भावप्रकाशः/मध्यखण्डे द्वितीयो भागः

विकिस्रोतः तः
Jump to navigation Jump to search
अथ मध्यखण्डम्
तत्र द्वितीयो भागः

अशोऽधिकारः[सम्पाद्यताम्]

अथ पञ्चमोऽशोऽधिकारः ५
पृथग्दोषैः समस्तैश्र शोणितात्सहजानि च
अर्शांसि षट् प्रकाराणि विद्याद् गुद्वलित्रये १
कषायकटुतिक्तानि रुक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् २
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां ततः ३
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ४
विदाहि तीक्ष्णमुष्णञ्च सर्वं पानान्नभोजनम्
पित्तोल्वणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ५
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामदिवास्वप्नशय्याऽसनसुखे रतिः ६
प्राग्वातसेवाशीतौ च देशकालावचिन्तनम्
श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम् ७
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ८
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ९
ग्रहणीदोषपाण्ड्वर्त्ति प्रशङ्का चोदरस्य च
पूर्वरूपं विनिर्दिष्टमर्शसामभिवृद्धये १०
दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन्
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः ११
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १२
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
बिम्बीकर्कन्धुखर्जूरकर्कोटीफलसन्निभाः १३
केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः
शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः १४
क्षवथूद्गारविष्टम्भहृद्रो गा रोचकप्रदाः
कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १५
तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
रुक्फेनपिच्छाऽनुगतं विड्बद्धमुपवेश्यते १६
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च १७
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १८
शुकजिह्वा यकृत्खण्डजलौकोवक्त्रसन्निभाः
दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरतिमोहदाः १९
सोष्माणो द्र्रवनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्र्रत्वङ्नखादयः २०
रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः २१
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः २२
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः २३
विट् श्यावं कठिनं रुक्षमधोवायुर्न वर्त्तते
तनु चारुणबर्णं च फेनिलं चासृगर्शसाम् २४
कट्यूरुगुदशूलञ्च दौर्बल्यं यदि चाधिकम्
तत्रानुबन्धो वातस्य हेतुर्यदि च रुक्षणम् २५
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरुशीतलम्
यद्यर्शसां घनं चासृक् तन्तुमत्पाण्डुपिच्छिलम् २६
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः २७
श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः
उत्सन्नपचिताः स्निग्धाःस्तब्धवृत्तगुरुस्थिराः २८
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २९
वङ्कणानाहिनः पायुबस्तिनाभिविकर्षिणः
सकासश्वासहृल्लासप्रसेकारुचिपीनसाः ३०
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः ३१
वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ३२
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च ३३
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च ३४
अर्शांसि सहजातानि दारुणानि भवन्ति हि
दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च ३५
अन्तर्मुखाणि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत्
क्षीणानलः क्षीणरेताः शिरासन्नतविग्रहः
अल्पप्रजः क्रोधशीलो भग्नकांस्यस्वनान्वितः
शिरोदृक्कर्णनासासु रोगो हृल्लेपसेकवान् ३६
बाह्यायां तु वलौ जातान्येकदोषोल्वणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३७
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुःपरिसंवत्सराणि च ३८
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३९
शेषत्वादायुषस्तानि चतुष्पादसमन्वये
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ४०
हस्ते पादे मुखे नाभ्यां गुदे बृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ४१
हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
तृष्णा गुदाऽस्यपाकश्च निहन्युर्गुदजातुरम् ४२
तृष्णाऽरोचकशूलार्त्तमतिप्रस्रुतशोणितम्
शोथातीसारसंयुक्तमर्शांसि क्षपयन्ति हि ४३
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४४
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४५
वातेन तोदपारुष्यं पित्तादतिसरक्तता
श्लेष्मणा स्निग्धता तस्य ग्रन्थितत्वं सवर्णता ४६
यद्वातस्यानुलोम्याय यदग्निबलवृद्धये
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः ४७
शालिषष्टिकगोधूमयवान्नानि घृतैः सह
अजाक्षीरेण वा निम्बपटोलानां रसेन वा ४८
वार्त्ताकुमूलजैः कान्दै रसैर्मांसरसेन वा
जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः४९
अन्यैश्च सृष्टविण्मूत्रमरुद्भिर्वह्निदीपनैः
अर्शांसि भिन्नवर्चांसि हन्याद्वातार्तिसारवत् ५०
सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनम्
न प्ररोहन्ति गुदजाः पुनस्तक्रसमाहताः ५१
तक्राभ्यासोऽशसैः कार्यो बलवर्णाग्निवृद्धये
स्रोतःसु तक्रशुद्धेषु सम्यक् सरति तद्र सः ५२
तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते
वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तते ५३
चिरबिल्वाग्निसिन्धूत्थनागरेन्द्र यवारलु
तक्रेण पिबतोऽशासि निपतन्त्यसृजा सह ५४
लेपं रजनिचूर्णेन सुधादुग्धयुतेन च
अर्शोरोगनिवृत्त्यर्थं कारयेत्तु चिकित्सकः ५५
पिप्पली सैन्धवं कुष्ठं शिरीषस्य फलं तथा
सुधादुग्धार्कदुग्धं वा लेपोऽय गुदजान् हरेत् ५६
हरिद्रा जालिनीचूर्णं कटुतैलसमन्वितम्
एष लेपो वरः प्रोक्तो ह्यर्शसामन्तकारकः ५७
असितानां तिलानान्तु पलं शीतजलेन च
खादतोऽशासिशाम्यन्ति दृढा दन्ता भवन्ति च ५८
शस्त्रैर्वाऽथ जलौकाभिः प्रोच्छूनकठिनार्शंसः
शोणितं सञ्चितं दृष्ट्वा हरेत्प्राज्ञः पुनः पुनः ५९
काशीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली
शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकम् ६०
तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक्
तैलं स्नुह्यर्कपयसा गवां मूत्रं चतुर्गुणम् ६१
एतदभ्यङ्गतोऽशासि क्षारेणेव पतन्ति हि
क्षारकर्मकरं ह्येतन्न च सन्दूषयेद्वलिम् ६२
शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्द्धितमूर्ध्वमन्त्यात्
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ६३
त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयम्
चव्यतिक्ताकलिङ्गानि शक्राह्वा लवणानि च ६४
ग्रन्थिबिल्वाजमोदाश्च गणोऽष्टाविंशतिर्मतः
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६५
चूर्णं विडालपदकं पिबेदुष्णेन वारिणा
एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः ६६
हन्यादर्शांसि सर्वाणि श्वासशोषभगन्दरान्
हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरम् ६७
हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलम्
आमवातमुदावर्त्तमन्त्रवृद्धिं गुदाकृमीन् ६८
अन्ये च ग्रहणीदोषा भिषग्भिर्ये प्रकीर्त्तिताः
विजयो नाम चूर्णोऽय तान्सर्वानाशु नाशयेत् ६९
महाज्वरोपसृष्टानां भूतोपहतचेतसाम्
अप्रजानाञ्च नारीणां हितमेतद्धि भेषजम् ७०
मरिचमहौषधचित्रकशूरणभागा यथोत्तरं द्विगुणाः
सर्वसमो गुडभागः सेव्योऽय मोदकः प्रसिद्धफलः ७१
ज्वलनं ज्वलयति जाठरमुन्मूलयतीह शूलगुल्मगदान्
निःशेषयति श्लीपदमर्शांसि विनाशयत्याशु ७२
षोडश शूरणभागा वह्नेरष्टौ महौषधस्यातः
अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन ७३
त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम्
भागा महौषधसमा दहनांशा तालमूली च ७४
भागाः शूरणतुल्या दातव्या वृद्धदारकस्यापि
भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम् ७५
द्विगुणेन गुडेन युतः सेव्योऽय मोदकः प्रकामधनैः
गुरुवृष्यभोजनरतैरितरेषूपद्र वं कुर्यात् ७६
भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन
भीमस्य मारुतेरपि महाशनौ तेन तौ यातौ ७७
अग्निबलवर्णहेतुर्न केवलं शूरणो महावीर्यः
हन्ता शस्त्रक्षारानलैर्विनाऽप्यर्शसामेषः ७८
श्वयथुश्लीपदमदहृद् ग्रहणीं च कफानिलोद्भूताम्
नाशयति बलीपलितं मेधांकुरुतेजराञ्चहरेत् ७९
हिक्कां कासं श्वासं च राजरोगं प्रमेहांश्च
प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम् ८०
त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी
गवाक्षी मुस्तविश्वाह्वविडङ्गानि हरीतकी ८१
पलोन्मितानि चैतानि पलान्यष्टावरुष्करात्
बृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश ८२
जलद्रो णद्वये क्वाथ्यं चतुर्भागावशेषितम्
पूतन्तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणं गुडम् ८३
मेलयित्वा पचेत्तावद्यावद्दर्वींप्रलेपनम्
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ८४
त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान्
एलात्वङ्मरिचं चापि नागाह्वाञ्चापि षट्पलम्८५
द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत्
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः ८६
हन्यादर्शांसि सर्वाणि तथा सर्वोदराण्यपि
गुल्मानपि प्रमेहांश्च पाण्डुरोगं हलीमकम् ८७
दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति
आढ्यवाते प्रतिश्याये पीनसे च हितो मतः ८८
भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः
दीर्घायुषः प्रजनना वलीपलितवर्जिताः ८९
गुडः श्रीबाहुशालोऽय रसायनवरो मतः
दुर्नामान्तकरो ह्येष दृष्टो वारसहस्रशः ९०
यावद्दर्वीप्रलेपः स्याद् गुडो वा तन्तुमान् भवेत्
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ९१
क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यति
एष पाकः समस्तानां गुडानां परिकीर्त्तितः ९२
सार्द्धं पलं पलं चार्द्धं भक्षयेद् गुडखण्डयोः
श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा ९३
तिलभल्लातकैः पथ्या गुडश्चेति समांशकैः
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम् ९४
पित्तश्लेष्मप्रशमनी कण्डूकुक्षिरुजाऽपहा
गुदजान्नाशयत्याशु भक्षिता सगुडाऽभया ९५
प्रणम्य शङ्करं रुद्र्र दण्डपाणिं महेश्वरम्
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ९६
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना
चिकित्सामर्शसां नॄणांकारुण्याद्वक्तुमर्हसि ९७
नारदस्य वचः श्रुत्वा नराणां हितकाम्यया
अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ९८
पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभम्
कृत्वा निर्मलमादौ तु कुनट्या माक्षिकेण च ९९
पत्तूरमूलकल्केन लिम्पेद्र्रसयुतेन च
वह्नौ निक्षिप्य विधिवत्साराङ्गारेण निर्द्धमेत् १००
ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च
ततो विज्ञान गलितं शङ्कुनोर्ध्वं समुच्छ्रयेत् १०१
त्रिफलाया रसे पूते तदाकृष्य तु निर्धमेत्
न सम्यग्गालितं यत्तु तेनैव विधिना पुनः १०२
ध्मातं निर्वापयेत्तस्मिंल्लोहं तत्त्रिफलारसे
यल्लोहं न मृतं तत्तु पाच्यं भूयोऽपि पूर्ववत् १०३
मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत्
ततः सशोष्य विधिवच्चूर्णयेल्लोहभाजने १०४
लोहेन च तथा पिष्याद् दृषदा सूक्ष्मचूर्णितम्
कृत्वा लोहमये पात्रे मार्दे वा लिप्तरन्ध्रके
रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना १०५
पुटानि क्रमतो दद्यात्पृथगेभिर्विधानतः
त्रिफलाऽद्र कभृङ्गाणां केशराजस्य बुद्धिमान् १०६
मानकन्दकभल्लातवह्नीनां शूरणस्य च
हस्तिकर्णपलाशस्य कुलिशस्य तथैव च १०७
पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् १०८
तन्मात्रं त्रिफलायाश्च पलेनाधिकमाहरेत्
अष्टभागावशषे तु रसे तस्याः पचेद् बुधः १०९
अष्टौ पलानि दत्वा च सर्पिषो लोहभाजने
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ११०
ततः पाकविधानज्ञः स्वच्छे चोर्ध्वं च सर्पिषि
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः १११
आरम्भे तद्विधानज्ञः कृतकौतुकमङ्गलः
घृतभ्रामरसंयुक्तं विलिह्याद्र क्तिकाक्रमात् ११२
वर्द्धमानानुपानञ्च गव्यक्षीरोत्तमं मतम्
गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनम् ११३
सद्यो वह्निकरश्चैव भस्मकञ्च नियच्छति
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ११४
गुल्माक्षिपाण्डुरोगांश्च निद्रा लस्यमरोचकम्
शूलञ्च परिणामञ्च प्रमेहमपबाहुकम् ११५
श्वयथुंरुधिरस्रावं दुर्नामानं विशेषतः
बलकृद् बृंहणञ्चैव कान्तिदं स्वरबोधनम् ११६
शरीरलाघवकरमारोग्य पुष्टिवर्द्धनम्
आयुष्यं श्रीकरञ्चैव बलतेजस्करं शुभम् ११७
सश्रीकपुत्रजननं वलीपलितनाशनम्
दुर्नामारिरयं नाम्ना दृष्टो वारसहस्त्रशः ११८
अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना
सौकुमार्याल्पकायत्वान्मद्यसेवी यदा नरः
जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत् ११९
लावतित्तिरिवर्त्तीर मयूरशशकादयः
चटकः कलविङ्कश्च वर्त्तका हरितालकः १२०
श्येनकश्च बृहल्लावो वनविष्किरकादयः
पारावतमृगादीनां मांसं जाङ्गलकं शुभम् १२१
मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः
मत्स्यराजा इति प्रोक्ता हितमत्स्याय देहिने १२२
वृन्ताकस्य फलं शस्तं पटोलं बृहतीफलम्
प्रलम्बाभीरुवेत्राग्रताडकं तण्डुलीयकम् १२३
वास्तूकं धान्यशाकञ्च चित्रकं चक्रमर्दकम्
नालिकेरञ्च खर्जूरं दाडिमं लवलीफलम् १२४
शृङ्गाटकञ्च पक्वाम्रं द्रा क्षातालफलानि च
जातिकोशं लवङ्गं च पूगं ताम्बूलपत्रकम्
हितान्येतानि वस्तूनि लोहमेतत्समश्नताम् १२५
नाश्नीयाल्लकुचं कोलकर्कन्धूबदराणि च १२६
जम्बीरं बीजपूरञ्च तिन्तिडीं करमर्दकम्
आनूपानि च मांसानि क्रकरं पुण्ड्रकाणि च १२७
हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः
मानकन्दं कसेरूणि करकञ्च कलिङ्गकम् १२८
कूष्माण्डकञ्च कर्कोटं क्रमुकञ्च विशेपतः
कटुकं कालशाकञ्च कुण्टुरुः कर्कटीं तथा १२९
ककारादीनि सर्वाणि द्विदलानि च वर्जयेत् १३०
शङ्करेण समाख्यातो यक्षराजानुकम्पया
जगतामुपकाराय दुर्नामारिरयं ध्रुवम् १३१
स्थानाच्चलति मेरुश्च पृथ्वी पर्येति वायुना
पतन्ति चन्द्र ताराश्च मिथ्या चेदहमब्रुवम् १३२
ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूरा येऽसत्यवादिनः
वर्जनीयाः सधर्मेण भिषजा गुरुनिन्दकाः १३३
मुनिरसपिष्टविडङ्ग मुनिरसलीढं चिरस्थितं घर्मे
द्रा वयति लोहदोषान्वह्निर्नवनीतपिण्डमिव १३४
कालेमलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे
अङ्गेषु नावसादो मनः प्रसादोऽस्य परिपाके १३५
क्रिमिरिपुर्चूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् १३६
भवेद्यद्यतिसारस्तु दुग्धं पीत्वा तु तं जयेत्
गुञ्जाद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा १३७
रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक्
दुष्टास्रे निःसृते न स्युः शूलानाहासृगामयाः १३८
चन्दनादिक्वाथः
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च १३९
नवनीततिलाभ्यासात्केशरनवनीतशर्कराऽभ्यासात्
दधिसरमथिताभ्यासाद् गुदजाः शाम्यन्ति रक्तवहाः १४०
सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन्
सिताकेशरसंयुक्तं रक्तार्शसि सुखी भवेत् १४१
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्
ओदनमद्यादम्लैः शालिश्यामाककोद्र वजम्
शशहरिणलावमांसैः कपिञ्जलैरेणमांसैश्च १४२
समङ्गोत्पलमोचाकतिरीटोत्पलचन्दनैः
सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके १४३
भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः
बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शो भगन्दरम् १४४
नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि
त्रिष्वप्यर्शःसु कुर्वीत तत्र तत्र यथोचितम् १४५
चर्मकीलन्तु संछिद्य दहेत्क्षारेण चाग्निना १४६
स्त्रीपृष्ठं वेगरोधं च यानान्युत्कटकासनम्
यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत् १४७
इति पञ्चमोऽशो रोगाधिकारः समाप्तः ५

जठरान्निगविकाराधिकारः[सम्पाद्यताम्]

अथ षष्ठो जठरान्निगविकाराधिकारः ६
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः
मन्दस्तीक्ष्णोऽथविषमः समश्चेति चतुर्विधः १
स्वल्पाऽपि नैव मन्दाग्नेर्मात्रा भुक्ता विपच्यते
छर्दिः सादः प्रसेकः स्याच्छिरोजठरगौरवम् २
मात्रातिमात्राऽप्यशिता तीक्ष्णाग्नेः पच्यते सुखम्
अतएव हि केनापि मतस्तीक्ष्णाग्निरुत्तमः३
अशिता खलु मात्राऽपि विषमाग्नेस्तु देहिनः
कदाचित्पच्यते सम्यक् कदाचिन्न विपच्यते ४
तस्याध्मानमुदावर्त्तं शूलं जठरगौरवम्
प्रवाहणमतीसारस्तथा स्यादन्त्रकूजनम् ५
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
एषां मध्ये तु सर्वेषां समाग्निः श्रेष्ठ उच्यते ६
अतिमात्रमजीर्णेऽपि गुरु चान्नं समश्नतः
दिवाऽपि स्वपतो येन पच्यते सोऽग्निरुत्तमः ७
तीक्ष्णः पित्तसमुत्थानान्विषमो वातहेतुकान्
तथा करोति मन्दाग्निर्विकारान् कफसम्भवान् ८
बह्वर्त्तिरुक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ
अतिप्रवृद्धः पवनान्वितोऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात्
तस्मादसौ भस्मकसंज्ञकोऽभूदुपेक्षितोऽय पचते च धातून् ९
तृट्स्वेददाहमूर्च्छादीन्कृत्वैषोऽत्यग्निसम्भवान्
पक्त्वाऽन्नमाशु धात्वादीन् स क्षिप्रं नाशयेद् ध्रुवम् १०
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ११
तृष्णाभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिपाकमेति १२
अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १३
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति १४
ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् १५
आमं विदग्धं विष्टव्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः १६
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
वदन्ति षष्ठञ्चाजीर्णं प्राकृतं प्रतिवासरम् १७
तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः
उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते १८
विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते १९
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् २०
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे २१
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणञ्चाप्यजीर्णतः २२
आमं विदग्धं विष्टव्धमित्यजीर्णं यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका २३
सूचीभिरिव गात्राणि तुदन्सन्तिष्ठतेऽनिलः
यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते २४
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः २५
मूर्च्छाऽतिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः २६
निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
अमी उपद्र वा घोरा विसूच्याः पञ्च दारुणाः २७
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यत्यथ कूजति
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति २८
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २९
नाधो याति न चाप्यूर्ध्वमाहारो यो नपच्यते
कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः ३०
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरोऽसौ पुनरागमाय ३१
दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवर्त्तते नोर्ध्वमधश्च यत्र
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ३२
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ३३
हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन च
सैन्धवेन युता वा स्यात्सातत्येनाग्निदीपनी ३४
गुडेन शुण्ठीमथ चोपकुल्यां पथ्यां तृतीयामथ दाडिमं वा
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ३५
व्योषं दन्तीं त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम्
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ३६
एतद् गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम्
शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम् ३७
दहनाजमोदसैन्धवनागरमरिचानि चाम्लतक्रेण
सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम् ३८
तत्रामे वमनं कार्यं विदग्धे लङ्घनं हितम्
विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च ३९
वचालवणतोयेन वान्तिरामे प्रशस्यते
कंणासिन्धुवचाकल्कं पीत्वा वा शिशिराम्भसा ४०
धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः
आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम् ४१
भवेद्यदा प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
विचूर्णितां शीतजलेन भुक्त्वा भुञ्ज्यादशङ्कं मितमन्नकाले ४२
विदह्यते यस्य तु भुक्तमात्रं दन्दह्यते हृच्च गलश्च यस्य
द्रा क्षां सितामाक्षिकसम्प्रयुक्तां लीढ्वाऽभयां चापि सुखं लभेत ४३
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः
प्रथमकवलभुक्तं सर्पिषा चूर्णमेतज्जनयति जठराग्निं वातरोगांश्च हन्ति ४४
द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च
सूक्ष्मैला पत्रकं भार्गी कृमिघ्नं हिङ्गु पौष्करम् ४५
शटी दार्वी त्रिवृन्मुस्तं वचा चेन्द्र यवास्तथा
वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका ४६
अम्लवेतसमम्लीका यवानी देवदारु च
अभयाऽतिविषा श्यामा हपुषाऽरग्वधं समम् ४७
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः
क्षाराणि लौहकिट्टश्च तप्तं गोमूत्रसेचितम् ४८
सूक्ष्मचूर्णानि कृत्वा तु समभागानि कारयेत्
मातुलुङ्गरसेनैव प्रदीप्ताग्निसमप्रभम् ४९
दिनत्रयन्तु शुक्तेन तथाऽद्र करसेन च
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ५०
उपयुक्तं विधानेन नाशयत्यचिराद्गदान्
अजीर्णमथ गुल्मञ्च प्लीहानं गुदजानि च ५१
तथान्त्रवृद्धिमुदराण्यष्ठीलां वातशोणितम्
प्रणुदत्युल्वणान्दोषान्नष्टाग्निं च प्रदीपयेत् ५२
स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्नवम्
तिलापामार्गकदलीपलाशं तिन्तिडीं तथा ५३
गृहीत्वा ज्वालयेदेतत्प्रस्थं भस्माखिलं यथा
जंलाढके विपक्तव्यं यावत्पादावशेषितम् ५४
सुप्रसन्नं विनिस्राव्य लवणप्रस्थसंयुतम्
पक्वं निर्धूमकठिनं सूक्ष्मचूर्णीकृतं पुनः ५५
यवानीजीरकव्योष स्थूलजीरकहिङ्गुभिः
पृथगर्धपलैरेभिश्चूर्णि तैस्तद्विमिश्रयेत् ५६
आर्द्र कस्वरसेनापि भावयेच्छोषयेत् पुनः
शीतोदकेन तच्चूर्णं पिबेत्प्रातर्हि मात्रया ५७
तस्मिञ्जीर्णेऽन्नमश्नीयाद्यूषैर्जाङ्गलजैः रसैः
ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः ५८
एतेनाग्निर्विवर्द्धेत बलमारोग्यमेव च
तत्रानुपानं शस्तं हि तक्रं वा भोजने हितम् ५९
मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च
अश्मर्यां शर्करायाञ्च विण्मूत्रानिलरोगिषु ६०
सामुद्र लवणं कार्यमष्टकर्षमितं बुधैः
सौवर्चलं पञ्चकर्षं विडसैन्धवधान्यकम् ६१
पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम्
तालीशं केशरं चव्यमम्लवेतसकं तथा ६२
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् ६३
दाडिमं स्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् ६४
भक्षयेच्छाणमानन्तु तक्रमस्तुककाञ्जिकैः
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ६५
अर्शांसि ग्रहणीं कुष्ठं विबन्धञ्च भगन्दरम्
शूलं शोथं श्वासकासाऽमदोषांश्चापि हृद्रुजम् ६६
अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि
मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम्६७
हिताय सर्वलोकानां भास्करेण विनिर्मितम्
हन्यात्सर्वाण्यजीर्णानि भुक्तमात्रमसंशयम् ६८
सैन्धवसमूलमागधक्षव्यानलनागरं पथ्या
क्रमवृद्धमग्निवृद्धौ वडवाऽनलनामचूर्णं स्यात् ६९
पथ्यानागरकृष्णाकरञ्जबिल्वाग्निभिः सितातुल्यैः
वडवाऽनल इव जरयति बहु गुर्वतिभोजनं चूर्णम् ७०
एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता
मरिचं पिप्पली शुण्ठी चतुष्पञ्चषडुत्तरा ७१
द्र व्याण्येतानि यावन्ति तावती सितशर्करा
चूर्णमेतत्प्रयोक्तव्यमग्निसन्दीपनं परम् ७२
द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदम्
मृतलोहं तथा ताम्रं कर्षद्वयमितं पृथक् ७३
सञ्चूर्ण्य सर्वं सम्मिश्रं द्रा वयित्वाऽग्नियोगतः
सम्यग् द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत् ७४
पुनः सञ्चूर्ण्य तत्सर्वं लोहपात्रं निधापयेत्
जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत् ७५
चुल्ल्यां निवेश्य तद्यत्नान्मृदुना वह्निना पचेत्
रसे तस्मिन्घनीभूते तत्संशोष्य विचूर्णयेत् ७६
पञ्चकोलकषायस्य चुक्रेण सहितस्य च
भावना तत्र दातव्या पश्चात्संशोषयेच्छनैः ७७
भृष्टटङ्कणचूर्णेन तुल्येन सह मेलयेत्
मरिचेनापि तुल्येन तदर्द्धेन विडेन च ७८
भावयेत्सप्तकृत्वस्तु चणकाम्लजलेन च
ततः संशोष्य सम्पिष्य कूपीमध्ये निधापयेत् ७९
रसः क्रव्यादनामाऽय भैरवानन्दयोगिना
उक्तः सिंहलराजाय बहुमांसाशिने पुरा ८०
भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसम्
भक्षयित्वा रसं पश्चात्पिबेत्तक्रं ससैन्धवम् ८१
अत्यर्थं गुरु यद् भुक्तमतिमात्रमथापि च
तत्सर्वं जीर्यति क्षिप्रं रसस्यैतस्य भक्षणात् ८२
शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा
रसः क्रव्यादनामाऽय विनिहन्ति न संशयः ८३
क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं समम्
सर्वैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ८४
एतत्सर्वं जयाशिग्रुवह्नीनां केवलैर्द्र वैः
भावयेत्रिदिनं घर्मे ततो लघु पुटे पचेत् ८५
मार्कवस्य द्र्रवैर्घृष्टो रसो ज्वालानलो भवेत्
निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरम् ८६
हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्दवम्
श्लेष्महृल्लासवमनमालस्यमरुचिं जयेत् ८७
टङ्कणं रसगन्धौ च समं भागत्रयं विषात्
कपर्दः स्वर्जिका क्षारो मागघी विश्वभेषजम् ८८
पृथक् पृथक्कर्षमात्रं वसुभागमिहोषणम्
जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः
विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये ८९
पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम्
तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्दितम् ९०
माषमात्रमनुपानसेवितं रामबाणगुडिका रसायनम्
बिल्वपत्रमरिचेन भक्षितं सद्य एव जठराग्निवर्द्धितम् ९१
वातो नाशमुपैति चार्द्र करसैर्निर्गुण्डिकाया द्र्रवैः
पित्तं नाशमुपैति धान्यकजलैर्वासा त्रिदोषं हरेत्
श्लेष्मा सिन्धुहरीतकीभिरुदरं क्वाथैश्च पौनर्नवैः
शोथं पाण्डुगदं निहन्ति गुडिका रोगार्त्तिविध्वंसिनी ९२
वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः
सङ्ग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् ९३
दीयते तु मरिचानुपानतः सद्य एव जठराग्निदीपनः
रोचनः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ९४
पलं चिञ्चाक्षारं पलमितमिदं पञ्चलवणं
द्बयं सम्यक्पिष्टं भवति लघुनिम्बूफलरसैः
ततः पिष्टे तस्मिन्पलपरिमितं शङ्खशकलं
क्षिपेद् वारान्सप्त द्र वमिह च तेनैव विधिना ९५
पलप्रमाणं कटुकत्रयञ्च पलार्द्धमानं वचहिङ्गुभागः
विषं पलद्बादशभागयुक्तं तावद्र सो गन्धक एष चोक्तः ९६
बदरास्थिप्रमाणेन वटीमेतस्य कारयेत्
भक्षयेत्सेवया साम्यात्सर्वाजीर्णप्रशान्तये ९७
सर्वोदरेषु शूलेषु विसूच्यां विविधेषु च
अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता ९८
स्नुह्यार्कचिञ्चाऽपामार्गरम्भातिलपलाशजान्
लवणानाददीतैषां प्रत्येकं पलमात्रया ९९
लवणानि पृथक्पञ्च ग्राह्याणि पलमात्रया
स्वर्जिका च यवक्षारष्टङ्कणं त्रितयं पलम् १००
सर्वं त्रयोदशपलं सूक्ष्मं चूर्णं विधाय च
निम्बूफलरसे प्रस्थसम्मिते तत्परिक्षिपेत् १०१
तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु
वारान्निर्वापयेत्सप्त सर्वं द्र वति तद्यथा १०२
नागरं त्रिपलं ग्राह्यं मरिचन्तु पलद्वयम्
पिप्पली पलमाना स्यात्पलार्द्ध भृष्टहिङ्गुतः १०३
ग्रन्थितं चित्रकञ्चापि यवानी जीरकं तथा
जातीफलं लवङ्गञ्च पृथक्कर्षद्वयोन्मितम् १०४
रसो गन्धो विषं चापि टङ्कणञ्च मनः शिला
एतानि कर्षमात्राणि सर्वं सञ्चूर्ण्य मिश्रयेत् १०५
शरावार्द्धेन चुक्रेण वटिकां तस्य कारयेत्
माषप्रमाणां सद्वैद्यैर्बृहच्छङ्खवटी स्मृता १०६
सर्वाजीर्णप्रशमनी सर्वशूलनिवारिणी
विसूच्यलसकादीनां सद्यो भवति नाशनी १०७
टङ्कणकणाऽमृतानां सहिङ्गुलानां समं भागम्
मरिचस्य भागयुगलं निम्बूनीरैर्वटी कार्या १०८
वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात्
सत्यमजीर्णेशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै १०९
जलपीतमपामार्गमूलं हन्याद्बिसूचिकाम्
सतैलं कारवेल्ल्यम्बु नाशयेद्धि विसूचिकाम् ११०
बालमूलस्य तु क्वाथः पिप्पलीचूर्णसंयुतः
विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः १११
बिल्वनागरनिक्वाथो हन्याच्छर्दिंविसूचिकाम्
बिल्वनागरकैटर्यक्वाथस्तदधिको गुणैः ११२
व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः
छायाविशुष्का वटिका कृता सा हन्याद्विसूचीं नयनाञ्जनेन ११३
अपामार्गस्य पत्राणि मरिचानि समानि च
अश्वस्य लालया पिष्ट्वाऽञ्जनाद्धन्ति विसूचिकाम् ११४
विसूच्यामतिवृद्धायां तक्रं दधि समं जलम्
नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत् ११५
त्वक्पत्रकैरण्डकशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः
उद्वर्त्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वञ्च तदर्थकारि ११६
कुष्ठसैन्धवयोः कल्कं शुक्रं तैले तु साधितम्
विसूच्यां मर्दनं तेन खल्लीशूलनिवारणम् ११७
पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते
जातीफलस्य वा पीतं शृतं भद्र घनस्य वा ११८
उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकष्ठीवनेरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ११९
सरुग् वाऽनद्धमुदरमम्लपिष्टैः प्रलेपयेत्
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १२०
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्त्तिं जठरे निहन्यात्
स्वेदो घटैर्वाऽप्यथ बाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पिण्डतापैः १२१
विलम्बिकाऽलसकयोरयमेव क्रियाक्रमः
अत एव तयोरुक्तं पृथङ् नहि चिकित्सितम् १२२
तं भस्मकं गुरुस्निग्धसान्द्र मन्दहिमस्थिरैः
अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः १२३
अत्यद्भुताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि
संसेवेत यवागूं समपिष्टे पयसि सर्पिषा सिद्धाम् १२४
असकृत्पित्तहरणं पायसं प्रतिभोजनम्
श्यामात्रिवृद्विपक्वञ्च पयो दद्याद्विरेचनम् १२५
यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरु भोजनम्
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा १२६
सिततण्डुलसितकमलं छागक्षीरेण पायसं सिद्धम्
भुक्त्वा च तेन पुरुषो दशदिवसात्तुच्छभोजनो भवति १२७
अलं पनसपाकाय फलं कदलसम्भवम्
कदलस्य तु पाकाय बुधैरपि घृतं हितम् १२८
घृतस्य परिपाकाय जम्बीरस्य रसो हितः १२९
नारिकेलफलतालबीजयोः पाचकं सपदि तण्डुलं विदुः
क्षीरमेव सहकारपाचनं चारमज्जनि हरीतकी हिता १३०
मधूकमालूरनृपादनानां परुषखर्जूरकपित्थकानाम्
पाकाय पेयं पिचुमन्दबीजं घृतेऽपि तक्रेऽपि तदेव पथ्यम् १३१
खर्जूरशृङ्गाटकयोः प्रशस्तं विश्वौषधं कुत्र च भद्र्रमुस्तम्
यज्ञाङ्गबोधिद्रुफलेषु शस्तं प्लक्षे तथा पर्युषितं प्रपीतम् १३२
तण्डुलेषु च पयः पयस्वथो दीप्यकस्तु चिपिटे कणायुतम्
षष्टिका दधिजलेन जीर्यते कर्कटी च सुमनेषु जीर्यति १३३
गोधूममाषहरिमन्थसतीनमुद्ग पाको भवेज्झटिति मातुलपुत्रकेण
खर्जूरिकाबिसकशेरुसितासु शस्तं शृङ्गाटके मधुफलेष्वपि भद्र मुस्तम् १३४
कङ्गुश्यामाकनीवाराः कुलत्थाश्चाविलम्बितम्
दध्ना जलेन जीर्यन्ति वैदलः काञ्जिकेन तु १३५
पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत्
माषेण्डरीं निम्बुफलं पायसं मुद्गयूषकः १३६
वटो वेसवाराल्लवङ्गेन फेनः समं पपर्टः शिग्रुबीजेन याति
कणामूलतो लड्डुकापूपसट्टाऽदिपाको भवेच्छष्कुलीमण्डयोश्च १३७
किमत्र चित्रं बहुमत्स्यमांस भोजी सुखी काञ्जिकपानतः स्यात्
इत्यद्भुतं केवलवह्निपक्वमांसेन मत्स्यः परिपाकमेति १३८
आममाम्रफलं मत्स्ये तद्बीजं पिशिते हितम्
कूर्ममांसं यवक्षारैः शीघ्रं पाकमुपैति हि १३९
कपोतपारावतनीलकण्ठकपिञ्जलानां पिशितानि भुक्त्वा
काशस्य मूलं परिपिष्य पीतं सुखी भवेन्ना बहुशो हि दृष्टम् १४०
मांसानि सर्वाण्यपि यान्ति पाकं क्षीरेण सद्यस्तिलनालजेन
चञ्चूकसिद्धार्थकवास्तुकानां गायत्रिसारक्वथितेन पाकः १४१
पालङ्किकाकेबुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम्
उपोदिकाऽलाबुपटोलकानां सिद्धार्थको मेघरवश्च पक्ता १४२
विपच्यते शूरणको गुडेन तथाऽलुकं तण्डुलधावनेन
पिण्डालुकं जीर्यति कोरदूषात्कशेरुपाकः किल नागरेण १४३
लवणस्तण्डु लतोयात्सर्पिर्जम्बीरकाद्यम्लात्
मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलम् १४४
क्षीरं जीर्यति तक्रेण तद्द्र व्यं कोष्णमण्डकात्
माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि १४५
रसालं जीर्यति व्योषात्खण्डं नागरभक्षणात्
सिता नागरमुस्तेन तथेक्षुश्चार्द्रि कारसात् १४६
जरामिरा गैरिकचन्दनाभ्यामभ्येति शीघ्रं मुनिभिः प्रदिष्टम्
उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत्क्षारगणस्तथाऽम्लै १४७
तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः
पीत्वाऽजीर्णं तोयजातं निहन्यात्तत्र क्षौद्रं भद्र मुस्तं विशेषात् १४८
इति षष्ठो जठराग्निविकाराधिकारः समाप्तः ६

