भाषावृत्तिः/पञ्चमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
पञ्चमोऽध्यायः
पुरुषोत्तमदेव
चतुर्थः पादः →

-5-3-1- प्राग् दिशो विभक्तिः ।।
दिक्शब्देभ्यः (5. 3. 27) इत्यतः प्राग् ये तसिलादयस्ते विभक्तिसंज्ञकाः स्युः। प्रयोजनं त्यदाद्यत्वादि। इह समर्थानां प्रथमाद् इति निवृत्तम्। वा इति वर्त्तत एव। ततः पक्षे तसिलादयः स्यु--कुतः, कस्मादिति।
-5-3-2- किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।।
द्व्यादिरहितात् सर्वनाम्रः किंबहुभ्यश्च तसिलादयो विधेयाः। कुतः, कुत्र। यतः, यत्र।
बहुशब्दः संख्यार्थो गृह्ते। बहुतः, बहुत्र। वैपुल्यार्थात् तु--बहोः कालात्।
अद्व्यादेः किम् ? द्वाभ्याम्, द्वयोः।
-5-3-3- इदम इश् ।।
प्राग्दिशीये प्रत्यये इदम इशादिश्यते। इतः। इह।
-5-3-4- एतेतौ रथोः ।।
इदम एतेतावादिश्येते क्रमेण रेफथकारयोः परतः। भवन्तमेतर्हि मनस्वि गर्हितम्। इत्थं प्रवादं युघि सम्प्रहारम्।
-5-3-5- एतदोऽश् ।।
प्राग्दिशीये प्रत्यय एतदोऽसादिश्यते। अतः। अत्र।
योगविभागोऽत्र कर्त्तव्यः, तेन--एतर्हि।
-5-3-6- सर्वस्य सोऽन्यतरस्यां दि ।।
दाप्रत्यये सर्वस्य सो वा स्यात्। सदा, सर्वदा वा।
-5-3-7- पञ्ञ्चम्यास्तसिल् ।।
स्यात्। कुतः। सर्वतः। बहुतः। विश्वतः।
अथ कोऽयं तसिल् ? पञ्ञ्चम्यन्तात प्रत्ययः। पञ्ञ्चम्यादेशत्वे हिततस्त्यः, यतस्त्य इति सुपो धातु इति सुब्लुक् स्यात्। यदा, तदा--इति अनुदात्तौ सुप्पितौ इति स्वरः। कुत इति घेर्डिति इति गुणः। तर्हि इति सुपि च इति दीर्घः। कुत्र इति च अच्च घेः इत्यत्त्वौ स्याताम् ततः, तत्रेति स्मात्-स्मिनौ स्याताम्। तदुक्तं भाष्ये--तसिलादयो विभक्त्यादेशाश्चेत् सुब्लुक्स्वरगुणदीर्घात्त्वौत्त्वस्मादादिविधिः प्रसज्येत इति।
-5-3-8- तसेश्च ।।
इति स्वरार्थं सूत्रम्।
-5-3-9- पर्यभिभ्याश्च ।।
आभ्यां तसिल् स्यात्। परितः। अभितः।
-5-3-10- सप्तम्यास्त्रल् ।।
सप्तम्यन्तात् त्रल् स्यात्। यत्र। बहुत्र।
-5-3-11- इदमो हः ।।
इदमः सप्तम्यन्ताद्धः स्यात्। इह।
-5-3-12- किमोऽत् ।।
किमः सप्तम्यन्तादत् स्यात्। क्व।
त्रलमपि केचिदिछन्ति-कुत्र इति जयादित्यः।
-5-3-13- वाह च च्छन्दसि ।।
छन्दः सूत्रम्।
-5-3-14- इतराभ्योऽपि दृश्यन्ते ।।
सर्वाभ्यो विभक्तिभ्यस्तसिलादयो विज्ञेयाः। दृशिग्रहणाद् भवदादियोगेऽभिधानम्। सभवान्। ततोभवान्। तत्रभवान्। तं ततस्तत्रदीर्घायुषं ब्रवीमि। तेन ततस्तत्रदेवानां प्रियेण कृतमित्यादि।
-5-3-15- सर्वैकान्यकिंयत्तदः काले दा ।।
एभ्यः सप्तम्यन्तेभ्यः काले दा स्यात्। सदा। सर्वदा।
एकदा। अन्यदा। यदा। तदा। कदा।
काले किम् ? सर्वत्र देशे।
कालसामान्ये चायं दा, तेन कालविशेषे न भवति--यत्र तत्र दिवस इति।
