भावप्रकाशः/मध्यखण्डे द्वितीयो भागः
दिखावट
- अथ मध्यखण्डम्
- तत्र द्वितीयो भागः
अशोऽधिकारः
[सम्पाद्यताम्]- अथ पञ्चमोऽशोऽधिकारः ५
- पृथग्दोषैः समस्तैश्र शोणितात्सहजानि च
- अर्शांसि षट् प्रकाराणि विद्याद् गुद्वलित्रये १
- कषायकटुतिक्तानि रुक्षशीतलघूनि च
- प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् २
- लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
- शोको वातातपस्पर्शो हेतुर्वातार्शसां ततः ३
- कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
- देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ४
- विदाहि तीक्ष्णमुष्णञ्च सर्वं पानान्नभोजनम्
- पित्तोल्वणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ५
- मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
- अव्यायामदिवास्वप्नशय्याऽसनसुखे रतिः ६
- प्राग्वातसेवाशीतौ च देशकालावचिन्तनम्
- श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम् ७
- हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च
- सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ८
- विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
- कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ९
- ग्रहणीदोषपाण्ड्वर्त्ति प्रशङ्का चोदरस्य च
- पूर्वरूपं विनिर्दिष्टमर्शसामभिवृद्धये १०
- दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन्
- मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः ११
- गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः
- म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १२
- मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
- बिम्बीकर्कन्धुखर्जूरकर्कोटीफलसन्निभाः १३
- केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः
- शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः १४
- क्षवथूद्गारविष्टम्भहृद्रो गा रोचकप्रदाः
- कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १५
- तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
- रुक्फेनपिच्छाऽनुगतं विड्बद्धमुपवेश्यते १६
- कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
- गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च १७
- पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
- तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १८
- शुकजिह्वा यकृत्खण्डजलौकोवक्त्रसन्निभाः
- दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरतिमोहदाः १९
- सोष्माणो द्र्रवनीलोष्णपीतरक्तामवर्चसः
- यवमध्या हरित्पीतहारिद्र्रत्वङ्नखादयः २०
- रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः
- वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः २१
- तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः
- स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः २२
- भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः
- हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः २३
- विट् श्यावं कठिनं रुक्षमधोवायुर्न वर्त्तते
- तनु चारुणबर्णं च फेनिलं चासृगर्शसाम् २४
- कट्यूरुगुदशूलञ्च दौर्बल्यं यदि चाधिकम्
- तत्रानुबन्धो वातस्य हेतुर्यदि च रुक्षणम् २५
- शिथिलं श्वेतपीतं च विट् स्निग्धं गुरुशीतलम्
- यद्यर्शसां घनं चासृक् तन्तुमत्पाण्डुपिच्छिलम् २६
- गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
- श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः २७
- श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः
- उत्सन्नपचिताः स्निग्धाःस्तब्धवृत्तगुरुस्थिराः २८
- पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
- करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २९
- वङ्कणानाहिनः पायुबस्तिनाभिविकर्षिणः
- सकासश्वासहृल्लासप्रसेकारुचिपीनसाः ३०
- मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
- क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः ३१
- वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः
- न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ३२
- हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च ३३
- सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च ३४
- अर्शांसि सहजातानि दारुणानि भवन्ति हि
- दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च ३५
- अन्तर्मुखाणि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत्
- क्षीणानलः क्षीणरेताः शिरासन्नतविग्रहः
- अल्पप्रजः क्रोधशीलो भग्नकांस्यस्वनान्वितः
- शिरोदृक्कर्णनासासु रोगो हृल्लेपसेकवान् ३६
- बाह्यायां तु वलौ जातान्येकदोषोल्वणानि च
- अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३७
- द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च
- कृच्छ्रसाध्यानि तान्याहुःपरिसंवत्सराणि च ३८
- सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
- जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३९
- शेषत्वादायुषस्तानि चतुष्पादसमन्वये
- याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ४०
- हस्ते पादे मुखे नाभ्यां गुदे बृषणयोस्तथा
- शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ४१
- हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
- तृष्णा गुदाऽस्यपाकश्च निहन्युर्गुदजातुरम् ४२
- तृष्णाऽरोचकशूलार्त्तमतिप्रस्रुतशोणितम्
- शोथातीसारसंयुक्तमर्शांसि क्षपयन्ति हि ४३
- मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च
- गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४४
- व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
- कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४५
- वातेन तोदपारुष्यं पित्तादतिसरक्तता
- श्लेष्मणा स्निग्धता तस्य ग्रन्थितत्वं सवर्णता ४६
- यद्वातस्यानुलोम्याय यदग्निबलवृद्धये
- अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः ४७
- शालिषष्टिकगोधूमयवान्नानि घृतैः सह
- अजाक्षीरेण वा निम्बपटोलानां रसेन वा ४८
- वार्त्ताकुमूलजैः कान्दै रसैर्मांसरसेन वा
- जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः४९
- अन्यैश्च सृष्टविण्मूत्रमरुद्भिर्वह्निदीपनैः
- अर्शांसि भिन्नवर्चांसि हन्याद्वातार्तिसारवत् ५०
- सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनम्
- न प्ररोहन्ति गुदजाः पुनस्तक्रसमाहताः ५१
- तक्राभ्यासोऽशसैः कार्यो बलवर्णाग्निवृद्धये
- स्रोतःसु तक्रशुद्धेषु सम्यक् सरति तद्र सः ५२
- तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते
- वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तते ५३
- चिरबिल्वाग्निसिन्धूत्थनागरेन्द्र यवारलु
- तक्रेण पिबतोऽशासि निपतन्त्यसृजा सह ५४
- लेपं रजनिचूर्णेन सुधादुग्धयुतेन च
- अर्शोरोगनिवृत्त्यर्थं कारयेत्तु चिकित्सकः ५५
- पिप्पली सैन्धवं कुष्ठं शिरीषस्य फलं तथा
- सुधादुग्धार्कदुग्धं वा लेपोऽय गुदजान् हरेत् ५६
- हरिद्रा जालिनीचूर्णं कटुतैलसमन्वितम्
- एष लेपो वरः प्रोक्तो ह्यर्शसामन्तकारकः ५७
- असितानां तिलानान्तु पलं शीतजलेन च
- खादतोऽशासिशाम्यन्ति दृढा दन्ता भवन्ति च ५८
- शस्त्रैर्वाऽथ जलौकाभिः प्रोच्छूनकठिनार्शंसः
- शोणितं सञ्चितं दृष्ट्वा हरेत्प्राज्ञः पुनः पुनः ५९
- काशीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली
- शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकम् ६०
- तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक्
- तैलं स्नुह्यर्कपयसा गवां मूत्रं चतुर्गुणम् ६१
- एतदभ्यङ्गतोऽशासि क्षारेणेव पतन्ति हि
- क्षारकर्मकरं ह्येतन्न च सन्दूषयेद्वलिम् ६२
- शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्द्धितमूर्ध्वमन्त्यात्
- खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ६३
- त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयम्
- चव्यतिक्ताकलिङ्गानि शक्राह्वा लवणानि च ६४
- ग्रन्थिबिल्वाजमोदाश्च गणोऽष्टाविंशतिर्मतः
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६५