कृमिरोगाधिकारः[सम्पाद्यताम्]

अथ सप्तमः कृमिरोगाधिकारः ७
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः १
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः २
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ३
द्विधा ते कोठपिडिकाः कण्डूगण्डान्प्रकुर्वते ४
अजीर्णभोजी मधुराम्लसेवी द्र वप्रियः पिष्टगुडोपभोक्ता
व्यायामवर्जी च दिवाशयी च विरुद्धभोजी लभते कृमींश्च ५
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ६
मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ७
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ८
रुढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ९
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते १०
हृल्लासमास्यस्रवणमविपाकमरोचकम्
मूर्च्छाच्छर्दिज्वरानाहकासक्षवथुपीनसान् ११
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि १२
रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः
प्रपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः १३
केशादा लोमविध्वंसा रोमद्वीपा उदुम्बराः
षट् ते कुष्ठैककर्माणः सहसौरसमातरः १४
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः १५
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
वृद्धास्ते स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखा
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १६
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः १७
विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः
दीपनं कृमिनाशाय जठराग्निविवृद्धये १८
प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्
कृमीणां नाशनं रुच्यमग्निसन्दीपनं परम् १९
विडङ्गशृतपानीयं विडङ्गेनावधूलितम्
पीतं कृमिहरं दृष्टं कृमिजांश्च गदाञ्जयेत् २०
लिह्याद्विडङ्गचूर्णं वा मधुना कृमिनाशनम्
पलाशबीजस्य रसं पिबेन्माक्षिकसंयुतम्
पिबेत्तद्बीजकल्कं वा मधुना कृमिनाशनम् २१
कम्पिल्लचूर्णकर्षार्द्धं गुडेन सह भक्षितम्
पातयेत्तु कृमीन्सर्वानुदरस्थान्न संशयः २२
विडङ्गं कौटजं बीजं तथा बीजं पलाशजम्
सञ्चूर्ण्य खादेत्खण्डेन कृमीन्नाशयितुं नरः २३
निम्बपत्रसमुद्भूतं रसं क्षौद्र्रयुतं पिबेत्
धत्तूरपत्रजं वाऽपि कृमिनाशनमुत्तमम् २४
रसेन्द्रे ण समायुक्तो रसो धत्तूरपत्रजः
ताम्बूलपत्रजो वाऽपि लेपो यूकाविनाशनः २५
धत्तूरपत्रकल्केन तद्र्रसेनैव पाचितम्
तैलमभ्यङ्गमात्रेण यूका नाशयति क्षणात् २६
कृमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्
रक्तजानान्तु संहारं कुर्यात्कुष्ठचिकित्सया २७
क्षीराणि मांसानिघृतानि चापि दधीनि शाकानि च वर्णयन्ति
अम्लञ्च मिष्टञ्च रसं विशेषात्कृमीञ्जिघांसुः परिवर्जयेद्धि २८
इति सप्तमः कृमिरोगाधिकारः सम्पूर्णः ७

पाण्डुरोगकामलाहलीमकाधिकारः[सम्पाद्यताम्]

अथाष्टमः पाण्डुरोगकामलाहलीमकाधिकारः ८
पण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः १
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति २
त्वक्स्फोटनिष्ठीवनगात्रसादमृद्भक्षण प्रेक्षणकूटशोथाः
विण्म्रूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ३
त्वङ्मूत्रनयनादीनां रुक्षकृष्णारुणाभता
वातपाण्ड्वामये कम्पस्तोदानाहभ्रमादयः ४
पीतत्वङ्नखविण्मूत्रो दाहतृष्णाज्वरान्वितः
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ५
कफप्रसेकः श्वयथुस्तन्द्रा ऽलस्यातिगौरवैः
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ६
सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् ७
मृत्तिकाऽदनशीलस्यकुप्यत्यन्यतमो मलः
कषाया मारुतं पित्तमूषरा मधुरा कफम् ८
कोपयेन्मृद्र्रसादींश्च रौक्ष्याद् भुक्तञ्च रूक्षयेत्
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्य्पि ९
इन्द्रि याणां बलं हत्वा तेजो वीर्यौजसी तथा
पाण्डुरोगंकरोत्याशु बलवर्णाग्निनाशनम् १०
मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रा ऽलस्यनिपीडितः
सकासश्वासशूलार्त्तः सदाऽरुचिसमन्वितः ११
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
कृमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् १२
ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः १३
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति १४
बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
दीनः स्वेदातिदिग्धाङ्गश्छर्दिमूर्च्छातृषाऽन्वितः १५
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्
पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति १६
अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे मुखे शेफसि मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्
विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितञ्च १७
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते १८
हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः १९
दाहाविपाकदौर्बल्यसदनारुचिकर्षितः २०
कामलाबहुपित्तैषा कोष्ठशाखाऽश्रया मता
कालान्तरात्खरीभूता कृच्छ्रास्यात्कुम्भकामला २१
छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः
नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली २२
कृष्णपीतशकृन्मूत्रो भृशं शूनश्र मानवः
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति २३
दाहारुचितृषाऽनाहतन्द्रा मोहसमन्वितः
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते २४
यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः
बलोत्साहक्षयस्तन्द्र मन्दाग्नित्वं मृदुज्वरः २५
स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासतृष्णाऽरुचिभ्रमाः
हलीमकं तदा तस्य विद्यादनिलपित्ततः २६
सप्तरात्रं गवां मूत्रैर्भावितञ्चायसो रजः
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः २७
गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः
पाण्डुरोगः क्षयं याति पक्तिशूलञ्च दारुणम् २८
अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम्
मधुसर्पिर्युतं लीढ्वा पाण्डुरोगी सुखी भवेत् २९
पुनर्नवा त्रिवृद्व्योषं विडङ्गं दारुचित्रकम्
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम् ३०
कटुका पिप्पलीमूलं मुस्तं शृङ्गी च कारवी
यवानी कट्फलञ्चेति पृथक्पलमितं समम् ३१
मण्डूरं द्विगुणं चूर्णाद् गोमूत्रेऽष्टगुणे पचेत्
गुडेन वटकान्कृत्वा तक्रेणालोड्य तान्पिबेत् ३२
पुनर्नवादिमण्डूर वटकोऽश्विविनिर्मितः
पाण्डुरोगं निहन्त्याशु कामलाञ्च हलीमकम् ३३
श्वासं कासञ्च यक्ष्माणं ज्वरं शोथं तथोदरम्
शूलं प्लीहानमाध्मानमर्शांसि ग्रहणीकृमीन्
वातरक्तञ्च कुष्ठञ्च सेवनान्नाशयेद् ध्रुवम् ३४
त्र्! यूषणं त्रिफला मस्तं विडङ्गं चित्रकं तथा
एतानि नवभागानि नवभागा हतायसः ३५
एतदेकीकृतं चूर्णं नरोऽष्टादशरक्तिकम्
प्रलिह्यान्मधुसर्पिर्भ्यां पिबेत्तक्रेण वा सह ३६
गोमूत्रेण पिबेद्वाऽपि पाण्डुरोगं विनाशयेत्
शोथं हृद्र्रोगमुदरकृमिकुष्ठं भगन्दरम् ३७
नाशयेदग्निमान्द्यञ्च दुर्नामकमरोचकम्
आर्द्र कस्य रसेनापि लिह्यात्कफसमृद्धिमान् ३८
त्रिफलाया गुडूच्यावा दार्व्या मरिचकस्य वा
क्वाथो माक्षिकसंयुक्तः शीतलः कामलाऽपहः ३९
अञ्जने कामलार्त्तानां द्रो णपुष्पीरसो हितः
गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली ४०
धात्रीलौहरजोव्योषनिशाक्षौद्रा ज्यशर्कराः
लीढा निवारयन्त्याशु कामलामुद्धतामपि ४१
कुम्भाख्यकामलायां तु हितः कामलिको विधिः
गोमूत्रेण पिबेत्कुम्भकामलावाञ्छिलाजतुम् ४२
दग्धाऽक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्वापितमष्टवारान्
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ४३
अपहरति कामलार्तिं नस्येन कुमारिकाजलं सद्यः ४४
मारितं चायसं चूर्णं मुस्ताचूर्णेन संयुतम्
खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम् ४५
सितातिलबलायष्टित्रिफलारजनीयुगैः
लौहं लिह्यात्समध्वाज्यं हलीमकनिवृत्तये ४६
अमृतलतारसकल्कं प्रसाधितंतुरगविद्विषः सर्पिः
क्षीरं चतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः ४७
मधुरैरन्नपानैस्तं वातपित्तहरैर्हरेत्
कामलापाण्डुरोगोक्तां क्रियां चात्रोपयोजयेत् ४८
फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः क्वाथः
क्षौद्र युतोऽय हन्याद्धलीमकं पाण्डुकामलारोगम् ४९
त्र्! यूषणंत्रिफला मुस्तं विडङ्गं चव्यचित्रकम्
दार्वीत्वङ् माक्षिको धातुर्ग्रन्थिको देवदारु च ५०
एषां द्विपलिकान्भागान्कृत्वा चूर्णं पृथक्पृथक्
मण्डूरचूर्णं द्विगुणंशुद्धमञ्जनसन्निभम् ५१
मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत्प्रक्षिपेन्नरः
उदुम्बरसमाकारान्वटकांस्तान्यथाऽग्नि च ५२
उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम्
मण्डूरवटिका ह्येताः प्राणदाः पाण्डुरोगिणाम् ५३
कुष्ठानि जठरं शोथमूरुस्तम्भं कफामयान्
अर्शांसि कामलां मेहंप्लीहानं शमयन्ति च ५४
किराततिक्ता सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम्
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकञ्च ५५
फलं विडङ्गस्य समांशकानि सर्वैः समं चूर्णकमायसञ्च
सर्पिर्मधुभ्यां वटिका विधेया तक्रानुपानाद्भिषजा प्रयोज्या ५६
निहन्ति पाण्डुञ्च हलीमकं च शोथं प्रमेहं ग्रहणीरुजञ्ज
श्वासञ्ज कासञ्च सरक्तपित्तमर्शांस्यथो वाग्ग्रहमामवातम्
व्रणांश्च गुल्मान्कफविद्र धिञ्च श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात् ५७
यवगोधूमशाल्यन्नैः रसैर्जाङ्गलजैर्हितैः
मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते ५८
इत्यष्टमः पाण्डुरोगकामलाहलीमकाधिकारः समाप्तः ८

रक्तपित्ताधिकारः[सम्पाद्यताम्]

अथ नवमो रक्तपित्ताधिकारः ९
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् १
ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा २
ऊर्ध्वं नासाऽक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ३
सदनं शीतकामित्वं कण्ठधूमायनं वमिः
लौहगन्धस्य निश्वासो भवत्यस्मिन्भविष्यति ४
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
श्यावारुणं सफेनं च तनु रूक्षञ्च वातिकम् ५
रक्तपित्तंकषायाभं कृष्णं गोमूत्रसन्निभम्
मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम् ६
संसृष्टलिङ्गसंसर्गात्त्रिलिङ्गं सान्निपातिकम्
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्
द्विमार्गं कफवाताभ्यामुभाभ्यां तत्प्रवर्त्तते ७
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठीवनञ्च
द्वेषो भक्तेऽविपाको विकृतिरपिभवेद्र क्तपित्तोपसर्गाः ८
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ९
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतस्तु यत् १०
एकमार्गं बलवतो नातिवेगं नवोत्थितम्
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र्रवम् ११
मांसप्रक्षालनाभं क्वथितमिव च यत्कर्दमाम्भोनिभं वा
मेदः पूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत्कृष्णं यच्च नीलं भृशमपि कुणपं यत्र चोक्ता विकारा
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १२
येन चोपहतो रक्तं रक्तपित्तेन मानवः
पश्येद् दृश्यं वियच्चापि तदसाध्यमसंशयम् १३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः १४
पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनो यतः
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् १५
शालिषष्टिकनीवारकोरदूषप्रसाधिकाः
श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् १६
मसूरमुद्गचणकाः समकुष्ठाढकीफलाः
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् १७
दाडिमामलकं विद्वानम्लार्थं चापि दापयेत्
पटोलनिम्बन्यग्रोधप्लक्षवेतसपल्लवाः १८
शाकार्थं शाकसात्म्यानां तण्डुलीयादयो हिताः
पारावतान्कपोतांश्च लावान् रक्ताक्षवर्त्तकान् १९
शशान्कपिञ्जलानेणान्हरिणान्कालपुच्छजान्
रक्तपित्तहरान्विद्याद्र्रसांस्तेषां प्रयोजयेत् २०
ईषदम्लाननम्लांश्च घृतभृष्टान्ससैन्धवान्
कफानुगे यूषशाकान्दद्याद्वातानुगे रसम् २१
पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः २२
धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् २३
ह्रीबेरमुत्पलं धान्यं चन्दनं यष्टिकाऽमृता
उशीरञ्च त्रिवृच्चैषां क्वाथं समधुशर्करम् २४
पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति
रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा २५
पद्मोत्पलानां किञ्जल्कः पृश्निपर्णीप्रियङ्गुकाः
जले साध्या रसे तस्मिन्पेया स्याद्र क्तपित्तिनाम् २६
वासापत्रसमुद्भूतो रसः समधुशर्करः
क्वाथो वा हरते पीतो रक्तपित्तं सुदारुणम् २७
पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
समधुर्हरते रक्तपित्तं कासज्वरक्षयान् २८
उत्पलं कुमुदं पद्मं कह्लारं लोहितोत्पलम्
मधुकञ्चेति पित्तासृक्तृष्णाच्छर्दिहरो गणः २९
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ३०
आटरूषक मृद्वीका पथ्याक्वाथः सशर्करः
क्षौद्र्राढ्यःसकलश्वासरक्तपित्तनिबर्हणः ३१
दूर्वा सोत्पलकिञ्जल्कमञ्जिष्ठासैलवालुका
शीता शीतमुशीरञ्च मुस्तं चन्दनपद्मकम् ३२
विपचेत्कार्षिकैरेतैराजं प्रस्थमितं घृतम्
तण्डुलानां जलं छागीक्षीरं दद्याच्चतुर्गुणम् ३३
तत्पानं वमतो रक्तं नावनं नासिकागते
कर्णाभ्यां यस्य गच्छेत्तु तस्य कणौ प्रपूरयेत् ३४
चक्षुः स्रवति रक्तञ्चेत्पूरयेत्तेन चक्षुषी
मेढ्रपायुप्रवृत्ते तु वस्तिकर्मसु योजयेत् ३५
रोमकूपप्रवृत्ते तु तदभ्यङ्गं प्रयोजयेत्
सर्वेषु रक्तपित्तेषु तस्माच्छ्रेष्ठमिदं घृतम् ३६
मृद्वीकां चन्दनं लोध्रं प्रियङ्गुञ्च विचूर्णयेत्
चूर्णमेतत्पिबेत्क्षौद्र वासारससमन्वितम् ३७
नासिकामुखपायुभ्यो योनिमेढ्रादिवेगितम्
रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ३८
यच्च शस्त्रक्षतेनेव रक्तं स्रवति वेगतः
तदप्येतेन चूर्णेन तिष्ठत्येवावचूर्णितम् ३९
इक्षूणां मध्यकाण्डानि सकन्दं नीलमुत्पलम्
केशरं पुण्डरीकस्य मोचामधुकपद्मकैः ४०
वटप्ररोहशुङ्गाश्च द्रा क्षा खर्जूरमेव च
एतानि समभागानि कषायं सम्प्रकल्पयेत् ४१
उषितं मधुसंयुक्तं पाययेच्छर्कराऽन्वितम्
सप्रमेहं रक्तपित्तं क्षिप्रमेतन्नियच्छति ४२
द्रा क्षया फलिनीभिर्वा प्रियालमधुकेन वा
श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ४३
पक्वोदुम्बरकाश्मर्यः पथ्याखर्जूरगोस्तनाः
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक् ४४
अतिनिःसृतरक्तो वा क्षौद्र्रयुक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजं मांसं वा पित्तसंयुतम् ४५
नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन ४६
घ्राणप्रवृत्ते जलमाशु पेयं सशर्करं नासिकया च यो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करञ्चेक्षुरसं हिमं वा ४७
नस्ये दाडिमपुष्पस्य रसो दूर्वाभवोऽपि वा
आम्रास्थिजः पलाण्डोर्वा नासिकास्राविरक्तजित् ४८
पुराणं पीनमानीय कूष्माण्डस्य फलं बृहत्
तद्बीजाधारबीजत्वक्छिराशून्यं समाचरेत् ४९
ततस्तस्य तुलां नीत्वा पचेज्जलतुलाद्वये
तस्मिन्नीरेऽद्धशिष्टे तु यत्नतः शीतलीकृते ५०
तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ५१
कूष्माण्डं शोषयेद्घर्मे ताम्रपात्रे ततः क्षिपेत्
क्षिप्त्वा तत्र घृतं प्रस्थं कूष्माण्डं तेन भर्जयेत् ५२
मधुवर्णं तदालोक्य तज्जलं तत्र निक्षिपेत्
सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत्पचेत् ५३
सुपक्वे पिप्पलीशुण्ठीजीराणां द्विपले पृथक्
पृथक्पलार्द्धं धान्याकं पत्रैलामरिचत्वचम् ५४
चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्र्रमावपेत्
एतत्पलमितं खादेदथ वाऽग्निबलं यथा ५५
खण्डकूष्माण्डलेहोऽय रक्तपित्तञ्च नाशयेत्
पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ५६
कासं श्वासञ्च हृद्र्रोगं स्वरभेदं क्षतं क्षयम्
नाशयत्येव वृद्धिञ्च बृंहणो बलवर्द्धनः ५७
पुराणं पीनमानीय कूष्माडस्य फलं दृढम्
तद्वीजाधारबीजत्वक्छिराशून्यं समाचरेत् ५८
ततोऽतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत्
गोदुग्धस्य तुलामध्ये मन्देऽग्नौ वा पचेच्छनैः ५९
शर्करायास्तुलां सार्द्धां गोघृतं प्रस्थमात्रकम्
प्रस्थार्द्धं माक्षिकञ्चापि कुडवं नारिकेलतः ६०
प्रियालफलमज्जानां द्विपलं तिखुरीपलम्
क्षिपेदेकं च विपचेल्लेहवत्साधु साधयेत् ६१
भिषक्सुपक्वमालोक्य ज्वलनादवतारयेद्
कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ६२
एकोऽक्ष शतपुष्पाया अथ क्षीरी यवानिका
गोक्षुरः क्षुरकः पथ्या कपिकच्छुफलानि च ६३
सप्तमी त्वक्च सर्वेषामक्षयुग्मं पृथक्पृथक्
धान्यकं पिप्पली मुस्तमश्वगन्धा शतावरी ६४
तालमूली नागबला बालकं पत्रकं शटी
जातीफलं लवङ्गञ्च सूक्ष्मैला बृहदेलिका ६५
शृङ्गाटकं पर्पटकं सर्वं पलमितं पृथक्
चन्दनं नागरं धात्रीफलञ्चापि कशेरुजम् ६६
प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत्
पलद्वयमुशीरस्य मसनस्योषणस्य च ६७
कूष्माण्डस्यावलेहोऽय भक्षितः पलमात्रया
किं वा यथावह्निबलं भुक्त्वारोगान्विनाशयेत् ६८
रक्तपित्तं शीतपित्तमम्लपित्तमरोचकम्
बह्निमान्द्यं सदाहञ्च तृष्णां प्रदरमेव च ६९
रक्तार्शोऽपि तथा छर्दि पाण्डुरोगञ्च कामलाम्
उपदंशं विसर्पञ्च जीर्णञ्च विषमं ज्वरम् ७०
लेहोऽय परमो वृष्यो बृंहणो बलबर्द्धनः
स्थापनीयः प्रयत्नेन भाजने मृण्मये नवे ७१
कूष्माण्डकस्य स्वरसं पलानां शतमात्रया
रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम् ७२
मृद्वग्निना पचेत्तावद्यावद्भवति पिण्डवत्
धात्रीतुल्या सिता योज्या पलार्द्धं लेहयेदनु ७३
खण्डकूष्माण्डकं ह्येतद् भुक्तमभ्यासतो हरेत्
रक्तपित्तमम्लपित्तं दाहं तृष्णाञ्च कामलाम् ७४
शतावरी छिन्नरुहा वृषो मुण्डतिका बला
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ७५
भार्गी पुष्करमूलञ्च पृथक्पञ्च पलानि च
जलद्रो णे विपक्तव्यमष्टभागावशेषितम् ७६
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ७७
खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ७८
प्रस्थार्धं मधुना देयं शुभाश्मजतुकस्य च
शृङ्गी कृष्णा विडङ्गञ्च शुण्ठ्यजाजी पलं पलम् ७९
त्रिफला धान्यकं पत्रं कणा मरिचकेशरम्
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ८०
यथाकालं प्रयुञ्जीत बिडालपदमात्रकम्
गव्यक्षीरानुपानञ्च सेव्यो मांसरसः पयः ८१
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् रक्तपित्तं क्षयं कासं पार्श्वशूलं विशेषतः ८२
वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्
श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरं तथा ८३
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च
चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्द्धनम् ८४
आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्
श्रीकरंलाघवञ्चैव खण्डकाद्यं प्रकीर्त्तितम् ८५
छागं पारावतं मांसं तित्तिरिः क्रकरः शशः
कुरङ्गः कृष्णसारश्च मांसमेषां प्रयोजयेत् ८६
नारिकेलपयः पानं सुनिषण्णकवास्तुकम्
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ८७
वार्ताकुं पक्वमाम्रञ्च खर्जूरं स्वादु दाडिमम्
ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम् ८८
वर्जनीयं विशेषेण खण्डकाद्यं समश्नता
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते
न पुनर्माक्षिकेणैव शिलयैव हि मारणम् ८९
शतावरीमूलकल्कं कल्कात्क्षीरं चतुर्गुणम्
क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ९०
घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत्सदा
रक्तपित्तं ह्याम्लपित्तं क्षयं श्वासञ्च नाशयेत् ९१
इति नवमो रक्तपित्ताधिकारः समाप्तः ९

अम्लपित्तश्लेष्मपित्ताधिकारः[सम्पाद्यताम्]