काले विधिरा थालः ( 5.3.23 )।
-5-3-16- इदमोर्हिल् ।।
सप्तम्यन्तादिदमो र्हिल् स्यात्। एतर्हि काले।
-5-3-17- अधुना ।।
निपात्यते।
-5-3-18- दानीञ्ञ्च ।।
सप्तम्यन्तादिदमो दानीञ्ञ्च स्यात्। इदानीम्।
-5-3-19- तदो दा च ।।
तदो दा स्यात्, दानीञ्ञ्च। तस्मिन् काले तदा। तदानीम्।
-5-3-20- तयोर्दार्हिलौ च च्छन्दसि ।।
छन्दःसूत्रमेकम्।
-5-3-21- अनद्यतेन र्हिलन्यतरस्याम् ।।
अनद्यतने काले किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यो र्हिल् स्याद् वा। कर्हि, कदा वा। यर्हि, यदा वा। तर्हि, तदा वा।
-5-3-22- सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तेरद्युः ।।
चतुर्दशैतेऽहनि वर्षे च निपात्यन्ते। समानेऽहनि सद्यः। पूर्वस्मिन् सवत्सरे परुत्। पूर्वतरे वर्षे परारि। अस्मिन् वर्षे ऐषमः। परस्मिन्नहनि परेद्यवि। अस्मिन्नहनि अद्य। पूर्वस्मिन्नहनि पूर्वेद्युरित्यादि। उभयेद्युः।
। द्युश्चोभयात् ।। उभयद्युः।
-5-3-23- प्रकारवचने थाल् ।।
सादृश्यवृत्तिभ्यस्थाल् स्यात्। तेन प्रकारेण तथा। यथा। सर्वथा।
-5-3-24- इदमस्थमुः ।।
-5-3-25- किमश्च ।।
इदं-किमोः प्रकारे थमुः सयात्। इत्थम्। कथम्।
उक्ताः। किंसर्वनामबहुभ्यः प्रत्ययविभक्तयः ।।
अतः परं स्वार्थिकाः।
-5-3-26- था हेतौ च च्छन्दसि ।।
छन्दः सूत्रम्
-5-3-27- दिक्शब्देभ्यः सप्तमीपञ्ञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ।।
दिग्वाचिभ्यः सप्तम्याद्यन्तेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिः स्यात्। पूर्वत्र दिशि देशे काले वोषितः पुरस्तादुषितः। पञ्ञ्चम्यन्तात्--पुरस्तादागतः। प्रथमान्तात्--पुरस्ताद् रम्या दिक्, अधस्ताद् रम्यो देशः।
धाप्रत्ययं (5.3.42)यावदस्तातिविषये विधिः।
-5-3-28- दक्षिणोत्तराभ्यामत्सुच् ।।
आभ्यामतसुच् स्यात्। दक्षिणतः। उत्तरतः।
-5-3-29- विभषा परावराभ्याम् ।।
आभ्यामतसुज् वा स्यात्। परतः, परस्ताद्वा। अवरतः, अवरस्ताद्वा।
-5-3-30- अञ्ञ्चेर्लुक् ।।
अञ्ञ्चत्यन्ताद् दिक्शब्दादस्तातेर्लुक् स्यात्। लुक् तद्धितलुकि इति ङीपो लुक्। प्राग् वसति प्रागागतः। प्राग्रमणीयम्। एवं प्रत्यक्।
-5-3-31- उपर्युपरिष्टात् ।।
ऊर्ध्वशब्दे एतौ निपात्येते अस्तात्यर्थे।
-5-3-32- पश्चात् ।।
अवरशब्दस्यातिप्रत्यये परे पश्चभावो निपात्यते। पश्वाद् वसति,
आगतः, रमणीयं वा।
। दिक्पूर्वपदस्य च ।। दक्षिणपश्चात्। उत्तरपश्चात्।
। अर्धोत्तरपदस्य च समासे ।। दक्षिणपश्चार्धः।
। अध च ।। पश्चभावो वक्तव्यः। पश्चार्द्धः।
-5-3-33- पश्च पश्चा च च्छन्दसि ।।
छन्दः सूत्रम्।
-5-3-34- उत्तराधरदिक्षणादातिः ।।
एभ्य आतिः स्यात्। उत्तरात्। अधरात्। दक्षिणात्।
-5-3-35- एनबन्यतरस्यामदूरेऽपञ्ञ्चम्याः ।।
