भाषावृत्तिः/द्वितीयोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

       द्वितीयोऽध्यायः। प्रथम: पाद:।

-2-1-1- समर्थः पदविधिः ।
यो नाम पदानां विधिः स समर्थो वेदितव्यो यथा समासः। राज्ञः पुरुषो राजपुरुषः। समर्थ इति किम् ? भार्या राज्ञः पुरुषो देवदत्तस्य। पदविधिग्रहणं किम् ? तिष्ठतु दध्यशान त्वं शाकेन। यणादेशो वर्णविधिः।

-2-1-2- सुबामन्त्रिते पराङ्गवत् स्वरे ।
अतः परं सुबित्यधिक्रियते। शेषश्छान्दसः स्वरभागः।

-2-1-3- प्राक् कडारात् समासः ।
कडारशब्दात् (2.2.38) प्राक् समासो वेदितव्यः।

-2-1-4- सह सुपा ।
सुबित्येव। अतः परं सुपा सह सुबन्तं समस्यत इत्यधिकृतं वेदितव्यम्। लक्षणमप्येतत्। पूर्वं भूतो भूतपूर्वः। विस्पष्टपटुः। तत्प्रथमः। पुनर्गवः । अध्वगन्तव्य इत्यादि।

-2-1-5- अव्ययीभावः ।
अव्ययीभावो नाम समासो वाच्यः प्राक् तत्पुरुषात्। तद्यथा---

-2-1-6- अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्ति-
साकल्यान्तवचनेषु ।
विभक्त्याद्यर्थेष्वव्ययं सुपा सह समस्यते। विभक्त्यर्थे । स्त्रीष्वधिकृत्य कथा प्रवर्त्ततेऽधिस्त्रि। अधिपाणि
कपोलौ। समीपार्थे । उपकुम्भम्। समृद्धौ सुमद्रम्। ऋद्ध्यभावो व्यृद्धिः । दुर्यवनम्। दुर्भिक्षम्। अर्थाभावे निर्मक्षिकम्।
अत्ययो भूतत्वमतिक्रमः। निःशीतम्। असम्प्रत्यर्थे । नायमस्य कम्बलस्य भोगकालोऽतिकम्बलम्। शब्दप्रादुर्भावः प्रकाशता । इतिपाणिनि। उद्विक्रमादित्यम्। पश्चादर्थे । अनुरथम्। यथार्थाश्चत्वारः । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यञ्चेति। योग्यतायाम् । अनुरूपमस्य दानम्। वीप्सायाम् । प्रतिदिनं ददाति। पदार्थानतिवृत्तौ । यथाबलमध्येति पाठम्। सादृश्ये । वीणावत् सवीणं ध्वनति। सहंसं गच्छति। आनुपूर्व्ये । अनुज्येष्ठं प्रविशन्तु। यौगपद्ये । सचक्रं निधेहि। अव्ययीभावे चाकाल इति (6.3.81) सहस्य सः। गौणेऽपि सादृश्ये । सदृशः किख्या सकिखि। सदृशीभि-
र्लक्ष्म्या सलक्ष्मि स्त्रीभिः। सम्पत्तौ । सक्षत्रम्। साकल्यवचने । सतृणमभ्यवहरति । तृणमपि न त्यजतीत्यर्थः। अन्तवचने । सतद्धितमधीते।

-2-1-7- यथाऽसादृश्ये ।
यथाशब्दः समस्यते। ये ये वृद्धा यथावृद्धम्। न सादृश्ये । यथा शक्रस्तथा त्वम्।

-2-1-8- यावदवधारणे ।
इयत्तायां यावच्छब्दः समस्यते। यावल्लयनं भिक्षून् वासय।

-2-1-9- सुप् प्रतिना मात्रार्थे ।
लेशार्थे सुबन्तं प्रतिना समस्यते। न सुखप्रति संसारे। न दोषप्रति वौद्धदर्शने।

-2-1-10- अक्षशलाकासंख्याः परिणा ।
अमी परिणा समस्यन्ते। द्यूतव्यवहारेऽभिधानम्। अक्षपरि । शलाकापरि। संख्या । एकपरि । द्विपरि।