अथ दशमोऽम्लपित्तश्लेष्मपित्ताधिकारः १०
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः १
अविपाकः क्लमोत्क्लेशस्तिक्ताम्लोद्गारगौरवैः
हृत्कण्ठदाहारुचिभिरम्लपिक्तं वदेद्भिषक्
अम्लपित्तं द्विधा प्रोक्तमधोगं च तथोर्ध्वगम् २
वातं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाच्छम्
मत्स्योदकाभं त्वतिपिच्छिलाभं श्लेष्मानुजातं सहितं रसेन ३
तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ४
भुक्ते विदग्धेऽप्यथ वाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजञ्च ५
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
जनयति कण्डूमण्डलपिडकाशतनिचितरोगचयम् ६
सानिलं सानिलकफं सकफं तच्च लक्षयेत्
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ७
कम्पप्रलापमूर्च्छाश्चिमिचिमिगात्रावसादशूलानि
तमसो दर्शनविभ्रमप्रमोहहर्षास्तथाऽनिलयुतेन ८
कफनिष्ठीवनगौरवजडताऽरुचिशीतसादवमिलेपाः
दहनबलहानिकण्डूनिद्रा श्चिह्नं कफानुगे भवति
उभयमिदमेव चिह्नं मारुतकफसम्भवेऽम्लपित्ते स्यात् ९
रोगोऽयमम्लपित्ताख्यो यत्नात्संसाध्यते नवः
चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् १०
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत्
तमो मूर्च्छाऽरुचिश्छर्दिरालस्यं च शिरोरुजा
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ११
अम्लपित्ते तु वमनं पटोलारिष्टवासकैः
कारयेन्मदनैः क्षौद्रै ः! सैन्धवैश्च तथा भिषक् १२
विरेचनं त्रिवृच्चूर्णं मधुधात्रीफलद्र वैः
ऊर्ध्वगं वमनैर्विद्वानधोगं रेचनैर्हरेत् १३
यवगोधूमविकृतीस्तीक्ष्ण संस्कारवर्जिताः
यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् १४
निस्तुषयववृषधात्रीक्वथितं सलिलं त्रिगन्धमधुयुक्तम्
द्रुततरमपहरति वमिं सञ्जनितामम्लपित्तेन १५
छिन्नोद्भवानिम्बपटोलपत्रं क्षौद्रा न्वितं पीतमनेकरूपम्
सुदारुणं हन्ति तदम्लपित्तं यथाऽशनिस्तालतरुं प्रवृद्धम् १६
वासाऽमृतापर्पटक निम्बभूनिम्बमार्कवैः ऐत्रिफलाकुलकैः क्वाथः सक्षौद्र श्चाम्लपित्तहा १७
पाठापटोलयवचन्दनधान्य धात्रीवासावराङ्गदल नागकणऽभयाभिः लेहःसिताऽज्यमधुभिःशिवपाल पिण्डीहन्त्यम्ल पित्तमरुचिज्वरदाहशोषान् १८
हन्त्यम्लपित्तवमनारुचिदाहमोहखालित्यमेहशिशिरव्रणशुक्रदोषान्
भुक्त्वा नरः सततमामलकीरसेन वृद्धोऽप्यनेन हि भवेत्तरुणो रिरंसुः १९
कूष्माण्डकरसो ग्राह्यः पलानां शतमात्रकम्
रसतुल्यं गवां क्षीरं धात्रीचूर्णंपलाष्टकम् २०
धात्रीतुल्यासिता योज्या गव्यमाज्यं पलद्वयम्
मन्दाग्निना पचेत्सर्वं यावद्भवति पिण्डितम् २१
पलार्द्धं पलमेकं वा प्रत्यहं भक्षयेदिदम्
खण्डकूष्माण्डकं ख्यातमम्लपित्तापहं परम् २२
कुडवं नारिकेलस्य जले मृद्वग्निना पचेत्
नारिकेलजलालाभे गव्ये पयसि तत्पचेत् २३
धान्यकं पिप्पली मुस्तं चातुर्जातं विचूर्णितम्
प्रत्येकं टङ्कमात्रं तु शीते तस्मिन्विनिक्षिपेत् २४
पलमात्रस्तदर्द्धोऽपि भक्षितः प्रत्यहं नरैः
नारिकेलस्य खण्डोऽय पुंस्त्वनिद्रा बलप्रदः २५
अम्लपित्तं रक्तपित्तं शूलञ्च परिणामजम्
क्षयं क्षययति क्षिप्रं शुष्कं दार्वनलो यथा २६
प्रस्थन्तु नारिकेलस्य सूक्ष्मं दृषदि पेषितम्
निष्कुलीकृतकूष्माण्डखण्डानामर्द्धमाढकम् २७
तद्द्वयं भक्षयेद्ग्रव्ये घृते तु कुडवोन्मिते
ततस्तत्र क्षिपेच्छुद्धं गोदुग्धञ्चाढकोन्मितम् २८
तत्रैव निक्षिपेद्भव्यां सितां प्रस्थद्वयोन्मिताम्
पचेत्सर्वाणि चैकत्र मृदुना वह्निना भिषक् २९
सुपक्के शीतले तत्र चूर्णीकृत्य विनिक्षिपेत्
सूक्ष्मैलां धान्यकं धात्रीं पर्पटं जलदं जलम् ३०
उशीरं चन्दनं द्रा क्षां शृङ्गाटञ्च कशेरुकम्
त्वक्पत्रकं सकर्पूरं कर्षयुग्मं पृथक्पृथक् ३१
सर्वं संमिश्रयेद्र क्षेद्भाजने मृण्मये नवे
पलमात्रमिदं प्रातर्भक्षयेद्वा यथाऽनलम् ३२
एतन्निषेवितं हन्ति रोगानेतान्न संशयः
अम्लपित्तं ज्वरं पित्तं रक्त पित्तमरोचकम् ३३
वातरक्तं तृषां दाहं पाण्डुरोगञ्च कामलाम्
क्षयं क्षपयति क्षिप्रं शूलञ्च परिणामजम् ३४
नारिकेलस्य खण्डोऽयमश्विभ्यां भाषितः पुरा
वर्णदो बृहंणो वृष्यः पुंस्त्वनिद्रा बलप्रदः ३५
अभया पिप्पली द्रा क्षा सितधान्यकवासकम्
मधुना कण्ठदाहघ्नं पित्तश्लेष्महरं परम् ३६
पटोलयवधान्याकपिप्पल्यामलकानि च
तेषां क्षौद्र्रयुतः क्वाथः पित्तश्लेष्महरः परः ३७
पित्तश्लेष्मवमीकण्डूकोठविस्फोटदाहनुत्
दीपनः पाचनः क्वाथः शृङ्गवेरपटोलयोः ३८
पिप्पलीखण्डपथ्याभिस्तुल्याभिर्मोदकः कृतः
पित्तश्लेष्म हरो भुक्तो वह्निमान्द्यं च नाशयेत् ३९
इति दशमोऽम्ल पित्तश्लेष्मपित्ताधिकारः समाप्तः १०

राजयक्ष्माधिकारः[सम्पाद्यताम्]

अथैकादशो राजयक्ष्माधिकारः ११
वेगरोधात्क्षयाच्चैव साहसाद्विषमाशनात्
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् १
वैद्यो व्याधिमता यस्माद् व्याधेर्यत्नेन यक्ष्यते
स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः २
राज्ञश्चन्द्र्रमसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति प्रवदन्ति मनीषिणः ३
क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः
संशोषणाद्र सादीनां शोष इत्यभिधीयते ४
कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ५
श्वासाङ्गसादकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्रा ः!
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ६
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून्पवनधूमदवार्दितांश्च ७
अंसपार्श्वाभितापश्च सन्तापः करपादयोः
ज्वरः सर्वाङ्गिकश्चेति लक्षणं राजयक्ष्मणः ८
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायन्ते षड्रूपे राजयक्ष्मणि ९
स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पिक्ताद्र क्तस्य चागमः १०
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य च ध्वंसो विज्ञेयः कफकोपतः ११
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् १२
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन्सुविमलं यशः १३
सर्वैरर्द्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा १४
महाशनं क्षीयमाणमतीसारनिपीडितम्
शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् १५
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् १६
परं दिनसहस्रन्तु यदि जीवति मानवः
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः १७
ज्वरानुबन्धरहितं बलवन्तं क्रियासहम्
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् १८
व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान्
व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु १९
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः २०
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
बिना शुक्रक्षयकृतैर्विकारैरुपलक्षितः २१
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुमान्भिन्नकांस्यपात्रहतस्वरः २२
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
सम्प्रस्रुतास्यनासाक्षः शुष्करुक्षमलच्छविः २३
अध्वप्रशोषी स्रस्ताङ्ग सम्भृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २४
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना २५
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २६
धनुषाऽयस्यतोऽत्थ भारमुद्वहतो गुरुम्
युद्ध्य्मानस्य बलिभिः पततो विषमोच्चतः २७
वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णत
शिलाकाष्ठाश्मनिर्घातान् क्षिपतोनिघ्नतः परान् २८
अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम्
महानदीं वा तरतो हयैर्वा सह धावतः २९
सहसोत्पततो दूरं तूर्णञ्चापि प्रनृत्यतः
तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ३०
स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः
विक्षतेवक्षसि व्याधिर्बलवान् समुदीर्यते ३१
उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विभज्यते
प्रपीड्यते तथा पार्श्वे शुष्यत्यङ्गं प्रवेपते ३२
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ३३
दुष्टश्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते
स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् ३४
उरोरुक्शोणितच्छर्दिःकासो वैशेषिकः क्षते
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ३५
व्रणरोधात्क्षयाच्चैव कोष्ठात्प्रतिमलात्तथा
क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ३६
अल्पलिङ्गस्य दीप्ताग्नेःसाध्यो बलवतो नवः
परिसंवत्सरो याप्यःसर्वलिङ्गं तु वर्जयेत् ३७
बलिनो बहुदोषस्य पञ्च कर्माणि कारयेत्
यक्ष्मिणःक्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ३८
मलायत्तं बलं पुंसां शुक्रायत्तञ्च जीवितम्
ततस्माद्यत्नेनसंरक्षेद्यक्ष्मिणो मलरेतसी ३९
शालिषष्टिकगोधूमयवमुद्गादयो हिताः
मद्यानि जाङ्गलाः पक्षिमृगाःपथ्या विशुष्यताम् ४०
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ४१
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्
तेन षड् विनिवर्त्तन्ते विकाराः पीनसादयः ४२
द्र्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम्
पादस्थं संस्कृतञ्चाज्ये षडङ्गो यूष उच्यते ४३
ककुभत्वङ्नागबला वानरिबीजं विचूर्णितम्पयसा
पीतं मधुघृतयुक्तंससितं यक्ष्मादिकासहरम् ४४
छागमांसं पयश्छागं छागं सर्पिः सनागरम्
छागोपसेवी शयनं छागमध्ये तु यक्ष्मनुत् ४५
मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ४६
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ४७
सितोपलां तुगाक्षीरी पिप्पली बहुला त्वचः
अन्त्यादूर्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ४८
लेहयेद्रा जरोगार्त्तं कासश्वासज्वरातुरम्
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम्
हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्ध्वगे ४९
जातीफलं विडङ्गानि चित्रकं तगरं तिलाः
तालीसं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ५०
कर्पूरश्चाभया धात्री मरिचं पिप्पली तुगा
एषां त्वक्षसमा भागाश्चातुर्जातकसंयुताः ५१
पलानि सप्त भङ्गायाः सितासर्वसमा मता
चूर्णमेतत्क्षयं कासं श्वासञ्च ग्रहणीगदम् ५२
अरोचकं प्रतिश्यायं तथा चानलमन्दताम्
एतान् रोगान्निहन्त्येव वृक्षमिन्द्रा शनिर्यथा ५३
बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत्
अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ५४
वासकस्य रसप्रस्थं मानिका सितशर्करा
पिप्पल्या द्विपलं तावत्सर्पिषश्च शनैः पचेत् ५५
तस्मिंल्लेहत्वमायाते शीते क्षौद्र पलाष्टकम्
दत्वाऽवतारयेद् वैद्यो लीढो लेहोऽयमुत्तमः ५६
हन्त्येव राजयक्ष्माणं कासं श्वासञ्च दारुणम्
पार्श्वशूलञ्च हृच्छूलं रक्तपित्तं ज्वरं तथा ५७
व्यवायशोषिणं क्षीणं रसमांसाज्यभोजनैः
सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ५८
हर्षणाश्वासनैः क्षीरैःस्निग्धैर्मधुरशीतलैः
दीपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ५९
व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमैः
उपाचरेज्जीवनीयैर्विधिना श्लैष्मिकेण तु ६०
आस्यासुखैर्दिवास्वप्नैः शीतैर्मधुरबृंहणैः
अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ६१
व्रणशोषं जयेत्स्निग्धैर्दीपनैः स्वादुशीतलैः
ईषदम्लैरनम्लैर्वा यूषमांसरसादिभिः ६२
उरः क्षतचिकित्सा
बलाऽश्वगन्धा श्रीपर्णी बहुपुत्री पुनर्नवाः
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ६३
एलापत्र्रत्वचोऽद्धाक्षाः पिप्पल्यर्द्धपलं पृथक्
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ६४
सञ्चूर्ण्य मधुना युक्ता वटिकाः सम्प्रकल्पयेत्
अक्षमात्रां ततश्चैकां भक्षयेत्तु दिने दिने ६५
क्षतं क्षयं ज्वरं कासं श्वासं हिक्कां वमिं भ्रमम्
मूर्च्छां मदं तृषां शोषं पार्श्वशूलमरोचकम् ६६
प्लीहानमाढ्यवातञ्च रक्तपित्तं स्वरक्षयम्
एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ६७
द्रा क्षायाः प्रस्थमेकन्तु मधुकस्य पलाष्टकम्
पचेत्तोयाढके शुद्धे पादशेषेण तेन तु ६८
पलिके मधुकद्रा क्षे पिष्टे कृष्णापलद्वयम्
प्रदाय सर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे ६९
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत्
एतद् द्रा क्षाघृतं सिद्धं क्षतक्षीणसुखावहम् ७०
वातं पित्तं ज्वरं श्वासं विस्फोटकहलीमकान्
प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ७१
क्षीरे धात्री च मञ्जिष्ठा क्षीरिण्याश्च तथा रसैः
पचेत्समैघृतप्रस्थं मधुरैः कर्षसम्मितैः ७२
द्रा क्षाद्विचन्दनोशीरैः शर्करोत्पलद्मकैः
मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ७३
प्रस्थार्द्धं मधुनः शीते शर्कराऽद्धतुलां तथा
पलार्द्धिकांश्च सञ्चूर्ण्य त्वगेलापद्मकेशरान् ७४
विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः
अमृतप्राशमित्येदश्विभ्यां परिकीर्त्तितम् ७५
क्षीरमांसाशिनां हन्ति रक्तपित्तं क्षतक्षयम्
तृष्णाऽरुचिश्वासकासच्छर्दिमूर्च्छाप्रमर्दनम् ७६
मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ७७
यद्यच्च तर्पणं शीतमविदाहि हितंलघु
अन्नपानं निषेव्यंस्यात्क्षतक्षीणैः सुखार्थिभिः ७८
शोकं स्त्रियः क्रोधमसूयताञ्ज त्यजेदुदारान्विषयान्भजेच्च
तथा द्विजातींस्त्रिदशान्गुरुंश्च वाचश्च पुण्याः शृणुयाद् द्विजेभ्यः ७९
अथ राजयक्ष्मणि रसाः
रसभस्मामृतासत्वं लोहं मधुघृतान्वितम्
अमृतेश्वरनामायं षड्गुञ्जोराजयक्ष्मणि ८०
त्रयॐशा मारितात्सूतादेकॐशो हेमभस्मतः
एकॐशो मृतताम्रस्य शिला गन्धश्च तालकम् ८१
प्रत्येकंभागयुग्मं स्यादेतत्सर्वं विचूर्णयेत्
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ८२
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च धारयेत्
कूप्यां पचेद्र जपुटे स्वाङ्गशीतं समुद्धरेत् ८३
रसो राजमृगाङ्कोयंचतुर्गुञ्जः क्षयापहः
मरिचैरुनविंशत्याकणाभिर्दशभिस्तथा ८४
मधुना सर्पिषा चापि दद्यादेतं रसं भिषग्
अनेन नश्यति क्षिप्रं वातश्लेष्मभवः क्षयः ८५
शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र्रवैः ८६
द्वियाममातपे गोलं ताम्रपात्रे निधापयेत्
आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ८७
धान्यराशौ न्यसेत्पश्चादष्टरात्रात्तमुद्धरेत्
सञ्चूर्ण्य गालयेद्वस्त्रैः सत्यं वारितरं भवेत् ८८
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
नवभागोन्मितैरेभिः समैरेष रसो भवेत् ८९
निष्कद्वयमितं नित्यंमधुना सह लेहयेत्
अयमग्निरसो नाम्नाकासक्षयहरः परः ९०
इत्येकादशो राजयक्ष्माधिकारः सम्पूर्णः ११

कासरोगाधिकारः[सम्पाद्यताम्]

अथ द्वादशः कासरोगाधिकारः १२
धूमोपघाताद्र जसस्तथैव व्यायामरुक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात्क्षवथोस्तथैव १
प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात्सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः २
पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ३
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ४
हृच्छङ्खपार्श्वोदरमूर्द्धशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासतिशुष्कमेव ५
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषाऽत्त
पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ६
प्रलिप्यमानेन मुखेन सीदञ्छिरोरुजाऽत्त कफपूर्णदेहः
अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ७
अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः
रूक्षस्योरःक्षतं वायुर्गृहीत्वाकासमावहेत् ८
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्
कण्ठेन कूजताऽत्यर्थं विभग्नेनेव चोरसा ९
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेनशूलिना
दुःखस्पर्शेनशूलेन भेदपीडाऽभितापिना १०
पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ११
विषमासात्म्यभोज्यातिव्यवायाद् वेगनिग्रहात्
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् १२
सगात्रशूलज्वरमोहदाहप्राणक्षयं चोपलभेत कासी १३
शुष्यन् विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति १४
इत्येष क्षयजः कासःक्षीणानां देहनाशनः
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः १५
न वै कदाचित्सिद्ध्य्तेमपि पादगुणान्वितौ
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः १६
त्रीन्पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् १७
ज्वरारोचकहृल्लासस्वरभेदक्षयादयः
भवन्त्युपेक्षया यस्मात् तस्मात्तत्त्वरया जयेत् १८
कासस्य चिकित्सा
वास्तूको वायसीशाकं मूलकं सुनिषण्णकम्
स्नेहास्तैलादयो भक्ष्यास्तथेक्षुरसगौडिकाः १९
दध्यारनालाम्लफलं प्रसन्नापानमेव च
शस्यते वातकासेषु स्वाद्वम्ललवणानि च २०
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्भिषक् २१
दशमूलीकृता श्वासकासहिक्कारुजाऽपहा
यवागूर्दीपनी वृष्या वालरोगविनाशिनी २२
रसः कर्कोटकानां वा घृतभृष्टः सनागरः
वातकासप्रशमनः शृङ्गीमत्स्यस्य वा पुनः २३
कण्टकारीयुगद्रा क्षा वासाकर्चूरबालकैः
नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत्
शर्करामधुसंयुक्तं पित्तकासहरं परम् २४
कफजकासस्य चिकित्सा
पिप्पली कट्फलंशुण्ठी शृङ्गी भार्गी तथोषणम्
कारवी कण्टकारी च सिन्दुवारो यवानिका २५
चित्रको वासकश्चैषां कषायं विधिवत्कृतम्
कफकासविनाशाय पिबेत्कृष्णारजोयुतम् २६
इक्ष्विक्षुबालिका पद्ममृणालोत्पलचन्दनम्
मधुकं पिप्पली द्रा क्षा लाक्षा शृङ्गी शतावरी २७
द्विगुणा च तुगाक्षीरी सिता सर्वचतुर्गुणा
लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये २८
चूर्णं काकुभमिष्टं वासकरसभावितं बहून्वारान्
मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तहरम् २९
ताप्यमानस्य कासेन नासास्रावे स्वरे जडे
क्षवथौ गन्धनाशेच धूमपानं प्रयोजयेत् ३०
मनः शिलाऽलमरिचमांसीमुस्तेङ्गुदैः पिबेत्
धूमं त्र्! यहञ्च तस्यानु पयश्च सगुडं पिबेत् ३१
एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान्
शतैरपि प्रयोगाणामसाध्यान्साधयेद् ध्रुवम् ३२
बदरीदलमालिप्तं शिलयाऽतपशोषितम्
तद्धूमपानं सक्षीरं महाकासनिवारणम् ३३
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहः
कण्टकार्याः कणायाश्च चूर्णं समधु कासहत् ३४
लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम्
पलार्द्धमानं मरिचं प्रदेयं पलानि चत्वारि महौषधस्य ३५
सिता समस्तेन समाऽथ चूर्णं रोगानिमानाशु बलान्निहन्ति
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीविकारान् ३६
कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः
लेहः साज्यमधुः कासश्वासहिक्कानिवारणः ३७
हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम्
कासश्लेष्मापहं प्रोक्तं परं वह्नेः प्रदीपनम् ३८
कर्षः कर्षांशपलं पलद्वयं स्यात्ततोर्द्धकर्षञ्च
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ३९
सर्वौषधिभिरसाध्याः कासा ये वैद्यनिर्मुक्ताः
अपि पूयं छर्दयतां तेषामिदमौषधं परमम् ४०
मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसम्मिता
अर्द्धकर्षो यवक्षारः कर्षयुग्मन्तु दाडिमम् ४१
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि
शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ४२
समूलवल्कच्छदकण्टकार्यास्तुलां ततो द्रो णमितं जलञ्च
हरीतकीनां शतमेकपात्रे विपाच्य कुर्याच्चरणाम्बुशेषम् ४३
तस्मिन्कषाये तनुवस्त्रपूते हरीतकीभिः सहिते गुडस्य
तुलां विनिक्षिप्य पचेत्सुपक्वमेतत्समुत्तार्य सुशीतलञ्च ४४
पलं पलञ्चापि कटुत्रयञ्च तथा चतुर्जातपलं विचूर्ण्य
पलानि षट् पुष्परसस्य चापि विनिक्षिपेत्तत्र विमिश्रयेच्च ४५
प्रयुज्यमानो विधिनैष लेहो यथाबलञ्चापियथाऽनलञ्च
वातात्मकं पित्तकृतं कफोत्थं त्रिदोषजातानपि च त्रिदोषम् ४६
क्षतोद्भवञ्च क्षयजञ्च कासं श्वासञ्च हन्यात्सह पीनसेन
यक्ष्माणमेकादशरूपमुग्रं हरीतकी या भृगुणोपदिष्टा ४७
कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ४८
पृथक्पलांशान्येतानि गुडूची चव्यचित्रकौ
मुस्तं कर्कटशृङ्गी च त्र्! यूषणं धन्वयासकः ४९
भार्गी रास्नाशटी चैव शर्करापलविंशतिः
प्रत्येकञ्च पलान्यष्टौ प्रदद्याद् घृततैलयोः ५०
पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकम्
चतुर्भागं तुगाक्षीर्याः पिप्पल्याश्च चतुःपलम् ५१
क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभं
लेहोऽय हन्ति हिक्काऽतिकासश्वासानशेषतः ५२
इति द्वादश कासाधिकारः समाप्तः

हिक्काऽधिकारः[सम्पाद्यताम्]

अथ त्रयोदशो हिक्काऽधिकारः १३
विदाहिगुरुविष्टम्भि रुक्षाभिष्यन्दिभोजनैः
शीतपानाशनस्नानरजो धूमात्तथाऽनिलैः १
व्ययामकर्मभाराध्व वेगाघातापतर्पणैः
हिक्का श्वासश्च कासश्च नृणां समुपजायते २
वायुःकफेनानुगतः पञ्च हिक्काःकरोति हि
अन्नजां यमलां क्षुद्रं गम्भीरां महतीं तथा ३
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स दोषवानाशु हिनस्त्यसून्यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ४
कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ५
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
हिक्कयेदूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ६
चिरेण यमलैर्वेगैर्या हिक्कासम्प्रवर्त्तते
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ७
विकृष्टकालैर्या बेगैर्मन्दैः समभिवर्त्तते
क्षुद्रि का नाम सा हिक्का जत्रुमूलं प्रधाविता ८
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ९
मर्माणि पीडयन्तीव सततं या प्रवर्त्तते
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १०
आकम्पते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं ताम्यते नित्यमेव
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ चान्त्यौ वर्जयेद्धिक्कमानौ ११
अतिसञ्चितदोषस्य भक्तद्वेषकृशस्य च
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः १२
आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम्
यमिका च प्रलापार्त्तिमोहतृष्णासमन्विता १३
अक्षीणस्याप्यदीनस्य स्थिरधात्विन्द्रि यस्य च
तस्यसाधयितुं शक्या यमिका हन्त्यतोन्यथा १४
यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्
भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् १५
हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते
ऊर्ध्वाधः शोधनं शस्तं दुर्बले शमनं मतम् १६
प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च १७
हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम्
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् १८
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् १९
प्रवालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम्
पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः २०
नैपाल्या गोविषाणाद्वा कुष्ठात्सर्जरसस्य वा
धूपं कुशस्य वा कार्यं पिबेद्धिक्कोपशान्तये २१
निर्धूमाङ्गारनिक्षिप्त हिङ्गुमाषरजोभवः
हिक्काः पञ्चापि हन्त्याशु धूमः पीतो न संशयः २२
हरेणुककणानाञ्च क्वाथो हिङ्गुसमन्वितः
हिक्काप्रशमनश्रेष्ठो धन्वन्तरिवचो यथा २३
चन्द्र शूरस्य बीजानि क्षिपेदष्टगुणे जले
यदा मृदूनि मृद्नीयात्ततो वाससि गालयेत् २४
हिक्कातिवेगविकलस्तज्जलं पलमात्रया
पिबेत्पिबेत्पुनश्चापि हिक्कावश्यं प्रशाम्यति २५
इति त्रयोदशो हिक्काऽधिकारः समाप्तः १३

श्वासरोगाधिकारः[सम्पाद्यताम्]

अथ चतुर्दशः श्वासरोगाधिकारः १४
यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्त्तते
तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते १
महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः २
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
आनाहोवक्त्रवैरस्यं शङ्खनिस्तोद एव च ३
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ४
उद्धूयमानवातो यःशब्द वद् दुःखितो नरः
उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ५
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ६
दीनस्य श्वसितञ्चास्य दूराद्विज्ञायते भृशम्
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ७
ऊर्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः
श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्दितः ८
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
प्रमुह्यन्वेदनाऽत्तश्च शुष्कास्योऽरतिपीडितः ९
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुद्ध्य्ते
मुह्यतस्ताम्यतश्चोर्ध्वश्वासस्तस्य निहन्त्यसून् १०
यस्तु श्वसिति विच्छिनं सर्वप्राणेन पीडितः
न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजाऽदितः ११
आनाहस्वेदमूर्च्छाऽत्तो दह्यमानेन वस्तिना
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः १२
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् १३
प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च १४
करोति पीनसं तेन कण्ठे घुर्घुरकं तथा
अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् १५
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः १६
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् १७
तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भषितुम्
न चापि लभते निद्रा ं! शयानः श्वासपीडितः १८
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति १९
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्त्तिमान्
विशुष्कास्यो मुहुःश्वासो मुहुश्चैवावधम्यते २०
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः २१
ज्वरमूर्च्छापरीतञ्च विद्यात्प्रतमकं तु तम् २२
उदावर्त्तरजोऽजीर्णक्लिन्नकायनिरोधजः
तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति
मज्जतस्तमसीवास्य विद्यात्प्रतमकन्तु तम् २३
रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः २४
हिनस्ति न च गात्राणि न च दुःखो यथेतरे
न च भोजनपानानां निरुणद्ध्युचितां गतिम् २५
नेन्द्रि याणां व्यथाञ्चापिकाञ्चिदुत्पादयेद्रुजम्
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः २६
क्षुद्र ः! साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च २७
कामं प्राणहरा रोगा बहवो न तु ते तथा
यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै २८
श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत्
युक्तैर्लवणतैलाभ्यां तैरस्य ग्रन्थितः कफः २९
श्वासो विलयमायाति मारुतश्चोपशाम्यति
स्विन्नं ज्ञात्वा ततश्चैनं भोजयेच्च रसौदनम् ३०
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ३१
प्रस्थं बिभीतकानामस्थि विना साधयेदजामूत्रे
अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ३२
देवदारुबलामांसीः पिष्ट्वा वर्त्तिं प्रकल्पयेत्
तां घृताक्तां पिबेद्धूमं श्वासं हन्ति सुदारुणम् ३३
दशमूलीशटीरास्नापिप्पलीविश्वपौष्करैः
शृङ्गीतामलकीभार्गीगुडूचीनागराग्निभिः ३४
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः
श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ३५
दशमूलस्य वा क्वाथः षौष्करेणावचूर्णितः
श्वासकासप्रशमनः पार्श्वशूलनिवारणः ३६
रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम्
पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ३७
शृङ्गीमहौषधकणाघनपौष्कराणां चूर्णं शटीमरिचयोश्च सिताविमिश्रम्
क्वाथेन पीतममृतावृषपञ्चमूल्याः श्वासं त्र्! यहेण विनिहन्ति हि घोररूपम् ३८
पञ्चमूली तु सामान्या पित्ते योज्या कनीयसी
महती मारुते देया सैव देया कफाधिके ३९
कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा
शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ४०
हरिद्रा ं! मरिचं द्रा क्षां कणां रास्नां शटीं गुडम्
कटुतैलं लिहन्हन्याच्छ्वासान् प्राणहरानपि ४१
शतं सङ्गृह्य भार्ग्यास्तु दशमूल्यास्तथा शतम्
शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ४२
पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते
आलोड्य च तुलां पूतां गुडस्य त्वभयास्ततः ४३
पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत्
शीते च मधुनस्तत्र षट्पलानि विनिक्षिपेत् ४४
त्रिकटुं त्रिसुगन्धञ्च पलमात्रं पृथक् पृथक्
यवक्षारं कर्षयुग्मं सञ्चूर्ण्य प्रक्षिपेत्ततः ४५
भक्षयेदभयामेकां लेहस्यार्द्धपलं तथा
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ४६
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः
नाम्ना भार्गीगुडः ख्यातो भिषग्भिः सकलैर्मतः ४७
अष्टाङ्गचूर्णसंयुक्तं छागक्षीरं प्रयोजयेत्
श्वासं कासान्वितं घोरं हन्यादेतन्न संशयः ४८
दशमूलरसो देयः श्वासनिर्मूलशान्तये
अवश्यंमरणीयो यो जीवेद्वर्षशतं नरः४९
रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला
एतानिकर्षमात्राणि मरिचं चाष्टकर्षकम् ५०
कटुत्रयं कर्षयुग्मं पृथगत्र विनिक्षिपेत्
रसः श्वासकुठारोऽय सर्वश्वासनिवारणः ५१
इति चतुर्दशः श्वासाधिकारः समाप्तः १४

स्वरभेदाधिकारः[सम्पाद्यताम्]