दिक्छब्दादेनब् वा स्याददूरश्चेदवधिमान्। अदूरे गम्ये इत्यर्थः। उत्तरेण, उत्तराद्वा। दखिणेन, दखिणादृ वा वसति रमणीयं वा।
अदूरे किम् ? उत्तरतो हिमवान्। अपञ्ञ्चम्याः किम् ? ग्रामस्य दक्षिणतः पर्वतादागतः।
अपञ्ञ्चम्याः इत्यधिकारोऽयं प्रागसिप्रत्ययात् ( 5.3.39)।
-5-3-36- दक्षिणादाच् ।।
दक्षिणाददूरे स्यादाच्। दक्षिणा वसति, रम्यं वा।
-5-3-37- आहि च दूरे ।।
दूरे गम्ये दक्षिणादाहि च स्यात्। चकारादाच्च। दक्षिणाहि, दक्षिणा।
-5-3-38- उत्तराच्च ।।
उत्तरादाजाही स्याताम्। उत्तरा, उत्तराहि वसति रम्यं वा।
उत्तराहि वसन् रामः समुद्राद् रखसां पुरीम्।
अवैल्लवणतोयस्य स्थितां दक्षिणतः कथम् ।।
अपञ्ञ्चम्याः इति निवृत्तम् ।
-5-3-39- पूर्वाधरावराणामसि पुरधवश्चैषाम् ।।
पुरु-अध्-अवादेशा एषामसिश्च स्यात्। पुरः, अधः, अवः वसत्यागतो रम्यं वा।
-5-3-40- अस्ताति च ।।
अस्तातौ च पूर्वादीनां पुरादयः स्युः। पुरस्तात्। अधस्तात्। अवस्तात्।
कथं पुरतस्तहिं ? चिन्त्यमेतद्।
-5-3-41- विभाषाऽवरस्य ।।
अवरस्यावादेशोऽस्तातौ स्याद्वा। अवरस्तात्, अवस्ताद् वा, वसत्यागतौ रम्यं वा।
उक्ता अतसुजर्थाः यैर्योगे षष्ठी भवेत्। एनपा द्वितीया। अञ्ञ्चूत्तरपदाजाहिभिस्तु पञ्ञ्चमी भवेत् ।।
-5-3-42- संख्याया विधार्थे धा ।।
क्रियाप्रकारवृत्तेः संख्याया धा स्यात्। जातीयरोऽपवादः। पञ्ञ्यधा भुड्क्ते। सप्तधा। विंशतिधा। एकधा। द्विधा। षोढा।
कथमेकजातीयः ? द्रव्ये गुणे वा प्रकारवति भविष्यति।
-5-3-43- अधिकरणविचाले च ।।
द्रव्यविचालने संख्याया धा स्यात्। एकं द्विधा कुरु। पञ्ञ्चधा। षोढा। अनेकमेकधा कुरु।
-5-3-44- एकाद्धो ध्यमुञ्ञन्यतरस्याम् ।।
एकाद् धास्थाने ध्यमुञ्ञ् स्याद्वा। एकधा, ऐकध्यं वा भुकङ्क्ते।
-5-3-45- द्वित्र्योश्च धमुञ्ञ् ।।
-5-3-46- एधाच्च ।।
द्वित्रिभ्यां धो धमुञ्ञ् स्याद्वा, एधाच्च। द्विधा, द्वैधम्, द्वेधा वा। त्रिधा, त्रैघम्, त्रेधा वा।
। धमुञ्ञन्तात् स्वार्थे ङः। । मते द्वैधानि संशय्य। त्रैधानि। तसिलादिरेधाजन्तोऽव्ययम्।
-5-3-47- याप्ये पाशप् ।।
याप्यार्थात् पाशप् स्यात्। हीनो याज्ञिको याज्ञिकपाशः।
शाब्दिकपाशः।
-5-3-48- पूरणाद् भागे तीयादन् ।।
-5-3-49- प्रागेकादशभ्योऽच्छन्दसि ।।
छान्दसे सूत्रे। भागेऽन्।
-5-3-50- षष्टाष्टमाभ्यां ञ्ञ च ।।
आभ्यां भागेऽन् स्यात्। ञ्ञश्च। षष्ठो भागः, षाष्ठो वा। अष्टमः, आष्टमो वा भागः।
अन् इति नित्स्वरार्थ एव प्रसङ्गान्निबद्धः।
-5-3-51- मानपश्वङ्गयोः कन्लुकौ च ।।
माने भागे षष्ठात् कन् स्यात्। षष्ठकः। पश्वङ्गभागेऽष्टमादनो ञ्ञस्य च वा लुक्। अष्टमः।
चकाराञ्ञ्ञ्ञानौ च बोद्धव्यौ। षष्ठः, षाष्ठः। अष्टमः, आष्टमः।
-5-3-52- एकादाकिनिच्चासहाये ।।