- चूर्णं विडालपदकं पिबेदुष्णेन वारिणा
- एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः ६६
- हन्यादर्शांसि सर्वाणि श्वासशोषभगन्दरान्
- हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरम् ६७
- हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलम्
- आमवातमुदावर्त्तमन्त्रवृद्धिं गुदाकृमीन् ६८
- अन्ये च ग्रहणीदोषा भिषग्भिर्ये प्रकीर्त्तिताः
- विजयो नाम चूर्णोऽय तान्सर्वानाशु नाशयेत् ६९
- महाज्वरोपसृष्टानां भूतोपहतचेतसाम्
- अप्रजानाञ्च नारीणां हितमेतद्धि भेषजम् ७०
- मरिचमहौषधचित्रकशूरणभागा यथोत्तरं द्विगुणाः
- सर्वसमो गुडभागः सेव्योऽय मोदकः प्रसिद्धफलः ७१
- ज्वलनं ज्वलयति जाठरमुन्मूलयतीह शूलगुल्मगदान्
- निःशेषयति श्लीपदमर्शांसि विनाशयत्याशु ७२
- षोडश शूरणभागा वह्नेरष्टौ महौषधस्यातः
- अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन ७३
- त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम्
- भागा महौषधसमा दहनांशा तालमूली च ७४
- भागाः शूरणतुल्या दातव्या वृद्धदारकस्यापि
- भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम् ७५
- द्विगुणेन गुडेन युतः सेव्योऽय मोदकः प्रकामधनैः
- गुरुवृष्यभोजनरतैरितरेषूपद्र वं कुर्यात् ७६
- भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन
- भीमस्य मारुतेरपि महाशनौ तेन तौ यातौ ७७
- अग्निबलवर्णहेतुर्न केवलं शूरणो महावीर्यः
- हन्ता शस्त्रक्षारानलैर्विनाऽप्यर्शसामेषः ७८
- श्वयथुश्लीपदमदहृद् ग्रहणीं च कफानिलोद्भूताम्
- नाशयति बलीपलितं मेधांकुरुतेजराञ्चहरेत् ७९
- हिक्कां कासं श्वासं च राजरोगं प्रमेहांश्च
- प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम् ८०
- त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी
- गवाक्षी मुस्तविश्वाह्वविडङ्गानि हरीतकी ८१
- पलोन्मितानि चैतानि पलान्यष्टावरुष्करात्
- बृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश ८२
- जलद्रो णद्वये क्वाथ्यं चतुर्भागावशेषितम्
- पूतन्तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणं गुडम् ८३
- मेलयित्वा पचेत्तावद्यावद्दर्वींप्रलेपनम्
- अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ८४
- त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान्
- एलात्वङ्मरिचं चापि नागाह्वाञ्चापि षट्पलम्८५
- द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत्
- ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः ८६
- हन्यादर्शांसि सर्वाणि तथा सर्वोदराण्यपि
- गुल्मानपि प्रमेहांश्च पाण्डुरोगं हलीमकम् ८७
- दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति
- आढ्यवाते प्रतिश्याये पीनसे च हितो मतः ८८
- भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः
- दीर्घायुषः प्रजनना वलीपलितवर्जिताः ८९
- गुडः श्रीबाहुशालोऽय रसायनवरो मतः
- दुर्नामान्तकरो ह्येष दृष्टो वारसहस्रशः ९०
- यावद्दर्वीप्रलेपः स्याद् गुडो वा तन्तुमान् भवेत्
- तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ९१
- क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यति
- एष पाकः समस्तानां गुडानां परिकीर्त्तितः ९२
- सार्द्धं पलं पलं चार्द्धं भक्षयेद् गुडखण्डयोः
- श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा ९३
- तिलभल्लातकैः पथ्या गुडश्चेति समांशकैः
- दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम् ९४
- पित्तश्लेष्मप्रशमनी कण्डूकुक्षिरुजाऽपहा
- गुदजान्नाशयत्याशु भक्षिता सगुडाऽभया ९५
- प्रणम्य शङ्करं रुद्र्र दण्डपाणिं महेश्वरम्
- जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ९६
- सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना
- चिकित्सामर्शसां नॄणांकारुण्याद्वक्तुमर्हसि ९७
- नारदस्य वचः श्रुत्वा नराणां हितकाम्यया
- अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ९८
- पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभम्
- कृत्वा निर्मलमादौ तु कुनट्या माक्षिकेण च ९९
- पत्तूरमूलकल्केन लिम्पेद्र्रसयुतेन च
- वह्नौ निक्षिप्य विधिवत्साराङ्गारेण निर्द्धमेत् १००
- ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च
- ततो विज्ञान गलितं शङ्कुनोर्ध्वं समुच्छ्रयेत् १०१
- त्रिफलाया रसे पूते तदाकृष्य तु निर्धमेत्
- न सम्यग्गालितं यत्तु तेनैव विधिना पुनः १०२
- ध्मातं निर्वापयेत्तस्मिंल्लोहं तत्त्रिफलारसे
- यल्लोहं न मृतं तत्तु पाच्यं भूयोऽपि पूर्ववत् १०३
- मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत्
- ततः सशोष्य विधिवच्चूर्णयेल्लोहभाजने १०४
- लोहेन च तथा पिष्याद् दृषदा सूक्ष्मचूर्णितम्
- कृत्वा लोहमये पात्रे मार्दे वा लिप्तरन्ध्रके
- रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना १०५
- पुटानि क्रमतो दद्यात्पृथगेभिर्विधानतः
- त्रिफलाऽद्र कभृङ्गाणां केशराजस्य बुद्धिमान् १०६
- मानकन्दकभल्लातवह्नीनां शूरणस्य च
- हस्तिकर्णपलाशस्य कुलिशस्य तथैव च १०७
- पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् १०८
- तन्मात्रं त्रिफलायाश्च पलेनाधिकमाहरेत्
- अष्टभागावशषे तु रसे तस्याः पचेद् बुधः १०९
- अष्टौ पलानि दत्वा च सर्पिषो लोहभाजने
- ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ११०
- ततः पाकविधानज्ञः स्वच्छे चोर्ध्वं च सर्पिषि
- मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः १११
- आरम्भे तद्विधानज्ञः कृतकौतुकमङ्गलः
- घृतभ्रामरसंयुक्तं विलिह्याद्र क्तिकाक्रमात् ११२
- वर्द्धमानानुपानञ्च गव्यक्षीरोत्तमं मतम्
- गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनम् ११३
- सद्यो वह्निकरश्चैव भस्मकञ्च नियच्छति
- हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ११४
- गुल्माक्षिपाण्डुरोगांश्च निद्रा लस्यमरोचकम्
- शूलञ्च परिणामञ्च प्रमेहमपबाहुकम् ११५
- श्वयथुंरुधिरस्रावं दुर्नामानं विशेषतः
- बलकृद् बृंहणञ्चैव कान्तिदं स्वरबोधनम् ११६
- शरीरलाघवकरमारोग्य पुष्टिवर्द्धनम्
- आयुष्यं श्रीकरञ्चैव बलतेजस्करं शुभम् ११७
- सश्रीकपुत्रजननं वलीपलितनाशनम्
- दुर्नामारिरयं नाम्ना दृष्टो वारसहस्त्रशः ११८
- अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना
- सौकुमार्याल्पकायत्वान्मद्यसेवी यदा नरः
- जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत् ११९
- लावतित्तिरिवर्त्तीर मयूरशशकादयः
- चटकः कलविङ्कश्च वर्त्तका हरितालकः १२०
- श्येनकश्च बृहल्लावो वनविष्किरकादयः
- पारावतमृगादीनां मांसं जाङ्गलकं शुभम् १२१
- मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः
- मत्स्यराजा इति प्रोक्ता हितमत्स्याय देहिने १२२
- वृन्ताकस्य फलं शस्तं पटोलं बृहतीफलम्
- प्रलम्बाभीरुवेत्राग्रताडकं तण्डुलीयकम् १२३
- वास्तूकं धान्यशाकञ्च चित्रकं चक्रमर्दकम्
- नालिकेरञ्च खर्जूरं दाडिमं लवलीफलम् १२४
- शृङ्गाटकञ्च पक्वाम्रं द्रा क्षातालफलानि च
- जातिकोशं लवङ्गं च पूगं ताम्बूलपत्रकम्
- हितान्येतानि वस्तूनि लोहमेतत्समश्नताम् १२५
- नाश्नीयाल्लकुचं कोलकर्कन्धूबदराणि च १२६
- जम्बीरं बीजपूरञ्च तिन्तिडीं करमर्दकम्
- आनूपानि च मांसानि क्रकरं पुण्ड्रकाणि च १२७
- हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः
- मानकन्दं कसेरूणि करकञ्च कलिङ्गकम् १२८
- कूष्माण्डकञ्च कर्कोटं क्रमुकञ्च विशेपतः
- कटुकं कालशाकञ्च कुण्टुरुः कर्कटीं तथा १२९
- ककारादीनि सर्वाणि द्विदलानि च वर्जयेत् १३०
- शङ्करेण समाख्यातो यक्षराजानुकम्पया
- जगतामुपकाराय दुर्नामारिरयं ध्रुवम् १३१
- स्थानाच्चलति मेरुश्च पृथ्वी पर्येति वायुना
- पतन्ति चन्द्र ताराश्च मिथ्या चेदहमब्रुवम् १३२
- ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूरा येऽसत्यवादिनः
- वर्जनीयाः सधर्मेण भिषजा गुरुनिन्दकाः १३३
- मुनिरसपिष्टविडङ्ग मुनिरसलीढं चिरस्थितं घर्मे
- द्रा वयति लोहदोषान्वह्निर्नवनीतपिण्डमिव १३४
- कालेमलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे
- अङ्गेषु नावसादो मनः प्रसादोऽस्य परिपाके १३५
- क्रिमिरिपुर्चूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य