पञ्चदशः स्वरभेदाधिकारः १५
अत्युच्चभाषणविषाध्ययनाभिघातसन्दुषणैः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः
स्वरं भवति चापि हि षड्विधः सः १
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च २
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ३
ब्रूयात्कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात्४
सर्वात्मके भवति सर्वविकारसम्पत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ५
धूम्येत वाक्क्षयकृते क्षयमाप्नुयाच्च स्यादेव चापि गतवाक्परिर्जनीयः ६
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ७
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भश्च स्वरामयो नैव स सिद्धिमेति ८
वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः
योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम्
कफे सक्षारकटुकं क्षौद्रं कवल इष्यते
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः
तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति
आद्ये कोष्णं जलं पेयं भुक्त्वा घृतरसौदनम्
क्षीराम्बुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रि तः ९
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
पिबेन्मूत्रेण मतिमान्कफजे स्वरसङ्क्षये १०
निदिग्धिकातुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु
तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम् ११
जले द्रो णद्वये क्वाथ्यं गृह्णीयादाढकं ततः
पूते क्षिपेत्तदर्द्धन्तु पुराणस्य गुडस्य च १२
सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत्
अष्टौ पलानि पिप्पल्यास्त्रिजातकपलं तथा १३
मरिचस्य पलं चैकं सर्वमेकत्र चूर्णितम्
मधुनः कुडवं दत्वा तदश्नीयाद्यथाऽनलम् १४
निदिग्धिकाऽवलेहोऽय भिषग्भिर्मुनिभिर्मतः
स्वरभेदहरो मुख्यः प्रतिश्यायहरस्तथा १५
कासश्वासाग्निमान्द्यादीन्गुल्ममेहगलामयान्
आनाहमूत्रकृच्छ्राणि हन्याद् ग्रन्थ्यर्बुदानिच १६
मृगनाभिः ससूक्ष्मैला लवङ्गकुसुमानि च
त्वक्क्षीरी चेति लेहोऽय मधुसर्पिः समायुतः
वाक्स्तम्भमुग्रंजयतिस्वरभ्रंशसमन्वितम् १७
ब्राह्मी वचाऽभया वासा पिप्पली मधुसंयुता
अस्य प्रयोगात्सप्ताहात्किन्नरैः सह गीयते १८
इति पञ्चदशः स्वरभेदाधिकारः १५

अरोचकाधिकारः[सम्पाद्यताम्]

षोडशोऽरोचकाधिकारः १६
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन १
कट्वम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्त्रम्
माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन २
अरोचकं शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात्
स्वाभाविकञ्चास्यमथारुचिश्च त्रिदोषजे नैकरसं भवेच्च ३
हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकम्
श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद् वैगुण्यमोहजडताभिरथापरञ्च ४
प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वाद्यते नरः
अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु ५
चिन्तयित्वा तु मनसा दृष्ट्वा स्पृष्ट्वा तु भोजनम्
द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते ६
कुपितस्य भयार्त्तस्य तथा भक्तविरोधिनः
यत्र नान्नेभवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते ७
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम् ८
शृङ्गबेररसंवाऽपि मधुना सह योजयेत्
अरुचिश्वासकासघ्नं प्रतिश्यायकफापहम् ९
पक्वाम्लीका सिता शीतवारिणा वस्त्रगालिता
एलालवङ्गकर्पूरमरिचैरवधूलिता १०
पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः
अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा ११
राजिकाजीरकौ भृष्टौ भृष्टं हिङ्गु सनागरम्
सैन्धवं दधि गोः सर्वं वस्त्रपूतं प्रकल्पयेत् १२
तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा
तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम् १३
सम्यगावर्त्तितं दुग्धं निबद्धं दधि माहिषम्
एकीकृत्य पटे घृष्टं शुभ्रशर्करया समम् १४
एलालवङ्गकर्पूरमरिचैश्च समन्वितम्
नाम्ना शिखरिणी कुर्याद्रुचिं सकलवल्लभाम् १५
द्वे पले दाडिमाम्लस्य खण्डं दद्यात्पलत्रयम्
त्रिसुगन्धि पलं चैकं चूर्णमेकत्र कारयेत् १६
तच्चूर्णं मात्रया भुक्तमरोचकहरं परम्
दीपनं पाचनं च स्यात् पीनसज्वरकासजित् १७
लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम्
जलं सकृष्णागुरुभृङ्गकेशरं कणा च विश्वा नलदं सहेलया १८
तुषारजातीफलवंशरोचनाः सिताऽद्धभागाः सकलं विचूर्णितम्
सुरोचनं तर्पणमग्निदीपनं बलप्रदं वश्यतमं त्रिदोषजित् १९
उरोविबन्धं तमकं गलग्रहं सकासहिक्काऽरुचियक्ष्मपीनसम्
ग्रहण्यतीसारमुरःक्षतं नृणां तथा प्रमेहान्निखिलान्निहन्ति च २०
यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसैः
बदराम्लञ्च कुर्वीत चतुःशाणमितानि च
सार्द्धद्विशाणं मरिचं पिप्पली दशशाणिका २१
त्वक्सौवर्चलधान्याकजीरकं द्विद्विशाणिकम्
चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत् २२
चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम्
चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीज्वरम् २३
छर्दिशोषातिसारांश्च प्लीहानाहविबद्धताम्
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् २४
इति षोडशोऽरोचकाधिकारः समाप्तः १६

छर्द्यधिकारः[सम्पाद्यताम्]

अथ सप्तदशश्छर्द्यधिकारः १७
अतिद्र वैरतिस्निग्धै रहृद्यैर्लवणैरपि
अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः १
आमाद्भयात्तथोद्वेगाद जीर्णात्क्रिमिदोषतः
नार्याश्चापन्नसत्त्वाया स्तथाऽतिद्रुतमश्नतः
बीभत्सैर्हेतुभिश्चान्यैर्भुक्तमुत्क्लिश्यते बलात् २
दुष्टदोषैः पृथक्सर्वैर्विभत्सालोकनादिभिः
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ३
हृल्लासोद्गारसंरोधौ प्रसेको लवणास्यता
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ४
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ५
हृत्पार्श्वपीडामुखशोष शीर्षनाभ्यर्त्तिकासस्वरभेदतोदः
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ६
कृच्छ्रेण चाल्पं महता च वेगेनार्त्तोऽनिलाच्छर्दयतीव दुःखम् ७
मूर्च्छापिपासामुखशोष मूर्द्धताल्वक्षिसन्तापतमोभ्रमार्त्तः
पीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत्सदाहम् ८
तन्द्रा ऽस्यमाधुर्यकफप्रसेक सन्तोषनिद्रा ऽरुचिगौरवार्त्तः
स्निग्धं घनं स्वादु कफाद्धि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ९
असात्म्यजा च कम्जाऽमजा च बीभत्सजा दौर्हृदजा च या हि
सा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ११
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १२
कासः श्वासो ज्वरस्तृष्णाहिक्कावैचित्त्यमेव च
हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः१३
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
सचन्द्रि कां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेन्निरुपद्र वां च १४
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्
विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि १५
हन्यात्क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्
मुद्गामलकयूषो वा ससर्पिष्कः स सैन्धवः १६
गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम्
पिबेन्मधुयुतं तेन छर्दिर्नश्यति पित्तजा १७
हरीतकीनां चूर्णन्तुलिह्यान्माक्षिकसंयुतम्
अधोमार्गीकृते दोषे छर्दिः शीघ्रं निवर्त्तते १८
विडङ्गत्रिफलाविश्वा चूर्णं मधुयुतं जयेत्
विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् १९
पिष्ट्वा धात्रीफलं लाजाञ्छर्कराञ्च पलोन्मिताम्
दत्वा मधुपलञ्चापि कुडवं सलिलस्य च
वाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम् २०
गुडूच्या रचितं हन्ति हिमं मधु समन्वितम्
दुर्निवारामपि च्छर्दिं त्रिदोषजनितां बलात् २१
एलालवङ्गगजकेशरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्
चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्दिं
निहन्ति कफमारुतपित्तजाताम् २२
अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जले
तज्जलं पानमात्रेण छर्दिं जयति दुर्जयाम् २३
पथ्यात्रिकटुधान्याक जीरकाणां रजो लिहन्
मधुना नाशयेच्छर्दिमरुचिञ्च त्रिदोषजाम् २४
बिल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
छर्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा २५
आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करः
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् २६
जम्ब्वाम्रपल्लवशृतं लाजरजः संयुतं शीतम्
शमयति मधुना युक्तं वमिमतिसारं तृषामुग्राम् २७
बीभत्सजां हृद्यतमैरिष्टैर्दौर्हृदजां फलैः
लङ्घनैरामजां छर्दिं जयेत्सात्म्यैरसात्म्यजाम् २८
कृमिहृद्रो गवद्धन्याच्छर्दिं कृमिसमुद्भवाम्
तत्र तत्र यथादोषं क्रियां कुर्याच्चिकित्सकः २९
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः
समधुकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ३०
सौवर्चलमजाजी च शर्करा मरिचानि च
क्षौद्रे ण सहितं लीढं सद्यश्छर्दिनिवारणम् ३१
इति सप्तदशश्छर्द्यधिकारः सम्पूर्णः १७

तृष्णाऽधिकारः[सम्पाद्यताम्]

अष्टादशस्तृष्णाऽधिकारः १८
भयश्रमाभ्यां बलसङ्क्षयाद्वाऽप्यूर्ध्वं चितं पित्तविवर्द्धनैश्च
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम् १
स्रोतःस्वपां वाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽमसमुद्भवा च
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः
सर्वाणि रूपाणि भवन्ति तस्यामुत्पत्तिकाले तु विशेषतो हि ३
क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ४
मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च ५
वाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य
निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ६
क्षतस्य रुक्छोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु ७
रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतस्तु निशादिनेषु
पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ८
त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री ९
स्निग्धं तथाऽम्ल लवणञ्च भुक्तं गुर्वन्नमेवाशु तृषां करोति १०
दीनस्वरः प्रताम्यन्दीनाननहृदयशुष्कगलतालुः
भवति खलु सोपसर्गा तृष्णा सा शोषिणी कष्टा ११
ज्वरमोहक्षयकासश्वासाद्युप सृष्टदेहानाम्
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्
घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १२
वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् १३
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते
स्वादु तिक्तं द्र वं शीतं पित्ततृष्णाऽपहं परम् १४
मुस्तपर्पटकोदीच्यच्छत्राख्यो शीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये १५
लाजोदकं मधुयुतं शीतं गुडविमर्दितम्
काश्मरीशर्करायुक्तं पिबेत्तृष्णाऽदितो नरः १६
आस्तरणमार्द्र वासः प्रावरणं चार्द्र वासः स्यात्
तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां नियतम् १७
गोस्तनीक्षुरसक्षीरयष्टी मधुमधूत्पलैः
नियतं नासिकापीते तृष्णा शाम्यति दारुणा १८
वैशद्यं जनयत्यास्ये सन्दधाति मुखे जलम्
तृष्णादाहप्रशमनं मधुगण्डूषधारणम् १९
जिह्वातालुगलक्लोमशोषे मूर्ध्नि निधापयेत्
केशरं मातुलुङ्गस्य घृतसैन्धवसंयुतम् २०
दाडिमं बदरं लोध्रं कपित्थं बीजपूरकम्
पिष्ट्व्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः २१
वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्
पाययेद्वामयेच्चाथ तेन तृष्णा प्रशाम्यति २२
प्रातः शर्करयोपेतः क्वाथो धान्याकसम्भवः
जयेत्तृष्णां तथा दाहं भवेत्स्रोतोविशोधनम् २३
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् २४
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः
क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुरोदकं वा २५
आमोद्भवां बिल्ववचायुतानां जयेत्कषायैरथ दीपनानाम्
गुर्वान्नजामुल्लिखनैर्जयेच्च क्षयं विना सर्वकृताञ्च तृष्णाम् २६
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्
अतिरोगदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पयः २७
मूर्च्छाच्छर्दितृषानाह स्त्रीमद्यभृशकर्षिताः
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये २८
सात्म्यान्नपानभेषज्यैस्तृष्णां तस्य जयेत्पुनः
तस्यां जितायामन्योऽपि व्याधिःशक्यश्चिकित्सितुम् २९
तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ३०
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वारयेत् ३१
अन्नेनापि विना जन्तुः प्राणान्धारयते चिरम्
तोयाभावात्पिपासार्त्तः क्षणात्प्राणैर्विमुच्यते ३२
इत्यष्टादशस्तृष्णाऽधिकारः समाप्तः १८

मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः[सम्पाद्यताम्]

अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः १९
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः १
करणायतनेषूग्रो बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः २
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ३
सुखदुःव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्त्तिता ४
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ५
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलक्षयः
सर्वासां पूर्वरूर्पाणि यथास्वं तां विभावयेत् ६
नीलं वा यदि वा कृष्णमाकाशमथ वाऽरुणम्
पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ७
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसम्भवे ८
रक्तं हरितवर्णं वा वियत्पीतमथापि वा
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ९
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे १०
मेघसङ्काशमाकाशं तमोभिर्वा घनैर्वृतम्
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ११
गुरुभिः प्रावृतैरङ्गैर्यथैवाद्रे र्ण! चर्मणा
सप्रसेकःसहृल्लासो मूर्च्छाये कफसम्भवे १२
सर्वाकृतिः सन्निपातादपस्मार इवागतः
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः १३
पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
द्र व्यस्वभावमित्येके दृष्ट्वा यदभिमुह्यति १४
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः १५
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ १६
मद्येन प्रलपञ्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन्भूमौ जरां यावन्न याति तत् १७
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं ययास्वं विषलक्षणैः १८
मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद् भ्रमः
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा १९
इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
निद्रा ऽत्तस्येव यस्येहा तस्य तन्द्रा ं! विनिर्दिशेत् २०
योऽनायासः श्रमो देहे प्रवृद्धः श्वाससङ्गतः
क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः २१
यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः
विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः २२
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः २३
स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् २४
दोषेषु मदमूर्च्छाया गतवेगेषु देहिनः
स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना २५
सेकावगाहा मणयःसहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि २६
सिद्धानिवर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवो लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्रा ः! २७
कोलमज्जोषणोशीरकेसरं शीतवारिणा
पीतं मूर्च्छां जयेल्लीढ्वा कृष्णां वा मधुसंयुताम् २८
शीतेन तोयेन बिसं मृणालं कृष्णां च पथ्यां मधुनाऽवलिह्यात्
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् २९
द्रा क्षासितादाडिमलाजवन्ति कह्लारनीलोत्पलपद्मवन्ति
पिबेत्कषायाणि च शीतलानि पिबेज्ज्वरं यानि शमं नयन्ति ३०
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ३१
अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्रो हि भवति भाषितं भिषजां वरैः ३२
मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ३३
रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिः
मद्यजायां पिवेन्मद्यं निद्रा ं! सेवेत वा सुखम्
विषजायां विषघ्नानि भेषजानि प्रयोजयेत् ३४
प्रभूतदोषस्तमसोऽतिरेकात्सम्मूर्छितो नैव विबुध्यते यः
संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्तितोऽसौ ३५
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ३६
लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च
आत्मगुप्ताऽवघर्षश्च हितस्तस्य प्रबोधने ३७
कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्
शीतसेकावगाहादीन्सर्वाङ्गे पीडनं हठात् ३८
ताम्रचूर्णसमोशीरं केशरं शीतवारिणा
पीतं मूर्च्छां द्रुतं हन्याद् वृक्षमिन्द्रा शनिर्यथा ३९
पिबेद् दुरालभाक्वाथं सघृतं भ्रमशान्तये
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ४०
ताम्रं दुरालभाक्वाथः पीतन्तु घृतसंयुतम्
निवारयेद् भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ४१
तुरङ्गलालालवणोत्तमेन्दुमनः शिलामागधिकामधूनि ४२
नियोज्य तान्यक्ष्णि विमिश्रितानि तन्द्रा ं! सनिद्रा ं! विनिवारयन्ति ४३
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ४४
शुण्ठीकणोग्रालवणोत्तमानि नस्येन तन्द्रा विजयोल्वणानि
क्षुद्रा ऽमृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ४५
इत्येकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा सन्यासाधिकारः समाप्तः १९

मदात्ययाधिकारः[सम्पाद्यताम्]

अथ विंशो मदात्ययाधिकारः २०
मद्यं स्वभावतः प्राज्ञैर्यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं रसायनम् १
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् २
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ३
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः
स्निग्धोष्णैस्तादृशैरन्नैर्वातप्रकृतिकः पिबेत् ४
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः
फलैरन्नैः सह नरः पित्तप्रकृतिकः पिबेत् ५
श्लैष्मिको जाङ्गलैर्मांसैर्मरिचैर्मदिरां पिबेत्
प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ६
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति
वातिकस्तु पिबेन्मद्यं प्रायो गौडिकपैष्टिकम् ७
कफपित्तात्मको यस्तु माध्वीकं माधवं पिबेत्
विधिर्वसुमतामेष कथितश्चरकादिभिः
यथोपपत्तिकं वाऽपि पिबेन्मद्यं हि मात्रया ८
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रि यात्मनाम्
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ९
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् १०
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुकरं तथा
रुक्षं विकासि विशदं मद्यं दशगुणं स्मृतम् ११
गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् १२
गौरवं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादञ्चाशु भावनात् १३
रौक्ष्यात्स्नेहं व्यवायित्वात् स्थिरत्वं सूक्ष्मतामपि
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्र तां तथा १४
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्यकुरुते मदम् १५
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम् १६
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः
जायन्ते मोहनिद्रा न्ता इत्येतन्मदलक्षणम् १७
हर्षमोजो बलं पुष्टिमारोग्यं पौरुषं तथा
युक्त्या पीतं करोत्याशु मद्यं मदसुखप्रदम् १८
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् १९
स्वापनं नष्टनिद्रा णां मूकानां वाग्विशोधनम्
नाशनं चातिनिद्रा णां विबन्धानां विबन्धनुत् २०
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्
अपि प्रवयसां मद्यमुत्सर्गान्मोदकारकम् २१
बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् २२
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्द्धनश्च
सम्पाठगीतस्वरवर्द्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि २३
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाऽकृतिरप्रशान्तः
आलस्यनिद्रा ऽभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन २४
गच्छेदगम्यां न गुरुंश्च मन्येत्खादेदभक्ष्याणि च नष्टसञ्ज्ञः
ब्रूयाच्च गुह्यानि हृदि स्थितानिमदे तृतीये पुरुषोऽस्वतन्त्रः २५
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
कार्याकार्यविभागज्ञो मृतादपि परो मृतः २६
को मदं तादृशं गच्छेदुन्मादमिव चापरम्
बहुदोषमिवामूढः कान्तारं स्ववशः कृती २७
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः २८
मेदःकफाधिका मन्दवातपित्तं दृढाग्नयः
विपर्ययेऽतिमाद्यन्ति विष्टब्धाः कुपिताश्च ये
मद्येन चाम्लरुक्षेण साजीर्णे बहुनाऽपि च २९
विषस्य ये गुणा दृष्टा सन्निपातप्रकोपणाः
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ३०
तस्मादविधिपीतेन तथा मात्राऽधिकेन च
युक्तेन चाहितैरन्नैरकालेसेवितेन च ३१
मद्येन खलु जायन्ते मदात्ययमुखा गदाः ३२
निर्भुक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत्कष्टतमान्विकारानुत्पादयेच्चापि शरीरभेदम् ३३
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ३४
अत्यम्लरुक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ३५
मद्योत्पन्नविकारान् विवृणोति
पानात्ययं परमदं पानाजीर्णमथापि च
पानविभ्रममत्युग्रं तेषां वक्ष्यामि लक्षणम् ३६
शरीरदुःखं बलवत्प्रमोहो हृदयव्यथा
अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ३७
शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ३८
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ३९
छर्दिर्विड्भेद उत्क्लेशो वातपित्तकफात्मकः
श्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ४०
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ४१
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ४२
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्षितः
रुक्षाल्पप्रमिताशी च यः पिवत्यतिमात्रया ४३
रूक्षं परिणतं मद्यं निशि निद्रा ं! निहत्य च
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ४४
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ४५
तीक्ष्णोष्णमद्यमम्लं च योऽतिमात्रं निषेवते
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽज्ञानवान्नरः
तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ४६
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ४७
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ४८
अव्यायामदिवास्वप्नशय्यासनसुखे रतः
मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ४९
छर्द्यरोचकहृंल्लासतन्द्रा स्तैमित्यगौरवैः
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ५०
त्रिदोषो हेतुभिः सर्वैः सर्वैर्लिङ्गैर्मदात्ययः ५१
श्लेष्मक्षयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ५२
आध्मानमुग्रमथवोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि ५३
हृद्गात्रतोदकफसंस्रवकण्ठधूम मूर्च्छावमीमदशिरोरुजनप्रदेहाः
द्वेषः सुराऽन्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः ५४
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभाऽस्यमपि पानहतं त्यजेच्च
जिह्वौष्ठदन्तमसितन्त्वथ वाऽपि नीलम्पीते च यस्य नयने रुधिरप्रभे च
हिक्का ज्वरो वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं त्यजेत्तम् ५५
मद्योत्थानाञ्च रोगाणां मद्यमेव हि भेषजम्
यथा दहनदग्धानां दहनं स्वेदनं हितम् ५६
मिथ्याऽतिहीनमद्येन यो व्याधिरुपजायते
समेनैव निपीतेन मद्येन स हि शाम्यति ५७
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्
यवानीहपुषाजाजी शृङ्गबेरावचूर्णितम् ५८
सस्नेहैः शक्तुभिर्युक्तमुपदंशैश्चिरोत्थितम्
दद्यात्सलवणं मद्यं वातपैत्तिकशान्तये ५९
मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ६०
चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीपकम्
चूर्णं मद्येन पातव्यं पानात्ययरुजाऽपहम् ६१
लावतित्तिरदक्षाणां रसैश्च शिखिनामपि
पक्षिणां मृगमत्स्यानामानूपानां तथौदनैः ६२
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः
स्निग्धैर्गोधूमकैरन्नैर्वातप्रायं मदात्ययम् ६३
नारीणां यौवनोष्माणां निर्दयैरुपगूहनैः
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखप्रदैः ६४
शयनाच्छादनैरुष्णैश्चान्तर्गेहैः सुखप्रदैः
मारुतैः प्रबलैः शीघ्रं प्रशाम्यति मदात्ययः ६५
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः
सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ६६
मद्यं खर्जूरमृद्वीकापरूषकरसैर्युतम्
सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ६७
सशर्करं वा माध्वीकं संयुक्तमथ वा परम्
दद्याद्बहूदकं काले पातुं पित्तमदात्यये ६८
शशान्कपिञ्जलानेणांल्लावानसितपुच्छकान्
मधुराम्लान्प्रयुञ्जीत भोजने शालिषष्टिकान् ६९
पटोलयवमिश्रं वा छागलं कल्पयेद्र सम्
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ७०
द्रा क्षाऽमलकखर्जूरपरूषकरसेन च
कल्पयेत्तर्पणान्यूषान् रसांश्च विविधात्मकान् ७१
शीतानि चान्नपानानि शीतशय्यासनानि च
शीतवातजलस्पर्शाः शीतान्युपवनानि च ७२
क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च
चन्दनोदकशीतानां स्पर्शाश्चन्द्रा शुं!शीतलाः ७३
रुक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम्
यवगोधूमकञ्चान्नं रुक्षयूषेण भोजयेत् ७४
कुलत्थकानां शुष्काणां मूलकानां रसेन वा
प्रभूतकटुसंयुक्तं यवान्नं वा प्रदापयेत् ७५
छागमांसरसं रुक्षमम्लं वा जाङ्गलं रसम्
व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ७६
स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम्
कट्वम्ललवणं मांसं खादेत्कफमदात्यये ७७
वामकद्र व्ययुक्तेन मद्येनोल्लेखनं मतम्
मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ७८
यदिदं कर्म्मनिर्दिष्टं वातपित्तकफान्प्रति
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ७९
सगुडः कूष्माण्डरसः शमयति मदमाशु कोद्र वजम्
धत्तूरजञ्च दुग्धं सशर्करं चाशु पानेन ८०
सच्छर्दिमूर्च्छाऽतीसारं मदं पूगफलोद्भवम्
सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ८१
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणादपि च
शाम्यति पूगफलोद्भवमदः सशूलः सशर्कराकवलात् ८२
तत्क्षणान्मृदितं चूर्णं समाघ्रातं प्रणाशयेत्
ताम्बूलोत्थं मदं पुंसामेकमेव स्वभावतः ८३
जातीफलमदं शीघ्रं हन्ति पथ्या निषेविता
शीततोयावगाहश्च शर्करा दधियोजिता
बिभीतमदशान्त्यर्थमियमेव मता पुनः ८४
मद्यं पीत्वा यदि ना तत्क्षणमवलेढि शर्करां सघृताम्
जातु न मदयति मद्यं मनागपि प्रथितवीर्यमपि ८५
इति विंशो मदात्ययाधिकारः समाप्तः २०

दाहाधिकारः[सम्पाद्यताम्]

अथैकविंशो दाहाधिकारः २१
पित्तज्वरसमः पित्ताद् दाहः स्यात्तस्य संक्रमः १
कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम्
सन्धूप्यते चोष्यते च ताम्राभस्ताम्रलोचनः
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते २
असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुस्तरः ३
त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ४
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्
स बाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्काश्य वेपते ५
धातुक्षयोत्थो यो दाहस्तत्र मूर्च्छातृषाऽन्वितः
क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः ६
मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः ७
सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ८
शतधौतघृताभ्यक्तं लेपं वा यवशक्तुभिः
कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान् ९
छादयेत्तस्य सर्वाङ्गमारनालार्द्र वाससा
लामज्जकेन युक्तेन चन्दनेनानुलेपयेत्
चन्दनाम्वुकणास्यन्दितालवृन्तोपवीजनैः १०
सुप्याद् दाहार्दितोऽम्भोजकदलीदलसंस्तरे
परिषेकावगाहेषु व्यजनानाञ्च सेवने ११
शस्यते शिशिरं तोयं दाहतृष्णोपशान्तये
फलिनी लोध्रसेव्याम्बुहेमपत्रं कुटन्नटम्
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् १२
ह्रीबेरपद्मकोशीरचन्दनाम्बुजवारिणा
सम्पूर्णामवगाहेत द्रो णीं दाहार्दितो नरः १३
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः १४
पाययेत्कमलस्याम्भः शर्कराऽम्भ पयोऽपि च
क्षीरमिक्षुरसञ्चापि कारयेत्पित्तजिद्विधिम् १५
पटीरपर्पटोशीरनीर नीरदनीरजैः
मृणालमिसिधान्याकपद्मकामलकैः कृतः १६
अर्द्धशिष्टः सिताशीतः पीतः क्षौद्र समन्वितः
क्वांथो व्यपोहयेद् दाहं नृणाञ्च परमोल्बणम् १७
तिलतैलं भवेत्प्रस्थं तत्षोडशगुणे शनैः
काञ्जिके विपचेत्तत्स्याद्दाहज्वरहरं परम् १८
इत्येकविंशोदाहाधिकारः समाप्तः २१

उन्मादाधिकारः[सम्पाद्यताम्]

अथ द्वाविंश उन्मादाधिकारः २२
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः १
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च २
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमा च चेष्टा ३
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् ४
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्यं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
रुक्षाल्पशीतान्नविरेकधातुक्ष योपवासैरनिलोऽतिवृद्धः
चिन्ताऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ७
अस्थानहास्यस्मितनृत्यगीतवा गङ्गविक्षेपणरोदनानि पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम् ८
अजीर्णकट्वम्लविदाहशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ९
अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्र वणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषा पीता च भा पित्तकृतस्य लिङ्गम् १०
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः
बुद्धिं स्मृतिञ्चाप्युपहन्ति चित्तं प्रमोहयन्सञ्जनयेद्विकारम् ११
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा
छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके स्यात् १२
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्
सर्वाणि रूपाणि बिभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १३
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः १४
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमूढः १५
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः श्यावाननो विषकृते तु भवेत्परासुः १६
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरूको ह्यसन्देहमुन्मादेन विनश्यति १७
अमत्तर्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः
प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनसो विकारः १८
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो ऽप्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः १९
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः २०
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः २१
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः २२
प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिलाषी तद्भक्तो भवति पितृग्रहाभिजुष्टः २३
यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्किण्यौ मुहुरपि जिह्वयाऽवलेढि
क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः २४
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विविधबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः २५
देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः
आत्मपीडाकरोऽहिस्रो ब्रह्मराक्षससेवितः २६
उद्बस्त्रः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टंस्त्रसति रुदन्पिशाचजुष्टः २७
स्थूलाक्षो द्रुतमटनः सफेनवामी निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे २८
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ २९
पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः
रक्षःपिशाचा रात्रौ च चतुर्दश्यां विशन्ति हि ३०
वातिके स्नेहपानं प्राग्विरेकः पित्तसम्भवे
कफजे वमनं कार्यं परो वस्त्यादिकः क्रम
यच्चोपद्रे क्ष्यते किञ्चिदपस्मारे चिकित्सितम्
उन्मादे तच्च कर्त्तव्यं सामान्याद् दोषदूष्ययोः ३१
जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
रक्षेदुन्मादिनं यत्नात्सद्यः प्राणहरं हि तत् ३२
ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः
दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः ३३
सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च
मञ्जिष्ठा त्रिफला श्वेता कटभी त्वक् कटुत्रयम् ३४
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ३५
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा
अपस्मारविषोन्मादकृत्याऽलक्ष्मीज्वरापहम् ३६
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते
सर्पिरेतेन संसिद्धं सगोमूत्रं तदर्थकृत् ३७
ब्रूयादिष्टविनाशञ्च दर्शयेदद्भुतानि च
बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे ३८
कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत्
कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे ३९
सर्पेणोद्धृतदंष्ट्रेण दशेत्सिंहैर्गजैश्च तम्
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा ४०
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ४१
देहदुःखभयेभ्यो हि यतः प्राणभयं भवेत्
ततस्तस्य शमं याति सर्वतो विप्लुतं मनः ४२
इष्टद्र व्यविनाशेन मनो यस्याभिहन्यते
तस्य तत्सदृशप्राप्त्या ज्ञात्वाऽश्वासैः शमं नयेत् ४३
त्र्! यूषणं हिङ्गु लवणं वचा कटुकरोहिणी
शिरीषस्य करञ्जस्य बीजं गौराश्च सर्षपाः ४४
गोमूत्रपिष्टैरेभिस्तु वर्तिर्नेत्राञ्जने हिता
हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम् ४५
कुष्ठाश्वगन्धे लवणाजमोदे द्वेजीरके त्रीणि कटूनि पाठा
मङ्गल्यपुष्पी च समान्यमूनि सर्वैः समानाञ्च वचां विचूर्ण्य ४६
ब्राह्मीरसेनाखिलमेव भाव्यं वारत्रयं शुष्कमिदं हि चूर्णम्
अक्षप्रमाणं मधुना घृतेन लिह्यान्नरः सप्त दिनानि चूर्णम् ४७
सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा
हिताय सर्वलोकानां दुर्मेधानां विचेतसाम् ४८
एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः
सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम् ४९
विश्वाऽजमोदरजनीद्वयसैन्धवोग्रायष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम्
चूर्णं प्रभातसमये लिहतः ससर्पिर्वाग्देवता निवसति स्वयमेव वक्त्रे ५०
क्वाथे विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम्
पादशेषं प्रकर्त्तव्यमेष क्वाथविधिः स्मृतः ५१
दशमूली तथा रास्ना वातारिस्त्रिवृता बला
मूर्वा शतावरी चेति क्वाथैस्तु कुडवैः पृथक् ५२
कृतैः क्वाथैर्घृतप्रस्थद्वयं मृद्वग्निना पचेत्
कल्कीकृतैर्वक्ष्यमाणद्र व्यैः सम्यक् पुनः पचेत् ५३
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्
स्थिराऽनन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम् ५४
नीलोत्पलैला मञ्जिष्ठा दन्ती दाडिमकेसरम्
विडङ्गं ह्यग्निपत्री च कुष्ठं चन्दनपद्मके ५५
तालीशपत्रं बृहती मालतीकुसुमं नवम्
अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक् ५६
चतुर्गुणं जलं दत्वा पिष्टैस्तद्विपचेद् घृतम्
महाचैतसनामेदं सर्वचेतोविकारनुत् ५७
अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः
वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके ५८
म्रूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु च
पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च ५९
देवादिहतचित्तानां गद्गदानामचेतसाम्
शस्तं स्त्रीणाञ्च वन्ध्यानां धन्यमायुर्बलप्रदम् ६०
अलक्ष्मी पापरक्षोध्नं सर्वग्रहनिवारणम्
हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम् ६१
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ६२
कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम्
अञ्जनं सर्वदेवादिकृतोन्मादहरं परम्६३
ॠक्षजम्बुकलोमानि शल्लकी लशुनं तथा
हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ६४
कल्याणकञ्च युञ्जीत महद् वा चैतसं घृतम्
तैलं नारायणं वाऽथ महानारायणं तथा ६५
ॠते पिशाचादन्येषु प्रतिकूलं न वाऽचरेत्
रोगिणंभिषजं यत्ते क्रुद्धा हन्युर्महौजसः ६६
इति द्वाविंश उन्मादाधिकारः समाप्तः २२