असहायार्थादेकादाकिनिच् स्यात्। कन्-लुकौ च। एकाकी। एकः। एककः।
-5-3-53- भूतपूर्वे चरट् ।।
स्यात्। आढ्यो भूतः पूर्वमाढ्यचरः। कुमारचरी वृद्धा।
-5-3-54- पष्ठ्या रूप्य च ।।
षष्ठ्यन्ताद् रूप्यः स्यात्। चकाराच्चरट् च। ब्राह्मणस्य भूतः पूर्वं ब्राह्मणरूप्यो ग्रामः। ब्राह्मणचरः।
-5-3-55- अतिशायने तमबिष्ठनौ ।।
अतिशायनमतिप्रकर्षवन्तं करोति गुणिनमित्यतिशायनःउगुणप्रकर्षः, तद्युक्तात् स्वार्थे तमबिष्ठनौ स्याताम्। अयमेषां शुक्लः शुक्लतमः शङ्खः।
अयमेषां पटुः पुटुतमः। पटिष्ठः, लघिष्ठः।
-5-3-57- द्विवचनविभज्योपपदे तरबीयसुनौ ।।
द्वयोर्वचनं द्विवचनम्। तत्रोपपदे सातिशायनात् तिङ्श्च तरबीयसुनौ
स्याताम्। अयमनयोराढ्यतरः, आढ्यीयान्। पटुतरः, पटीयान्। पचतितराम्।
विभज्यो विभक्तव्यः। तदुपपदाच्च--पाश्चात्त्या गौडेभ्य आढ्यतराः। पटुतराः। पटीयांसः।
-5-3-58- अजादी गुणवचनादेव ।।
इष्ठन्नीयसुनौ गुणवचनादेव स्याताम्। पटिष्ठः, पटीयान्। गुणवचनात् किम् ? पाचकत्तरः। पाचकतमः। पचतितराम्। पचतितमाम्।
-5-3-59- तुश्छन्दसि ।।
छन्दः सूत्रम्।
-5-3-60- प्रशस्यस्य श्रः ।।
-5-3-61- ज्य च ।।
प्रशस्यशब्दस्य श्रादेशो ज्यादेशश्च स्यादजाद्योः परतः। श्रेष्ठः। श्रेयान्। ज्येष्ठः। ज्यायान्। ज्यादादीयसः इत्यात्त्वम्।
इह भाषायां द्वितीयः प्रकर्षप्रतययो नेष्यते। तेन श्रेष्ठतरः, ज्येष्ठतम इति न भवतीत्येके।
भवतीति जयादित्यः। तेन युधिष्ठिरः श्रेष्ठतमः कुरूणाम् इति।
-5-3-62- वृद्धस्य च ।।
अजाद्योर्वृद्धस्य ज्यः स्यात्। अयमेषां ज्येष्ठः। अयमनयोर्ज्यायान्। प्रियस्थिर इति वचनाद् वर्षभावश्च--वर्षिष्ठः वर्षीयान्।
-5-3-63- अन्तिकबाढयोर्नेदसाधौ ।।
अनयोरिमौ स्यातामिष्ठेयसोः परतः। नेदिष्ठम्। अन्तिकतमम्। नेदीयः। अन्तिकतरम्। अयमेषां बाढमधीते साधिष्ठमधीते। साधीयो गुरुरभवद् भुवस्तरुण्याः। बाढं भृशं नित्यं क्रियाविशेषणमिति प्रत्ययान्तोऽपि तथा स्यात्।
-5-3-64- युवाल्पयोः कन्नन्यतरस्याम् ।।
अनयोः कन्नादेशो वा स्यादिष्ठेयसोः परतः। अयमेषां कनिष्ठः।
अयमनयोः कनीयान्। अतियुवा, अत्यल्पो वा।
पक्षे--यविष्ठः, यवीयान्। अल्पिष्ठः, अल्पीयान्।
-5-3-65- विन्मतोर्लुक् ।।
विनेर्मतुपश्च लुक् स्यादिष्ठेयसोः परतः। इमे स्रग्विणः। अयमेषां स्रजिष्ठः। अयमनयोः स्रजीयान्। एवम्-ओजिष्ठः। ओजीयान्। इमे त्वग्वन्तः। अयमेषां त्वचिष्ठः। त्वचीयान्। एवं धर्मिष्ठः, धर्मीयान्। पापिष्ठः, पापीयान्।
सर्वत्रागुणवाचिभृयोऽस्मादेश्च वचनादिष्ठेयसुनौ।
-5-3-66- प्रशंसायां रूपप् ।।
स्यात्। प्रशस्तश्छात्त्रश्छात्त्ररूपः। याज्ञिकरूपः। तिङ्श्चेत्येव--पचतिरूपम्, पचन्तिरूपम्। क्लीबत्वं लोकाश्रयत्वात्।