-2-1-11- विभाषा ।
अतः परं विभाषा समासो वाच्यः।

-2-1-12-अपरिबहिरञ्चवः पञ्चम्या।
एते पञ्चम्यन्तेन समस्यन्ते। अपत्रिगर्तम्। परित्रिगर्तम्। बहिर्ग्रामम्। प्राग्ग्रामम्। विभाषाधिकाराद् वाक्यं च । अप त्रिगर्तेभ्यः । परि त्रिगर्तेभ्यः। बहिर्ग्रामात् । प्राग् ग्रामात्।

-2-1-13- आङ् मर्यादाभिविध्योः ।
एतयोराङ् पञ्चम्या समस्यते। आसमुद्रं गतः। आकुमारं यशस्तव।

-2-1-14- लक्षणेनाभिप्रती आभिमुख्ये ।
आभिमुख्यार्थेऽभिप्रती लक्षणवाचिना सुबन्तेन समस्येते। अभ्यग्नि शलभाः पतन्ति। प्रतिदीपं शलभाः पतन्ति।
लक्षणेन किम् ? दिङ्मोहात् स्रुघ्नं प्रति गतः।

-2-1-15- अनुर्यत् समया ।

-2-1-16- यस्य चायामः ।
अनुशब्दो यस्य समीपवाची यस्य च दैर्घ्यवाची तेन समस्यते। अनुवनं चौराः । तत्समीपा इत्यर्थः। अनुगङ्गं वाराणसी। गङ्गावदायता।

-2-1-17- तिष्ठद्गुप्रभृतीनि च ।
अमूनि यथापाठं साधूनि स्युः। तिष्ठन्त्यस्मिन् काले गावस्तिष्ठद्गु कालः। वहद्गु कालः। आयतीगवम्। खलेयवम्। प्राह्णम्। प्रदक्षिणम्। प्रत्यक्षम्। समक्षम्। अपसव्यम् । इच् कर्मव्यतीहारे । दण्डादण्डि।

-2-1-18- पारेमध्ये षष्ठ्या वा ।
एतौ षष्ठ्या वा समस्येते। निपातनादेत्वम्। पारेश्मशानं सरित्। मध्येगङ्गम्। पक्षे षष्ठीसमासः । श्मशानपारम् । गङ्गामध्यम्।

-2-1-19- संख्या वंश्येन ।
वंशभवेन संख्या समस्यते। द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि। त्रिमुनि व्याकरणस्य ।

-2-1-20- नदीभिश्च ।
नदीभिः संख्या समस्यते। समाहारेऽभिधानम्। द्विगङ्गम्। पञ्चनदम्।

-2-1-21- अन्यपदार्थे च संज्ञायाम् ।
 नाम्नि सुबन्तमन्यपदार्थे नदीभिः समस्यते। उन्मत्तगङ्गं नाम देशः।

-2-1-22- तत्पुरुषः ।
अथातस्तत्पुरुषो वाच्यः प्राग् बहुव्रीहेः।

-2-1-23- द्विगुश्च ।
द्विगुसमासस्तत्पुरुषसंज्ञः स्यात्। पञ्चराजी । पञ्चगवम्। तत्पुरुषत्वे टच्।
 
-2-1-24- द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।
एभिर्द्वितीयान्तं समस्यते। कष्टं श्रितः कष्टश्रितः। लोकातीतः। भूमिपतितः। विपद्गतः। तरङ्गात्यस्तः। सुखप्राप्तः। सुखापन्नः। द्वितीयेति योगविभागाद् "विशेषविदुषः शास्त्रम्।" "विप्राय वेदविदुषे।"
(क) गमिगाम्यादीनाञ्च । ग्रामगमी। ग्रामगामी। ओदनं बुभुक्षुरोदनबुभुक्षुः। "द्विषद्वीर्यनिराकरिष्णुः"।

-2-1-25- स्वयं क्तेन ।
स्वयं क्तान्तेन समस्यते। स्वयंविलीनम्। स्वयंकृतम्। तस्येदम् (4.3.120)। स्वायंकृतम्।

-2-1-26- खट्वा क्षेपे ।
द्वितीयान्ता खट्वा क्तान्तेन समस्यते निन्दा चेत्। "खट्वारूढः प्रमादवान्। "