अपस्माराधिकारः[सम्पाद्यताम्]

अथ त्रयोविंशोऽपस्माराधिकारः २३
चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते १
वातात्पित्तात्कफात्सर्वैर्दोषैः स स्याच्चतुर्विधः २
तमःप्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
अपस्मार इति ज्ञेयो गदो घोरतरो हि सः ३
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ ४
कम्पते प्रदशेद्दन्तान्फेनोद्वामी श्वसित्यपि
अभितोऽरुणवर्णानि पश्येद्रू पाणि चानिलात् ५
पीतफेनाङ्गवक्त्राक्षः पीतासृगूपदर्शनः
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिके ६
शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः
पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ७
समस्तैर्लक्षणैरेतैर्वि ज्ञातव्यस्त्रिदोषजः
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ८
प्रस्फुरन्तञ्च बहुशः क्षीणं प्रचलितभ्रुवम्
नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ९
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः
अपस्मारं प्रकुर्वन्ति वेगं किञ्चिदथान्तरम् १०
तैलेन लशुनः सेव्यः पयसा च शतावरी
ब्राह्मीरसश्च मधुना सर्वापस्मारभेषजम् ११
चूर्णः सिद्धार्थकादीनां भक्षितैरथवाऽपि तैः
गोमूत्रपिष्टैः सर्वाङ्गलेपैः शाम्यत्यपस्मृतिः १२
सिद्धार्थशिग्रुकट्वङ्गकिणिहीभिः प्रलेपनम्
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् १३
निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः
उपैति सहसा नाशमपस्मारो महागदः १४
मनोह्वा तार्क्ष्यविष्ठा च शकृत्पारावतस्य च
अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः १५
यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः
अपस्मारं महाघोरं चिरोत्थं स जयेद् ध्रुवम् १६
कूष्माण्डकफलोत्थेन रसेन परिपेषितम्
अपस्मारविनाशाय यष्ट्याह्वं स पिबेत्त्र्यहम् १७
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्
पुराणं स्यादपस्मारोन्मादग्रहहरं परम् १८
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम् १९
हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता
दशमूलीजलं तस्य कल्याणाख्यं प्रयोजयेत् २०
पञ्चकोलं समरिचं त्रिफला विडसैन्धवम्
कृष्णाविडङ्गपूतीकयवानीधान्यजीरकम्
पीतमुष्णाम्बुना चूर्णं वातश्लेष्मामयापहम् २१
अपस्मारे तथोन्मादेऽप्यर्शसां ग्रहणीगदे
एतत्कल्याणकं चूर्णं नष्टस्याग्नेश्च दीपनम् २२
द्वौ कीटमेढ्रौ विधिवदानीय रविवासरे
कण्ठे भुजे वा सन्धार्य जयेदुग्रामपस्मृतिम् २३
शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः
बस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ २४
उन्मादेषु यदुद्दिष्टं पथ्यं नस्याञ्जनौषधम्
अपस्मारेऽपि तत्सर्वं प्रयोक्तव्यं भिषग्वरैः २५
मृतसूताभ्रलोहञ्च शिलागन्धञ्च तालकम्
रसाञ्जनञ्च तुल्यांशं नरमूत्रेण मर्दयेत् २६
तद्गोलद्विगुणं गन्धं लौहपात्रे क्षणं पचेत्
पञ्चगुञ्जोन्मितं भक्ष्यमपस्मारहरं परम् २७
व्योषं सौवर्चलं हिङ्गु नरमूत्रेऽजसर्पिषा
पिबेत्कर्षमितं पश्चाद्र सोऽय भूतभैरवः २८
इति त्रयोविंशोऽपस्माराधिकारः समाप्तः २३

वातव्याध्यधिकारः[सम्पाद्यताम्]