-5-3-67- इर्षदसमाप्तौ कलृपब्देश्यदेशीयरः ।।
इर्षदसमाप्त्यर्थात् कल्पब्-देश्य-देशीयरः स्युः। इर्शदसमाप्तो भिक्षुर्भिक्षुकल्पः। पण्डितदेश्यः। बोधिसत्त्वदेशीयः। इन्द्रदेशीयो राजा। अष्टादशवर्षदेशीया कन्या। तिङ्श्च--पचतिकल्पम्। दीयतेकल्पम्। पचतिदेश्यम्। पचतिदेशीयम्।
स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्तेऽपि इति गुडकल्पा द्राक्षा। पयस्कल्पा यवागूः। अयस्कल्पं घृतम्। अब्देशीयं धतम्।
-5-3-68- विभाषा सुपो बहुच् पुरस्तात् तु ।।
इर्षदसमाप्त्यर्थात् सुबन्ताद् बहुच् प्रत्ययः पूर्वं वा स्यात्। बहुगुडा द्राक्षा। गुडकल्पा। लघुर्बहुतृणं नरः। तृणदेश्यः।
सुपः किम् ? तिङो मा भूत्।
-5-3-69- प्रकारवचने जातीयर् ।।
स्यात्। पटुप्रकारः पटुजातीयः। तज्जातीयः। तथाजातीयः।
प्रकारमात्रे थालुक्तः, प्रकारवति तु जातीयर्-इत्यनयोर्भेदः।
तद्धितेषु प्रागिवीयाः
-5-3-70- प्रागिवात् कः ।।
इवे प्रतिकृतौ (5.3.96) इत्यतः प्राक् कप्रत्ययो वाच्यः। तिड्न्तादयं नेष्यते। अकजिष्यत एव।
-5-3-71- अव्ययसर्वनाम्नाकमकच् प्राक् टेः ।।
-5-3-72- कस्य च दः ।।
अव्ययसर्वनाम्नां टेः प्रागकज् वाच्यः प्रागिवार्थे। यथासम्भवम्अलोऽन्त्यस्य इति अन्त्यककारस्य च दकारः। इह च सुबन्तस्य प्राक् टेरकजनोकारसकारभकारादौःथ्द्य;ति भाष्यम्। उच्चकैः। नीचकैः। धिक् धकित्। हिरुक हिरकुत्। पृथकत्। सर्वके। विश्वके। त्वयका। मयका। त्वयकि। मयकि।
अनोकारसकारभकारादौ--इत्युक्तेरिह प्रातिपादिकस्य प्राक् टेरकच्--युवकयोः, आवकयोः, युष्मकासु, अस्मकासु, युष्मकाभिः, अस्मकाभिरिति।
इह तिङ्श्च इति स्मर्यते--कुत्सितं जल्पति जल्पतकि। पचतकि।
इहतु वचेर्लङि--अवक्, अवकक्। अनेक्, अनेनेक्। कस्य च दः इतीह नास्ति, ककारस्यासिद्धत्वात्।
। तूष्णीमः कामः ।। मकारो देशाविध्यर्थः। तुष्णीकामासते विज्ञाः।
। शीले को मलोपश्च ।। तूश्णीं शीलस्तूष्णीकः।
-5-3-73- अज्ञाते ।।
अज्ञातविशेषणात् काकचौ स्याताम्। न ज्ञायते कस्यायमश्वः किंस्वभावो वाऽश्वकः। नवकः। अज्ञात उच्चैरीदॄशस्ताद्शो वा उच्चकैः। अज्ञातासौ कस्य कीदृशी वाऽसकौ। पिबति च पाति च याऽसकौ रहस्त्वाम्। एवं सर्वके। विश्वके। पचतकि।
कस्य च दः इति-पृथकत्।
-5-3-74- कुत्सिते ।।
अत्रार्थे काकचौ स्याताम्। कुत्सितोऽश्वोऽश्वकः। उच्चकैः। सर्वके।
पचतकि। हिरकुत्।
-5-3-75- संज्ञायां कन् ।।
कुत्सितोपाधिके नाम्नि कन् स्यात्। शूद्रकः। धारकः। चूर्णकः। व्याधकः।
-5-3-76- अनुकम्पायाम् ।।
अत्र काकचौ स्याताम्। पुत्रकः। दुर्बलकः। पातकि। स्वपितकि। पचतकि। यातकि।
-5-3-77- नीतौ च तद्युक्तात् ।।
नीतिगतावनुकम्पायुक्तात् काकचौ स्याताम्। हन्त ते वस्त्रकम्।हन्त तेऽश्वकः।
-5-3-78- बहृवचो मनुष्यनाम्नष्ठज् वा ।।