-2-1-27- सामि ।
इदं क्तान्तेन समस्यते। सामिविंलोकितम्। सामिकृतम् । तस्य शेषः सामिकृतशेषः। सामीत्यर्थग्रहणान्नेमभिन्न मर्द्धकृतमित्येके।

-2-1-28- कालाः ।
द्वितीयान्ताः कालशब्दाः क्तान्तेन समस्यन्ते। अहरतिसृताः। रात्र्यारूढाः।

-2-1-29- अत्यन्तसंयोगे च ।
अत्र च द्वितीयान्ताः कालशब्दाः सुपा सह समस्यन्ते। मुहर्तसुखम्। चिरोषितः। वर्षभोग्यः।

-2-1-30- तृतीया तत्कृतार्थेन गुणवचनेन ।
तृतीयान्तं तत्कृतेन गुणवचनेन समस्यते। गुणमुक्तवान् गुणवचनः। शङ्कुलया खण्डः शङ्कुलाखण्डः। शलाकाकाणः। अर्थशब्देन च । धान्येनार्थो धान्यार्थः। तत्कृतेन किम् ? अक्ष्णा काणः। वचनग्रहणं किम् ? घृतेन पाटवम्।

-2-1-31- पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।
एभिस्तृतीयान्तं समस्यते। मासेन पूर्वो मासपूर्वः। पितृसदृशः। गुरुसमः। एकोनः। वाक्कलहः। वाङ्निपुणः। गुडमिश्रः। आचारश्लक्ष्णः। कथं गुरुतुल्यो द्व्यङ्गविकलो मासावरः ? भाविबहुलवचनात् ।

-2-1-32- कर्तृकरणे कृता बहुलम् ।
कर्त्तरि करणे च या तृतीया तदन्तं कृदन्तेन समस्यते। चौरहतः। व्याघ्रहतः। करणे । शरभिन्नः। लोष्टहतः।
बहुलग्रहणं किम् ? दात्रेण लूनवान् । पूर्वमुत्तरञ्च विधानं बहुलप्रपञ्चः।

-2-1-33- कृत्यैरधिकार्थवचने ।
कृत्यैस्तृतीयान्तं समस्यतेऽधिकार्थोक्तिश्चेत्। काकपेया नदी। बाष्पच्छेद्यानि तृणानि।

-2-1-34- अन्नेन व्यञ्जनम् ।
समस्यते। दध्नोपसिक्त ओदनो दध्योदनः।

-2-1-35- भक्ष्येण मिश्रीकरणम् ।
समस्यते। गुडेन मिश्रा धानाः गुडधानाः। गुडपिष्टकाः। तिलतण्डुलाः।

-2-1-36- चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
चतुर्थ्यन्तमेभिः समस्यते। तादर्थ्ये । यूपाय दारु यूपदारु। प्रकृतिविकारभावेऽभिधानान्नेह । रन्धनाय स्थाली । अवहननायोलूखलम्। <067> यक्षबलिः। गोहितम्। गोसुखम्। गोरक्षितम्। इह वासगृहाश्वघसादयस्तु चतुर्थीति योगविभागात्। षष्ठीसमासेन वा।
(क) अर्थशब्देन नित्यसमासवचनं सर्वलिङ्गता च । विप्रार्थः सूपः। विप्रार्था शाटी। विप्रार्थं पयः।

-2-1-37- पञ्चमी भयेन ।
भयवाचिना पञ्चम्यन्तं समस्यते। चौराद् भयं चौरभयम्। व्याघ्रभीतिः। कथं सितेतरो ग्रामनिर्गतोऽधर्मजुगुप्सुः ? पञ्चमी इति योगविभागात्।

-2-1-38- अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।
एभिरल्पा पञ्चमी समस्यते। दुःखापेतः। सुखापेतः। कल्पनापोढः। रोगमुक्तः। स्वर्गपतितः। चौरापत्रस्तः।
अल्पशः किम् ? प्रासादात् पतितः।

-2-1-39- स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।
स्तोकाद्यर्थाः कृच्छ्रञ्च क्तेन समस्यन्ते। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृछ्रादवाप्तः। पञ्चम्याः स्तोकादिभ्यः (6.3.2) इत्यलुक्।