अथ चतुर्विंशो वातव्याध्यधिकारः २४
कषायकटुतिक्तकप्रमितरुक्षलघ्वन्नतः पुरः पवनजागरप्रतरणाभिघातश्रमैः हिमादनशनात्तथा निधुवनाच्च
धातुक्षयान्मलादिरयधारणान्मदनशोकचिन्ताभयैः १
अतिक्षतजमोक्षणाद्गदकृतातिमांसक्षयादतीववमनान्नृणामति विरेचनादामतः पयोदसमये दिनक्षण दयोस्तृतीयांश योर्ज रामति गतेऽशिते शिशिरसञ्ज्ञकालेऽपिच २
देहेस्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
करोति विविधान् रोगान्सर्वाङ्गैकाङ्गसंश्रयान् ३
शिरोग्रहोऽल्पकृशता जृम्भाऽत्यर्थं हनुग्रहः
जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ४
वाचालता प्रलापञ्च रसानामनभिज्ञता
बाधिर्यं कर्णनादश्च स्पर्शाज्ञत्वं तथाऽदितम् ५
मन्यास्तम्भोऽत्र गणितो बाहुशोषोऽपबाहुकः
वर्णिता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ६
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रतिष्ठीला
तूनी च प्रतितूनी च वह्निवैषम्यमेव च ७
आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च
मुहुश्च मूत्रणं मूत्रनिग्रहो मलगाढता ८
पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परा
कलायखञ्जता चापि खञ्जता पङ्गुता तथा ९
क्रोष्टुशीर्षकखल्ल्यौ च वातकण्टक एव च
पादहर्षः पाददाह आक्षेपो दण्डकाभिधः १०
वातपित्तकृताक्षेपस्तथा दण्डापतानकः
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ११
आन्तरश्च तथा बाह्यो धनुर्वातश्च कुब्जकः
अपतन्त्रोऽपतानश्च पक्षाघातः खिलाङ्गकः १२
कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा
रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नश्च हर्षणम् १३
अङ्गमर्दोऽङ्गविभ्रंशः शिरासंकोच एव च
अङ्गशोषश्च भीरुत्वं मोहश्च चलचित्तता १४
निद्रा नाशः स्वेदनाशो बलहानिस्तथैव च
शुक्रक्षयो रजोनाशो गर्भनाशः परिभ्रमः १५
एत एवाशीतिसंख्या रोगा योगेन रूढितः
वातव्याधीतिनामानो मुनिभिःपरिकीर्त्तिताः १६
मधुरलवणसाम्लस्निग्धस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि
दहनजलदशोषाभ्यङ्गसम्मर्दनानि प्रकुपितपवनानां शान्तिमेतानिकुर्युः १७
अथ विशिष्टानां वातव्याधीनां लक्षणानि चिकित्सा च
रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः शिराः
रुक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः १८
शिरोग्रहे तु कर्त्तव्या शिरोगतमरुत्क्रिया
दशमूलीकषायेण मातुलुङ्गरसेन च
शृतेन तैलेनाभ्याङ्गः शिरोबस्तिश्च युज्यते १९
पीत्वैकं श्वासमनिलः पुनस्त्यजति वेगवान्
आलस्यनिद्रा युक्तश्च स जृम्भ इति कथ्यते २०
शुण्ठी पिप्पल्यूषणं दीप्यकञ्च सिन्धूद्भूतं चेति सर्वे पृथग्वा
तद्रू पं वा सूक्ष्मचूर्णीकृतं वा जृम्भाऽरम्भस्तम्भकृत्स्यात्तदेव २१
जृम्भावेगे समुत्पन्ने शोभने शयने नरम्
स्वापयेत्तेन नियमाज्जृम्भावेगः प्रशाम्यति २२
जृम्भावेगःक्षयं याति कटुतैलेन मर्दनात्
भोजनात्स्वादुभोज्यानां तथा ताम्बूलभक्षणात् २३
जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनुम् २४
करोति विवृतास्यत्वमथ वा संवृतास्यताम्
हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् २५
संवृतं चिबुकं स्निग्धं स्विन्नमुन्नमयेद्भिषक्
विवृतं नमयित्वा तु कुर्यात्प्राप्तामिह क्रियाम् २६
पिप्पलीमार्द्र कञ्चापि सञ्चर्व्य च मुहुर्मुहुः
निष्ठीवेत्तप्ततोयेन शोधयेद्वदनान्तरम् २७
निष्कुष्य लशुनं सम्यक्संक्षुद्य तिलतैलवत्
सैन्धवेनान्वितं खादेद्धनुस्तम्भार्दितो नरः २८
रसोनगुटिकामाषविदलं परिपेष्य च
याजयेत्पिष्टिकां ताञ्च सैन्धवार्द्र कहिङ्गुभिः २९
ततस्तु वटकान्कृत्वा तिलतैले पचेच्छनैः
भक्षयेत्तान्यथावह्निं हनुस्तम्भात्सुखी भवेत् ३०
अभ्यज्य पक्वतैलेन स्वेदयेन्मृदुनाग्नि
वस्तिं विधारयेन्मूर्ध्नि तैलेन परिपूरितम् ३१
समूलपत्रशाखायाः प्रसारण्याः शतं पलैः
सम्यक्संक्षुद्य सलिले द्रो णमात्रे पचेद्भिषक् ३२
सलिलस्य चतुर्थाशं क्वाथं समवशेषयेत्
ततः पलशते तैले तं कषायं पुनः पचेत् ३३
पचेत्पलशतं मस्तु काञ्जिकं मस्तुनः समम्
ततः शुद्धं पचेद् दुग्धं गव्यं तैलाच्चतुर्गुणम् ३४
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचा
शतपुष्पा देवदारु रास्ना च गजपिप्पली ३५
प्रसारणीभवं मूलं मांसी रक्तञ्च चन्दनम्
तथा वातारिमूलञ्च बलामूलञ्च नागरम् ३६
तैलस्य चाष्टमांशेन सर्वकल्कानि साधयेत्
नाम्ना प्रसारणीतैलं विख्यातं तत्प्रयुज्यते ३७
पाने नस्ये शिरोवस्तौ मर्दने स्वेदने तथा
प्रयुक्तं वातजान् रोगान्सर्वानपि विनाशयेत् ३८
विशेषतो हनुस्तम्भं जिह्वास्तम्भं तथाऽदितम्
गद्गदत्वञ्च विश्वाचीं मन्यास्तम्भापबाहुकौ ३९
त्रिकशूलं गृध्रसीञ्च खञ्जतां पङ्गुतां तथा
कलायखञ्जतां खल्लीं स्तम्भं सङ्कोचमेव च ४०
आन्तरं बाह्यमायामं तथा दण्डापतानकम्
धनुर्वातञ्च कुब्जत्वं व्यपोहति न संशयः ४१
क्षीणानां स्थविराणाञ्च वातसङ्कोचितात्मनाम्
प्रसारयेद्यतोऽङ्गानि तदुक्तैषा प्रसारणी ४२
वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
जिह्वास्तम्भः स तेनाद्मपानवाक्येष्वनीशता ४३
जिह्वास्तम्भे यथाऽवस्थं वातव्याधिचिकित्सितम्
सामान्योक्ता क्रिया चात्रार्दितस्यापि हिता मता ४४
आघृत्य वायुः सकफो धमनीः शब्दवाहिनीः
नरान्करोत्यवचनान्मूकमिन्मिनगद्गदान् ४५
अथ गद्गदमिन्मिनमूकानां चिकित्सा
प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोघ्रैः
आजे पयसि सपाठैः सिद्धं सारस्वतं नाम्ना ४६
विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणाज्जित्वा
स्मृतिमतिमेधाप्रतिभाः कुर्यात्सुस्पष्टवाग्भवति ४७
सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ४८
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
तच्चूर्णं सर्पिषा लेह्यं प्रत्यहं भक्षयेन्नरः ४९
एकविशंतिरात्रेण भवेच्छुतिधरो नरः
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ५०
स्वहेतुकुपिताद्वातादसम्बद्धं निरर्थकम्
वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ५१
सतगरवरतिक्तारेवताम्भोदतिक्तानलदतुरगगन्धा भारतीहारहूराः
मलयजदशमूलीशङ्खपुष्प्यः सुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ५२
भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्
रसज्ञा यन्न जानाति रसाज्ञानं तदुच्यते ५३
घर्षेज्जिह्वां जडां सिन्धुत्र्! यूषणैः साम्लवेतसैः
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् ५४
किराततिक्तका कट्वी कुटजस्य फलं त्वचा
ब्राह्मी फलञ्च पालाशं सर्जिका कृष्णजीरकम् ५५
पिप्पली पिप्पलीमूलं चित्रं नागरमूषणम्
एषां कल्कैर्मुहुर्घर्षेज्जिह्विकामार्द्रि कारसैः ५६
तेन सम्यग्विजानाति रसना सकलान् रसान्
कल्कः किराततिक्तादिर्जिह्वायाःशून्यतां हरेत् ५७
स्पृश्यमाना त्वचा या तु शीतोष्णं मृदु कर्कशम्
न जानाति बुधैस्त्वक् सा शून्येति परिकीर्त्तिता ५८
सुप्तवाते त्वसृङ्मोक्षं कारयेद् बहुशो भिषक्
दद्याच्च लवणाङ्गारधूमैस्तैलसमन्वितैः ५९
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च
हसतो जृम्भतो भाराद्विषमाच्छयनासनात् ६०
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयत्यनिलो वक्त्रमर्दितं जनयेत्ततः ६१
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते
शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ६२
ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ६३
वातात्पित्तात्कफाच्च स्यात्त्रिविधं तत्समासतः
लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः ६४
ओष्ठयोः श्वयथुः शूलं चार्दिते वातजे भवेत् ६५
पीतमास्यं ज्वरस्तृष्णापित्तजे मोहधूपने
गण्डे गिरसि मन्यायां शोथः स्तम्भः कफात्मके ६६
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च ६७
स्नेहपानानि नस्यश्च भोज्यान्यनिलहन्ति च
उपनाहाश्च शस्यन्ते नावनं वस्तयोऽदिते ६८
बलया पञ्चमूल्या वा क्षीरं वातात्मके हितम्
दशमूलकषायेण मातुलुङ्गरसेन वा ६९
पिष्टं मांसघृतं जग्ध्वा नवनीतेन सोऽदिती
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ७०
अर्दिते पित्तजे शीतान्स्नेहांश्चैव विनिर्दिशेत्
घृतवस्तिप्रसेकञ्च क्षीरमेकं तथैव च ७१
जिह्मीभूताननो मूको दाहवान्योऽदिती भवेत्
कुर्यात्प्रतिक्रियां तस्य वातपित्तविनाशिनीम् ७२
श्लेष्मभागे क्षयं नीते बृंहणैः समुपाचरेत्
अर्दिते शोथसंयुक्ते वमनं च प्रशस्यते ७३
रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽदितरोगयुक्तः
तस्यार्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात् ७४
दिवास्वप्नासनस्थानविकृतोर्ध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ७५
दशमूलीकृतं क्वाथं पञ्चमूल्याऽपि कल्पितम्
रुक्षं स्वेदं तथा नस्यं मन्यास्तम्भे प्रयोजयेत् ७६
तैलेनाज्येन वा ग्रीवामभ्यज्यार्कदलैरथ
एरण्डपत्रैराच्छाद्य स्वेदयेद् बहुशो भिषक् ७७
कुक्कुटाण्डद्र वैरुष्णैः सैन्धवाज्यसमन्वितैः
ग्रीवां सम्मर्दयेत्तेन मन्यास्तम्भः प्रशाम्यति ७८
अंसदेशे स्थितो वायुः शोषयेदंसबन्धनम्
अंसबन्धनशोषात्स्याद् बाहुशोषः सवेदनः ७९
बाहुशोषे पिबेद् भुक्त्वा सर्पिः कल्याणकं महत्
बलामूलशृतं तोयं सैन्धवेन समन्वितम्
बाहुशोषकरे वाते मन्यास्तम्भे च शस्यते ८०
शिराः सङ्कोच्य बाहुस्थः स कुर्यादपबाहुकम् ८१
परमौषधमपबाहु कमन्यास्तम्भोर्ध्वजत्रुगतरोगे
शीतलजलेन नस्यं तदुपशमं जिङ्गिनी च पुरः ८२
मूलं बलायास्त्वथ पारिभद्र जं तथाऽत्मगुप्तास्वरसं पिबेद्वा
युञ्जीत यो माषरसेन नस्यं भवेदसौ वज्रसमानबाहुः ८३
माषातसीयवकुरण्टककण्टकारी गोकण्टटुण्टुकजटाकपिकच्छतोयैः
कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन चापि ८४
शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलकपुनर्नवया सरण्या
रास्नाबलाऽमृतलताकटुकैर्विपक्वं माषाख्यमेतदपबाहुहरं हि तैलम् ८५
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाची सा निगद्यते ८६
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम्
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामपबाहुके ८७
माषसिन्धुबलारास्ना दशमूलकहिङ्गुभिः
वचाशिवजटाऽख्याभिः सिद्धं तैलं सनागरम् ८८
ऊर्ध्वं भक्ताशनाद्धन्याद् बाहुशोषापबाहुकौ
विश्वाचीमुद्धतां चापि पक्षाघातं तथाऽदितम् ८९
अधःप्रतिहतो वायुः श्लेष्मणा मारुतेन च
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ९०
भागा दश विश्वायास्तत्तुल्या वृद्धदारकस्यापि
त्रय एव च पथ्यायाश्चतुरंशं हिङ्गु सम्भृष्टम् ९१
एकः सैन्धवभागस्तत्तुल्यं चित्रकं चात्र
संवृद्धमूर्ध्ववातं हन्त्येतच्चूर्णितं भुक्तम् ९२
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ९३
आध्माने लङ्घनं पूर्वं दीपनं पाचनं ततः
फलवर्तिक्रियां कुर्याद्वस्तिकर्म च शोधनम् ९४
कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत्
मधुनाऽक्षमितं लिह्याच्चूर्णमाध्माननाशनम् ९५
दारुहैमवतीकुष्ठशताह्वा हिङ्गुसैन्धवैः
लिम्पेदुष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ९६
अभयाऽरग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत्
मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ९७
तानि सङ्कुट्य सर्वाणि जलाढकयुगे पचेत्
तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ९८
निस्त्वग्जैपालबीजानि नवानि पलमात्रया
तनुवस्त्रधृतान्येव तस्मिन्क्वाथे शनैः पचेत् ९९
ज्वालयेदनलं मन्दं यावत्क्वाथो घनो भवेत्
तत खल्वे क्षिपेद्भागानष्टौ जैपालबीजतः १००
भागांस्त्रीन्नागराद् द्वौ च मरिचाद् द्वौ च पारदात्
गन्धकाद् द्वौ च तानीह यावद्यामं विमर्दयेत् १०१
रसो नाराचनामाऽय भक्षितो रक्तिकामितः
जलेन शीतलेनैव रोगानेतान्विनाशयेत् १०२
आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च
उदावर्त्तं तथा गुल्ममुदराणि हरत्यसौ १०३
वेगे शान्ते तु भुञ्जीत शर्करासहितं दधि
ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक् १०४
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम् १०५
प्रत्याध्माने समुत्पन्ने कुर्याद्वमनलङ्घने
दीपनादीनि युञ्जीत पूर्ववद्वस्तिकर्म च १०६
नाभेरधस्तात्सञ्जातः सञ्चारी यदि वाऽचलः १०७
अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नतः
वाताष्ठीलां विजानीयाद् वहिर्मार्गनिरोधिनीम् १०८
एतामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् १०९
अष्ठीलायाः क्रिया कार्या गुल्मस्यान्तरविद्र धेः
चूर्णं हिङ्ग्वादिकं चात्र पिबेदुष्णेन वारिणा ११०
हिङ्गुग्रन्थिक धान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषायोज्यंतदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद् बीजपूरद्र वैः १११
अधो या वेदना याति वर्चोमूत्राशयोत्थिता
भिन्दन्तीव गुदोपस्थं सा तूनी नामतो मता ११२
गुदोपस्थोत्थिता सैव प्रतिलोमं विधाविता
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते ११३
तून्याञ्च प्रतितून्याञ्च प्रशस्ताः स्नेहवस्तयः
पिबेद्वा स्नेहलवणं पिप्पल्यादिमथाम्बुना
उष्णेन रामठं क्षारं प्रगाढमथ वा घृतम् ११४
स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं मतम्
तत्र वातेन या पीडा त्रिकशूलं तदुच्यते ११५
कारयेद्वालुकास्वेदं त्रिकशूलेप्रयत्नतः
यद्वाऽधस्तात्करीषाग्निं धारयेत्सततं नरः ११६
आभाऽश्वगन्धा हपुषागुडूची शतावरी गोक्षुरकश्च रास्ना
श्यामा शताह्वा च शटी यवानी सनागरा चेति समं विचूर्ण्य ११७
सर्वैः समं गुग्गुलुमत्र दद्यात्क्षिपेदिहाज्यञ्च तदर्द्धभागम्
तद्भक्षयेदर्द्धपिचुप्रमाणं प्रभातकाले पयसाऽथ यूषैः ११८
मद्येन वा कोष्णजलेन चापि क्षीरेण वा मांसरसेन वाऽपि
त्रिकग्रहे जानुहनुग्रहे च वाते भुजस्थे चरणस्थिते च ११९
सन्धिस्थिते चास्थिगते च तस्मिन्मज्जस्थिते स्नायुगते च कोष्ठे
रोगान् हरेद्वातकफानुविद्धान् वातेरितान् हृद्ग्रहयोनिदोषान् १२०
भग्नास्थिविद्धेषु च खञ्जतायां सगृध्रसीके खलु पक्षघाते
महौषधं गुग्गुलुमेतमाहुस्त्रयोदशाङ्गं भिषजः पुराणाः १२१
मारुतेऽविगुणे वस्तौ मूत्रं सम्यक्प्रवर्त्तते
विकारा विविधाश्चापि तस्मिन्दुष्टे भवन्ति हि १२२
बलामूर्वात्वचश्चूर्णं ससितं कर्षसम्मितम्
पिबेत्कुडवदुग्धेन मुहुर्मूत्रणशान्तये १२३
पथ्याबिभीतधात्रीणां चूर्णं चूर्णं मृतायसः
मधुना सह संलीढं मुहुर्मूत्रणशान्तिकृत् १२४
यवक्षारस्य चूर्णस्तु संयोज्य सितया सह
भक्षयेन्नियतं तस्य प्रशाम्येन्मूत्रनिग्रहः १२५
कूष्माण्डस्य तु बीजानि बीजानि त्रपुषस्य च
वस्तौ सन्धारयेत्तेन प्रशाम्येन्मूत्रनिग्रहः १२६
आमलक्याश्च कल्केन वस्तिभागं प्रलेपयेत्
तेन प्रशाम्यति क्षिप्रं नियमान्मूत्रनिग्रहः १२७
मेहनस्याथ योनेर्वा मुखस्याभ्यन्तरे शनैः
घनसारयुतां वर्त्तिं धारयेन्मूत्रनिग्रहे १२८
स्फिक्पूर्वोरुकटीपृष्टजानुजङ्घापदं क्रमात्
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः १२९
वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः
वातजायां भवेत्तोदो देहस्यातीव वक्रता १३०
जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् १३१
वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्दवम्
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च १३२
गृध्रस्यार्त्तं नरं सम्यग् रेकेण वमनेन वा
ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत् १३३
नादौ वस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति
स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतं यथा १३४
तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः
मासमेकं प्रयोगोऽय गृध्रस्यूरुग्रहापहः १३५
तैलं घृतं चार्द्र कमातुलुङ्गरसं सचुक्रं सगुडं पिबेद्वा
कट्युरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्त्तहरः प्रयोगः १३६
निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
तत्पानन्तु कटीशूले गृध्रस्यां परमौषधम् १३७
एरण्डमूलं बिल्वञ्च बृहती कण्टकारिका
कषायोरुचकोपेतः पीतो वङ्क्षणवस्तिजम्
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च १३८
गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् १३९
सिंहास्यदन्तीकृतमालकानां पिबेत्कषायं रुबुतैलमिश्रम्
यो गृध्रसीनष्टगतिः प्रसुप्तः स शीघ्रगः स्याद्धि किमत्र चित्रम् १४०
बृहन्निम्बतरोः सारो वारिणा परिपेषितः
स पीतो नाशयेत्क्षिप्रमसाध्यामपि गृध्रसीम् १४१
शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः
दुर्वारं गृध्रसीरोगं पीतमात्रः प्रणाशयेत् १४२
रास्नायास्तु पलं चैकं पञ्चकर्षाणि गुग्गुलोः
सर्पिषावटिकां कृत्वा भक्षयेद् गृध्रसीहरीम् १४३
रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठत्रिकपार्श्वशूली १४४
पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्
प्रस्थेन युक्तञ्च पलङ्कषाणां द्रो णे जले संस्थितमेकरात्रम् १४५
अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत्तत्पुनरेव लौहे
अमूनि वह्नेरवतार्य दद्याद् द्र व्याणि सञ्चूर्ण्य पलार्द्धकानि १४६
विडङ्गदन्तीत्रिफलागुडूची कृष्णात्रिवृन्नागरकोषणानि
यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि १४७
निषेव्यमाणो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च
प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् १४८
पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः
बलेन नागेन समं मनुष्यं जवेन कुर्यात्तुरगेण तुल्यम् १४९
आयुः प्रकर्षं विदधाति चक्षुर्बलं तथा पुष्टिकरो विषघ्नः
क्षतस्य सन्धानकरो विशेषाद्रो गेषु शस्तः सकलेषु तज्ज्ञैः १५०
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा
खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् १५१
उपाचरेदभिनवं खञ्जं पङ्गुमथापि च
विरेकास्थापनस्वेदगुग्गुलुस्नेहवस्तिभिः १५२
कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् १५३
क्रमः कलायखञ्जस्य खञ्जपङ्ग्वोरिव स्मृतः
विशेषात्स्नेहनं कर्म कार्यमत्र विचक्षणैः १५४
वातशोणितजः शोथो जानुमध्ये महारुजः
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् १५५
गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाऽम्भसा
क्षीरेणैरण्ड तैलं वा पिबेद्वा वृद्धदारकम् १५६
रसैस्तित्तिरमांसस्य पीतेर्गुग्गुलुसंयुतैः
वातरक्तक्रियाभिश्च जयेज्जम्बूकमस्तकम् १५७
खल्लीतु पादजङ्घोरुकरमूलावमोटिनी १५८
कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः
सुखोष्णो मर्दने योज्यः खल्लीशूलनिवारणः १५९
रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते यदा
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् १६०
रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके
पिबेदैरण्डतैलं वा दहेत्सूचीभिरेव च १६१
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणे पाददाहं तमादिशेत् १६२
वातरक्तक्रमं कुर्यात्पाददाहे विशेषतः
मसूरविदलैः पिष्टैः शृतशीतेन वारिणा
चरणौ लेपयेत्सम्यग्पाददाहप्रशान्तये १६३
नवनीतेन संलिप्तौ वह्निना परिता पितौ
मुच्येते चरणौ क्षिप्रं परितापात्सुदारुणात् १६४
हृष्येते चरणौ यस्य भवतश्च प्रसुप्तकौ
पादहर्षः स विज्ञेयः कफवातप्रकोपजः १६५
पादहर्षे तु कर्त्तव्यः कफवातहरो विधिः १६६
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
तदा क्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चलः
मुहुराक्षेपणाद्वायुराक्षेपक इति स्मृतः १६७
पित्तश्लेष्मान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं चान्यं चतुर्थमभिघातजम् १६८
पाणिपादशिरः पृष्ठश्रोणीः स्तभ्नाति मारुतः
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः १६९
कफावृतो यदा वायुर्धमनीष्वेव तिष्ठति
स दण्डवत्स्तम्भयति कृच्छ्रो दण्डापतानकः १७०
बलामूलकषायस्य दशमूलीशृतस्य च
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा १७१
अष्टावष्टौ स्मृता भागास्तैलादेकस्तदेकतः
पचेदवाप्य मधुरं गणं सैन्धवसंयुतम् १७२
तथाऽगुरुं सर्जरसं सरलं देवदारु च
मञ्जिष्ठां पद्मकं कुष्ठमेलां कालानुसारिवाम् १७३
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् १७४
तत्साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत् १७५
एतन्महाबलातैलं प्रयुक्तमविलम्बितम्
सर्वानाक्षेपकादींस्तु वातव्याधीन्व्यपोहति १७६
हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम्
षण्मासादुपयुक्तं तदन्त्रवृद्धिञ्च नाशयेत् १७७
यथाबलमतो मात्रां सूतिकायै च दापयेत्
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् १७८
क्षीणवाते मर्महते ह्यभिघातहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैतत्प्रयुज्यते १७९
एतद्धि राज्ञा कर्त्तव्यं कर्त्तव्यं राजपूजितैः
सुखिभिः सुकुमारैश्च धनिभिर्मानवैः सदा १८०
अङ्गुलीगुल्फजठरहृद्व क्षोगलसंश्रितः
स्नायुप्रतानमनिलस्तदाऽक्षिपतिवेगवान् १८१
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् १८२
अभ्यन्तरे धनुरिव यदा नमति मानवः
तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली १८३
महाहेतुर्बली वायुःसशिराः स्नायुकण्डराः
मन्यापृष्ठाश्रिता बाह्यः संशोष्यानामयेद् बहिः १८४
यत्र तं बहिरायामं प्रवदन्ति भिषग्वराः
तमसाध्यं बुधाः प्राहुर्वक्षः कट्यूरुभञ्जनम् १८५
बाह्यायामेऽन्तरायामे विधेयाऽदितवत्क्रिया १८६
धनुस्तुल्यो नमेद्यस्तु स धनुः स्तम्भसञ्ज्ञितः
विवर्णो बद्धवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुःस्तम्भी दशरात्रं न जीवति १८७
हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरुक्
क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् १८८
बाह्यायामेऽन्तरायामे धनुःस्तंभे च कुब्जके
योज्यं प्रसारणीतैलं तेन तेषां शमो भवेत् १८९
वातव्याधिषु सामान्या याः क्रियाः कथिताः पुरा
कर्त्तव्या एव ताः सर्वास्तैलमेतद्विशेषतः १९०
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
पीडयन्हृदयं गत्वा शिरः शङ्खौ च पीडयन् १९१
धनुर्वन्नमयेद्गात्राण्या क्षिपेन्मोहयेत्तथा
स कृच्छ्रादुच्छ्वसेदुच्चैः स्तब्धाक्षोऽथ निमीलकः
कपोत इव कूजेच्च निः संज्ञः सोऽपतन्त्रकः १९२
अथापतन्त्रकेणार्त्तमातुरं नापतर्पयेत्
निरूहवस्तिं वमनं सेवयेन्न कदाचन १९३
श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत्
तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति १९४
मरिचं शिग्रुबीजानि विडङ्गश्च फणिज्जकम्
एतानिसूक्ष्मचूर्णानि दद्याच्छीर्षविरेचने १९५
हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम् १९६
घृतमार्द्र कसंयुक्तमपतन्त्रकनाशनम्
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् १९७
दृष्टिं संस्तभ्य संज्ञाश्च हत्वा कण्ठेन कूजति
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
वायुना दारुणं प्राहुरेके तमपतानकम् १९८
गर्भजातनिमित्तश्च शोणितातिस्रवाच्च यः
अभिघातनिमितश्च न सिध्यत्यपतानकः १९९
अथापतानकेनार्त्तमस्रुता क्षमवेपनम्
अखट्वापातिनं चैव त्वरया समुपाचरेत् २००
अपतानकिने शस्तं दशमूलीशृतं जलम्
पिप्पलीचूर्णसंयुक्तं जीर्णं मांसरसौदनम् २०१
तैलेन मर्दनं चैव तथा तीक्ष्णं विरेचनम्
स्रोतोविशोधनं पश्चात् सर्पिष्पानं हितं स्मृतम् २०२
हन्त्यभुक्तवता पीतमम्लं दध्यपतानकम्
मरिचेन समायुक्तं स्नेहवस्तिरथापि वा २०३
गृहीत्वाऽद्ध तनोर्वायुः शिरा स्नायूर्विशोष्य च
पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन् २०४
कृत्स्नोऽद्धकायस्तस्य स्यादकर्मण्यो विचेतनः
एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः २०५
दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते २०६
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् २०७
गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
पक्षाघातं परिहरेद्वेदनारहितो यदि २०८
अथ पक्षाघातचिकित्सा
माषात्मगुप्तावातारिवाट्यालकजटाशृतम् २०९
हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत्
माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः २१०
ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम्
माषाक्वाथशृतं तैलं पक्षाघातं व्यपोहति २११
माषात्मगुप्ताऽतिविषोरुबूकरास्नाशताह्वालवणैः सुपिष्टैः
चतुर्गुणे माषबलाकषाये तैलं शृतं हन्ति हि पक्षघातम् २१२
सर्वाङ्गपवने क्रुद्धे गात्रस्फुरणभञ्जने
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः २१३
सर्वाङ्गगतमेकाङ्गगतञ्चापि समीरणम्
तैलावगाहनं हन्ति तोयवेगमिवाचलः २१४
स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् २१५
प्रथमं ह्रस्वकेशत्वं ततो वाचालताऽपि च
आटोपः पार्श्वशूलञ्च पुरीषस्यातिगाढता २१६
तथा मलाप्रवृत्तिश्च कम्पः स्तम्भश्च रूक्षता
कार्श्यं कार्ष्ण्यञ्च शैत्यञ्च लोमहर्षो व्यथा तथा २१७
तोदो भेदः शिरास्फूर्त्तिरङ्गमर्दोऽङ्गशुष्कता
संकोचश्चाङ्गविभ्रंशो मोहश्चञ्चलचित्तता २१८
निद्रा नाशः स्वेदनाशो बलहानिश्च भीरुता
शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः २१९
सामान्यवातरोगाणां या चिकित्सा प्रवक्ष्यते
एषां सातु विधातव्या तयैते यान्ति संक्षयम् २२०
एवंविधानि रूपाणि करोति कुपितोऽनिलः
हेतुस्थानविशेषेण भवेद्रो गविशेषकृत् २२१
उदाने पित्तसंयुक्ते दाहो मूर्च्छा भ्रमः क्लमः
अस्वेदहर्षौ मन्दाग्निः शीतता च कफावृते २२२
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
दौर्बल्यं सदनं तन्द्रा वैरस्यञ्च कफावृते २२३
स्वेदो दाहस्तृषा मूर्च्छा समाने पित्तसंयुते
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते २२४
अपाने पित्तसंयुक्ते दाहौष्ण्यं रक्तमूत्रता
अधःकाये गुरुत्वञ्च शीतता च कफावृते २२५
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
स्तम्भोऽथ दण्डकश्चापि शूलशोथौ कफावृते २२६
वाते सपित्ते कुर्वीत वातपित्तहरीः क्रियाः
सकफे तत्र कुर्वीत वातश्लेष्महरीं क्रियाम् २२७
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च सर्वरुक्त्वग्गतेऽनिले २२८
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
गात्रे चारूंषि भुक्तस्यस्तम्भश्चासृग्गतेऽनिले २२९
गुर्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा
सरुक्स्तिमितमत्यर्थं वाते मांससमाश्रिते २३०
तथा मेदःश्रितः कुर्याद् ग्रन्थीन्मन्दरुजो व्रणान् २३१
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः सतता रुक् च वाते दुष्टेऽस्थिसंस्थिते
वाते मज्जगते पीडा न कदाचित्प्रशाम्यति २३२
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः २३३
वायौ त्वगाश्रिते स्नेहाभ्यङ्गं स्वेदञ्च कारयेत्
रक्तस्थे शीतलांल्लेपान्विरेकं रक्तमोक्षणम् २३४
मांसमेदोगते वाते सविरेकं निरूहणम्
अस्थिमज्जगते स्नेहं बहिरन्तश्च योजयेत् २३५
केतकनागबलाऽतिबलानां यद्बहुलेन रसेन विपक्वम्
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति २३६
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् २३७
अथ स्थानविशेषेण वातव्याधिविशेषाः
वाते कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलञ्च जायते २३८
पाचनीयै रसेर्युक्तैरन्यैर्वा पाचयेन्मलान्
विशेषतः पिबेत्क्षीरं नरः कोष्ठगतेऽनिले २३९
हृत्पार्श्वोदरनाभीरुक्तृष्णोद्गारविसूचिकाः
कासः कण्ठास्यशोषश्च श्वासश्चामाशयेऽनिले २४०
आमाशयस्थे त्वनिले प्रशस्तं प्राग् लङ्घनं दीपनपाचनञ्च
प्रच्छर्दनं तीक्ष्णविरेचनं वा मुद्गा यवाः शालियुताः पुराणाः २४१
भूतीकपथ्याशटिपुष्कराणि बिल्वामृतादारुकनागराणि
उग्राविषामागधिकाविडानिक्वाथास्त्रयः सामसमीरणघ्नाः २४२
चित्रकेन्द्र यवौ पाठा कटुकातिविषाऽभया
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना २४३
योगेऽस्मिन्भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक्
दिनेषु षट्सु दातव्यास्तेन षड् धरणः स्मृतः २४४
आमाशयगते वाते छर्दिताय यथाक्रमम्
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना २४५
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् २४६
वह्नेः सम्वर्द्धनं कार्यं कर्मौदावर्त्तकं तथा
देयः स्नेहविरेकश्च पक्वाशयगतेऽनिले २४७
वाते जठरगे दद्यात्क्षारचूर्णादि दीपनम् २४८
शुण्ठीकुटजबीजाग्निचूर्ण कोष्णाम्बु कुक्षिगे २४९
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
जङ्घोरुत्रिकपार्श्वांसपृष्ठरोगी गुदेऽनिले २५०
वाते गुदगते दुष्टे कर्मोदावर्त्तकं हितम् २५१
हृदयानिलनाशाय गुडूचीं मरिचान्विताम्
पिबेत्प्रातः प्रयत्नेन सुखं तप्ताम्भसा सह
पिबेदुष्णाम्भसा पिष्टमाश्वगन्धं बिभीतकम्
गुडयुक्तं प्रयत्नेन हृदयानिलनाशनम्
देवदारुसमायुक्तं नागरं परिपेषितम्
हृद्वातवेदनायुक्तः पीत्वा सुखमवाप्नुयात् २५२
श्रोत्रादिष्विन्द्रि यवधं कुर्यात्क्रुद्धः समीरणः २५३
श्रोत्रादिष्वनिले दुष्टे कार्यो वातहरः क्रमः
स्नेहाभ्यङ्गावगाहाश्च मर्दनालेपनानि च २५४
कुर्याच्छिरागतः शूलं शिराकुञ्चनपूरणम्
स बाह्याभ्यन्तरायामं खल्लीं कुब्जत्वमेव च २५५
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
वाते शिरोगते कुर्यात्तथा चासृग्विमोक्षणम् २५६
शूलमाक्षेपकः कम्पः स्तम्भः स्नाय्वनिलाद्भवेत्
स्वेदोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
क्रुद्धे स्नायुगते वाते कारयेत्कुशलो भिषक् २५७
हन्ति सन्धिगतः सन्धीञ्छूलशोथौ करोति च २५८
कुर्यात्सन्धिगते वाते दाहस्नेहोपनाहनम्
इन्द्र वारुणिकामूलं मागधीगुडसंयुतम्
भक्षयेत्कर्षमात्रं तत्सन्धिवातं व्यपोहति २५९
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः
कालेन महता यत्नात्सिध्यन्ति न च वा न वा २६०
नवान् बलवतां त्वेतान् साधयेन्निरुपद्र वान् २६१
विसर्पदाहरुग्भङ्गमूर्च्छाऽरुच्यग्निमार्दवैः
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादतः २६२
शूनं सुप्तत्वचं म्लानं कम्पाध्माननिपीडितम्
रुजाऽत्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् २६३
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् २६४
अथ वातव्याधीनां सामान्यानि भेषजानि
माषस्यार्द्धाढकं देयं तुलार्द्धं दशमूलतः
पलानि च्छागमांसस्य त्रिंशद्द्रो णेऽम्भसः पचेत् २६५
चतुर्भागावशेषं तं कषायमवतारयेत्
प्रस्थञ्च तिलतैलस्य पयो दद्याच्चतुगुर्णम् २६६
जीवनीयानि मञ्जिष्ठा चव्यं चित्रककट्फलम्
सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम् २६७
आत्मगुप्ता तथैरण्डः शताह्वा लवणत्रयम्
देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी २६८
एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना
पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा २६९
कर्णशूले शिरः शूले तिमिरे च त्रिदोषजे
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे २७०
कलायखञ्जे पङ्गौ च गृध्रस्यामपबाहुके
पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णादिपूरणे २७१
तैलमेतत्प्रशंसन्ति सर्ववातविकारनुत्
महामाषादिनामेदं भाषितं मुनिभिः पुरा २७२
माषा यवातसीक्षुद्रा मर्कटी च कुरण्टकः २७३
गोकण्टष्टुण्टुकश्चैषां प्रत्येकं पलसप्तकम्
चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत् २७४
कार्पासकास्थि बदरं शणबीजं कुलत्थकम्
पृथक्चतुर्दशपलं चतुर्गुणजले पचेत् २७५
कषायं तत्र गृह्णीयाच्चतुर्थांशावशेषितम्
प्रस्थञ्च च्छागमांसस्य चतुःषष्टिपले जले २७६
प्रक्षिप्य पाचयेद्धीमान्पादशेषं रसं नयेत्
तैलप्रस्थे ततः क्वाथान्सर्वास्तान्क्रमतः पचेत् २७७
कल्कद्र व्यैः पचेदेभिरमृताकुष्ठसैन्धवैः
रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया २७८
बलाप्रसारणीभ्याञ्च मांस्या कटुकया तथा
पृथक्कर्षमितैरेतैः साधयेन्मृदुनाग्निना २७९
हन्यात्तैलमिदं शीघ्रं वातव्याधीनशेषतः
आक्षेपकं पक्षघातमूरुस्तम्भापबाहुकौ
हस्तकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा २८०
अश्वगन्धाबलाबिल्वं पाटलाबृहतीद्वयम्
श्वदंष्ट्रातिवलानिम्बश्योनाकञ्च पुनर्नवाम् २८१
प्रसारणीमग्निमन्थं कुर्याद्दशपलं पृथक्
चतुद्रो र्णे! जले पक्त्वा पादशेषं शृतं नयेत् २८२
तैलाढकेन संयोज्य शतावर्या रसाढकम्
प्रक्षिपेत्तत्र गोक्षीरं ततस्तैलाच्चतुर्गुणम् २८३
पृथक्पलमितैः कल्कैर्द्र व्यैरेभिः पचेद्भिषक्
वचाचन्दनकुष्ठैलामांसीशैलेयसैन्धवैः २८४
अश्वगन्धाबलारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण प्रसाधयेत् २८५
तत्तैलं भोजनेऽभ्यङ्गे पाने वस्तौ च योजयेत्
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् २८६
कुब्जत्वं बधिरत्वञ्च गतिभङ्गं कटीग्रहम्
गात्रशोषेन्द्रि यध्वंसं शुक्रनाशं ज्वरक्षयान् २८७
अन्त्रवृद्धिं कुरण्डञ्च दन्तरोगं शिरोग्रहम्
पार्श्वशूलञ्च पङ्गुत्वं बुद्धिनाशञ्च गृध्रसीम् २८८
अन्यांश्च विविधान्वातान्हरेत्सर्वाङ्गसंश्रयान्
अस्याः प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते २८९
यथा नारायणो देवो दुष्टदैत्यविनाशनः
तथेदं वातरोगाणां नाशनं तैलमुत्तमम् २९०
तिलतैलं समादाय चतुराढकसम्मितम्
पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये २९१
तत्राजं दुग्धमथवा गव्यं तैलसमं पचेत्
शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक् २९२
दशमूली बला रास्ना शिग्रूत्पलपुनर्नवाः
शेफालिका नागबला बला चैव प्रसारणी २९३
अश्वगन्धा सहचरो दशमूलं करञ्जकः
खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम् २९४
वकुलैरण्डवरुणशालयुग्मकटम्भराः
शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम् २९५
काञ्चनारः कपित्थश्च पारिभद्र ः! प्रियालकम्
पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम् २९६
उदुम्बरः सप्तला च कन्यका मालतीत्वचम्
मागधी नलमूलञ्च यवकोलकुलत्थकम् २९७
आत्मगुप्ताऽककार्पासबीजं वत्सादनी स्नुही
केतकीमूलधत्तूरलाङ्गलीगर्दभाण्डकम् २९८
चित्रकञ्च महानिम्बं पञ्चवल्कलमेव च
मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम् २९९ एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत्
पादशेषं परिस्राव्य तत्र तैलं पुनः पचेत् ३००
छागो मेषश्च हरिण एणश्च बहुशृङ्गकः
शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः ३०१
वन्यो वराहः खड्गी च महिषो घोटकस्तथा
कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः ३०२
वर्त्तिकस्तित्तिरिर्लावः खञ्जरीटश्चकोरकः
उलूको नीलकण्ठश्च वन्यकुक्कुट एव च ३०३
गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च
कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा ३०४
रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा
इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च ३०५
महामत्स्यः कच्छपश्च शिशुमारश्च साङ्कुचिः
मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका ३०६
यथालाभममीषाञ्च क्वाथं तैलसमं पचेत् ३०७
रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि
सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च ३०८
एला सयष्टी तगराब्दपत्रं भृङ्गोऽष्टवर्गस्तुवचा पलाशी
स्थौणेयवृश्चीरकचोरकाख्यं मूर्वात्वचं कट्फलपद्मकं च ३०९
मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च
जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च ३१०
कैवर्त्तमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च
सधातकीग्रन्थिकपर्पटाश्च पटोलहेमाह्वजयन्तिकाश्च ३११
त्रायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभात्रिवृतारुणाश्च
द्रा क्षाकणाद्रो णपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च ३१२
नीलोत्पलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च
कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च
लवङ्गकर्पूररसालकाण्डकस्तूरिकाबालकमम्बरञ्च ३१३
कल्कानमीषां विपचेत्सुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम्
शुभे च नक्षत्रमुहूर्त्तलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च ३१४
सम्पूज्य नारायणनामधेयं देवं त्रिनेत्रं जगतामधीशम्
पात्रे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत् ३१५
अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने
पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकित्सकः ३१६
बहुनाऽत्र किमुक्तेन तैलमेतत्प्रयोजितम्
अवश्यं वातजान्व्याधीनशीतिमति नाशयेत् ३१७
एतस्याभ्यासतो जन्तोर्जरा जातु न जायते
पतन्ति वलयो नाङ्गे पलितञ्च न जायते ३१८
नेत्रं तेजस्वि नितरां गरुडस्येव जायते
नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते ३१९
पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते
बुद्धिभ्रंशो न जायेत तस्मात्कर्मसु पाटवम् ३२०
यथा जलेन सिक्तस्य शाखिनः पल्लवादयः
वर्द्धन्ते धातवस्तद्वद् देहिनोऽनेन नित्यशः ३२१
आमं गर्भं त्यजेज्जातु सूतिका रुग्युता च या
याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम् ३२२
वन्ध्या च लभते पुत्रं गर्भपातो न जायते
योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति ३२३
अस्मात्तैलवरादन्यत्कुत्रचिन्नास्ति भेषजम्
बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत् ३२४
पुरा देवासुरे युद्धे दैत्यैरभिहतान्सुरान्
भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽदितान् ३२५
दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम्
तैलं नारायणो देवो महानारायणाभिधम् ३२६
नागरं पिप्पलीमूलंचव्यमूषणचित्रकम्
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् ३२७
रेणुकेन्द्र यवौ पाठा बिडङ्गं गजपिप्पली
कटुकाऽतिविषा भार्गी वचा मूर्वा च पत्रकम् ३२८
देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम्
एला त्रिकण्टकं पथ्या धान्यकञ्च बिभीतकम् ३२९
धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ३३०
यावन्त्येतानि चूर्णानि तावानेवात्र गुग्गुलुः
संमर्द्य सर्पिषा पश्चात्सर्वं संमिश्रयेच्च तत् ३३१
एवं पिण्डच्च तत्कृत्वा धारयेद् घृतभाजने
गुटिकाष्टङ्कमात्रास्तु खादेत्तास्तु यथोचिताः ३३२
आदौ शाणोन्मितं खादेत्सार्द्धशाणं ततः परम्
तदग्रे कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ३३३
गुग्गुलुर्योगराजोऽय महामुख्यो रसायनः
मैथुनाहारपानानां नियमो नात्र विद्यते ३३४
अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदरानपि
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ३३५
प्रमेहं नाभिशूलञ्च कृमिक्षयमुरोग्रहम्
सर्वान्वातामयान्हन्यादामवातमपस्मृतिम् ३३६
वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ३३७
रास्नाऽदिक्वाथसंयुक्तः सर्ववातामयान्हरेत्
काकोल्यादिशृतात्पित्तं कफमारग्वधादिना ३३८
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम्
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ३३९
छिन्नाक्वाथेन वातास्रं शोथं मूलकजाच्छृतात्
पाटलाक्वाथसहितो विषं मूषकसम्भवम् ३४०
त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम्
पुनर्नवाऽदिक्वाथेन हन्ति सर्वोदराण्यपि ३४१
रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम्
सप्तधातुगते वाते सामे सर्वाङ्गगेऽपि चेत् ३४२
युक्तः कल्को रसोनस्य तिलतैलेन सिन्धुना
वातरोगान्हरेत्सर्वाञ्ज्वरांश्च विषमानपि ३४३
क्षीरेण तैलेन घृतेन वाऽपि मांसेन सार्द्धं लशुनानि खादेत्
शाल्योदनेनापि च षष्टिकेन पलार्द्धवृद्ध्या दिवसानि सप्त ३४४
वातोत्थरोगान्विषमज्वरांश्च शूलान्सगुल्मान्दहनस्य मान्द्यम्
प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान् ३४५
अन्नप्रकारैः पललप्रकारैर्गोधूमकैर्वा यवशक्तुभिर्वा
दुग्धेन तैलेन घृतेन वाऽपि युक्तानि शीते लशुनानि खादेत् ३४६
संवर्त्तकैर्लावकपिञ्जलैर्वा मृग्याः पलैर्वाऽप्यथ कौक्कुटैर्वा
वाराहवर्त्तीरकहारिणैर्वा सुसंस्कृतैरग्निबलं समीक्ष्य ३४७
रसोनपक्वकन्दस्य गुलिका निस्तुषीकृताः
पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ३४८
निश्युग्रगन्धनाशाय दध्ना सन्नीय रक्षयेत्
ततः प्रक्षाल्य संशोष्य शिलायां परिपेषयेत् ३४९
कल्कस्य पञ्चमं भागं चूर्णमेषां विनिक्षिपेत्
सौवर्चलं यवानीञ्च भर्जितं हिङ्गु सैन्धवम् ३५०
कटुत्रिकं जीरकञ्च समभागानि चूर्णयेत्
तिलतैलञ्च कल्कस्य तुर्याशं तत्र मिश्रयेत् ३५१
खादेत्कर्षमितं प्रातः किं वा दोषाद्यपेक्षया
अनुपानं प्रकुर्वीत वातारिशृतमन्वहम् ३५२
सर्वाङ्गैकाङ्गजं वातमर्दितञ्चापतन्त्रकम्
अपस्मारं तथोन्मादमूरुस्तम्भञ्च गृध्रसीम् ३५३
उरः पृष्ठकटीपार्श्वकुक्षिपीडां कृमीन्हरेत्
मद्यं मांसं तथाऽम्लञ्च रसं सेवेत नित्यशः ३५४
आयासमातपं रोषमतिनीरं गुडं स्त्रियम्
रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम् ३५५
वर्जयेत्तदतीसारी प्रमेही पाण्डुरोगवान्
अरोचकी गर्भिणी च मूर्च्छाऽशोरोगसंयुतः ३५६
रक्तपित्ती च शोषी च यक्ष्मी छर्द्यर्दितो नरः
पित्ते तु पथ्यभुक्कुर्यात्प्रयोगान्ते विरेचनम् ३५७
अन्यथा तस्य जायन्ते कुष्ठपाण्ड्वामयादयः
स्त्रीस्तन्यं त्वरितं दद्याद्वालानामप्यनिच्छताम् ३५८
तथा च लभते सिद्धिं महावीर्याद्र सोनतः ३५९
रसो गन्धो वरा वह्निर्गुग्गुलुः क्रमवर्द्धितः
तत्रैकभागः सूतः स्याद्गन्धको द्विगुणः स्मृतः ३६०
त्रिभागा त्रिफला योज्या चतुर्भागस्तु चित्रकः
गुग्गुलुः पञ्चभागः स्याद्रुबुतैलेन मर्दयेत् ३६१
क्षित्वा तत्रोदितं चूर्णं तेन तैलेन मर्दयेत्
गुटिकां कर्षमात्रान्तु भक्षयेत्प्रातरेव हि ३६२
नागरैरण्डमूलानां कषायं प्रपिबेदनु
अभ्यज्यैरण्डतैलेन स्वेदयेत्पृष्ठदेशकम् ३६३
विरेकपरिणामे तु स्निग्धमुष्णञ्च भोजयेत्
वातारिसंज्ञको ह्येष रसो नियतसेवितः
मासेन मरुतो रोगान्हरेत्सुरतवर्जिनः ३६४
इति चतुर्विंशो वातव्याध्यधिकारः समाप्तः २४

ऊरुस्तम्भाधिकारः[सम्पाद्यताम्]

अथ पञ्चविंश ऊरुस्तम्भाधिकारः २५
शीतोष्णद्र वसंशुष्क गुरूस्निग्धैर्निषेवितैः
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः १
सश्लेष्ममेदः पवनः साममत्यर्थसञ्चितम्
अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते २
सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन सः
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ३
परकीयाविव गुरू स्यातामतिभृशव्यथौ
ध्यानाङ्गमर्दस्तैमित्यतन्द्रा च्छर्द्य रुचिज्वरैः ४
संयुतौ पादसदनकृच्छ्रोद्धरण सुप्तिभिः
तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ५
प्राग्रूपं तस्य निद्रा तिध्यानं स्तिमितता ज्वरः
रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ६
वातशङ्किभिरज्ञानात्तत्र स्यात्स्नेहनात्पुनः
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ७
जङ्घोरुग्लानिरत्यर्थं शश्वद्वादाहवेदना
पादञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ८
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
अन्य नेयौ हि सम्भग्नावूरूपादौ च मन्यते ९
यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत्
ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् १०
स्नेहासृक्स्राववमनं वस्तिकर्म विरेचनम्
वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ११
तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम्
आममेदः कफाधिक्यान्मारुतं परिरक्षता १२
यत्स्यात्कफप्रशमनं न तु मारुतकोपनम्
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् १३
सर्वो रुक्षः क्रमः कार्यस्तत्रादौ कफनाशनः
पश्चाद्वातविनाशाय विधातव्याखिला क्रिया १४
भोज्याः पुराणाः श्यामाककोद्र वोद्दालशालयः
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः १५
शाकैरलवणैर्दद्याज्जल तैलाज्यसाधितैः
सुनिषण्णकनिम्बार्कवृन्ता रग्वधपल्लवैः १६
वायसीवास्तुकाद्यैश्च साधितैः शाकमूलकैः
शाकैरलवणैर्युक्तं जीर्णे शाल्योदनं भिषक् १७
रूक्षणाद्वातकोपश्चेन्निद्रा नाशार्त्तिपूर्वकः
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः १८
प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम्
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः १९
यथा विशुष्केस्य कफे शान्तिमूरुग्रहो व्रजेत्
शरीरबलमग्निञ्च कार्यैषा रक्षता क्रिया २०
सक्षारमूत्रस्वेदांश्च रुक्षाण्युत्सादनानि च
कुर्याद्दाहे च मूत्राद्यैः करञ्जफलसर्षपैः २१
मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्
पिचुमर्दस्य वा मूलैरथवा देवदारुणः २२
क्षौद्र सर्षपवल्मीक मृत्तिकासंयुतैर्भिषक्
गाढमुत्सादनं कुर्यादूरूस्तम्भे सवेदने २३
दन्तीद्र वन्तीसुरसासर्षपैश्चापि बुद्धिमान्
तर्कारीसुरसाशिग्रुव चावत्सकनिम्बकैः
पत्रमूलफलैस्तोयं शृतमुष्णञ्च सेवनम् २४
भक्लातकामृताशुण्ठीदा रुपथ्यापुनर्नवाः
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः २५
पिप्पली पिप्पलीमूलं भल्लातकफलानि च
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते २६
रास्नाश्यामाकपथ्यामरिचमिसिशिवावेल्लशट्यश्वगन्धा
यासच्छिन्नाजमोदासुमुखमतिविषावृद्धदारौ बृहत्यौ
शुण्ठी तिक्ता यवानी सहचरचविकैरण्डदार्व्याजकर्णा
ऊरुस्तम्भामवातं कफपवनरुजं दण्डकांश्चाशु हन्यात् २७
ग्रन्थिकारुष्ककृष्णानां क्वाथं क्षौद्रा न्वितं पिबेत्
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रे ण कटुकायुतम् २८
सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः
पिप्पलीवर्द्धमानं वा माक्षिकेण गुडेन वा २९
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ३०
शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम्
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ३१
त्रिफला पिप्पली मुस्तं चव्यं कटुकरोहिणी
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः ३२
घृतं सौरेश्वरं दद्यादूरुस्तम्भे कफोत्तरे
दद्याच्छुण्ठीघृतं वापि वैश्वानरमथापि वा
सैन्धवाद्यं हितं तैलममृताख्योपि गुग्गुलुः ३३
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्
अजगन्धाश्वगन्धे च तैलं तैः सार्षपं पचेत् ३४
सक्षौद्र्रं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत् ३५
पलाभ्यां पिप्पलीमूलान्नागरादष्टकट्वरम्
तैलप्रस्थं समं दध्ना गृध्रस्यूरुग्रहापहम् ३६
सस्नेहदधिसम्भूतं तक्रं कट्वरमुच्यते
अष्टकट्वरतैलेच तैलंसार्षपमिष्यते
पिप्पलीमूलशुण्ठ्योश्च प्रत्येकं द्विपलं कृतम् ३७
द्विपञ्चमूली त्रिफला चित्रकं देवदारु च
एकाष्ठीला त्वपामार्गे श्रेयसी वायसी शुभा ३८
बला भार्गी पृथक्पर्णी सुवहा मदयन्तिका
विशालोशीरकाश्मर्यस्तिस्रो देयास्तथाग्निकः ३९
चिरबिल्वो ह्यशोकश्च कलश्यंशुमती तथा
पयस्या पीलुपर्ण्यश्च गुडूची च शतावरी ४०
एषां पञ्च पलान्भागाञ्जलद्रो णेषु सप्तसु
अष्टभागावशेषेण पचेत्तैलाढकं भिषक् ४१
कुष्ठञ्च शतपुष्पा च त्र्! यूषणं चित्रकं वरा
देवदार्वगुरु श्रेष्ठं विडङ्गं मुस्तमेव च ४२
अश्वगन्धा स्थिरा पाठा मूली श्यामाकमेव च
पिप्पल्यः शृङ्गबेरञ्च दन्ती हिङ्ग्वम्लवेतसम् ४३
अनेन गर्भेण भिषक्कषायेण च साधयेत्
सिद्धशीतञ्चपूतञ्च क्षौद्रे ण सह संसृजेत् ४४
तदस्य नस्यपानार्थं तदेवाभ्यञ्जने भवेत् ४५
ऊरुस्तम्भश्चिरोद्भूतस्तैलेनानेन शाम्यति
आमवातं शीतवातं क्षुद्र वातञ्च नाशयेत् ४६
सिन्धुरुग्विश्वजासोग्राभार्गीयष्टीस्थिराफलैः
दारुविश्वशटीधान्यकृष्णाकट्फलपौष्करः ४७
दीप्यकातिविषैरण्डनीलीनीलाम्बुजःपचेत्
तैलं सकाञ्जिकं हन्ति पानाभ्यञ्जननावनैः ४८
आमवातं कृमीन्गुल्मान्प्लीहोदरशिरोरुजः
मन्दाग्निं पक्षसन्ध्यण्डवातस्तम्भगदानपि ४९
द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढके ५०
आरनालात् पञ्च प्रस्थं तैलस्यैरण्डजस्य च
गृध्रस्यूरुग्रहास्यार्त्तिसर्ववातविकारनुत् ५१
इति पञ्चविंश ऊरुस्तम्भाधिकारः समाप्तः २५