- क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् १३६
- भवेद्यद्यतिसारस्तु दुग्धं पीत्वा तु तं जयेत्
- गुञ्जाद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा १३७
- रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक्
- दुष्टास्रे निःसृते न स्युः शूलानाहासृगामयाः १३८
- चन्दनादिक्वाथः
- चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः
- रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च १३९
- नवनीततिलाभ्यासात्केशरनवनीतशर्कराऽभ्यासात्
- दधिसरमथिताभ्यासाद् गुदजाः शाम्यन्ति रक्तवहाः १४०
- सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन्
- सिताकेशरसंयुक्तं रक्तार्शसि सुखी भवेत् १४१
- पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्
- ओदनमद्यादम्लैः शालिश्यामाककोद्र वजम्
- शशहरिणलावमांसैः कपिञ्जलैरेणमांसैश्च १४२
- समङ्गोत्पलमोचाकतिरीटोत्पलचन्दनैः
- सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके १४३
- भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः
- बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शो भगन्दरम् १४४
- नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि
- त्रिष्वप्यर्शःसु कुर्वीत तत्र तत्र यथोचितम् १४५
- चर्मकीलन्तु संछिद्य दहेत्क्षारेण चाग्निना १४६
- स्त्रीपृष्ठं वेगरोधं च यानान्युत्कटकासनम्
- यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत् १४७
- इति पञ्चमोऽशो रोगाधिकारः समाप्तः ५
जठरान्निगविकाराधिकारः
[सम्पाद्यताम्]- अथ षष्ठो जठरान्निगविकाराधिकारः ६
- कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः
- मन्दस्तीक्ष्णोऽथविषमः समश्चेति चतुर्विधः १
- स्वल्पाऽपि नैव मन्दाग्नेर्मात्रा भुक्ता विपच्यते
- छर्दिः सादः प्रसेकः स्याच्छिरोजठरगौरवम् २
- मात्रातिमात्राऽप्यशिता तीक्ष्णाग्नेः पच्यते सुखम्
- अतएव हि केनापि मतस्तीक्ष्णाग्निरुत्तमः३
- अशिता खलु मात्राऽपि विषमाग्नेस्तु देहिनः
- कदाचित्पच्यते सम्यक् कदाचिन्न विपच्यते ४
- तस्याध्मानमुदावर्त्तं शूलं जठरगौरवम्
- प्रवाहणमतीसारस्तथा स्यादन्त्रकूजनम् ५
- समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
- एषां मध्ये तु सर्वेषां समाग्निः श्रेष्ठ उच्यते ६
- अतिमात्रमजीर्णेऽपि गुरु चान्नं समश्नतः
- दिवाऽपि स्वपतो येन पच्यते सोऽग्निरुत्तमः ७
- तीक्ष्णः पित्तसमुत्थानान्विषमो वातहेतुकान्
- तथा करोति मन्दाग्निर्विकारान् कफसम्भवान् ८
- बह्वर्त्तिरुक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ
- अतिप्रवृद्धः पवनान्वितोऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात्
- तस्मादसौ भस्मकसंज्ञकोऽभूदुपेक्षितोऽय पचते च धातून् ९
- तृट्स्वेददाहमूर्च्छादीन्कृत्वैषोऽत्यग्निसम्भवान्
- पक्त्वाऽन्नमाशु धात्वादीन् स क्षिप्रं नाशयेद् ध्रुवम् १०
- अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
- कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ११
- तृष्णाभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
- प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिपाकमेति १२
- अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः
- रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १३
- प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
- तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति १४
- ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
- विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् १५
- आमं विदग्धं विष्टव्धं कफपित्तानिलैस्त्रिभिः
- अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः १६
- अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
- वदन्ति षष्ठञ्चाजीर्णं प्राकृतं प्रतिवासरम् १७
- तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः
- उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते १८
- विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
- उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते १९
- विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
- मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् २०
- रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे २१
- मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
- उपद्र वा भवन्त्येते मरणञ्चाप्यजीर्णतः २२
- आमं विदग्धं विष्टव्धमित्यजीर्णं यदीरितम्
- विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका २३
- सूचीभिरिव गात्राणि तुदन्सन्तिष्ठतेऽनिलः
- यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते २४
- न तां परिमिताहारा लभन्ते विदितागमाः
- मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः २५
- मूर्च्छाऽतिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
- वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः २६
- निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
- अमी उपद्र वा घोरा विसूच्याः पञ्च दारुणाः २७
- कुक्षिरानह्यतेऽत्यर्थं प्रताम्यत्यथ कूजति
- निरुद्धो मारुतश्चैव कुक्षावुपरि धावति २८
- वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
- तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २९
- नाधो याति न चाप्यूर्ध्वमाहारो यो नपच्यते
- कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः ३०
- यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
- क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरोऽसौ पुनरागमाय ३१
- दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवर्त्तते नोर्ध्वमधश्च यत्र
- विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ३२
- उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
- लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ३३
- हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन च
- सैन्धवेन युता वा स्यात्सातत्येनाग्निदीपनी ३४
- गुडेन शुण्ठीमथ चोपकुल्यां पथ्यां तृतीयामथ दाडिमं वा
- आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ३५
- व्योषं दन्तीं त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम्
- तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ३६
- एतद् गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम्
- शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम् ३७
- दहनाजमोदसैन्धवनागरमरिचानि चाम्लतक्रेण
- सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम् ३८
- तत्रामे वमनं कार्यं विदग्धे लङ्घनं हितम्
- विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च ३९
- वचालवणतोयेन वान्तिरामे प्रशस्यते
- कंणासिन्धुवचाकल्कं पीत्वा वा शिशिराम्भसा ४०
- धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः
- आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम् ४१
- भवेद्यदा प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
- विचूर्णितां शीतजलेन भुक्त्वा भुञ्ज्यादशङ्कं मितमन्नकाले ४२
- विदह्यते यस्य तु भुक्तमात्रं दन्दह्यते हृच्च गलश्च यस्य
- द्रा क्षां सितामाक्षिकसम्प्रयुक्तां लीढ्वाऽभयां चापि सुखं लभेत ४३
- त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः
- प्रथमकवलभुक्तं सर्पिषा चूर्णमेतज्जनयति जठराग्निं वातरोगांश्च हन्ति ४४
- द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च
- सूक्ष्मैला पत्रकं भार्गी कृमिघ्नं हिङ्गु पौष्करम् ४५
- शटी दार्वी त्रिवृन्मुस्तं वचा चेन्द्र यवास्तथा
- वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका ४६
- अम्लवेतसमम्लीका यवानी देवदारु च
- अभयाऽतिविषा श्यामा हपुषाऽरग्वधं समम् ४७
- तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः
- क्षाराणि लौहकिट्टश्च तप्तं गोमूत्रसेचितम् ४८
- सूक्ष्मचूर्णानि कृत्वा तु समभागानि कारयेत्
- मातुलुङ्गरसेनैव प्रदीप्ताग्निसमप्रभम् ४९
- दिनत्रयन्तु शुक्तेन तथाऽद्र करसेन च
- अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ५०
- उपयुक्तं विधानेन नाशयत्यचिराद्गदान्
- अजीर्णमथ गुल्मञ्च प्लीहानं गुदजानि च ५१
- तथान्त्रवृद्धिमुदराण्यष्ठीलां वातशोणितम्
- प्रणुदत्युल्वणान्दोषान्नष्टाग्निं च प्रदीपयेत् ५२
- स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्नवम्
- तिलापामार्गकदलीपलाशं तिन्तिडीं तथा ५३
- गृहीत्वा ज्वालयेदेतत्प्रस्थं भस्माखिलं यथा
- जंलाढके विपक्तव्यं यावत्पादावशेषितम् ५४
- सुप्रसन्नं विनिस्राव्य लवणप्रस्थसंयुतम्
- पक्वं निर्धूमकठिनं सूक्ष्मचूर्णीकृतं पुनः ५५
- यवानीजीरकव्योष स्थूलजीरकहिङ्गुभिः
- पृथगर्धपलैरेभिश्चूर्णि तैस्तद्विमिश्रयेत् ५६
- आर्द्र कस्वरसेनापि भावयेच्छोषयेत् पुनः
- शीतोदकेन तच्चूर्णं पिबेत्प्रातर्हि मात्रया ५७
- तस्मिञ्जीर्णेऽन्नमश्नीयाद्यूषैर्जाङ्गलजैः रसैः
- ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः ५८
- एतेनाग्निर्विवर्द्धेत बलमारोग्यमेव च
- तत्रानुपानं शस्तं हि तक्रं वा भोजने हितम् ५९
- मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च
- अश्मर्यां शर्करायाञ्च विण्मूत्रानिलरोगिषु ६०
- सामुद्र लवणं कार्यमष्टकर्षमितं बुधैः
- सौवर्चलं पञ्चकर्षं विडसैन्धवधान्यकम् ६१
- पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम्
- तालीशं केशरं चव्यमम्लवेतसकं तथा ६२
- द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
- मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् ६३
- दाडिमं स्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
- एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् ६४
- भक्षयेच्छाणमानन्तु तक्रमस्तुककाञ्जिकैः
- वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ६५
- अर्शांसि ग्रहणीं कुष्ठं विबन्धञ्च भगन्दरम्
- शूलं शोथं श्वासकासाऽमदोषांश्चापि हृद्रुजम् ६६
- अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि
- मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम्६७
- हिताय सर्वलोकानां भास्करेण विनिर्मितम्
- हन्यात्सर्वाण्यजीर्णानि भुक्तमात्रमसंशयम् ६८
- सैन्धवसमूलमागधक्षव्यानलनागरं पथ्या
- क्रमवृद्धमग्निवृद्धौ वडवाऽनलनामचूर्णं स्यात् ६९
- पथ्यानागरकृष्णाकरञ्जबिल्वाग्निभिः सितातुल्यैः
- वडवाऽनल इव जरयति बहु गुर्वतिभोजनं चूर्णम् ७०
- एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता
- मरिचं पिप्पली शुण्ठी चतुष्पञ्चषडुत्तरा ७१
- द्र व्याण्येतानि यावन्ति तावती सितशर्करा
- चूर्णमेतत्प्रयोक्तव्यमग्निसन्दीपनं परम् ७२
- द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदम्
- मृतलोहं तथा ताम्रं कर्षद्वयमितं पृथक् ७३
- सञ्चूर्ण्य सर्वं सम्मिश्रं द्रा वयित्वाऽग्नियोगतः
- सम्यग् द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत् ७४
- पुनः सञ्चूर्ण्य तत्सर्वं लोहपात्रं निधापयेत्
- जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत् ७५
- चुल्ल्यां निवेश्य तद्यत्नान्मृदुना वह्निना पचेत्
- रसे तस्मिन्घनीभूते तत्संशोष्य विचूर्णयेत् ७६
- पञ्चकोलकषायस्य चुक्रेण सहितस्य च
- भावना तत्र दातव्या पश्चात्संशोषयेच्छनैः ७७
- भृष्टटङ्कणचूर्णेन तुल्येन सह मेलयेत्
- मरिचेनापि तुल्येन तदर्द्धेन विडेन च ७८
- भावयेत्सप्तकृत्वस्तु चणकाम्लजलेन च
- ततः संशोष्य सम्पिष्य कूपीमध्ये निधापयेत् ७९
- रसः क्रव्यादनामाऽय भैरवानन्दयोगिना
- उक्तः सिंहलराजाय बहुमांसाशिने पुरा ८०
- भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसम्
- भक्षयित्वा रसं पश्चात्पिबेत्तक्रं ससैन्धवम् ८१
- अत्यर्थं गुरु यद् भुक्तमतिमात्रमथापि च
- तत्सर्वं जीर्यति क्षिप्रं रसस्यैतस्य भक्षणात् ८२
- शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा
- रसः क्रव्यादनामाऽय विनिहन्ति न संशयः ८३
- क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं समम्
- सर्वैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ८४
- एतत्सर्वं जयाशिग्रुवह्नीनां केवलैर्द्र वैः
- भावयेत्रिदिनं घर्मे ततो लघु पुटे पचेत् ८५
- मार्कवस्य द्र्रवैर्घृष्टो रसो ज्वालानलो भवेत्
- निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरम् ८६
- हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्दवम्
- श्लेष्महृल्लासवमनमालस्यमरुचिं जयेत् ८७
- टङ्कणं रसगन्धौ च समं भागत्रयं विषात्
- कपर्दः स्वर्जिका क्षारो मागघी विश्वभेषजम् ८८
- पृथक् पृथक्कर्षमात्रं वसुभागमिहोषणम्
- जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः
- विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये ८९
- पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम्
- तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्दितम् ९०
- माषमात्रमनुपानसेवितं रामबाणगुडिका रसायनम्
- बिल्वपत्रमरिचेन भक्षितं सद्य एव जठराग्निवर्द्धितम् ९१
- वातो नाशमुपैति चार्द्र करसैर्निर्गुण्डिकाया द्र्रवैः
- पित्तं नाशमुपैति धान्यकजलैर्वासा त्रिदोषं हरेत्
- श्लेष्मा सिन्धुहरीतकीभिरुदरं क्वाथैश्च पौनर्नवैः
- शोथं पाण्डुगदं निहन्ति गुडिका रोगार्त्तिविध्वंसिनी ९२
- वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः
- सङ्ग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् ९३
- दीयते तु मरिचानुपानतः सद्य एव जठराग्निदीपनः
- रोचनः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ९४
- पलं चिञ्चाक्षारं पलमितमिदं पञ्चलवणं
- द्बयं सम्यक्पिष्टं भवति लघुनिम्बूफलरसैः
- ततः पिष्टे तस्मिन्पलपरिमितं शङ्खशकलं
- क्षिपेद् वारान्सप्त द्र वमिह च तेनैव विधिना ९५
- पलप्रमाणं कटुकत्रयञ्च पलार्द्धमानं वचहिङ्गुभागः
- विषं पलद्बादशभागयुक्तं तावद्र सो गन्धक एष चोक्तः ९६
- बदरास्थिप्रमाणेन वटीमेतस्य कारयेत्
- भक्षयेत्सेवया साम्यात्सर्वाजीर्णप्रशान्तये ९७
- सर्वोदरेषु शूलेषु विसूच्यां विविधेषु च
- अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता ९८
- स्नुह्यार्कचिञ्चाऽपामार्गरम्भातिलपलाशजान्
- लवणानाददीतैषां प्रत्येकं पलमात्रया ९९
- लवणानि पृथक्पञ्च ग्राह्याणि पलमात्रया
- स्वर्जिका च यवक्षारष्टङ्कणं त्रितयं पलम् १००
- सर्वं त्रयोदशपलं सूक्ष्मं चूर्णं विधाय च
- निम्बूफलरसे प्रस्थसम्मिते तत्परिक्षिपेत् १०१
- तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु
- वारान्निर्वापयेत्सप्त सर्वं द्र वति तद्यथा १०२
- नागरं त्रिपलं ग्राह्यं मरिचन्तु पलद्वयम्
- पिप्पली पलमाना स्यात्पलार्द्ध भृष्टहिङ्गुतः १०३
- ग्रन्थितं चित्रकञ्चापि यवानी जीरकं तथा
- जातीफलं लवङ्गञ्च पृथक्कर्षद्वयोन्मितम् १०४
- रसो गन्धो विषं चापि टङ्कणञ्च मनः शिला
- एतानि कर्षमात्राणि सर्वं सञ्चूर्ण्य मिश्रयेत् १०५
- शरावार्द्धेन चुक्रेण वटिकां तस्य कारयेत्
- माषप्रमाणां सद्वैद्यैर्बृहच्छङ्खवटी स्मृता १०६
- सर्वाजीर्णप्रशमनी सर्वशूलनिवारिणी
- विसूच्यलसकादीनां सद्यो भवति नाशनी १०७
- टङ्कणकणाऽमृतानां सहिङ्गुलानां समं भागम्
- मरिचस्य भागयुगलं निम्बूनीरैर्वटी कार्या १०८
- वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात्
- सत्यमजीर्णेशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै १०९
- जलपीतमपामार्गमूलं हन्याद्बिसूचिकाम्
- सतैलं कारवेल्ल्यम्बु नाशयेद्धि विसूचिकाम् ११०
- बालमूलस्य तु क्वाथः पिप्पलीचूर्णसंयुतः
- विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः १११
- बिल्वनागरनिक्वाथो हन्याच्छर्दिंविसूचिकाम्
- बिल्वनागरकैटर्यक्वाथस्तदधिको गुणैः ११२
- व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः
- छायाविशुष्का वटिका कृता सा हन्याद्विसूचीं नयनाञ्जनेन ११३
- अपामार्गस्य पत्राणि मरिचानि समानि च
- अश्वस्य लालया पिष्ट्वाऽञ्जनाद्धन्ति विसूचिकाम् ११४
- विसूच्यामतिवृद्धायां तक्रं दधि समं जलम्
- नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत् ११५
- त्वक्पत्रकैरण्डकशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः
- उद्वर्त्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वञ्च तदर्थकारि ११६
