भाषावृत्तिः/द्वितीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
तृतीयः पादः →

<074>
द्वितीयोऽध्यायः। द्वितीय: पाद:।

-2-2-1- पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।
पूर्वादयोऽवयविना एकद्रव्ये वर्त्तमाना: समस्यन्ते। पूर्वं कायस्य पूर्वकाय:। अपरकाय:। उत्तरकाय:। अधरकाय:। कथं मध्याह्न: सायाह्न: पश्चिमरात्र: ? विशेषणसमासोऽस्तु। यद्येवमनेनैव पूर्वश्चासौ कायश्चेति सिद्धम् । किं सूत्रेण ? नैवम् । षष्ठीसमासापवादत्वात् सूत्रस्य। नहि भवति कायपूर्व इति।

-2-2-2- अर्धं नपुंसकम् ।
समभागे क्लीबलिङ्गमर्धमेकदेशिना समस्यते। अर्धपिप्पली। अर्धनखरञ्जनी। नपुंसकं किम् ? ग्रामार्ध:। नगरार्ध:।

-2-2-3- द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।
एतान्येकद्रव्ये वर्त्तमानान्यवयविना समस्यन्ते वा। द्वितीयं भिक्षाया द्वितीयभिक्षा। तृतीयवापी। चतुर्थनदी। तुर्यकथा। पक्षे भिक्षाद्वितीयम्। वापीतृतीयम्। नदीचतुर्थम्। कथातुर्यम्।

-2-2-4- प्राप्तापन्ने च द्वितीयया ।
इमे द्वितीयान्तेन समस्येते। अ चेति । यदा लिङ्गविशिष्टग्रहणाट्टाबन्ताभ्यां समासस्तदाऽकारश्चान्तादेश:। सौत्रत्वाच्चास्य प्रश्लेष:। <075> प्राप्तो जीविकां प्राप्तजीविक:। आपान्नसुख:। प्राप्ता जीविकां प्राप्तजीविका। आपन्नसुखा। कथं जीविकाप्राप्त:, सुखापन्न इति ? द्वितीयाश्रितेति (2.1.24) वचनसामर्थ्यात्।

-2-2-5- काला: परिमाणिना ।
कालशब्दा: परिच्छेद्येन समस्यन्ते। मासो जातस्य मासजात:। वर्षजात:। द्व्यहजात:।

-2-2-6- नञ् ।
नञ् समर्थेन सुपा समस्यते। अब्राह्मण:। अशुक्ल:। अनेक:। असर्व:। असर्वस्मै। अकृत्वा। अकर्तुम्।

-2-2-7- इर्षदकृता ।
अकृदिति गुणोपलक्षणम्। इर्षद् गुणेन समस्यते। इषद्रक्त:। ऐषद्रक्ति: पुत्र:।

-2-2-8- षष्ठी ।
षष्ठ्यन्तं सुपा समस्यते । राजपुरुष:। राजपुरुषधनम्।
(क) कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् । इध्मप्रव्रश्चन:। उष्ट्रासिका।
(ख) तत्स्थैश्च गुणैर्नतु तद्विशेषणै: । गुणात्मन्येव ये गुणा: सन्ति नतु सोऽयमित्यभेदोपचाराच्छुक्लादिवद् द्रव्ये तैर्गुणै: षष्ठी समस्यते। गुणेनेति (2.2.31) निषेधं वक्ष्यति । तस्यायमपकर्ष:। ब्राह्मणवर्ण:। चन्दनगन्ध:। कपित्थरस:। पटहध्वनि:। अङ्गस्पर्श:। न तु तद्विशेषणैः । घृतस्य तीव्रः। चन्दनस्य मृदुः।

-2-2-9- याजकादिभिश्च ।
अयं योगः कर्तरि चेति (2.2.16) निषेधापवादत्वात् स्वरार्थो व्याख्यातव्यः।

<076>
-2-2-10- न निर्धारणे ।
निर्धारणे या षष्ठी सा न समस्यते। नराणां क्षत्रियः शूरतमः। गवां कृष्णा सम्पन्नक्षीरतमा। अध्वगानां रथिनः शीघ्रतमाः।
(क) प्रतिपदविधाना षष्ठी न समस्यते । सर्पिषो ज्ञातम्। मातुः स्मृतम्। चौरस्य रुग्णम्।