आमवाताधिकारः[सम्पाद्यताम्]

अथ षड्विंश आमवाताधिकारः २६
विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्यच
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा १
वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते २
वातपिक्तकफैर्भूयो दूषितः सोऽन्नजो रसः
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ३
जनयत्यग्निदौर्बल्यं हृदयस्य च गौरवम्
व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिरुदारुणः ४
अजीर्णाद्योरसो जातः सञ्चितो हि क्रमेण वै
आमसञ्ज्ञां स लभते शिरोगात्ररुजाकरः ५
युगपत्कुपितावेतौ त्रिकसन्धिप्रवेशकौ
स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते ६
अङ्गमर्दोऽरुचिस्तृष्णा चालस्यं गौरवं ज्वरः
अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ७
स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत्
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ८
करोति सरुजं शोथं यत्र दोषः प्रपद्यते
स देशो रुज्यतेऽत्थ व्याविद्ध इव वृश्चिकैः ९
जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्
उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रताम् १०
कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम्
तृट्छर्दिभ्रममूर्च्छाश्च हृद्र् गहं विडिवबद्धताम्
जाड्यान्त्रकूजनानाहं कष्टांश्चान्यानुपद्र वान् ११
पित्तात्सदाहरागञ्च सशूलं पवनात्मकम्
स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत् १२
एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
सर्वदेहचरैः शोथैः स कष्टं सान्निपातिकः १३
लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च
विरेचनं स्नेहनञ्च वस्तयश्चाममारुते १४
रूक्षः स्वेदोविधातव्यो बालुकापुटकैस्तथा
उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिताः १५
आमवाताभिभूताय पीडिताय पिपासया
पञ्चकोलेन संसिद्धं पानीयं हितमुच्यते १६
शुष्कमूलकयूषं वा यूषं वा पाञ्चमौलिकम्
रसकं काञ्जिकं वाऽपि शुण्ठीचूर्णविचूर्णितम् १७
सौवीरं स्विन्नवार्ताकं तथा तिक्तफलानि च
वास्तूकशाकं सारिष्टशाकं पौनर्नवं हितम् १८
पटोलं गोक्षुरञ्चैव वरुणं कारवेंल्लकम्
यवान्नं कोरदूषान्नं पुराणं शालिषष्टिकम् १९
लावकानां तथा मांसं हितं तक्रेण संस्कृतम्
हितश्च यूषः कौलत्थः कालायश्चणकस्य च २०
रुच्यं दद्याद्यथासात्म्यमामवातहितञ्च यत्
शतपुष्पा वचा विश्वश्वदंष्ट्रावरुणत्वचः २१
पुनर्नवासदेवाह्वाशटीमुण्डितिकाः समाः
प्रसारणी च तर्कारि फलञ्च मदनस्य च २२
शुक्तकाञ्जिकपिष्टं च कोष्णं च लेपने हितम्
अहिंस्रा केबुकान् मूलं शिग्रुर्वल्मीकमृत्तिका २३
मूत्रपिष्टैश्च कर्त्तव्यमुपनाहः प्रलेपनम् २४
चित्रकं कटुकापाठाकलिङ्गाति विषाऽमृताः
देवदारुवचामुस्त नागरातिविषाऽभयाः
पिबेदुष्णाम्बुना नित्यमामवातस्य भेषजम् २५
शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषाऽमृताः
कषायमामवातस्य पाचनं रुक्षभोजनम्२६
पुनर्नवा च बृहतीवर्द्धमानफणिज्जकैः
कल्पयेत्क्वाथमामे तु मूर्वाशिग्रुद्रुमैर्भिषक् २७
सेचनं चामवातस्य रुबूकपयसाऽपि वा २८
लिह्यात्पथ्यां सविश्वां वा मूत्रैर्वा गुग्गुलुं पिबेत्
विश्वाऽलम्बुषयोः कल्कमद्याद्वा तिलविश्वयोः २९
विश्वापथ्याऽमृताक्वाथं कवोष्णं कौशिकान्वितम्
कटीजङ्घोरुपृष्ठानां रुजं पीतं निवर्त्तयेत् ३०
हिङ्गुं चव्यं विडं शुण्ठी कृष्णाऽजाजी सपुष्करम्
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत् ३१
पिप्पली पिप्पलीमूलं सैन्धवं कृष्णजीरकम्
चव्यचित्रकतालीशपत्रकं नागकेशरम् ३२
एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम् ३३
दाडिमात्कुडवञ्चैव द्वे पले चाम्लवेतसात्
सर्वमेकत्र सङ्क्षुद्य योजयेत्कुशलो भिषक् ३४
पिप्पल्याद्यमिति ख्यातं नष्टस्याग्नेश्च दीपनम्
अर्शांसि ग्रहणीं गुल्ममुदरं सभगन्दरम् ३५
कृमिकण्ड्वरुचीर्हन्यात्सुरयोष्णोदकेन वा
नातः परतरं किञ्चिदामवातस्य भेषजम् ३६
पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत्
तक्रेणोष्णोदकेनापि काञ्जिकेनाथ वा पुनः ३७
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि
पीनसं कासहृद्रो गं स्वरभेदमरोचकम् ३८
रसोनविश्वनिर्गुण्डीक्वाथमामार्दितः पिबेत् ३९
रास्नां गुडूचीमेरण्डं देवदारु महौषधम्
पिबेत्सार्वाङ्गिकेवाते सामे सन्ध्यस्थिमज्जगे ४०
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
क्वथितं वारि तत्पेयमामवातविनाशनम् ४१
शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम्
सप्तरात्रं पिबेज्जन्तुरामवातविनाशनम् ४२
रास्नाऽमृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपार्श्वत्रिकपृष्ठशूली ४३
आमवाते कणायुक्तं दशमूलीजलं पिबेत्
खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा ४४
चित्रकेन्द्र यवौ पाठा कटुकाऽतिविषाऽभयाः
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना ४५
पुनर्नवाऽमृता शुण्ठी शताह्वा वृद्धदारुकम्
शटी मुण्डितिका चूर्णमारनालेनपाययेत् ४६
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना
आमवातं निहन्त्याशु गृध्रसीमुद्धतामपि ४७
कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा
आमवातप्रशमनं कफवातहरं परम् ४८
पञ्चकोलकचूर्णन्तु पिबेदुष्णेन वारिणा
मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ४९
आमवातगजेन्द्र स्य शरीरवनचारिणः
एक एव निहन्त्याशु एरण्डतैलकेशरी ५०
एरण्डतैलयुक्ता हरीतकी भक्षयेन्नरोविधिवत्
आमानिलार्त्तियुक्तोगृध्रसीवृद्ध्यर्दितो नियतम् ५१
आरग्वधस्य पत्राणि भृष्टानि कटुतैलतः
आमघ्नानि नरः कुर्यात्सायं भक्तावृतानि च ५२
वायुः कट्याश्रितः शुद्धः सामो वा जनयेद्रुजम्
कटीग्रहः स एवोक्तः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ५३
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः
सामे वाते कटीशूले पाचनं रुक्प्रणाशन् ५४
यवक्षारसमायुक्तं मूत्रकृच्छ्रविनाशनम्
दशमूलीकषायेण पिबेद्वा नागराम्भसा
कटीशूलेषु पातव्यं तैलमेरण्डसम्भवम् ५५
महौषधगुडूच्योश्च क्वाथं पिप्पलिसंयुतम्
पिबेदामे सरुक्कोष्ठे कटीशूले विशेषतः ५६
विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
तत्पायसं कटीशूले गृध्रस्यां परमौषधम् ५७
सर्पिस्तैलं गुडं शुक्तं पञ्चमं विश्वभेषजम् ५८
पीतमेतद्भवेत्सद्यस्तर्पणं कटिशूलनुत्
न हि चैतत्समं किञ्चिन्निरामे कटिमारुते ५९
सुरतरुवल्कलसहितं गोमूत्रं स्थापितन्तु सप्ताहम्
हिङ्गुवचाशत पुष्पासैन्धवयुक्तेन तेनाथ ६०
तत्पुटपक्वं हन्यात्कटीरुजं दारुणं पुंसाम्
आममेदोवृद्धिभवान्विकारांश्चानिलोद्भवान् ६१
अमृतानागरगोक्षुरमुण्डितिकावरुणकैः कृतं चूर्णम्
मस्त्वारनालपीतं सामानिलनाशनं ख्यातम् ६२
अलम्बुषा गोक्षुरकं त्रिफलानागरामृताः
यथोत्तरं भागवृद्ध्या श्यामाचूर्णञ्च तत्समम् ६३
पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा
आमवातं जयत्याशु सशोथं वातशोणितम् ६४
त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम्
अलम्बुषाऽदिकं चूर्णं रोगानीकविनाशनम् ६५
हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात्
प्रत्येकं तेन वा युञ्ज्याद्भागवृद्धिं यथोत्तरम् ६६
अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च
गुडूची नागरञ्चेति समभागानि कारयेत् ६७
काञ्जिकेन तु तत्पेयं विडालपदमात्रकम्
आमवाते प्रवृद्धे च योगोऽयममृतोपमः ६८
अलम्बुषा गोक्षुरकं गुडूची वृद्धदारुकम्
पिप्पली त्रिवृता मुस्ता वरुणं सपुनर्नवम्
त्रिफला नागरञ्चेति सूक्ष्मचूर्णानि कारयेत् ६९
मस्त्वारनालतक्रेण पयोमांसरसेन वा
आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम् ७०
मणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव तु
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ७१
दश द्वौ च हरीतक्याः सूक्ष्मचूर्णीकृतं शुभम्
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा ७२
पीतं जयत्यामवातं गुल्महृद्वस्तिजान्गदान्
प्लीहानं ग्रन्थिशूलादीनानाहं गुदजानि च ७३
विबन्धं जाठरान् रोगान्कटीवस्तिसमुत्थितान्
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ७४
असीतकं मागधिका गुडूची श्यामावराहीगजकर्णशुण्ठीः
समा धृताः कृत्स्नमिदन्तु चूर्णं पिबेत्तदुष्णोदकमण्डयूषैः ७५
तक्रैः रसैर्मद्यसमस्तुभिर्वा यथेष्टचेष्टस्य च भोजनस्य
सबाहुकं गृध्रसिखञ्जवातं विश्वाचितूनीप्रतितूनिरोगान् ७६
जङ्घाऽमवातार्दितवातरक्तं कटीग्रहं गुल्मगुदामयञ्च
सक्रोष्टुकंपाण्डुगरोग्रशोथं हन्यादुरुस्तम्भमुदीर्णवेगम् ७७
शुण्ठीनां षट्पलं पिष्टं धान्यकं द्विपलं तथा
चतुर्गुणं जलं दत्वा घृतप्रस्थं विपाचयेत् ७८
वातश्लेष्मामयान् हन्यादग्निवृद्धिकरं परम्
दुर्नामश्वासकासघ्नं बलवर्णाग्निवर्द्धनम् ७९
सर्पिर्नागरकल्केन सौवीरं तच्चतुर्गुणम्
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम् ८०
पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे
दीपनार्थं मतिमता मस्तुना च प्रकीर्त्तितम् ८१
नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
चतुर्गुणेन तेनाथ केवलेनजलेन वा ८२
वातश्लेष्मप्रशमनमग्निसन्दीपनं परम्
नागरं घृतमित्युक्तं कटीशूलामनाशनम् ८३
हिङ्गुं त्रिकटुकं चव्यं मणिमन्थं तथैव च
कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत् ८४
आरनालाढकं दत्वा तत्सर्पिर्जठरापहम्
शूलं विबन्धमानाहमामवातं कटीग्रहम् ८५
नाशयेद् ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ८६
शृङ्गबेरयवक्षारपिप्पलीमूलपिप्पलद्यः
पिष्ट्वा विपाचयेत्सर्पिरारनालं चतुर्गुणम् ८७
शूलं विबन्धमानाहमामवातं कटिग्रहम्
नाशयेद् ग्रहणीदोषमग्निसन्दीपनं परम् ८८
पिबेद् बिन्दुघृतं वापि धान्वन्तरमथापि वा
महाशुण्ठीघृतं वापि आमवाते पुनः पुनः ८९
यत्किञ्चिल्लेखनं सर्पिर्दीपनं पाचनञ्च यत्
तत्सर्वमामवातेषु योज्यं वा मस्तु षट्पलम् ९०
अजमोदमरिचपिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः
सैन्धवपिप्पलीमूलं भागा नवकस्य पलिकाः स्युः ९१
शुण्ठी दशपलिकास्यात्पलानि तावन्ति वृद्धदारस्य
पथ्यापलानि पञ्च च सर्वाण्येकत्र कारयेच्चूर्णम् ९२
समगुडवटकानदतश्चूर्णं वाप्युष्णवारिणा पिबतः
नश्यन्त्यामानिलजाः सर्वे रोगाः सुकष्टाश्च ९३
प्रतितूनी विश्वाची रोगाश्चान्येऽपि गृध्रसी चोग्रा
कटिपृष्ठगुदस्फुटिनञ्चैवार्त्तिर्जङ्घयोस्तीव्रा ९४
श्वयथुश्च सर्वसन्धिषु ये चान्येऽप्यामवातसम्भूताः
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ९५
क्षुद्बोधमरोगित्वं स्थिरयौवनमथ वलीपलितनाशम्
कुरुते च तथाभ्यासाद् गुणानथान्यांस्तथा सुबहून् ९६
चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा
विडङ्गमजमोदाञ्च जीरके सुरदारु च ९७
चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्
त्रिफलां मुस्तकं व्योषन्त्वगुशीरं यवाग्रजम् ९८
तालीशपत्रं पत्रञ्च सूक्ष्मचूर्णानि कारयेत्
यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम् ९९
सम्मर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत्
अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि
योगराज इति ख्यातो योगोऽयममृतोपमः १००
अग्निमान्द्यामवातादीन् कृमिदुष्टव्रणानपि
प्लीहगुल्मोदरानाहदुर्नामानिविनाशयेत् १०१
अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा
वातरोगाञ्जयत्येष सन्धिमज्जगतानपि १०२
प्रसारण्याढके क्वाथे प्रस्थो गुडरसो मतः
पक्वः पञ्चोषणरजोयुक्तः स्यादामवातहा १०३
नागरस्य पलान्यष्टौ घृतस्य पलविंशतिम्
क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्द्धशतं पचेत् १०४
व्योषत्रिजातकद्र व्यात्प्रत्येकञ्च पलं पलम्
निदध्याच्चूर्णितं तत्र खादेदग्निबलं प्रति १०५
आमवातप्रशमनं बलपुष्टिविवर्द्धनम् १०६
बल्यमायुष्यमोजस्यं वलीपलितनाशनम्
आमवातप्रशमनं सौभाग्यकरमुत्तमम् १०७
पलं शतं रसोनस्य तिलस्य कुडवं तथा
हिङ्गुं त्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च १०८
शतपुष्पा निशा कुष्ठं पिप्पलीमूलचित्रकौ
अजमोदा यवानी च धान्यकञ्चापि बुद्धिमान् १०९
प्रत्येकञ्च पलञ्चैषां श्लक्ष्णचूर्णानि कारयेत्
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडशम् ११०
प्रक्षिप्य तैलमानञ्च प्रस्थार्द्धं काञ्जिकस्य च
खादेत्कर्षप्रमाणन्तु तोयं मद्यं पिबेदनु १११
आमवाते रक्तवाते सर्वाङ्गैकाङ्गसंश्रिते
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च
सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते ११२
प्रसारण्या रसे सिद्धं तैलमेरण्डजं पिबेत्
सर्वदोषहरञ्चैव कफरोगहरं परम् ११३
द्विपञ्चमूलीनिर्यासफलदध्यम्लकाञ्जिकैः ११४
तैलं कट्यूरुपार्श्वार्त्तिकफवातामयान्ग्रहान्
हन्ति वस्तिप्रदानेन करोत्यग्निबलं महत् ११५
सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका
स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्चलं विडम् ११६
वचाजमोदाजरणाः पौष्करं मधुकं कणा
एतान्यर्द्ध पलांशानि सूक्ष्मपिष्टानि कारयेत् ११७
प्रस्थमेरण्डतैलस्य प्रस्थाम्बुशतपुष्पजम्
काञ्जिकं द्विगुणं दत्वा मस्तु च द्विगुणं तथा ११८
एतं सम्भृत्य सम्भारं शनैर्मृद्वग्निना पचेत्
सिद्धमेतत् प्रयोक्तव्यमामवातहरं परम् ११९
पानाभ्यञ्जनवस्तौ च कुरुतेग्निबलं भृशम्
वातार्त्तवङ्क्षणे शस्तं कटीजानूरुसन्धिजे १२०
शूले हृत्पार्श्वजे तद्वद् वृद्धे श्लेष्मणि पीडिते
बाह्यायामार्दितानाहैरन्त्रवृद्धिनिपीडिते
अन्यांश्चानिलजान् रोगान्नाशयत्याशु देहिनाम् १२१
स्वल्पप्रसारणीतैलं तैलं वा सैन्धवादिकम्
दशमूलाद्यतैलेन वस्तिदानं प्रशस्यते १२२
तैलस्य द्विपलं दद्यात्काञ्जिकस्य चतुष्पलम्
दशमूलरसं मूत्रं पृथक्पञ्च पलानि तु१२३
वचा मदनवाट्या वा शताह्वाकुष्ठसैन्धवैः
पिप्पल्यतिविषामुस्तारास्नाकट्फलपौष्करैः १२४
अक्षांशिकैश्च तत्सर्वं मन्थयेत विचक्षणः
प्रस्थार्धं प्रथमं देयो वस्तिर्निरभिशङ्कितः १२५
द्वितीये च तृतीये च वर्जयेत्प्रसृतद्वयम्
सर्ववातविकारेषु मेहेषु वृषणामये १२६
कुक्षौ हृत्पृष्ठपार्श्वेषु जानुजङ्घाकटीग्रहे
विबन्धानाहरोगेषु शर्कराऽश्मरिपीडिते १२७
भग्नविश्लिष्टगात्रेषु पिच्चितेषु क्षतेषु च
एतन्निरुहवत्प्राज्ञो निरायासो महागुणः १२८
दधिमत्स्यगुडक्षीरं पोतकीमाषपिष्टकम्
वर्जयेदामवातार्त्तो मांसमानूपसम्भवम् १२९
अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छलाः
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः १३०
रास्नैरण्डशतावरीसहचरादुःस्पर्शवासामृता
देवाह्वातिविषाभयाघनशटीशुण्ठीकषायःकृतः
पीतः सोरुवुतैल एष विहितः सामे सशूलेनिलं
कट्यूरुत्रिकपृष्ठकोष्ठजठरक्रोडेषु चामार्त्तिजित् १३१
रास्ना वातारिमूलञ्च वासकञ्च दुरालभम्
शटीदारुबलामुस्तनागरातिविषाभयाः १३२
श्वदंष्ट्रा व्याधिघातश्च मिसिधान्यपुनर्नवाः
अश्वगन्धामृताकृष्णा वृद्धदारः शतावरी १३३
वचा सहचरश्चैव चविका बृहतीद्वयम्
समभागान्वितैरेतै रास्नाद्विगुणभागिकैः १३४
कषायं पाययेत्सिद्धमष्टभागावशेषितम्
शुण्ठीचूर्णसमायुक्तमाभाद्येन युतं तथा १३५
अलम्बुषादिसंयुक्त मजमोदादिसंयुतम्
यथादोषं यथाव्याधि प्रक्षेपं कारयेद्भिषक् १३६
सर्वेषु वातरोगेषु सन्धिमज्जगतेषु च
आनाहेषु च सर्वेषु सर्वगात्रानुकम्पने १३७
कुब्जके वामने चैव पक्षाघाते तथार्दिते
जानुजङ्घास्थिपीडासु गृध्रस्यां च हनुग्रहे १३८
प्रशस्तं वातरक्ते स्यादूरुस्तम्भे तथार्शसि
विश्वाचीगुल्महृद्रो गविषूचीक्रोष्टुशीर्षके १३९
अन्त्रवृद्धौ श्लीपदे च योनिशुक्रामये तथा
पुंसां मेढ्रगते रोगे स्त्रीणां वन्ध्यामये तथा १४०
योषितां गर्भदं मुख्यं नास्ति किञ्चिदतः परम्
सर्वेषां पाचनानान्तु श्रेष्ठमेतद्धि पाचनम् १४१
महारास्नादिकं नाम प्रजापतिविनिर्मितम् १४२
रास्नाविश्वविडङ्गानि रुबूकं त्रिफला तथा
दशमूलं पृथक् श्यामा क्वाथो वातामयापहः
अर्द्धावभेदके त्वाढ्ये चार्दिते वातखञ्जके १४३
नेत्ररोगे शिरः शूले ज्वरापस्मारयोस्तथा
मनोभ्रंशे च विविधे कथितञ्च शुभप्रदम् १४४
इति षड्विंश आमवाताधिकारः समाप्तः २६

पित्तव्याध्यधिकारः[सम्पाद्यताम्]

अथ सप्तविंशः पित्तव्याध्यधिकारः २७
कट्वम्लोष्णविदाहि तीक्ष्णलवणक्रोधोपवासातप
स्त्रीसम्भोगतृषा क्षुधाभिहननव्यायाममद्यादिभिः
मध्ये चापि हि भोजनस्य जरता भुक्तेन मध्यन्दिने
मध्याह्ने रजनी निदाधशरदोः पित्तं करोत्यामयान् १
अकालपलितं नेत्ररक्तता मूत्ररक्तता
नेत्रास्यपीतता तद्वन्मूत्रस्यापि च पीतता २
मलस्य पीतता प्रोक्ता शाखानामपि पीतता
दन्तानाञ्चापि पीतत्वं पीतत्वं वपुषस्तथा ३
तमसो दर्शनञ्चापि परितः पीतदर्शनम्
निद्रा ल्पतादि शोषश्च मुखे गन्धश्च लोहवत् ४
मुखस्य तिक्तता चापि तथा च वदनाम्लता
उच्छ्वासस्योष्णता चापि धूमोद्गारस्तथैव च ५
भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः
तेजोद्वेषश्च शीतेच्छाद्यतृप्तिररतिस्तथा ६
भक्षितस्य विदाहश्च जठरानलतीक्ष्णता
रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा ७
मूत्रोष्णता मूत्रकृच्छ्रं मूत्राल्पत्वं तनूष्णता
स्वेदस्य चापि दौर्गन्ध्यं देहप्रावरणं तथा ८
शरीरस्यावसादश्च पाकश्च वपुषस्तथा
चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः ९
इति सप्तविंशः पित्तव्याध्यधिकारः समाप्तः २७

श्लेष्मव्याध्यधिकारः[सम्पाद्यताम्]

अथाष्टाविंशः श्लेष्मव्याध्यधिकारः २८
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये १
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च २
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ३
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ४
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ५
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ६
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ७
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः २८

वातरक्ताधिकारः[सम्पाद्यताम्]