- कुष्ठसैन्धवयोः कल्कं शुक्रं तैले तु साधितम्
- विसूच्यां मर्दनं तेन खल्लीशूलनिवारणम् ११७
- पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते
- जातीफलस्य वा पीतं शृतं भद्र घनस्य वा ११८
- उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकष्ठीवनेरितम्
- हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ११९
- सरुग् वाऽनद्धमुदरमम्लपिष्टैः प्रलेपयेत्
- दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १२०
- तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्त्तिं जठरे निहन्यात्
- स्वेदो घटैर्वाऽप्यथ बाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पिण्डतापैः १२१
- विलम्बिकाऽलसकयोरयमेव क्रियाक्रमः
- अत एव तयोरुक्तं पृथङ् नहि चिकित्सितम् १२२
- तं भस्मकं गुरुस्निग्धसान्द्र मन्दहिमस्थिरैः
- अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः १२३
- अत्यद्भुताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि
- संसेवेत यवागूं समपिष्टे पयसि सर्पिषा सिद्धाम् १२४
- असकृत्पित्तहरणं पायसं प्रतिभोजनम्
- श्यामात्रिवृद्विपक्वञ्च पयो दद्याद्विरेचनम् १२५
- यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरु भोजनम्
- सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा १२६
- सिततण्डुलसितकमलं छागक्षीरेण पायसं सिद्धम्
- भुक्त्वा च तेन पुरुषो दशदिवसात्तुच्छभोजनो भवति १२७
- अलं पनसपाकाय फलं कदलसम्भवम्
- कदलस्य तु पाकाय बुधैरपि घृतं हितम् १२८
- घृतस्य परिपाकाय जम्बीरस्य रसो हितः १२९
- नारिकेलफलतालबीजयोः पाचकं सपदि तण्डुलं विदुः
- क्षीरमेव सहकारपाचनं चारमज्जनि हरीतकी हिता १३०
- मधूकमालूरनृपादनानां परुषखर्जूरकपित्थकानाम्
- पाकाय पेयं पिचुमन्दबीजं घृतेऽपि तक्रेऽपि तदेव पथ्यम् १३१
- खर्जूरशृङ्गाटकयोः प्रशस्तं विश्वौषधं कुत्र च भद्र्रमुस्तम्
- यज्ञाङ्गबोधिद्रुफलेषु शस्तं प्लक्षे तथा पर्युषितं प्रपीतम् १३२
- तण्डुलेषु च पयः पयस्वथो दीप्यकस्तु चिपिटे कणायुतम्
- षष्टिका दधिजलेन जीर्यते कर्कटी च सुमनेषु जीर्यति १३३
- गोधूममाषहरिमन्थसतीनमुद्ग पाको भवेज्झटिति मातुलपुत्रकेण
- खर्जूरिकाबिसकशेरुसितासु शस्तं शृङ्गाटके मधुफलेष्वपि भद्र मुस्तम् १३४
- कङ्गुश्यामाकनीवाराः कुलत्थाश्चाविलम्बितम्
- दध्ना जलेन जीर्यन्ति वैदलः काञ्जिकेन तु १३५
- पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत्
- माषेण्डरीं निम्बुफलं पायसं मुद्गयूषकः १३६
- वटो वेसवाराल्लवङ्गेन फेनः समं पपर्टः शिग्रुबीजेन याति
- कणामूलतो लड्डुकापूपसट्टाऽदिपाको भवेच्छष्कुलीमण्डयोश्च १३७
- किमत्र चित्रं बहुमत्स्यमांस भोजी सुखी काञ्जिकपानतः स्यात्
- इत्यद्भुतं केवलवह्निपक्वमांसेन मत्स्यः परिपाकमेति १३८
- आममाम्रफलं मत्स्ये तद्बीजं पिशिते हितम्
- कूर्ममांसं यवक्षारैः शीघ्रं पाकमुपैति हि १३९
- कपोतपारावतनीलकण्ठकपिञ्जलानां पिशितानि भुक्त्वा
- काशस्य मूलं परिपिष्य पीतं सुखी भवेन्ना बहुशो हि दृष्टम् १४०
- मांसानि सर्वाण्यपि यान्ति पाकं क्षीरेण सद्यस्तिलनालजेन
- चञ्चूकसिद्धार्थकवास्तुकानां गायत्रिसारक्वथितेन पाकः १४१
- पालङ्किकाकेबुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम्
- उपोदिकाऽलाबुपटोलकानां सिद्धार्थको मेघरवश्च पक्ता १४२
- विपच्यते शूरणको गुडेन तथाऽलुकं तण्डुलधावनेन
- पिण्डालुकं जीर्यति कोरदूषात्कशेरुपाकः किल नागरेण १४३
- लवणस्तण्डु लतोयात्सर्पिर्जम्बीरकाद्यम्लात्
- मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलम् १४४
- क्षीरं जीर्यति तक्रेण तद्द्र व्यं कोष्णमण्डकात्
- माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि १४५
- रसालं जीर्यति व्योषात्खण्डं नागरभक्षणात्
- सिता नागरमुस्तेन तथेक्षुश्चार्द्रि कारसात् १४६
- जरामिरा गैरिकचन्दनाभ्यामभ्येति शीघ्रं मुनिभिः प्रदिष्टम्
- उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत्क्षारगणस्तथाऽम्लै १४७
- तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः
- पीत्वाऽजीर्णं तोयजातं निहन्यात्तत्र क्षौद्रं भद्र मुस्तं विशेषात् १४८
- इति षष्ठो जठराग्निविकाराधिकारः समाप्तः ६
कृमिरोगाधिकारः
[सम्पाद्यताम्]- अथ सप्तमः कृमिरोगाधिकारः ७
- कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः १
- बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः
- नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः २
- तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
- बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ३
- द्विधा ते कोठपिडिकाः कण्डूगण्डान्प्रकुर्वते ४
- अजीर्णभोजी मधुराम्लसेवी द्र वप्रियः पिष्टगुडोपभोक्ता
- व्यायामवर्जी च दिवाशयी च विरुद्धभोजी लभते कृमींश्च ५
- ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः
- भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ६
- मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ७
- कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः
- पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ८
- रुढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः
- श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ९
- अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
- च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते १०
- हृल्लासमास्यस्रवणमविपाकमरोचकम्
- मूर्च्छाच्छर्दिज्वरानाहकासक्षवथुपीनसान् ११
- विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि १२
- रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः
- प्रपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः १३
- केशादा लोमविध्वंसा रोमद्वीपा उदुम्बराः
- षट् ते कुष्ठैककर्माणः सहसौरसमातरः १४
- माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः १५
- पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
- वृद्धास्ते स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखा
- तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
- पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १६
- ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः
- सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च
- विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः १७
- विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः
- दीपनं कृमिनाशाय जठराग्निविवृद्धये १८
- प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्
- कृमीणां नाशनं रुच्यमग्निसन्दीपनं परम् १९
- विडङ्गशृतपानीयं विडङ्गेनावधूलितम्
- पीतं कृमिहरं दृष्टं कृमिजांश्च गदाञ्जयेत् २०
- लिह्याद्विडङ्गचूर्णं वा मधुना कृमिनाशनम्
- पलाशबीजस्य रसं पिबेन्माक्षिकसंयुतम्
- पिबेत्तद्बीजकल्कं वा मधुना कृमिनाशनम् २१
- कम्पिल्लचूर्णकर्षार्द्धं गुडेन सह भक्षितम्
- पातयेत्तु कृमीन्सर्वानुदरस्थान्न संशयः २२
- विडङ्गं कौटजं बीजं तथा बीजं पलाशजम्
- सञ्चूर्ण्य खादेत्खण्डेन कृमीन्नाशयितुं नरः २३
- निम्बपत्रसमुद्भूतं रसं क्षौद्र्रयुतं पिबेत्
- धत्तूरपत्रजं वाऽपि कृमिनाशनमुत्तमम् २४
- रसेन्द्रे ण समायुक्तो रसो धत्तूरपत्रजः
- ताम्बूलपत्रजो वाऽपि लेपो यूकाविनाशनः २५
- धत्तूरपत्रकल्केन तद्र्रसेनैव पाचितम्
- तैलमभ्यङ्गमात्रेण यूका नाशयति क्षणात् २६
- कृमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्
- रक्तजानान्तु संहारं कुर्यात्कुष्ठचिकित्सया २७
- क्षीराणि मांसानिघृतानि चापि दधीनि शाकानि च वर्णयन्ति
- अम्लञ्च मिष्टञ्च रसं विशेषात्कृमीञ्जिघांसुः परिवर्जयेद्धि २८
- इति सप्तमः कृमिरोगाधिकारः सम्पूर्णः ७
पाण्डुरोगकामलाहलीमकाधिकारः
[सम्पाद्यताम्]- अथाष्टमः पाण्डुरोगकामलाहलीमकाधिकारः ८
- पण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
- चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः १
- व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
- निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति २
- त्वक्स्फोटनिष्ठीवनगात्रसादमृद्भक्षण प्रेक्षणकूटशोथाः