-2-2-11- पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।
पूरणादिना षष्ठी न समस्यते। छात्राणां पञ्चमः। भिक्षूणामष्टादशः। गुणे । बलाकायाः शौक्ल्यम्। पटस्य लौहित्यम्। पटस्य शुक्लः। इह च वैशेषिकप्रसिद्धाः संख्यादयो गुणा नेष्यन्ते । शतसहस्रान्ताच्च निष्कादिति (5.2.119) वचनात्। नापि धर्ममात्रं गुणो गृह्यते । अधिकरणैतावत्त्वे च (2.4.15) वर्तमानसामीप्ये वर्तमानद्वेति (7.3.131) निर्देशात्। तेन गोशतं गोचत्वारिंशद् बुद्धिवैगुण्यं वचनसामर्थ्यम् "पद्मासनकौशलम्" मुनिचापलं वस्त्रपीतिमा द्रव्यकाठिन्यम् "पक्षालीपिङ्गलिम्नः" उदरगौरवमित्यादयः साधवः स्युः। सुहितार्थास्तृप्त्यर्थाः । फलानां तृप्तः । फलानां सुहितः । फलानामाशितः। शेषषष्ठीयम् । नलोकेति (2.3.69) कृद्योगायाः प्रतिषेधात्। सत् । चौरस्य द्विषन्। मित्रस्य कुर्वन्। मित्रस्य कुर्वाणः। अव्ययम् । विप्रस्य कृत्वा। तव्यः । ब्राह्यणस्य कर्त्तव्यम्। एकाधिकरणे । राज्ञः स्रौग्घ्नस्य। पाणिनेः सूत्रकारस्य।

-2-2-12- क्तेन च पूजायाम् ।
पूजायां क्तेन षष्ठी न समस्यते। राज्ञां मतम्।

-2-2-13- अधिकरणवाचिना च ।
इदमेषामासितम्।

-2-2-14- कर्मणि च ।
कर्मणि षष्ठी न समस्यते। आश्चर्यो गवां दोहोऽगोपालकेन।
<077>
-2-2-15- तृजकाभ्यां कर्त्तरि ।
तृजकाभ्यां योगे कर्त्तरि षष्ठी न समस्यते। भवत आसिका। भवतोऽग्रगामिका। तृज्ग्रहणमुत्तरार्थम्।

-2-2-16- कर्तरि च ।
कर्तरि यौ तृजकौ विहितौ ताभ्यां योगे कर्मणि षष्ठी न समस्यते। अपां स्रष्टा। पुरां भेत्ता। ओदनस्य भोजकः।
निषेधपञ्चसूत्रीयं स्वरार्था । शेषषष्ठीसमासस्यानिवारणात्। तेन राजसम्मतो "राममहितः" भवदासितं भवदासिका गोदोहः। " तत्कर्त्ता फलभाग् यतः" इति भर्तृहरिः। क्रियाविशेषको जातिवाचकस्तत्प्रयोजक इत्याद्यसंख्याः षष्ठीसमासा भवन्त्येव। तस्मात् केवलं कारकषष्ठीसमासे सति गतिकारकोपपदात् कृदि (6.2.139) त्युत्तरपदप्रकृतिस्वरेणौदन-
भोजकादयो मध्योदात्ता मा भूवन्। शेषषष्ठीसमासे सति समासान्तोदात्ताः (6.1.223) यथा स्युरिति निषेध आरभ्यते।
याजकादिभिश्च (2.2.9) इति पुनः कारकषष्ठीसमासप्रतिप्रसवाद् ब्राह्मणयाजकादिषूत्तरपदप्रकृतिस्वर एव।

-2-2-17- नित्यं क्रीडाजीविकयोः ।
अनयोरकेन षष्ठी समस्यते। नित्यमिति वाक्यनिवृत्त्यर्थम्। दमनकभञ्जिका नाम क्रीडा। संज्ञायां ण्वुल् (3.3.109)। जीविकायाम् । दन्तलेखकः। नखलेखकः। ण्वुल्तृचौ (3.1.133)।

-2-2-18- कुगतिप्रादयः ।
एते नित्यं समस्यन्ते। कुनृपः। कुसृष्टिः। कोष्णम्। गतिः । ऊरीकृत्य। प्रकृत्य। प्रादिः । दुष्कुलम्। सुमानुषी। आपिङ्गलः। प्रगत आचार्याः प्राचार्यः। अतिखट्वः। निष्कौशाम्बिः। प्रादिप्रसङ्गे कर्मप्रवचनीयानां क्वचिन्निषेधः। अनभिधानात् । वृक्षं प्रति विद्योतते विद्युत्। <078> क्वचिद्भवत्येव । अतिस्तुतम्। अतिरतिक्रमणे चेति (1.4.95) कर्मप्रवचनीयत्वात् षत्वाभावः।

-2-2-19-उपपदमतिङ् ।
नित्यमुपपदं समस्यते। कुम्भकारः। ग्रामणीः। अग्निचित्। अतिङिति किम् ? कर्तुं व्रजति। कारको व्रजति।

-2-2-20- अमैवाव्ययेन ।
यद्यव्ययेनोपपदं समस्यते तदामैव। स्वादुङ्कारं भुङ्क्ते। नान्येन । कालो भोक्तुम्।