-2-1-40- सप्तमी शौण्डैः ।
शौण्डादिभिः सप्तम्यन्प्तं समस्यते। अक्षशौण्डः। अक्षधूर्तः। परेऽधि पराधीनः। स्वाधीनः। रणपण्डितः। कार्यनिपुणः। आकृतिगणोऽयम्।

-2-1-41- सिद्धशुष्कपक्वबन्धैश्च ।
एभिः सप्तमी समस्यते। काम्पिल्यसिद्धः। आतपशुष्कः। छायाशुष्कः। "शाखाग्रपक्वं फलम्।" स्थालीपक्वः। चारकबन्धः।
 
-2-1-42- ध्वाङ्क्षेण क्षेपे ।
ध्वाङ्क्षवाचिना सप्तम्यन्तं समस्यते क्षेपश्चेत्। तीर्थध्वाङ्क्षः। तीर्थकाकः। तद्वदनवस्थित इत्थर्थः।
<068>
-2-1-43- कृत्यैर्ऋणे ।
कृत्यैरिति सौत्रो निर्देशः। कृत्येन यता सप्तम्यन्तं समस्यते। मासदेयम्। वर्षदेयम्।
ऋणस्य नियोगोपलक्षणार्थत्वात् पूर्वाह्णगेयं साम।

-2-1-44- संज्ञायाम् ।
नाम्नि सप्तम्यन्तं समस्यते। वनेकिंशुकाः। हलदन्तादित्यलुक् (6.3.9) ।

-2-1-45- क्तेनाहोरात्रावयवाः ।
एते सप्तम्यन्ताः क्तेन समस्यन्ते। पूर्वाह्णकृतम्। अपररात्रकृतम्। अवयवग्रहणं किम् ? अह्नि कृतम्।
 
-2-1-46- तत्र ।
इदं क्तेन समस्यते। तत्रभुक्तम्। तत्रकृतम्। तस्येदम् (4.3.120) । तात्रकृतम्।

-2-1-47- क्षेपे ।
क्षेपे सप्तम्यन्तं क्तेन समस्यते। प्रवाहेमूत्रितम्। भस्मनिहुतम्। तत्पुरुषे कृति इत्यलुक् (6.3.14) ।

-2-1-48- पात्रेसमितादयश्च ।
अमी क्षेपे निपात्यन्ते। पात्रेसमिताः । कूपमण्डूकाः। उदुम्बरकृमिः। पिण्डीशूरः। मातरिपुरुषः। मातरिशूरः। गोष्ठेप्रवीरः। गेहेनर्द्दी। गेहेपटुः। गेहेमेही। गेहेपण्डितः।

-2-1-49- पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।
पूर्वकालवृत्तयः शब्दा एकादयश्च समानाधिकरणेन सुपा सह समस्यन्ते। दग्धप्ररूढः। स्नातानुलिप्तः। एकादयः । एकपण्डितः । एकपत्नी। सर्वदेवाः। <069> जरद्गवः। पुराणतरुः । नवोदकम्। केवलान्नम्। समानाधिकरणेन किम् ? एकस्याः शौक्ल्यम् ।

-2-1-50- दिक्संख्ये संज्ञायाम् ।
एते नाम्नि समस्येते। समानाधिकरणेनेति चापादमनुवर्तते। पूर्वेषुकामशमी। पञ्चाम्राः । सप्तर्षयः। कथमनाम्नि चतुर्वर्णा द्विपदाश्रितो विधिर्द्वीन्द्रिये इति ? कार्योऽत्र यत्नः।

-2-1-51- तद्धितार्थोत्तरपदसमाहारे च ।
तद्वितार्थे विषयभूत उत्तरपदे परतः समाहारे चाभिधेये दिक्संख्ये समानाधिकरणेन समस्येते। तद्धितार्थे । पौर्वशालः। पाञ्चनापितिः। उत्तरपदे । पञ्चगवप्रियः। पञ्चगवधनः। समाहारे दिङ् न सम्भवति । पञ्चकुमारि।

-2-1-52- संख्यापूर्वो द्विगुः ।
अनन्तरसूत्रे संख्यापूर्वसमासो द्विगुरुच्यते। पञ्चकपालः सूपः । द्विगोर्लुगनपत्य इत्यणो (4.1.88) लुक्। <070> पञ्चनावप्रियः । नावो द्विगोः (5.4.99) इति टच्। पञ्चपूली । द्विगोः (4.1.21) इति ङीप्। पञ्चकुमारि।
 