अथैकोनत्रिंशो वातरक्ताधिकारः २९
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः १
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीरशुक्ततक्रसुरासवैः २
विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनाञ्चापि प्रकुप्येद्वातशोणितम् ३
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहाशनस्य ४
कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं शीघ्रं पादयोश्चीयते तु
तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ५
स्वेदोत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेतिरुक्
सन्धिशैथिल्यमालस्यं सदनं पिडिकोद्गमः ६
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ७
कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ८
वातेऽधिकेऽधिकं तत्र शूलं स्फुरणतोदनम्
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ९
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः १०
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ११
पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदस्तृषा
स्पर्शासहत्वं रुग्दाहः शोथः पाको भृशोष्णता १२
कफे स्तैमित्यगुरुता सुप्तिः स्निग्धत्वशीतता
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गञ्च सङ्करे १३
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति १४
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
मूर्च्छा चामन्दरुक्तृष्णाज्वरमोहप्रवेपकाः १५
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः १६
एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन चापि तत्
अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम् १७
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतञ्च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् १९
वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्
अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् २०
उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् २१
शृङ्गेण वै चिमिचिमाकण्डूरुग्वेपनान्वितम्
प्रच्छन्नेन शिराभिर्वा देशाद्देशान्तरं व्रजेत् २२
अङ्गेम्लाने तु न स्राव्यं रक्षेद्वातोत्तरञ्च यत्
गम्भीरं श्वयथुं स्तम्भं कम्पवायुं शिराऽमयान्
ग्लानिमन्यांश्च वातोत्थान्कुर्याद्वायुरसृक्क्षयात् २३
खञ्जादीन् वातरोगांश्च मृत्युञ्चानवशेषितम्
कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्र क्तं विनिर्हरेत् २४
रुक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च
नहि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् २५
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् २६
दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा
कटूष्णगुर्वभिष्यन्दि लवणाम्लौ च वर्जयेत् २७
पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः
भोजनार्थे रसार्थे तु विष्किराः प्रतुदा हिताः २८
आढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः
यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते २९
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ३०
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् ३१
सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तिमिः
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्
हितो गोधूमचूर्णश्च च्छागक्षीरघृताप्लुतः ३२
लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्वृताः
क्षारपिष्टातसीलेपो वर्द्धमानफलेन वा ३३
उभे शताह्वे मधुकं बलां चै प्रियालकं चापि कसेरुकं च
वृत्तं विदारीञ्च सितोपलाञ्चै कुर्यात्प्रदेहं पवने सरक्ते ३४
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलार्त्तिं प्रणुदेत्प्रदेहः ३५
वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ३६
दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम्
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ३७
पटोलकटुकाभीरुत्रिफलाऽमृतसाधितम्
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ३८
त्रिवृद्विदारीक्षुरकक्वाथो वातास्रनाशनः
अमृता कफवातघ्नी कफमेदोविशोषिणी ३९
वातरक्तप्रशमनी कण्डूवीसर्पनाशिनी ४०
गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव च
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ४१
अमृता नागर धान्यक कर्षत्रितयेन पाचनं सिद्धम्
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ४२
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुमिश्रितः
समीरणसमायुक्तं शोणितं सम्प्रणाशयेत् ४३
तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम्
तद्वातरक्तं शमयत्युदीर्णमाजानुभिन्नं च्युतमप्यवश्यम् ४४
गुग्गुल्वमृतवल्लीभिद्रा र्क्षा! लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ४५
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फोटं महाघोरं स्फुटत्सर्वाङ्गसञ्चयम्
तत्सर्वं नाशयत्याशु साध्यञ्चैव सशोणितम् ४६
माहिषं नवनीतं तु बलिना परिमिश्रितम्
गोमूत्रमिश्रितं कृत्वा क्षीरेण लवणेन च ४७
तदेकत्र समालोड्य वह्निना भावयेच्छनैः
गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये ४८
इति गुग्गुलवटिका
घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च
वातासृगुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची ४९
सिंहास्यपञ्चमूलीच्छिन्नरुहैरण्डगोक्षुरक्वाथः
एरण्डतैलरामठसैन्धवचूर्णान्वितः पीतः ५०
प्रशमयति वातरक्तं तथामवातं कटीशूलम्
मूत्रपुरीषविबन्धं ब्रध्नविकारं सुदुर्वारम् ५१
गन्धर्वहस्तवृषगोक्षुरकामृतानां
मूलं बलेक्षुरकयोश्च पचेत्तु धीमान्
वातासृगाशु विनिहन्ति चिरप्ररुढ
माजानुगं स्फुटितमूर्ध्वगतन्तु धीमान् ५२
कफपित्तप्रशमनं कण्डूवीसर्पनाशनम्
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ५३
पिप्पलीवर्द्धमानं वा सेव्यं पथ्या गुडेन वा ५४
कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां यथाबलम्
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ५५
मधुकाद् द्विगुणं तैलं तैलादाजं पयो भवेत्
तद्यथाऽग्निबलं पेयं वातरक्तरुजाऽपहम् ५६
अगस्ति पुष्पचूर्णेन माहिषं जनयेद्दधि
तदुत्थनवनीतेन देहजं स्फुटनं जयेत् ५७
नवकार्षिकक्वाथः
त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी
वत्सादनी दारुनिशा कषायो नवकार्षिकः
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ५८
कण्डूकपालिकाकुष्ठं पानादेवापकर्षति
पञ्चरक्तिकमाषेण कषायो नवकार्षिकः ५९
किञ्चैवं साधिते क्वाथे योग्या मात्रा प्रदीयते
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ६०
ततस्तु कुडवं यावदष्टादशगुणं जलम्
चतुर्गुणमतश्चोर्ध्वं यावत्प्रस्थादिकं भवेत् ६१
विरेचनैर्घृतक्षीरपानैः सेकैः सवस्तिभिः
लेपनं शाल्मलीकल्कमविक्षीरेण संयुतम् ६२
रक्तोत्तरं क्षीरघृतं मधुकोशीरवारिभिः
सेचनं चात्र कर्त्तव्यमविक्षीरैः क्षणं क्षणम् ६३
सहस्रशतधौतेन घृतेन रुधिरोत्तरे
लेपनं सुष्ठु शीतेन घृतसर्जरसेन वा ६४
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् ६५
तिलाः प्रियालं मधुकं बिसमूलं च वेतसम्
सघृतं पयसा पिष्टं प्रलेपो दाहरोगनुत् ६६
पित्तोत्तरे तुकाश्मर्यद्रा क्षाऽरग्वधचन्दनैः ६७
मधुकक्षीरकाकोलीयुक्तैः क्वाथं सुशीतलम्
शर्करामधुसंयुक्तं वातरक्ते पिबेन्नरः ६८
धारोष्णं मूत्रसंयुक्तं क्षीरं दोषानुलोमनम्
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिले ६९
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
बहुदोषे विरेकार्थं जीर्णे क्षीरौदनाशनः ७०
पटोलं त्रिफला भीरु गुडूची कटुरोहिणी
क्वाथः पित्ताधिके शस्तः शर्करामधुसंयुतः ७१
तिक्तस्य सर्पिषःपानं बहुशश्च विरेचनम्
वमनं मृदुनाऽत्यर्थं स्नेहसेको विलङ्घनम् ७२
कोष्णाः सेकाश्च शस्यन्ते वारतक्ते कफोत्तरे
तैलमूत्रसुराशुक्तैः परिषेकाः सदा हिताः ७३
गौरसर्षपकल्केन प्रदेहो वा रुजापहः ७४
सवरुणशिग्रोः कल्को धान्याम्लेनानिलार्त्तिजिल्लेपात्
भवति न वेति विकल्पो न विधेयः सिद्धयोगेऽस्मिन् ७५
कल्कः श्लेष्मोत्तरे लेपो वाजिगन्धातिलोद्भवः
लेपः सर्षपनिम्बार्क हिंस्राक्षारतिलैर्हितः ७६
श्रेष्ठः शक्तुघृतक्षारकपित्थत्वग्भिरेव च
मसूरशिग्रोस्तद्बीजं हितं धान्याम्लसंयुतम्
मुहूर्त्ताल्लिप्तमम्लैश्च सिञ्चैद्वातकफोत्तरे ७७
मुस्तामलकनिशाभिः क्वथितं तोयं समाक्षिकं पेयम्
जयति सदागतिरक्तं सकफं वा सततयोगेन ७८
हरिद्रा मृतकक्वाथं मधुना मधुरीकृतम्
पिबेद्वा त्रिफलाक्वाथं वातरक्ते कफाधिके ७९
हरीतकीं वा तक्रेण पाययेदुदकेन वा
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
प्रलेपःशूलनुद्वातरक्ते वातकफोत्तरे ८०
अमृताकटुकायष्टी शुण्ठीकल्कं समाक्षिकम् ८१
गोमूत्रपीतं जयति सकफं वातशोणितम्
धात्रीहरिद्रा मुस्तानां कषायं वा समाक्षिकम् ८२
लाङ्गल्यास्त्वमृतातुल्यं कन्दमुद्धृत्य यत्नतः
योजयेत्त्रिफलालौहरजस्त्रिकटुकैः समैः ८३
गुग्गुल्वमृतवल्लीभिद्रा र्क्षा!लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ८४
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फुटितं दुर्भग्नं जानुप्राप्तं च यद्भवेत् ८५
यच्च देहोद्गतं रक्तं यच्चासाध्यं प्रकीर्त्तितम्
घ्नन्त्येता भक्ष्यमाणस्य प्रबलं वातशोणितम् ८६
बलामतिबलां मेदामात्मगुप्तां शतावरीम्
काकोलद्यं क्षीरकाकोलद्यं रास्नां मृद्वीं च पेषयेत् ८७
घृतं चतुर्गुणं क्षीरं तैः सिद्धं वातरक्तनुत्
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ८८
बलास्थिरा नागबला गुडूची शतावरी कल्क कषायसिद्धम्
तैलं विदध्यादनुवासनेषुतद्वातरक्तं शमयत्युदीर्णम् ८९
त्रायन्तिका चामलकी द्विकाकोली शतावरी
कसेरुका कषायेण कल्कैरेभिः पचेद् घृतम् ९०
उभे परुषके द्रा क्षा काश्मर्यः ससुरद्रुमाः
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ९१
एतदायोजितं सर्पिः पारूषकमिति स्मृतम्
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ९२
शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे
क्षीरतुल्यं घृतं सिद्धं वातशोणितनाशनम् ९३
ॠषभक्षीरकाकोलीक्षीरिकाजीवकैः समैः
सिद्धं त्वार्षभकं सर्पिः सक्षीरं वातरक्तनुत् ९४
गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्
हन्ति वातं तथारक्तं कुष्ठं जयति दुस्तरम् ९५
क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्
एकद्वित्रिद्र वद्र व्यैः कुर्यात्स्नेहाच्चतुर्गुणम् ९६
अमृतायाः कषायेण कल्केन च महौषधात्
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम् ९७
आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानपि
अर्शांसि गुल्मांश्च तथा नाशयेदाशु योजितम् ९८
अमृतास्वरसविपक्वं सर्पिस्तत्कल्कसाधितं पीतम्
अपहरति वातरक्तमुत्तानं चावगाढं च ९९
अमृतायाः पलशतं जलद्रो णावशेषितम्
घृतप्रस्थं विपक्तव्यं कल्कादष्टौ पलानि च १००
चतुर्गुणेन पयसा वातासृक्कुष्ठनाशनम्
कामलापाण्डुरोगघ्नं प्लीहकासज्वरापहम् १०१
अमृता मधुकं द्रा क्षा त्रिफला नागरं बला
वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम् १०२
कटुका रोहिणी कृष्णा काश्मर्यस्य फलानि च
रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः १०३
कल्कैरेभिः समैः कृत्वा सर्पिः प्रस्थं विपाचयेत्
धात्रीरसः समो देयो वारित्रिगुणसंयुतः १०४
सम्यक्सिद्धं च विज्ञाय भोज्ये पाने च शस्यते
बहुदोषोत्थितं वातरक्तेन सह मूर्च्छितम् १०५
उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुकम्
क्रोष्टुशीर्षे महामूले आमवाते सुदारुणे १०६
दाहरोगोपसृष्टस्य वेदनां चातिदुस्तराम्
मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरान् १०७
एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान्
सर्वकालोपयोगेन वर्णायुर्बलबर्द्धनम्
अश्विभ्यां निर्मितं श्रेष्ठं घृतमेतदनुत्तमम् १०८
गुडूचीस्वरसे सर्पिर्जीवनीयैश्च साधितम्
कल्कैश्चतुर्गुणैः क्षीरैः सिद्धं वाप्यस्रवातनुत् १०९
अमृतायाः शतं प्राप्य जलद्रो णे विपाचयेत्
चतुर्भागावशिष्टन्तु घृतप्रस्थं विपाचयेत् ११०
क्षीरं चतुर्गुणं तत्र दापयेन्मतिमान् भिषक्
कल्कञ्चात्र प्रवक्ष्यामि यथावदनुपूर्वशः १११
काकोली क्षीरकाकोली जीवकर्षभकौ च यत्
शतावरी पयस्या च मधुकं नीलमुत्पलम् ११२
अश्वकन्दस्य मूलानि स्थिरां वा कटुरोहिणीम्
ऋद्धिं वृद्धिं तथा मेदे श्वदंष्ट्रां बृहतीद्वयम्११३
गुडूचीं पिप्पलद्यं रास्नां वासकं चापि संहरेत्
तदेकस्थं समैर्भागैः पाचयेन्मृदुनाग्निना ११४
पानाभ्यञ्जननस्येषु परिषेके च दापयेत्
वातरक्तं सशोषाढ्यं सदाहं क्रोष्टुशीर्षकम् ११५
खञ्जोरुस्तम्भवातञ्च वातरक्तं सुदारुणम्
बहूदितं वातकृच्छ्रं गृध्रसीं वातकण्टकम् ११६
नाशयेद्योजितं सर्पिर्धन्वन्तरिवचो यथा ११७
क्वाथेन शतपुष्पायाः कुष्ठस्य मधुकस्य च
एकैकं साधयेत्तैलं वातरक्तरुजापह्रम् ११८
सारिवारिष्टकूष्माण्डपोतकीभस्मजाम्बुना
गुडूचीगव्यदुग्धाभ्यां कर्मरङ्गरसेन च ११९
विपचेत्तिलजं तैलं दत्वैतानि भिषग्वरः
काकोल्यौ जीवकं मेदे शताह्वाक्षीरिणीयुतैः १२०
जिङ्गीसिक्थामृतानन्तासर्जसैन्धवचन्दनैः
हन्याद्वातास्रजं घोरं स्फुटितं गलितं तथा १२१
चर्मदलाख्यं पामादींस्त्वग्दोषञ्च विपादिकाम्
कुष्ठान्यर्शांसि वीसर्प व्रणशोथं भगन्दरम् १२२
न सोस्ति वातरक्तस्य विकारो योभिवर्द्धितः
यं न हन्यात्प्रसह्यैतत्पिण्डतैलं महत्स्मृतम् १२३
सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितैः
तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते १२४
सारिवासर्जयष्ट्याह्वमधुसिक्थैः पयोन्वितैः
सिद्धमेरण्डजं तैलं वातरक्तरुजापहम्
अपूतमथितस्यास्य पिण्डतैलस्य योगतः १२५
पद्मकेशरयष्ट्याह्वफेनिलैः पद्मकोत्पलैः
पृथक्पञ्चपलैर्दत्तं बलाकिंशुकचन्दनैः १२६
जले शृतं पचेत्तैलं प्रस्थं सौवीरसम्मितम्
लोध्रकाकोलिकोशीरजीवकर्षभकेशरैः १२७
मदयन्तिलतापत्रपद्मकेशरपद्मकैः
प्रपौण्डरीककालीयमेदामांसीप्रियङ्गुभिः १२८
कुङ्कुमैर्द्विगुणैः कर्षैर्मञ्जिष्ठायाः पलेन च
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् १२९
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् १३०
स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः
खुड्डाकपद्मकमिदं तैलं वातास्रपित्तनुत् १३१
तुलां पचेज्जलद्रो णे गुडूच्याः पादशेषितम्
क्षीरद्रो णन्तु ताभ्यां च पचेत्तैलाढकं शनैः १३२
कल्कैर्मधुकमञ्जिष्ठाजीवनीयगणोत्थितैः
कुष्ठैलाऽगुरुमृद्वीका मांसी व्याघ्रनखं नखी १३३
हरेणुः श्रावणी व्योषं शताह्वा शृङ्गिसारिवे
त्वक्पत्रागुरुविक्रान्ताः स्थिरा तामलकी तथा १३४
नतकेशरह्रीबेरं पद्मकोत्पलचन्दनम्
सिद्धं कर्षसमैर्भागैः पानाभ्यङ्गानुवासनैः १३५
सेव्यं वातास्रजान्हन्ति स्रोतोधात्वन्तराश्रितान्
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् १३६
स्वेदकण्डूरुजाऽयामशिरः कम्पामयार्दितान्
हन्याद् ब्रणकृतान्दोषान्गुडूचीतैलमुत्तमम् १३७
गुडूची मधुकं ह्रस्वपञ्चमूलं पुनर्नवाम्
रास्नामेरण्डमूलञ्च जीवनीयानि लाभतः १३८
पलानां शतिकैर्भागैर्बलापञ्चशतं भवेत्
कोलं बिल्वं यवान्माषान् कुलत्थांश्चाढकोन्मितान् १३९
काश्मर्याणाञ्च शुष्काणां द्रो णं द्रो णशतेऽम्भसः
साधयेज्जर्जरं पूतं चतुद्रो र्ण!ञ्च शेषयेत् १४०
तैलद्रो णं पचेत्तेन दत्वा पञ्चगुणं पयः
पिष्ट्वा त्रिपलिकञ्चैव चन्दनोशीरकेशरम् १४१
पत्रैलाऽगुरुकुष्ठानि तगरं मधुयष्टिकाम्
मञ्जिष्ठाऽद्धपलञ्चैव तत्सिद्धं सर्वयौगिकम् १४२
वातरक्ते क्षते क्षीणे भारार्त्ते क्षीणरेतसि
वेपनोत्क्षिप्तभग्नानां सर्वैकाङ्गजरोगिणाम् १४३
योनिदोषमपस्मारमुन्मादं विषमज्वरम्
हन्यात्पुंसवनञ्चैव तैलाग्र्यममृताह्वयम् १४४
मृणालोत्पलशालूक सारिवोदीच्यकेशरैः
चन्दनद्वयभूनिम्ब पद्मबीजकसेरुकैः १४५
पटोलकटुकानन्ता गुन्द्रा पर्पटवासकैः
पिष्ट्वा तैलं घृतं पक्वं तृणमूलरसेन वा १४६
क्षीरद्विगुणसंयुक्तं वस्तिकर्मसु योजितम्
नस्याभ्यञ्जनपानैर्वा हन्यात्पित्तगदानिदम् १४७
कनकशिखरिमानक्षारसंसिद्धतोये कुसुमलवणयुक्तैः सर्जनिर्यासचूर्णैः
विधिशृततिलतैलं कल्कयुक्तं निहन्ति प्रचुर तरमिदानीमिन्द्र लुप्तास्रवातम् १४८
शुद्धां पचेन्नागबलातुलान्तु जलार्मणे पादकषायसिद्धम्
विस्राव्य तैलाढकमत्र देयमजापयस्तैलविमिश्रितन्तु १४९
नतं सयष्टीमधुकञ्चकल्कं दत्वा पृथक्पञ्चपलं विपक्वम्
तद्वातरक्तं शमयत्युदीर्णं वस्तिप्रदानेन हि सप्तरात्रात्
दशाहयोगेन करोत्यरोगं पीतञ्च तैलोत्तममश्विनोक्तम् १५०
जीवकर्षभकौ मेदे ॠष्यप्रोक्ता शतावरी
मधुकं मधुपर्णी च काकोलीद्वयमेव च १५१
मुद्गमाषाख्यपर्णी च दशमूलं पुनर्नवा
बलाऽमृता विदारी च साश्वगन्धाऽश्मभेदकौ १५२
कुर्यात्कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत्
लाभतश्च वसामज्जामांसं प्रतुदविष्किरात् १५३
चतुर्गुणेन पयसा संसिद्धं वातशोणितम्
सर्वदेहाश्रितान्हन्ति व्याधीन्घोरांश्च वातजान् १५४
बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्
शतपाकं भवेदेतद्वातासृग्वातपित्तनुत् १५५
धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम्
रेतोयोनिविकारघ्नमेतद्वातविकारनुत् १५६
मधुयष्ट्याः पलशतं कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः १५७
शतपुष्पावरी मूर्वापयस्यागुरुचन्दनैः
स्थिरहंसपदीमांसी द्विमेदामधुपर्णिभिः १५८
काकोलीक्षीर काकोलीतामलक्यृद्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक्पत्र नखबालकैः १५९
प्रपौण्डरीकमञ्जिष्ठा सारिवेन्दुवितुन्नकैः
वातासृक्पित्तदाहार्त्तिज्वरघ्नं बलवर्णकृत् १६०
मधुयष्ट्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
क्षीरे साध्यं शतं वारांस्तदेव मधुकान्वितम् १६१
सिद्धं देयं त्रिदोषे स्याद्वातास्रश्वासकासनुत्
धन्यं पुंसवनञ्चैव कामलादाहनाशनम् १६२
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रशतपाकं वा वातासृग्वातरोगनुत् १६३
रसायनमिदं श्रेष्ठमिन्द्रि याणां प्रसादनम्
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् १६४
पुनर्नवामूलशतं विशुद्धं रुवूकमूलञ्च तथा प्रयोज्य
दत्वा पलं षोडशकञ्च शुण्ठ्याः सङ्कुट्य सम्यग्विपचेद्घटेऽपाम् १६५
पलानि चाष्टावथ कौशिकस्यतेनाष्टशेषेण पुनः पचेत
एरण्डतैलं कुडवञ्च दद्याद्दत्वा त्रिवृच्चूर्णपलानि पञ्च १६६
निकुम्भचूर्णस्य पलं गुडूच्याः पलद्वयं चार्द्धपलं पलं वा
पलत्रयत्र्! यूषणचित्रकाणि सिन्धूत्थभल्लातविडङ्गकानि १६७
कर्षं तथा माक्षिकधातुचूर्णं पुनर्नवायाः पलमेव चूर्णम्
चूर्णानि दत्वा ह्यवतार्य शीतं खादेन्नरः कर्षसमप्रमाणम् १६८
वातासृजं वृद्धिगदं च सप्त जयत्यवश्यं त्वथ गृध्रसीं च
जङ्घोरुपृष्ठत्रिकवस्तिजं च तथामवातं प्रबलं च हन्ति १६९
यावशूकसुरदारुसैन्धवं मुस्तकत्रुटिवचायवानिकाः
व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् १७०
कार्षिकं सुमसृणं सुयोजितं संयुतं पुरपलैश्च पञ्चभिः
शर्करां पुरसमां सुपेषयेत्तप्तसर्पिषि विनिक्षिपेत्ततः १७१
वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम्
श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् १७२
गृध्रसीं च गुदजाग्निमन्दतां हन्ति कोष्ठजनितं महागदम्
वज्रमिन्द्र सुकरादिव च्युतं गुप्तशैलकुलमुत्तमं द्रुतम् १७३
अन्नपानपरिहारवर्जितं सर्वकालसुखदं निरत्ययम्
सेव्यमानमिदमश्विनिर्मितं गुग्गुलोर्हि वटिका रसायनम् १७४
चत्वारो माषका हीने मध्यमेऽष्टौ च माषकाः
श्रेष्ठा द्वादशकाः प्रोक्ताः कोष्ठं विज्ञाय पाययेत् १७५
स्रंसनत्वाद् गुरुत्वाद्वा गुग्गुलोः करणक्रमः १७६
प्रस्थमेकं गुडूच्याश्च अर्द्धप्रस्थं च गुग्गुलोः
प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत्
सर्वमेकत्र सङ्कुट्य क्वाथयेन्नल्वणेऽम्भसि १७७
पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक्
पुनः पचेत्कषायन्तु यावत्सान्द्र त्वमागतम् १७८
दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः
ततश्चार्द्धपलं चूर्णं गृह्णीयाच्च प्रतिप्रति १७९
कर्षन्तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत्
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद् बुधः १८०
ततश्चाग्निबलं मत्वा खादेत्कर्षप्रमाणतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८१
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति १८२
त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च १८३
सर्वमेकत्र सङ्कुट्य साधयेन्नल्वणेऽम्भसि
पुनः पचेत्पादशेषं यावत्सान्द्र त्वमागतम् १८४
दन्तीचित्रकमूलानां कणाविश्व फलत्रिकम्
गुडुचीत्वग्विडङ्गानां प्रत्येकार्धपलं मतम् १८५
त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत्
सिद्धे चोष्णे क्षिपेत्तत्र अमृतागुग्गुलुं परम् १८६
अतो यथाबलं खादेदम्लपित्ती विशेषतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८७
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं हन्यात्सर्वामयांस्तथा १८८
अश्विभ्यां निर्मिताश्चायममृताऽख्यो हि गुग्गुलुः १८९
गुडरामठशुण्ठीनां मांसकूष्माण्डयोरपि
गुडूच्या गुग्गुलोश्चैव प्रस्थः षोडशभिः पलैः १९०
स्निग्धः काञ्चनसङ्कांशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः १९१
शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वमुपागतः
पुराणः स तु विज्ञेयो न स देयस्तु रोगिणे १९२
कृमिरिपुदहनव्योष त्रिफलाऽमरदारुचव्यभूनिम्बाः
मागधिमूलं मुस्तं शटीवचाधातुमाक्षिकञ्चैव
लवणक्षारनिशायुक्कुस्तुम्बुरुगजकणाः सहातिविषाः १९३
कर्षांशिकान्येव समानि कुर्यात्पलाष्टकं चाश्मजतु प्रदद्यात्
निष्पत्रशुद्धस्य पुरस्य धीमान्पलद्वयं लौहरजस्तथैव १९४
सिताचतुष्कं पलमत्र वांश्या निकुम्भकुम्भत्रिसुगन्धियुक्तम्
पृथक्पलं चूर्णमथावपेच्च चन्द्र्रप्रभेयं गुटिका विधेया १९५
ज्वरातिसारग्रहणीविकारांश्चार्शांसि निर्णाशयते षडेव
भगन्दरान्कामलपाण्डुरोगान्विनष्टवह्नेः कुरुते च दीप्तिम् १९६
हन्त्यामयान्पित्तकफानिलोत्थान्नाडीगते मर्मगते व्रणे च
क्षतक्षये गृध्रसियक्ष्मरोगे मेहे गजाख्ये प्रबले प्रयोज्य १९७
शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रप्रवाहेऽप्युदरामये च
शम्भुं समभ्यर्च्य कृतप्रसादं प्राप्ता गुटी चन्द्र मसा प्रशस्ता १९८
न पानभोज्ये परिहारवादो न शीतवातातपमैथुनेषु
भक्तस्य पूर्वं सततं प्रयोज्या तक्रानुपानाऽप्यथ मस्तुपाना १९९
अजारसो जाङ्गलजो रसो वा परोऽथ वा शीतजलानुपानम् २००
शुक्रदोषान्निहन्त्यष्टौ प्रमेहांश्चापि विंशतिम्
वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते २०१
गिरिजतुगुग्गुलुलौहान्येकीकृत्याथ भावयेद् बहुशः
क्वाथैस्तद्व्याधिहरैस्तदनु च चूर्णीकृतं मिलितम्
कृमिरिप्वादिकचूर्णैर्गिरिजतुसमधान्यपटोलयूषेण २०२
वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम्
प्रक्षिप्य तोयराशौ त्रिफलाञ्च यथोक्तपरिमाणम् २०३
द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन
विपचेत्तदप्रमत्तो दर्व्या सङ्घट्टयेन्मुहुर्यावत् २०४
अर्द्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात्
अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयः पात्रे २०५
सान्द्री भूते तस्मिन्नवतार्य हिमोपलप्रख्ये
त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम् २०६
कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः
पलमेकन्तु गुडूच्या दत्वा सञ्चूर्ण्य यत्नेन २०७
उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलञ्च
इच्छाऽहारविहारी भेषजमुपयुज्य सर्वकालमिदम् २०८
तनुरोधी वातशोणितमेकद्वित्र्! युल्बणं चिरोत्थमपि
भग्नस्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि २०९
व्रणकासकुष्ठगुल्मश्वयथुं गरपाण्डुमेहांश्च नाशयत्याशु
मन्दाग्निञ्च विबन्धं प्रमेहपिडकाश्च नाशयत्याशु २१०
सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान्
अभिभूय जरादोषं करोति कैशोरकं रूपम् २११
प्रत्येकं त्रिफलाप्रस्थो जलञ्चाढकमाढकम्
गुडवद् गुग्गुलोः पाकः सन्धेयस्तु विशेषतः २१२
त्रिफलाऽतिविषादारुदार्वीमुस्तापरुषकैः
खदिरासननक्ताह्वगुडूचीनृपपादपैः २१३
भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः
क्वाथं कृत्वा ततः पूतं शृतमष्टगुणेऽम्भसि २१४
गुडूच्यास्तत्र सुकृतं चूर्णमर्द्धं तु वारिणि
क्षिप्त्वा सुनूतने भाण्डे वासयेद्र जनीगतम्
सोमोपेतेन पूतेन कौशिकं परिभावयेत्
षड्गुडेन तु सप्ताहं शिलाजतुसमन्वितम् २१६
शुक्तस्य तु पलान्यष्टौ समावाप्य विचक्षणः
ताप्यचूर्णं पलञ्चैकं द्वे पले मधुसर्पिषोः २१७
एकीकृत्य समं सर्वं लिह्यात्तु त्रिफलाऽम्बुना
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा २१८
जीर्णेऽजीर्णे तु भुञ्जीत पुराणं शालिषष्टिकम् २१९
यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः
त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् २२०
निहन्ति वीर्यतः क्षिप्रं कुष्ठरोगान्व्रणानपि
छिन्नं भिन्नञ्च सन्धत्ते त्रिफलाऽख्यो हि गुग्गुलुः २२१
पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम्
सौगन्धिकं पलञ्चैकं कौशिकस्य पलत्रयम् २२२
कुडवं चित्रतैलस्य सर्वमादाय यत्नतः
पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे २२३
हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम्
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा
कुष्ठानिवातरक्तञ्च गुल्मशूलोदराणि च
आमवातं जयत्येतदपि वैद्यविवर्जितम् २२५
सर्वदाऽस्योपयोगेन जरापलितनाशनम्
सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम् २२६
सिंहनादइति ख्यातो रोगवारणदर्पहा
वह्नेर्दीप्तिकरं पुसां भाषितो दण्डपाणिना २२७
अत्राहुस्त्रिफलाक्वाथं पृथक् त्रिपलसम्मितम्
किञ्चिन्निर्याति चैरण्डस्नेहे पाकोऽधिके खरः २२८
अष्टौ पलान्यत्र पलङ्कषायाः प्रस्थः पृथक् शुद्धफलत्रयस्य
दत्वा पचेद् द्रो णयुगे जलस्य पादावशेषं पुनरेव वैद्यः २२९
दन्तीत्रिवृत्त्र् यूषणवारुणीनां बिडङ्गमुस्तत्रिफलाऽमृतानाम्
कटूग्रगन्धालुकमाणकानां सगन्धकानाञ्च सपारदानाम् २३०
पलार्द्धमानं प्रमितं सुचूर्णं दद्याद्विपक्वं पुनरेव तत्र
फलानि सञ्चूर्ण्य च कानकानिसहस्रसङ्ख्याकलितानि पश्चात् २३१
खादेद्धि माषद्वितयं प्रतप्तं तोयादिकं देयमतोऽनुपाने
आमानिलं सन्धिगतं सशूलं शिरोगतं जानुकटिस्थितञ्च २३२
अर्शोऽतिवृत्तिं विषमज्वरार्त्तिं प्रमेहकुष्ठानि भगन्दरञ्च
हन्यान्नराणामिति सिंहनादो मेदोमरुच्छ्लेष्मगदान्पुरोऽयम् २३३
दाहोऽत्यन्तप्रवृत्तिर्वा विकारोऽन्यो न चेद् बहुः
तत्कृतस्तुतदा तत्र तक्रभक्तं हितं भवेत्
उद्वर्त्तनं शीतजलस्नानञ्च शयनं तथा २३४
विरेकातिशयं कुर्यात्सिंहनादो यतः सुधीः
ज्ञात्वा बलं शरीरे तु दद्यादेवं न वा भिषक् २३५
तोयारनालगोक्षीरैः क्रमात्पक्वं विशुध्यति
फलं कानकसञ्ज्ञन्तु कृत्वा चूर्णं ततः क्षिपेत् २३६
पिण्डितां गुग्गुलोर्मानीं कटुतैले पलाष्टके
प्रत्येकं त्रिफलाप्रस्थं सार्द्धद्रो णे जले पचेत् २३७
पादशेषं सुपूतञ्च पुनरग्नावधिश्रयेत्
त्रिकटुत्रिफलामुस्तविडङ्गामलकानि च २३८
गुडूच्यग्नित्रिवृद्दन्ती वचासूरणमानकम्
कस्तूरीरससूतांशं प्रत्येकं शुक्तिसम्मितम् २३९
सहस्रं कानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत्
ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम् २४०
अग्निञ्च कुरुते शीघ्रं वडवाऽनलसन्निभम्
मेधावृद्धिं वयोवृद्धिं बलं सुविपुलं तथा २४१
आमवातं शिरोवातं ग्रन्थिवातं भगन्दरम्
जानुजङ्घाश्रितं वातं सकटीग्रहवेदनम् २४२
अश्मरीमूत्रकृच्छ्रे च भग्ने च तिमिरोदरे
अम्लपित्तं तथा कुष्ठं प्रमेहं गुदनिर्गमम् २४३
कासं पञ्चविधं श्वासं क्षयञ्च विषमज्वरम्
प्लीहानं श्लीपदं गुल्मान्पाण्डुरोगं सकामलम् २४४
शोथान्त्रवृद्धिशूलानि गुदजानि विनाशयेत्
मेदः कफामसञ्जातरोगवारणदर्पहा २४५
सिंहनाद इति ख्यातो योगोऽयममृतोपमः
भिषग्भिर्वर्जिते रोगे भाषितो दण्डपाणिना २४६
शतावरी नागबला वृद्धदारकमुच्चटा
पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम् २४७
पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत्
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद् बुधः २४८
स्थापयेत्सुदृढे भाण्डे मध्वर्द्धाढकसंयुतम्
घृतप्रस्थेन वालोड्य त्रिसुगन्धपलेन च २४९
तं खादेदिष्टभक्ष्यान्नो यथावह्निबलं नरः
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् २५०
वातपित्तकफोत्थांश्च रोगानन्यांश्च तत्कृतान्
हत्वा करोति पुरुषं हत्वा सर्वामयान् द्रुतम् २५१
बलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम्
करोति पुरुषं धन्यं पञ्चवर्षशतायुषम् २५२
योगसारामृतो नाम लक्ष्मीकीर्त्तिविवर्द्धनः २५३
व्यायामं मैथुनं कोपमुष्णाम्ललवणं रसम्
दिवास्वप्नमभिष्यन्दि गुरु चान्यद्विवर्जयेत् २५४
इत्येकोनत्रिंशोवातरक्ताधिकारः समाप्तः २९