-2-2-21- तृतीयाप्रभृतीन्यन्यतरस्याम् ।
उपदंशस्तृतीयायामित्यादौ (3.4.47) तृतीयादीन्युपपदान्यमा वा समस्यन्ते। मूलकेनोपदंशं भुङ्क्ते मूलकोपदंशं वा। उच्चैःकारम्।

-2-2-22- क्त्वा च ।
तानि क्त्वान्तेन वा समस्यन्ते। उच्चैःकृत्य उच्चैः कृत्वा वा कथयति। तृतीयाप्रभृतीनीत्येव। अलं कृत्वा। खलु कृत्वा।
उक्तस्तत्पुरुषः ।
             
-2-2-23- शेषे बहुव्रीहिः ।
तत्पुरुषाव्ययीभावाभ्यामन्यो बहुव्रीहिर्नाम समासो वाच्यः।
 
-2-2-24- अनेकमन्यपदार्थे ।
अनेकं सुबन्तमन्यपदार्थे वर्त्तमानं समस्यते। प्राप्तोदको ग्रामः। ऊढरथोऽश्वः। दत्तबलिर्दानवः। च्युतफलस्तरुः। सुसूक्ष्मजटकेशो व्रती। <079> बहुशस्यो देशः। इह च यथाभिधानं व्यवस्था। तेन मत्वर्थे बहुव्रीहिः । चित्रगुर्देवदत्त इति । न सम्बन्धमात्रे। तथा प्रथमार्थे न भवति वृष्टे देवे गत इति। क्वचित् सामानाधिकरण्येऽपि न स्यात् पञ्च भुक्तवन्तोऽस्येति। व्यधिकरणानाञ्च स्यात् । कण्ठेकालः । उरसिलोमा । उच्चैर्मृखः। क्वचिद्दध्नोपसिक्त ओदनो दध्योदन इतिवदुत्तपदस्य वृत्तावन्तर्भावः । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। सुवर्णविकारोऽलङ्कारोऽस्य सुवर्णालङ्कारः। क्वचिद्गतार्थस्यापि पक्षे प्रयोगः प्रपतितपर्णः प्रपर्णः। अविद्यमानपुत्रोऽपुत्र इति। इहास्तिक्षीरा ब्राह्मणी । अस्तिधना । लेखको नास्तिदोषक इत्यव्ययाभ्यामस्तिनास्तिशब्दाभ्यां समासः।

-2-2-25- संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।
अव्ययादयः संख्येयवाचिन्या संख्यया समस्यन्ते। दशानां समीपे उपदशाः। आसन्नविंशाः। अदूरदशाः। अधिकदशाः। संख्या । द्वौ वा त्रयो वेति द्वित्राः। त्रिचतुराः। पञ्चषाः। चतुष्पञ्चाः। लक्षकोटाः। "एकद्वान् दिवसांस्तिष्ठ"। सप्ताष्टैर्दिवसैर्यास्यसि।

-2-2-26- दिङ्नामान्यन्तराले ।
दिशां नामान्यन्तराले वाच्ये समस्यन्ते। दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा।
(क) सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ।

-2-2-27- तत्र तेनेदिमिति सरूपे ।
इदमित्यर्थे सप्तम्यन्ते तृतीयान्ते च समानरूपे पदे समस्येते। इतिशब्दो लौकिकविवक्षार्थः। केशेषु
केशेषु गृहीत्वेदं युद्धं वृत्तं केशाकेशि युद्धम्। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं वृत्तं दण्डादण्डि युद्धम्। अन्येषामपि दृश्यते इति (6.3.137) दीर्धः। इच् कर्मव्यतिहार इतीच् (5.4.157) समासान्तः। तिष्ठद्गुप्रभृतित्वादव्ययत्वम् (2.1.17)।
<080>
-2-2-28- तेन सहेति तुल्ययोगे ।
तृतीयान्तेन सहशब्दः समस्यते तुल्ययोगश्चेत्। सपुत्र आगतः। सच्छात्रः। तुल्ययोगस्य प्रायिकत्वात् सदर्पः सधनः सपक्षः। उक्तो बहुव्रीहिः ।

-2-2-29- चार्थे द्वन्द्वः।
अनेकमित्येव। अनेकं सुबन्तं चार्थे वर्त्तमानं समस्यत इत्ययं द्वन्द्वो नाम समासः। इतरेतरयोगे । प्लक्षाशोकौ। प्लक्षाशोकवटाः। समाहारे । वाक्त्वचम्। धवखदिरपलाशम्।

-2-2-30- उपसर्जनं पूर्वम् ।
समासेषूपसर्जनसंज्ञं पूर्वं प्रयोज्यम्। अधिस्त्रि। राजपुरुषः।