-2-1-53- कुत्सितानि कुत्सनैः ।
कुत्सितार्थानि कुत्साकरैः समस्यन्ते। वैयाकरणखसूचिः।

-2-1-54- पापाणके कुत्सितैः ।
एते कुत्सितैः समस्येते। पापपुरुषः। अणकभार्या। "किं मयाणकभार्यया।"
-2-1-55- उपमानानि सामान्यवचनैः ।
उपमानवाचीनि सामान्यधर्मवचनैः समस्यन्ते। शङ्ख इव पाण्डरः शङ्खपाण्डरः। कनकगौरः। शस्त्रीश्यामा। स्त्रियाः पुंवत्त्वे (6.3.34) मृगचपला। काकवन्ध्या।

-2-1-56- उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।
उपमेयं व्याघ्रादिभिः समस्यते। पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः। मुखचन्द्रः। करपद्मम्। सामान्याप्रयोगे किम् ? पुरुषोऽयं व्याघ्र इव शूरः। नन्वत्र सापेक्षत्वान्न भविष्यति ? तर्ह्येतज्ज्ञापयति प्रधानस्य सापेक्षस्यापि समासोऽस्तीति। तेन राजपुरुषोऽभिरूपकः । राजपुरुषो दर्शनीय इति।

-2-1-57- विशेषणं विशेष्येण बहुलम् ।
विशेषणवाचि सुबन्तं विशेष्यवाचिना सुबन्तेन समस्यते। नीलोत्पलम्। कृष्णतिलाः। लसदुत्पलम्। इदंस्त्री। इदम्पुरुषः। बहुलग्रहणान्नेह । बोधिसत्त्वो महासत्त्वः। रामो जामदग्न्यः। इह च नित्यम् । कृष्णसर्पः। विशेषणं किम् ? वृक्षः शिंशपा। असुरोऽन्धकः। इह च तत्पुरुषविधानमस्यैव प्रपञ्चमाहुः। विशेषणमेव ह्येतत् कष्टश्रितः राजपुरुष इति।

-2-1-58- पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।
अमी समानाधिकरणेन सुपा समस्यन्ते। पूर्वपण्डितः। अपरभार्या। प्रथमपुरुषः। चरमपर्वतः। जघन्यधर्मः। समानबलम्। मध्यदेशः। मध्यमनरः। वीरपुरुषः।
<071>
-2-1-59- श्रेण्यादयः कृतादिभिः ।
एभिरमी समस्यन्ते। च्व्यर्थेऽभिधानम्। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः। एवं मृदुभूताः। श्रेणि पूग कूट पटु देव मृदु श्रवण पण्डिताद्याः श्रेण्यादयः। कृत भूत समाख्यात । कृतादिः।

-2-1-60- क्तेन नञ्विशिष्टेनानञ् ।
नञाधिकेन क्तेनानञ् क्तान्तं समस्यते। कृतञ्च किञ्चिदकृतञ्च किञ्चित् कृताकृतं कार्यम्। भुक्ताभुक्तम्। अशितानशितम्।
(क) कृतापकृतादीनामुपसंख्यानम् । कृतापकृतम्। गतप्रत्यागतम्।
(ख) शाकपार्थिवादीनां मध्यपदलोपश्च । शाकप्रधानः पार्थिवः शाकपार्थिवः। अजातौल्वलिः। विन्ध्यगिरिः। चन्दनद्रुमः। श्रीहर्षनृपतिः। सुग्रीवकपिः। करणकारकम्। तर्कविद्या। व्याकरणशास्त्रम्।

-2-1-61- सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।
एते पूज्यमानैः समस्यन्ते। सत्पुरुषः। महापुरुषः। पूज्यमानैः किम् ? उत्कृष्टा गौः पङ्कात्। उद्धृतेत्यर्थः।
 
-2-1-62- वृन्दारकनागकुञ्जरैः पूज्यमानम् ।
अमीभिः पूज्यमानं समस्यते। गोवृन्दारकः। योषिद्वृन्दारिका। पुरुषनागः। मुनिकुञ्जरः। पूज्यमानं किम् ? देवदत्तो नागो यती मूर्खः।