-5-3-79- घनिलचौ च ।।
-5-3-80- प्राचामुपादेरडज्बुचौ च ।।
अनुकम्पायां बह्वचो नृनाम्नष्ठज् वा सयात्। अनुकम्पितो देवदत्तः देविकः, देवदत्तिकः। पक्षे कः--देवदत्तकः। घनिलचौ च-देवियः, देविलः। यज्ञिकः।
उपादेस्तु नृनाम्रः प्राचामडज्वुचौ च--अनुकम्पित उपेन्द्रदत्तः उपडः। उपकः।
चकाराद् यथाप्राप्तञ्ञ्च--उपियः, उपिलः, उपिकः। उपेन्द्रदत्तकः।
बहृवचः किम् ? दत्तकः। गुप्तकः।
-5-3-81- जातिनाम्नः कन् ।।
अनुकम्पायां कन् स्यात्। व्याघ्रकः। सिंहकः कश्चित्।
-5-3-82- अजिनान्तस्योत्तरपदलोपश्च ।।
अजिनान्तान् मनुष्यनाम्रोऽनुकम्पायां कन् स्याद्, उत्तरपदलोपश्च। व्याघ्राजिनो नामानुकम्पितः व्याघ्रकः। कृष्णकः।
-5-3-83- ठाजादावूर्ध्वं द्वितीयादचः ।।
लोप इत्येव। ठकारेऽचादौ च परे द्वितीयादच उपरिभागस्य लोपः स्यात्। ठग्रहणं ठावस्थायां लोप उगन्तात् कादेशार्थम्। वायुदत्तकः, वायुकः। पितृकः। देविकः, देवियः, देविलः।
इह देविकादीनां शब्दान्तराणामेव लोपद्वारेणान्वाख्यानम्। तत्र निदर्शनमेतद्। द्वितीयादयचः इति चतुर्थादपि भवति--बृहस्पतिदत्तकः, बृहस्पतिकः।
अनजादौ च वा--देवदत्तकः, देवकः। पूर्वपदस्य च लोपः--दत्तिकः, दत्तकः, दत्तियः। अप्रत्ययेऽपि पूर्वोत्तरयोर्लोपो वाच्यः--देवदत्तो दत्तः, देवो वेति। उवर्णान्तादिलचो लकारादेशश्च--वायुदत्तकः, वायुलः। भानुदत्तकः, भानुलः। तदुक्तम्--
चतुर्थादनजादौ च लोपः पूर्वपदस्य च।
अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ।। इति
सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम्--उपेन्द्रदत्तकः, उपडः, उपकः। एकापच्पूर्वपदानामुतरपदलोपश्च--वागाशीर्वाचिकः। त्वगाशीस्त्वचिकः। द्वितीयादचः परलोपे हि यस्येति च इति लोपस्य स्थानिवत्त्वाद् भत्वाभावेऽन्तर्वर्त्तिविभक्त्याश्रये पदत्वे च चोः कुः स्यात्।
षषष्ठाजादिलोपवचनम्। षषस्तु ठाजादिसूत्रेण द्वितीयादच एव लोपवचनम्, ततः पदत्वे जश्त्वम्-षडङ्गुलिदत्तः षडिकः।
-5-3-84- शेवलमुपरिविशालवरुणार्यमादीनां तृतीयात् ।।
एषां तृतीयादच ःढ़द्य;र्ध्वस्य लोपः स्यात्। अनुकम्पितः शेवलदत्तः शेवलिलः, शेवलियः, शेवलिकः। शेवलेन्द्रदत्तः, शेवलिलः, शेवलियः शेवलिकः।
-5-3-85- अल्पे ।।
अल्पार्थे काकचौ स्याताम्। अल्पं धृतं घृतमकम्। उच्चकैः। विश्वके। पचतकि।
-5-3-86- ह्रस्वे ।।
अत्रार्थे काकचौ स्याताम्। ह्रस्वो दण्डो दण्डकः। स्तम्भकः।
-5-3-87- संज्ञायां कन् ।।
ह्रस्वे नाम्रि कन् स्यात्। वेणुकः। वंशकः।
-5-3-88- कुटीशमीशुण्डाभ्यो रः ।।
आभ्यो रः स्यात्। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः, करभस्य नाम। कुटीउमृतशरीरमित्येके।
-5-3-89- कुत्वा डुपच् ।।
ह्रस्वा कुतूः कुतुपः।
