्याम् ।। हृदयालुः, हृदयी, हृदयिकः, हृदयवान् वा।
। शीतोष्णतिग्मेभ्यस्तन्न सहते ।। शीतालुः। उष्णालुः। तिग्मालुः। कुत्सायामभिधानम्।
। हिमाच्चेलः ।। हिमेलुः।
। बलादूलच् ।। बलं न सहते बलूलः।
। वातात् समूहे च ।। वातूलःउवातासहः, वातसंधो वा।
। पर्वमरुद्भ्यां तप् ।। पर्वतः। मरुत्तः
-5-2-123- ऊर्णाया युस् ।।
ऊर्णायुः मेषकम्बलः।
-5-2-124- वाचो ग्मिनिः ।।
वागस्यास्ति वाग्ग्मी। द्विगकारः।
-5-2-125- आलजाटचौ बहुभाषिणि ।।
वाच इमौ स्याताम् बहुभाषिणि। वाचालः। वाचाटः। कुत्साया मभिधानम्।
-5-2-126- स्वामिन्नैश्वर्ये ।।
स्वामिन्नैश्वर्ये गम्ये स्यात्। स्वमस्यास्तीति स्वामी।
-5-2-127- अर्श आदिभ्योऽच् ।।
अर्शआदेराकृतिगणान् मत्वर्थेऽच् स्यात्। अर्शसः। उरसः। तुन्दः। काणः। खञ्ञ्जः। पलितः। मलिनः। लवणः। शुक्लः। नीलः। कालः। गोधूलः।
-5-2-128- द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः ।।
एभृय इनिः स्यात्। ठनादेर्बाधा। द्वन्द्वात्--कटकवलयिनी। शङ्खनूपुरिणी। उपतापःउरोगः। कुष्ठी। किलासी। शूली कदन्नाशनात्।
गर्ह्यम्उनिन्द्यम्। ककुदावर्त्ती।
प्राणिस्थात् किम् ? पुष्फलवांस्तरुः।
प्राण्यङ्गान्नेष्यते--पाणिपादवती। स्तनकेशवती।
अत इत्येव--चित्रकललाटिकावती। मूर्च्छावान्।
-5-2-129- वातातिसाराभ्यां कुक् च ।।
आभ्यामिनिः स्यात्, कुक् चागमः। वातकी। अतिसारकी।
। पिशाचाच्च ।। पिशाचकी वैश्रवणः।
-5-2-130- वयसि पूरणात् ।।
वयसि द्योत्ये पूरणान्तादिनिरेव स्यात्। पञ्ञ्चमो मासो वर्षं वास्यास्ति पञ्ञ्चमी उष्ट्रः। दशमी वृद्धः।
-5-2-131- सुखादिम्यश्च ।।
इनिः स्यात्। सुखी। कृच्छ्री। दुःखी।
-5-2-132- धर्मशीलवर्णान्ताच्च ।।
धर्माद्यन्तादिनिः स्यात्। द्विजधर्मी। भिक्षुशीली। ब्राह्मणवर्णी।
-5-2-133- हस्ताञ्ञ्जातौ ।।
हस्तादिनिः स्यात्। हस्ती।
जातौ किम् ? हस्तवान्।
-5-2-134- वर्णाद् ब्रह्मचारिणि ।।
वर्णादिनिः स्याद्, ब्रह्मचारी चेत्। वर्णी।
-5-2-135- पुष्करादिभ्यो देशे ।।
एभ्य इनिः स्यात्। पुष्करिणी। पदि्मनी। उत्पलिनी।
देशे किम् ? पुष्करवान्।
। बलाद् बाहूरुपूर्वात् ।। बलाद् बाहूरुपूर्वादिनिः स्यात्। बाहुबली। ऊरुबली कश्चित्।
। सर्वादेश्च ।। सर्वधनी। सर्वबीजी। सर्वकेशी नटः।
। अर्थाच्चासन्निहिते ।। अर्थादिनिः स्यात्। असन्निहितोऽर्थो धनमस्य अर्थी दरिद्रः। अन्यत्र अर्थवान्।
भाष्ये त्वेतत्प्रत्याख्याय अर्थनमर्थः इति याच्ञ्ञावचनान् मत्वर्थीयं कृत्वा अर्थी, अर्थिक इति च साधितम्। एवं च धनवचनादर्थशब्दादिनिर्याच्ञ्ञावचनाच्च मतुबनभिधानान्न भवतीति वाच्यम्।
। तदन्ताच्च ।। धनार्थी। हिरण्यार्थी।
-5-2-136- बलादिभ्यो मतुबन्यतरस्याम् ।।
एभ्यो मतुब् वा स्यात्। बलवान्। बली। उत्साहवान्। उत्साही।
-5-2-137- संज्ञायां मन्माभ्याम् ।।
नाम्रि मन्नन्त-मान्ताभ्यामिनिः स्यात्। दामिनी। सामिनी। हेमिनी। मान्तात्--सोमिनी।
नाम्रि किम् ? सोमवान्।
-5-2-138- कंशंभ्यां वभयुस्तितुतयसः ।।
कं-शमिति स्वरादी उदककल्याणवचनौ। ताभ्यामेते सप्त प्रत्यया
स्युः। वः--कंवो मेघः। शंवो वज्रः। भः--कम्भः, शम्भः। युसः सित्त्वात् पदत्वेऽनुस्वारः। कंयुः। कुर्वाणा पश्यतः शंयून्। तिः--कन्तिः। शन्तिः। तुः--कन्तुः। शन्तुः। तः--कन्तः, शन्तः। यस्--कंयः। शंयः।
-5-2-139- तुन्दिवलिवटेर्भः ।।
एभ्यो मत्वर्थे भः। स्यात्। तुन्दिभः। दधाना बलिभं मध्यम्। पामादित्वाद्--वलिनः। वटिभो वृक्षः।
-5-2-140- अहंशुभमोर्युस् ।।
अहं-शुभमित्यहङ्कार-कल्याणार्थौ अव्यये। ताभ्यां मत्चर्थे युस् स्यात्। अहंयुनाथः क्षितिवः शुभंयुः।

                     ।।उक्ता मत्वर्थीयाः ।।
-5-2-140