-2-1-63- कतरकतमौ जातिपरिप्रश्ने ।
इमौ जातिपरिप्रश्नवृत्ती समस्येते। कतरकठः। कतमकालापः। जातिपरिप्रश्ने किम् ? कतमो भवतां पटुः।
अत एवाजातावपि डतमजुन्नेयः कतमौ चैत्रमैत्राविति।

-2-1-64- किं क्षेपे ।
किंशब्दः क्षेपे समस्यते। किंगौः । अदोहवाहात्। किंपुत्रः। दौःशील्यात्। किंराजा यो न रक्षति।
<072>
-2-1-65- पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ।
एभिर्जातिः समस्यते। गोपोटा। गोयुवतिः। अग्निस्तोकः। घृतकतिपयम्। गोगृष्टिः। गोधेनुः। गोवशा। गोवेहत्। गोबष्कयाणी। कठप्रवक्ता। कठश्रोत्रियः। विप्राध्यापकः। बकधूर्तः। जातिः किम् ? यज्ञदत्तो धूर्तः।

-2-1-66- प्रशंसावचनैश्च ।
एभिर्जातिः समस्यते। गोमतल्लिका। अश्वप्रकाण्डम्।

-2-1-67- युवा खलतिपलितवलिनजरतीभिः ।
खलत्यादिभिर्युवा समस्यते। युवा चासौ खलतिश्चेति युवखलतिः। युवपलितः। युववलिनः। इह लिङ्गविशिष्टग्रहणात् समानाधिकरणाधिकारबलाद् वा युवतिर्जरती युवजरती।

-2-1-68- कृत्यतुल्याख्या अजात्या ।
कृत्याख्यास्तुल्याख्याश्च अजात्या समस्यन्ते। उष्णं भोज्यं भोज्योष्णम्। पानीयोष्णम्। भोज्यलवणम्। तुल्याख्या। तुल्यश्वेतश्चन्द्रेण। सदृशमहान् गिरिणा। अजात्या किम् ? भोज्य ओदनः। विशेषणसमासोऽपि बाध्यते।

-2-1-69- वर्णो वर्णेन ।
समस्यते। कृष्णलोहितः। कृष्णशबलः। श्वेतरक्तः।

-2-1-70- कुमारः श्रमणादिभिः ।
अयमेभिः समस्यते। कुमारी श्रमणा कुमारश्रमणा। कुमारकुलटा। कुमारपण्डितः। एवम् तापसी। गर्भिणी। अध्यापक। पटु । निपुणादिः।

-2-1-71- चतुष्पादो गर्भिण्या ।
चतुष्पाद्वाचिनो गर्भिण्या समस्यन्ते। गोगर्भिणी। अश्वगर्भिणी। जातेरभिधानान्नेह । कालाक्षी गर्भिणी।

-2-1-72- मयूरव्यंसकादयश्च ।
अमी तत्पुरुषे निपात्यन्ते। व्यंसको धूर्त्तः। मयूरव्यंसकः। छात्रव्यंसकः। <073> काम्बोजमुण्डः। यवनमुण्डः। परनिपातार्थं एषां पाठः। उच्चावचम्। परमकृत्वा। पीत्वास्थिरकः। "राघवः प्रोष्यपापीयान्"। या
इच्छा यदृच्छा।
(क) अव्ययं कृतेति वक्तव्यम् । प्रातर्दोहः। अवश्यङ्कारी।
(1) एहीडादयोऽन्यपदार्थे । एहि ईड इति यत्रोच्यते तदेहीडम्। इह एहीति यत्रोच्यते तदेहीहं कर्म।
(2) जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारञ्चाभिदधाति । जह्यन्तं कर्मणा समस्यते । समासश्च कर्त्तारमाह । जहि जोडमित्यभीक्ष्णमाह जहिजोडः। जहिस्तम्बः।
(3) आख्यातमाख्यातेन क्रियासातत्ये । अश्नीत पिबतेति यत्रोच्यते सा नियोजनक्रियाऽश्नीतपिबता। पचतभृज्जता। खादतमोदता। आकृतिगणोऽयम् ।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
द्वितीयाध्यायस्य प्रथमः पादः ।। 2।1 ।।
समाप्तश्च समर्थपादः ।
-2-1-72-