-2-2-31- राजदन्तादिषु परम् ।
एषूपसर्जनं घ्यन्तादि च परं प्रयोज्यम्। दन्तानां राजा राजदन्तः। राजजम्बुः। मातुः सपत्नी सपत्नीमाता। वनस्याग्रे अग्रेवणम्। निपातनादलुक्। पूर्वं वासितं ततो लिप्तं लिप्तवासितम्। सिक्तसम्मृष्टम्। नग्नमुषितम्। द्वन्द्वे । पुत्रपशू।
(1) धर्मादिषूभयम् । धर्मार्थावर्थधर्मौ। चन्द्रार्कावर्कचन्द्रौ। अन्तादी आद्यन्तौ। सर्पिर्मधुनी मधुसर्पिषी।
(2) जायाया जम्भावो दम्भावश्च । जायापती जम्पती दम्पती।
 
-2-2-32- द्वन्द्वे घि ।
द्वन्द्वे घ्यन्तं पूर्वं निपतति। कमण्डलुकृष्णाजिनम्। बहुष्वेकत्र नियमः । पटुशुक्लमृदवः।

-2-2-33- अजाद्यदन्तम् ।
इदं द्वन्द्वे पूर्वं निपतति। उष्ट्रशशम्। इन्द्रवायू। परत्वादिदमिष्यते। कथं "विषयेन्द्रिययोरिष्टः" ? परत्वात् लघ्वक्षरम् इति (2.2.64 वा) भविष्यति। बहुष्वेकत्र नियमः। अश्वरथेन्द्राः।
<081>
-2-2-34- अल्पाच्तरम् ।
इदं द्वन्द्वे पूर्वं प्रयोज्यम्। प्लक्षन्यग्रोधम्। धवाश्वकर्णम्। इह वागग्नी ? वागिन्द्राविति ? । घ्यन्तादजाद्यदन्ताच्च परत्वादिदमिष्यते । बहुष्वेकत्र नियमः शङ्खदुन्दुभिवीणाः। वीणाशङ्खदुन्दुभयः।
(क) अभ्यर्हितं पूर्वमिति वक्तव्यम् । मातापितरौ।
(ख) भ्रातुर्ज्यायसः । युधिष्ठिरार्जुनौ।
(ग) लघ्वक्षरञ्च । कुशकाशम्। शरशीर्षम्।
(घ) वर्णानामानुपूर्वेण । ब्राह्मणक्षत्रियविट्शूद्राः।
(ङ) ऋतुनक्षत्राणां समानाक्षराणामानुपूर्व्येण । हेमन्तशिशिरवसन्ताः। भरणीकृत्तिकारोहिण्यः।
(च) संख्याया अल्पीयस्याः । एकादश। द्वादश। द्वित्राः। नवतिशतम्।
-2-2-35- सप्तमीविशेषणे बहुव्रीहौ ।
सप्तम्यन्तं विशेषणञ्च बहुव्रीहौ पूर्वं निपतति। कण्ठेकालः। चित्रगुः।
(क) सर्वनामसंख्ययोरुपसंख्यानम् । सर्वश्वेतः। द्विकृष्णः। सप्तकृतः। बहुश्रुतः। सप्तोन्नतः।
(ख) वा प्रियस्य । गुडप्रियः। प्रियगुडः।
(ग) गड्वादिभ्यः सप्तम्याः परवचनम् । गडुकण्ठः। अरुःशिराः।

-2-2-36- निष्ठा ।
निष्ठान्तं बहुव्रीहौ पूर्वं निपतति। कृतकृत्यः। गतरतिः। जितशत्रुः।
(क) जातिकालसुखादिभ्यः परचवनम् । जातेः । मांसभक्षिती । सुरापीती । नृजग्धः । कटकृतः। कालात् । मासजातः । वर्षजातः। सुखादिभ्यः । सुखजातः । कृच्छ्रजातः।
(ख) प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ । शस्त्रोद्यतः। अस्युद्यतः। <082> शूलपाणिः। दण्डपाणिः। प्रायिकञ्चैतत् सर्वम्। तेन कृतकटः। उद्गूर्णबाणः।

-2-2-37- वाऽहिताग्न्यादिषु ।
आहिताग्न्यादौ निष्ठान्तं पूर्वं वा प्रयोज्यम्। आहिताग्निः। अग्न्याहितः। एवम् जातपुत्रः। जातश्मश्रुः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगणोऽयम्।

-2-2-38- कडाराः कर्मधारये ।
कडारादयो गुणशब्दाः कर्मधारये पूर्वं वा प्रयोज्याः। कडारजैमिनिः जैमिनिकडारो वा। कडार। गडुल । काण। खञ्ज। कुब्ज। वामन। खलति। गौर। वृद्ध। पिङ्गल। खल। एकसंज्ञाधिकारः पूर्णः।

इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्तौ
द्वितीयाध्यायस्य द्वितीयः पादः ।। 2।2। ।।
समाप्तश्चापरपादः
-2-2-38-