-5-3-90- कासूगोणीभ्यां ष्टरच् ।।
ह्रस्वा कासूः कासूतरी। गोणीतरी। षित्त्वान् ङीष्। कासूः-उअस्त्रभेदः।
-5-3-91- वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।।
एभ्योऽत्र ष्टरच् स्यात्। तनुर्वत्सः, वत्सत्वेनासम्पूर्णः, वत्सतरः। द्वितीयवयाः। उक्षतरः, तृतीयवयाः। प्रतिक्षणं नोक्षतरः प्रतीच्छति। इअश्वतरी खरजाता। ऋषभतरो मन्दः।
इह शब्दप्रवृत्तिनिमित्तस्य तनुत्वमिष्टम्। यस्तु कृशत्वेन तनुस्ततो न प्रत्ययः। तदुक्तम्भाष्ये--वत्सादिभ्यः कार्श्ये प्रतिषेधःइति।
-5-3-92- किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् ।।
गुणक्रियासंज्ञाभिर्द्वयोरेकस्य निर्धारणे किं-यत्-तद्भ्यो डतरच् स्यात्। कतरो भवतोः पटु। यतरः पटुस्ततर आयातु। एवं कतरश्चैत्रः। कतरः कारक इति।
-5-3-93- वा बहूनां जातिपरिप्रश्ने डतमच् ।।
बहूनामेकस्य निर्धारणे किमादेर्डतमच् स्यात्। कतमो भवतां कठः। यतमः।
वावचनमकजर्थम्--यकः। सकः।
महाविभाषया वाक्यं च--को भवतां कठः।
जातिपरिप्रश्ने किम् ? को भवतां देवदत्तः।
-5-3-94- एकाच्च प्राचाम् ।।
एकात् तौ स्याताम्। एकतरो भवतोर्यातु। एकतमो भवतां शृणोतु।
प्राचांग्रहणं पूजार्थम्, वृत्तेर्विकल्पस्य महाविभाषया सिद्धेः।
-5-3-95- अवक्षेपणे कन् ।।
अत्र कन् स्यात्। व्याकरणकेनायं गर्वितः। गर्वोऽत्रावक्षिप्यत इत्यागमः।
-5-3-96- इवे प्रतिकृतौ ।।
इवार्थःउसादृश्यम्। तद्विशेषणं प्रतिकृतिः। प्रतिकृतिलक्षणे इवार्थे कन् स्यात्। अश्वप्रतिकृतिरश्वकः। गर्दभकः।
प्रतिकृतौ किम् ? गौरिव गवयः।
इवार्थे विधिः प्राक् पूगाञ्ञ्ञ्ञ्यात् (5.3.112)।
प्रतिकृतौ विधिः प्राग् वस्तेर्ढञ्ञः (5.3.101)।
-5-3-97- संज्ञायाञ्ञ्च ।।
-5-3-98- लुम् मनुष्ये ।।
-5-3-99- जीविकार्थे चापण्ये ।।
इवार्थे नाम्रि कन् स्यात्। अश्वकः। मनुष्ये वाच्ये कनो लुप्। चञ्ञ्चेव परः चञ्ञ्चा वर्ध्रिका।
जीविकार्थे कनो लुप्। जीविकार्थं यामादित्यादिप्रतिकृतिं गृहीत्वा भ्रमति स उच्यते आदित्यः। स्कन्दः। वासुदेवः।
अपण्ये किम् ? वासुदेवकान् विक्रीणीते।
-5-3-100- देवपथादिभ्यश्च ।।
कनो लुप् स्यात्। देवपथः। हंसपथः। काश्यपप्रतिकृतिः कायपः।
आकृतिगणोऽयम्।
उक्तः प्रत्ययः प्रतिकृतौ।।
-5-3-101- वस्तेर्ढञ्ञ् ।।
इवार्थे वस्तेर्ढञ्ञ् स्यात्। वस्तिरिव वास्तेयः। वास्तेयी वियोगिनी।
-5-3-102- शिलाया ढः ।।
स्यात्। शिलेयं शिलेवास्याः शरीरम्।
ढञ्ञपीत्येके-शैलेयं दधि।
-5-3-103- शाखादिभ्यो यत् ।।
शाखेव शाख्यः। मुख्यः। जघन्यः।
-5-3-104- द्रव्यञ्ञ्च भव्ये ।।
द्रुरिव सर्वारयत्वाद् यति द्रव्यं निपात्यते भव्यञ्ञ्चेत्। द्रव्यमेव खलु सर्ववल्लभम्।
-5-3-105- कुशाग्राच्छः ।।
कुशाग्रमिव कुशाग्रीया बुद्धिः।
-5-3-106- समासाच्च तद्विषयात् ।।
इवार्थविषयात् समासदपरस्मिन्निवार्थे छः स्यात्। काकतालीयम्। अजाकृपाणीयम्।
अत्र भाष्यम्-द्वाविमाविवार्थौ। काकागनमिव तालपतनमिव देवदत्तस्य दस्युसमागमः--काकतालम्। निपातनात् समासः। ततः तालेन काकस्य वध इव देवदत्तस्य वधो दस्युभिः--काकतालीयमिति।
-5-3-107- शर्करादिभ्योऽण् ।।
शर्करेव शार्करम्। कापालम्।
-5-3-108- अङ्गुल्यादिभ्यष्ठक् ।।
अङ्गुलीवाङ्गुलिकः। भारुजिकः। भरुजःउनिःशाखवृक्षः।
-5-3-109- एकशालायाष्ठजन्यतरस्याम् ।।
अस्याष्ठज् वा स्यात्। एकशालेव एकशालिकः।
पक्षे कन्--एकशालकः। ठगित्यन्ये--ऐकशालिकः।
कर्क इव कार्कीको गौः। लोहितीकः स्फाटिकः।
-5-3-110- कर्कलोहितादीकक् ।।
कर्क इव कार्कीको गौः। लोहितीकः स्फाटिकः।
-5-3-111- प्रत्नपूर्वविश्वेमात् थाल् छन्दसि ।।
छन्दः सूत्रम्।

                       ।।उक्ता इवार्थे प्रत्ययाः ।।
-5-3-112- पूगाञ्ञ् ञ्ञ्योऽग्रामणीपूर्वात् ।।
पूगः-सङ्घविशेषः। तद्वाचिभ्यः स्वार्थे ञ्ञ्यः स्वात्। लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः। शैव्यः, शैव्यौ, शिवयः।
अग्रामणीपूर्वात् किम् ? स एषां ग्रामणीर्देवदत्तकाः।
-5-3-113- व्रातच्फञ्ञोरस्रियाम् ।।
व्रातवाचिनः, च्फञ्ञन्ताच्च स्वार्थे ञ्ञ्यः स्यात्। व्रैहीमत्यः। कौञ्ञ्जायन्यः।
अस्त्रियां किम् ? व्रीहिमती। कौञ्ञ्जायनी। जातेः इति ङीष्।
-5-3-114- आयुधजीविसंघाञ्ञ्ञ्ञ्यङ्वाहीकेष्वब्राह्मणराजन्यात्।।
वाहीकेष्वायुधजीविनां सङ्घाञ्ञ् ञ्ञ्यड् स्यात्। कौण्डीवृस्यः। क्षौद्रक्यः। क्षुद्रकी स्त्री।
वाहीकेषु किम् ? शवरः। अब्राह्मणराजन्यात् किम् ? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः।
-5-3-115- वृकाट् टेण्यणम् ।।
वृकात् तथैव टेण्यण् स्यात्। वार्केण्यः। वार्केणी।
-5-3-116- दामन्यादित्रिगर्त्तषष्ठाच्छः ।।
एभ्यश्छः स्यात्। दामनीयः। औलपीयः। त्रिगर्त्तवर्गः षष्ठो येषामायुधजीविनां ते तथा, तेभ्यः--कौण्डोपरथीयः।
-5-3-117- पर्श्वादियौधेयादिभ्यामणञ्ञौ ।।
पर्शू प्रभृतेः शस्त्रजीविसंघादण् स्यात्। पार्शवः। आसुरः।
यौवेयादेरञ्ञ्--यौधेयः। शौभ्रेयः।
पर्शू इति दीर्घान्तो द्व्यजित्यागमः।
-5-3-118- अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्ञ् ।।
आयुधजीविसंघाद् इति निवृत्तम्। अभिजिदादिभ्यो गोत्राणन्तेभ्यः। स्वार्थे यञ्ञ् स्यात् ।अभिजितोऽपत्यं पुमान् आभिजितः,ततो यञ्ञ्--आभिजित्यः। वैदभृत्यः। शालीवत्यः। शामीवत्यः। और्णावत्यः। श्रीमत्यः।
नेह--आभिजितः स्थालीपाकः।
-5-3-119- ञ्ञ्यादयस्तद्राजाः ।।
उक्ताः ञ्ञ्यादयस्तद्राजा उच्यन्ते। ततः बहुषु लुक् लोहध्वजाः। कौञ्ञ्जायनाः। क्षुद्रकाः। दामनयः। पर्शवः। आभिजिताः। वृकाः।
-5-3-119