- विण्म्रूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ३
- त्वङ्मूत्रनयनादीनां रुक्षकृष्णारुणाभता
- वातपाण्ड्वामये कम्पस्तोदानाहभ्रमादयः ४
- पीतत्वङ्नखविण्मूत्रो दाहतृष्णाज्वरान्वितः
- भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ५
- कफप्रसेकः श्वयथुस्तन्द्रा ऽलस्यातिगौरवैः
- पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ६
- सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्
- त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् ७
- मृत्तिकाऽदनशीलस्यकुप्यत्यन्यतमो मलः
- कषाया मारुतं पित्तमूषरा मधुरा कफम् ८
- कोपयेन्मृद्र्रसादींश्च रौक्ष्याद् भुक्तञ्च रूक्षयेत्
- पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्य्पि ९
- इन्द्रि याणां बलं हत्वा तेजो वीर्यौजसी तथा
- पाण्डुरोगंकरोत्याशु बलवर्णाग्निनाशनम् १०
- मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रा ऽलस्यनिपीडितः
- सकासश्वासशूलार्त्तः सदाऽरुचिसमन्वितः ११
- शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
- कृमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् १२
- ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
- पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः १३
- पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
- कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति १४
- बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
- दीनः स्वेदातिदिग्धाङ्गश्छर्दिमूर्च्छातृषाऽन्वितः १५
- पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्
- पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति १६
- अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
- गुदे मुखे शेफसि मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्
- विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितञ्च १७
- पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
- तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते १८
- हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
- पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः १९
- दाहाविपाकदौर्बल्यसदनारुचिकर्षितः २०
- कामलाबहुपित्तैषा कोष्ठशाखाऽश्रया मता
- कालान्तरात्खरीभूता कृच्छ्रास्यात्कुम्भकामला २१
- छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः
- नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली २२
- कृष्णपीतशकृन्मूत्रो भृशं शूनश्र मानवः
- सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति २३
- दाहारुचितृषाऽनाहतन्द्रा मोहसमन्वितः
- नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते २४
- यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः
- बलोत्साहक्षयस्तन्द्र मन्दाग्नित्वं मृदुज्वरः २५
- स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासतृष्णाऽरुचिभ्रमाः
- हलीमकं तदा तस्य विद्यादनिलपित्ततः २६
- सप्तरात्रं गवां मूत्रैर्भावितञ्चायसो रजः
- पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः २७
- गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः
- पाण्डुरोगः क्षयं याति पक्तिशूलञ्च दारुणम् २८
- अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम्
- मधुसर्पिर्युतं लीढ्वा पाण्डुरोगी सुखी भवेत् २९
- पुनर्नवा त्रिवृद्व्योषं विडङ्गं दारुचित्रकम्
- कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम् ३०
- कटुका पिप्पलीमूलं मुस्तं शृङ्गी च कारवी
- यवानी कट्फलञ्चेति पृथक्पलमितं समम् ३१
- मण्डूरं द्विगुणं चूर्णाद् गोमूत्रेऽष्टगुणे पचेत्
- गुडेन वटकान्कृत्वा तक्रेणालोड्य तान्पिबेत् ३२
- पुनर्नवादिमण्डूर वटकोऽश्विविनिर्मितः
- पाण्डुरोगं निहन्त्याशु कामलाञ्च हलीमकम् ३३
- श्वासं कासञ्च यक्ष्माणं ज्वरं शोथं तथोदरम्
- शूलं प्लीहानमाध्मानमर्शांसि ग्रहणीकृमीन्
- वातरक्तञ्च कुष्ठञ्च सेवनान्नाशयेद् ध्रुवम् ३४
- त्र्! यूषणं त्रिफला मस्तं विडङ्गं चित्रकं तथा
- एतानि नवभागानि नवभागा हतायसः ३५
- एतदेकीकृतं चूर्णं नरोऽष्टादशरक्तिकम्
- प्रलिह्यान्मधुसर्पिर्भ्यां पिबेत्तक्रेण वा सह ३६
- गोमूत्रेण पिबेद्वाऽपि पाण्डुरोगं विनाशयेत्
- शोथं हृद्र्रोगमुदरकृमिकुष्ठं भगन्दरम् ३७
- नाशयेदग्निमान्द्यञ्च दुर्नामकमरोचकम्
- आर्द्र कस्य रसेनापि लिह्यात्कफसमृद्धिमान् ३८
- त्रिफलाया गुडूच्यावा दार्व्या मरिचकस्य वा
- क्वाथो माक्षिकसंयुक्तः शीतलः कामलाऽपहः ३९
- अञ्जने कामलार्त्तानां द्रो णपुष्पीरसो हितः
- गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली ४०
- धात्रीलौहरजोव्योषनिशाक्षौद्रा ज्यशर्कराः
- लीढा निवारयन्त्याशु कामलामुद्धतामपि ४१
- कुम्भाख्यकामलायां तु हितः कामलिको विधिः
- गोमूत्रेण पिबेत्कुम्भकामलावाञ्छिलाजतुम् ४२
- दग्धाऽक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्वापितमष्टवारान्
- विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ४३
- अपहरति कामलार्तिं नस्येन कुमारिकाजलं सद्यः ४४
- मारितं चायसं चूर्णं मुस्ताचूर्णेन संयुतम्
- खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम् ४५
- सितातिलबलायष्टित्रिफलारजनीयुगैः
- लौहं लिह्यात्समध्वाज्यं हलीमकनिवृत्तये ४६
- अमृतलतारसकल्कं प्रसाधितंतुरगविद्विषः सर्पिः
- क्षीरं चतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः ४७
- मधुरैरन्नपानैस्तं वातपित्तहरैर्हरेत्
- कामलापाण्डुरोगोक्तां क्रियां चात्रोपयोजयेत् ४८
- फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः क्वाथः
- क्षौद्र युतोऽय हन्याद्धलीमकं पाण्डुकामलारोगम् ४९
- त्र्! यूषणंत्रिफला मुस्तं विडङ्गं चव्यचित्रकम्
- दार्वीत्वङ् माक्षिको धातुर्ग्रन्थिको देवदारु च ५०
- एषां द्विपलिकान्भागान्कृत्वा चूर्णं पृथक्पृथक्
- मण्डूरचूर्णं द्विगुणंशुद्धमञ्जनसन्निभम् ५१
- मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत्प्रक्षिपेन्नरः
- उदुम्बरसमाकारान्वटकांस्तान्यथाऽग्नि च ५२
- उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम्
- मण्डूरवटिका ह्येताः प्राणदाः पाण्डुरोगिणाम् ५३
- कुष्ठानि जठरं शोथमूरुस्तम्भं कफामयान्
- अर्शांसि कामलां मेहंप्लीहानं शमयन्ति च ५४
- किराततिक्ता सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम्
- दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकञ्च ५५
- फलं विडङ्गस्य समांशकानि सर्वैः समं चूर्णकमायसञ्च
- सर्पिर्मधुभ्यां वटिका विधेया तक्रानुपानाद्भिषजा प्रयोज्या ५६
- निहन्ति पाण्डुञ्च हलीमकं च शोथं प्रमेहं ग्रहणीरुजञ्ज
- श्वासञ्ज कासञ्च सरक्तपित्तमर्शांस्यथो वाग्ग्रहमामवातम्
- व्रणांश्च गुल्मान्कफविद्र धिञ्च श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात् ५७
- यवगोधूमशाल्यन्नैः रसैर्जाङ्गलजैर्हितैः
- मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते ५८
- इत्यष्टमः पाण्डुरोगकामलाहलीमकाधिकारः समाप्तः ८
रक्तपित्ताधिकारः
[सम्पाद्यताम्]- अथ नवमो रक्तपित्ताधिकारः ९
- घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः
- तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च
- पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् १
- ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा २
- ऊर्ध्वं नासाऽक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
- कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ३
- सदनं शीतकामित्वं कण्ठधूमायनं वमिः
- लौहगन्धस्य निश्वासो भवत्यस्मिन्भविष्यति ४
- सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
- श्यावारुणं सफेनं च तनु रूक्षञ्च वातिकम् ५
- रक्तपित्तंकषायाभं कृष्णं गोमूत्रसन्निभम्
- मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम् ६
- संसृष्टलिङ्गसंसर्गात्त्रिलिङ्गं सान्निपातिकम्
- ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्
- द्विमार्गं कफवाताभ्यामुभाभ्यां तत्प्रवर्त्तते ७
- दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
- भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
- तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठीवनञ्च
- द्वेषो भक्तेऽविपाको विकृतिरपिभवेद्र क्तपित्तोपसर्गाः ८
- एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते
- यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ९
- ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
- व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतस्तु यत् १०
- एकमार्गं बलवतो नातिवेगं नवोत्थितम्
- रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र्रवम् ११
- मांसप्रक्षालनाभं क्वथितमिव च यत्कर्दमाम्भोनिभं वा
- मेदः पूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
- यत्कृष्णं यच्च नीलं भृशमपि कुणपं यत्र चोक्ता विकारा
- स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १२
- येन चोपहतो रक्तं रक्तपित्तेन मानवः
- पश्येद् दृश्यं वियच्चापि तदसाध्यमसंशयम् १३
- लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
- लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः १४
- पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनो यतः
- हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् १५
- शालिषष्टिकनीवारकोरदूषप्रसाधिकाः
- श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् १६
- मसूरमुद्गचणकाः समकुष्ठाढकीफलाः
- प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् १७
- दाडिमामलकं विद्वानम्लार्थं चापि दापयेत्
- पटोलनिम्बन्यग्रोधप्लक्षवेतसपल्लवाः १८
- शाकार्थं शाकसात्म्यानां तण्डुलीयादयो हिताः
- पारावतान्कपोतांश्च लावान् रक्ताक्षवर्त्तकान् १९
- शशान्कपिञ्जलानेणान्हरिणान्कालपुच्छजान्
- रक्तपित्तहरान्विद्याद्र्रसांस्तेषां प्रयोजयेत् २०
- ईषदम्लाननम्लांश्च घृतभृष्टान्ससैन्धवान्
- कफानुगे यूषशाकान्दद्याद्वातानुगे रसम् २१
- पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः २२
- धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
- रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् २३
- ह्रीबेरमुत्पलं धान्यं चन्दनं यष्टिकाऽमृता
- उशीरञ्च त्रिवृच्चैषां क्वाथं समधुशर्करम् २४
- पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति
- रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा २५
- पद्मोत्पलानां किञ्जल्कः पृश्निपर्णीप्रियङ्गुकाः
- जले साध्या रसे तस्मिन्पेया स्याद्र क्तपित्तिनाम् २६
- वासापत्रसमुद्भूतो रसः समधुशर्करः
- क्वाथो वा हरते पीतो रक्तपित्तं सुदारुणम् २७
- पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
- समधुर्हरते रक्तपित्तं कासज्वरक्षयान् २८
- उत्पलं कुमुदं पद्मं कह्लारं लोहितोत्पलम्
- मधुकञ्चेति पित्तासृक्तृष्णाच्छर्दिहरो गणः २९
- वासायां विद्यमानायामाशायां जीवितस्य च
- रक्तपित्ती क्षयी कासी किमर्थमवसीदति ३०
- आटरूषक मृद्वीका पथ्याक्वाथः सशर्करः
- क्षौद्र्राढ्यःसकलश्वासरक्तपित्तनिबर्हणः ३१
- दूर्वा सोत्पलकिञ्जल्कमञ्जिष्ठासैलवालुका
- शीता शीतमुशीरञ्च मुस्तं चन्दनपद्मकम् ३२
- विपचेत्कार्षिकैरेतैराजं प्रस्थमितं घृतम्
- तण्डुलानां जलं छागीक्षीरं दद्याच्चतुर्गुणम् ३३
- तत्पानं वमतो रक्तं नावनं नासिकागते
- कर्णाभ्यां यस्य गच्छेत्तु तस्य कणौ प्रपूरयेत् ३४
- चक्षुः स्रवति रक्तञ्चेत्पूरयेत्तेन चक्षुषी
- मेढ्रपायुप्रवृत्ते तु वस्तिकर्मसु योजयेत् ३५
- रोमकूपप्रवृत्ते तु तदभ्यङ्गं प्रयोजयेत्
- सर्वेषु रक्तपित्तेषु तस्माच्छ्रेष्ठमिदं घृतम् ३६
- मृद्वीकां चन्दनं लोध्रं प्रियङ्गुञ्च विचूर्णयेत्
- चूर्णमेतत्पिबेत्क्षौद्र वासारससमन्वितम् ३७
- नासिकामुखपायुभ्यो योनिमेढ्रादिवेगितम्
- रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ३८
- यच्च शस्त्रक्षतेनेव रक्तं स्रवति वेगतः
- तदप्येतेन चूर्णेन तिष्ठत्येवावचूर्णितम् ३९
- इक्षूणां मध्यकाण्डानि सकन्दं नीलमुत्पलम्
- केशरं पुण्डरीकस्य मोचामधुकपद्मकैः ४०
- वटप्ररोहशुङ्गाश्च द्रा क्षा खर्जूरमेव च
- एतानि समभागानि कषायं सम्प्रकल्पयेत् ४१
- उषितं मधुसंयुक्तं पाययेच्छर्कराऽन्वितम्
- सप्रमेहं रक्तपित्तं क्षिप्रमेतन्नियच्छति ४२
- द्रा क्षया फलिनीभिर्वा प्रियालमधुकेन वा
- श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ४३
- पक्वोदुम्बरकाश्मर्यः पथ्याखर्जूरगोस्तनाः
- मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक् ४४
- अतिनिःसृतरक्तो वा क्षौद्र्रयुक्तं पिबेदसृक्
- यकृद्वा भक्षयेदाजं मांसं वा पित्तसंयुतम् ४५
- नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्
- सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन ४६
- घ्राणप्रवृत्ते जलमाशु पेयं सशर्करं नासिकया च यो वा
- द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करञ्चेक्षुरसं हिमं वा ४७
- नस्ये दाडिमपुष्पस्य रसो दूर्वाभवोऽपि वा
- आम्रास्थिजः पलाण्डोर्वा नासिकास्राविरक्तजित् ४८
- पुराणं पीनमानीय कूष्माण्डस्य फलं बृहत्
- तद्बीजाधारबीजत्वक्छिराशून्यं समाचरेत् ४९
- ततस्तस्य तुलां नीत्वा पचेज्जलतुलाद्वये
- तस्मिन्नीरेऽद्धशिष्टे तु यत्नतः शीतलीकृते ५०
- तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
- यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ५१
- कूष्माण्डं शोषयेद्घर्मे ताम्रपात्रे ततः क्षिपेत्
- क्षिप्त्वा तत्र घृतं प्रस्थं कूष्माण्डं तेन भर्जयेत् ५२
- मधुवर्णं तदालोक्य तज्जलं तत्र निक्षिपेत्
- सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत्पचेत् ५३
- सुपक्वे पिप्पलीशुण्ठीजीराणां द्विपले पृथक्
- पृथक्पलार्द्धं धान्याकं पत्रैलामरिचत्वचम् ५४
- चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्र्रमावपेत्
- एतत्पलमितं खादेदथ वाऽग्निबलं यथा ५५
- खण्डकूष्माण्डलेहोऽय रक्तपित्तञ्च नाशयेत्
- पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ५६
- कासं श्वासञ्च हृद्र्रोगं स्वरभेदं क्षतं क्षयम्
- नाशयत्येव वृद्धिञ्च बृंहणो बलवर्द्धनः ५७
- पुराणं पीनमानीय कूष्माडस्य फलं दृढम्
- तद्वीजाधारबीजत्वक्छिराशून्यं समाचरेत् ५८
- ततोऽतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत्
- गोदुग्धस्य तुलामध्ये मन्देऽग्नौ वा पचेच्छनैः ५९
- शर्करायास्तुलां सार्द्धां गोघृतं प्रस्थमात्रकम्
- प्रस्थार्द्धं माक्षिकञ्चापि कुडवं नारिकेलतः ६०
- प्रियालफलमज्जानां द्विपलं तिखुरीपलम्
- क्षिपेदेकं च विपचेल्लेहवत्साधु साधयेत् ६१
- भिषक्सुपक्वमालोक्य ज्वलनादवतारयेद्
- कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ६२
- एकोऽक्ष शतपुष्पाया अथ क्षीरी यवानिका
- गोक्षुरः क्षुरकः पथ्या कपिकच्छुफलानि च ६३
- सप्तमी त्वक्च सर्वेषामक्षयुग्मं पृथक्पृथक्
- धान्यकं पिप्पली मुस्तमश्वगन्धा शतावरी ६४
- तालमूली नागबला बालकं पत्रकं शटी
- जातीफलं लवङ्गञ्च सूक्ष्मैला बृहदेलिका ६५
- शृङ्गाटकं पर्पटकं सर्वं पलमितं पृथक्
- चन्दनं नागरं धात्रीफलञ्चापि कशेरुजम् ६६
- प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत्
- पलद्वयमुशीरस्य मसनस्योषणस्य च ६७
- कूष्माण्डस्यावलेहोऽय भक्षितः पलमात्रया
- किं वा यथावह्निबलं भुक्त्वारोगान्विनाशयेत् ६८
- रक्तपित्तं शीतपित्तमम्लपित्तमरोचकम्
- बह्निमान्द्यं सदाहञ्च तृष्णां प्रदरमेव च ६९
- रक्तार्शोऽपि तथा छर्दि पाण्डुरोगञ्च कामलाम्
- उपदंशं विसर्पञ्च जीर्णञ्च विषमं ज्वरम् ७०
- लेहोऽय परमो वृष्यो बृंहणो बलबर्द्धनः
- स्थापनीयः प्रयत्नेन भाजने मृण्मये नवे ७१
- कूष्माण्डकस्य स्वरसं पलानां शतमात्रया
- रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम् ७२
- मृद्वग्निना पचेत्तावद्यावद्भवति पिण्डवत्
- धात्रीतुल्या सिता योज्या पलार्द्धं लेहयेदनु ७३
- खण्डकूष्माण्डकं ह्येतद् भुक्तमभ्यासतो हरेत्
- रक्तपित्तमम्लपित्तं दाहं तृष्णाञ्च कामलाम् ७४
- शतावरी छिन्नरुहा वृषो मुण्डतिका बला
- तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ७५
- भार्गी पुष्करमूलञ्च पृथक्पञ्च पलानि च
- जलद्रो णे विपक्तव्यमष्टभागावशेषितम् ७६
- दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा
- पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ७७
- खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः
- पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ७८
- प्रस्थार्धं मधुना देयं शुभाश्मजतुकस्य च
- शृङ्गी कृष्णा विडङ्गञ्च शुण्ठ्यजाजी पलं पलम् ७९
- त्रिफला धान्यकं पत्रं कणा मरिचकेशरम्
- चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ८०
- यथाकालं प्रयुञ्जीत बिडालपदमात्रकम्
- गव्यक्षीरानुपानञ्च सेव्यो मांसरसः पयः ८१
- गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् रक्तपित्तं क्षयं कासं पार्श्वशूलं विशेषतः ८२
- वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्
- श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरं तथा ८३
- आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च
- चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्द्धनम् ८४
- आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्
- श्रीकरंलाघवञ्चैव खण्डकाद्यं प्रकीर्त्तितम् ८५
- छागं पारावतं मांसं तित्तिरिः क्रकरः शशः
- कुरङ्गः कृष्णसारश्च मांसमेषां प्रयोजयेत् ८६
- नारिकेलपयः पानं सुनिषण्णकवास्तुकम्
- शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ८७
- वार्ताकुं पक्वमाम्रञ्च खर्जूरं स्वादु दाडिमम्
- ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम् ८८
- वर्जनीयं विशेषेण खण्डकाद्यं समश्नता
- लोहान्तरवदत्रापि पुटनादिक्रियेष्यते
- न पुनर्माक्षिकेणैव शिलयैव हि मारणम् ८९
- शतावरीमूलकल्कं कल्कात्क्षीरं चतुर्गुणम्
- क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ९०
- घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत्सदा
- रक्तपित्तं ह्याम्लपित्तं क्षयं श्वासञ्च नाशयेत् ९१
- इति नवमो रक्तपित्ताधिकारः समाप्तः ९
अम्लपित्तश्लेष्मपित्ताधिकारः
[सम्पाद्यताम्]- अथ दशमोऽम्लपित्तश्लेष्मपित्ताधिकारः १०
- विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
- पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः १
- अविपाकः क्लमोत्क्लेशस्तिक्ताम्लोद्गारगौरवैः
- हृत्कण्ठदाहारुचिभिरम्लपिक्तं वदेद्भिषक्
- अम्लपित्तं द्विधा प्रोक्तमधोगं च तथोर्ध्वगम् २
- वातं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाच्छम्
- मत्स्योदकाभं त्वतिपिच्छिलाभं श्लेष्मानुजातं सहितं रसेन ३
- तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
- हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ४
- भुक्ते विदग्धेऽप्यथ वाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
- उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजञ्च ५
- करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
- जनयति कण्डूमण्डलपिडकाशतनिचितरोगचयम् ६
- सानिलं सानिलकफं सकफं तच्च लक्षयेत्
- दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ७
- कम्पप्रलापमूर्च्छाश्चिमिचिमिगात्रावसादशूलानि
- तमसो दर्शनविभ्रमप्रमोहहर्षास्तथाऽनिलयुतेन ८
- कफनिष्ठीवनगौरवजडताऽरुचिशीतसादवमिलेपाः
- दहनबलहानिकण्डूनिद्रा श्चिह्नं कफानुगे भवति
- उभयमिदमेव चिह्नं मारुतकफसम्भवेऽम्लपित्ते स्यात् ९
- रोगोऽयमम्लपित्ताख्यो यत्नात्संसाध्यते नवः
- चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् १०
- तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत्
- तमो मूर्च्छाऽरुचिश्छर्दिरालस्यं च शिरोरुजा
- प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ११
- अम्लपित्ते तु वमनं पटोलारिष्टवासकैः
- कारयेन्मदनैः क्षौद्रै ः! सैन्धवैश्च तथा भिषक् १२
- विरेचनं त्रिवृच्चूर्णं मधुधात्रीफलद्र वैः
- ऊर्ध्वगं वमनैर्विद्वानधोगं रेचनैर्हरेत् १३
- यवगोधूमविकृतीस्तीक्ष्ण संस्कारवर्जिताः
- यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् १४
- निस्तुषयववृषधात्रीक्वथितं सलिलं त्रिगन्धमधुयुक्तम्
- द्रुततरमपहरति वमिं सञ्जनितामम्लपित्तेन १५
- छिन्नोद्भवानिम्बपटोलपत्रं क्षौद्रा न्वितं पीतमनेकरूपम्
- सुदारुणं हन्ति तदम्लपित्तं यथाऽशनिस्तालतरुं प्रवृद्धम् १६
- वासाऽमृतापर्पटक निम्बभूनिम्बमार्कवैः ऐत्रिफलाकुलकैः क्वाथः सक्षौद्र श्चाम्लपित्तहा १७
- पाठापटोलयवचन्दनधान्य धात्रीवासावराङ्गदल नागकणऽभयाभिः लेहःसिताऽज्यमधुभिःशिवपाल पिण्डीहन्त्यम्ल पित्तमरुचिज्वरदाहशोषान् १८
- हन्त्यम्लपित्तवमनारुचिदाहमोहखालित्यमेहशिशिरव्रणशुक्रदोषान्
- भुक्त्वा नरः सततमामलकीरसेन वृद्धोऽप्यनेन हि भवेत्तरुणो रिरंसुः १९
- कूष्माण्डकरसो ग्राह्यः पलानां शतमात्रकम्
- रसतुल्यं गवां क्षीरं धात्रीचूर्णंपलाष्टकम् २०
- धात्रीतुल्यासिता योज्या गव्यमाज्यं पलद्वयम्
- मन्दाग्निना पचेत्सर्वं यावद्भवति पिण्डितम् २१
- पलार्द्धं पलमेकं वा प्रत्यहं भक्षयेदिदम्
- खण्डकूष्माण्डकं ख्यातमम्लपित्तापहं परम् २२
- कुडवं नारिकेलस्य जले मृद्वग्निना पचेत्
- नारिकेलजलालाभे गव्ये पयसि तत्पचेत् २३
- धान्यकं पिप्पली मुस्तं चातुर्जातं विचूर्णितम्
- प्रत्येकं टङ्कमात्रं तु शीते तस्मिन्विनिक्षिपेत् २४
- पलमात्रस्तदर्द्धोऽपि भक्षितः प्रत्यहं नरैः
- नारिकेलस्य खण्डोऽय पुंस्त्वनिद्रा बलप्रदः २५
- अम्लपित्तं रक्तपित्तं शूलञ्च परिणामजम्
- क्षयं क्षययति क्षिप्रं शुष्कं दार्वनलो यथा २६
- प्रस्थन्तु नारिकेलस्य सूक्ष्मं दृषदि पेषितम्
- निष्कुलीकृतकूष्माण्डखण्डानामर्द्धमाढकम् २७
- तद्द्वयं भक्षयेद्ग्रव्ये घृते तु कुडवोन्मिते
- ततस्तत्र क्षिपेच्छुद्धं गोदुग्धञ्चाढकोन्मितम् २८
- तत्रैव निक्षिपेद्भव्यां सितां प्रस्थद्वयोन्मिताम्
- पचेत्सर्वाणि चैकत्र मृदुना वह्निना भिषक् २९
- सुपक्के शीतले तत्र चूर्णीकृत्य विनिक्षिपेत्
- सूक्ष्मैलां धान्यकं धात्रीं पर्पटं जलदं जलम् ३०
- उशीरं चन्दनं द्रा क्षां शृङ्गाटञ्च कशेरुकम्
- त्वक्पत्रकं सकर्पूरं कर्षयुग्मं पृथक्पृथक् ३१
- सर्वं संमिश्रयेद्र क्षेद्भाजने मृण्मये नवे
- पलमात्रमिदं प्रातर्भक्षयेद्वा यथाऽनलम् ३२
- एतन्निषेवितं हन्ति रोगानेतान्न संशयः
- अम्लपित्तं ज्वरं पित्तं रक्त पित्तमरोचकम् ३३
- वातरक्तं तृषां दाहं पाण्डुरोगञ्च कामलाम्
- क्षयं क्षपयति क्षिप्रं शूलञ्च परिणामजम् ३४
- नारिकेलस्य खण्डोऽयमश्विभ्यां भाषितः पुरा
- वर्णदो बृहंणो वृष्यः पुंस्त्वनिद्रा बलप्रदः ३५
- अभया पिप्पली द्रा क्षा सितधान्यकवासकम्
- मधुना कण्ठदाहघ्नं पित्तश्लेष्महरं परम् ३६
- पटोलयवधान्याकपिप्पल्यामलकानि च
- तेषां क्षौद्र्रयुतः क्वाथः पित्तश्लेष्महरः परः ३७
- पित्तश्लेष्मवमीकण्डूकोठविस्फोटदाहनुत्
- दीपनः पाचनः क्वाथः शृङ्गवेरपटोलयोः ३८
- पिप्पलीखण्डपथ्याभिस्तुल्याभिर्मोदकः कृतः
- पित्तश्लेष्म हरो भुक्तो वह्निमान्द्यं च नाशयेत् ३९
- इति दशमोऽम्ल पित्तश्लेष्मपित्ताधिकारः समाप्तः १०
राजयक्ष्माधिकारः
[सम्पाद्यताम्]- अथैकादशो राजयक्ष्माधिकारः ११
- वेगरोधात्क्षयाच्चैव साहसाद्विषमाशनात्
- त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् १
- वैद्यो व्याधिमता यस्माद् व्याधेर्यत्नेन यक्ष्यते
- स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः २
- राज्ञश्चन्द्र्रमसो यस्मादभूदेष किलामयः
- तस्मात्तं राजयक्ष्मेति प्रवदन्ति मनीषिणः ३
- क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः
- संशोषणाद्र सादीनां शोष इत्यभिधीयते ४
- कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
- अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः
- क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ५
- श्वासाङ्गसादकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्रा ः!
- शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ६
- स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
- तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून्पवनधूमदवार्दितांश्च ७
- अंसपार्श्वाभितापश्च सन्तापः करपादयोः
- ज्वरः सर्वाङ्गिकश्चेति लक्षणं राजयक्ष्मणः ८
- भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
- स्वरभेदश्च जायन्ते षड्रूपे राजयक्ष्मणि ९
- स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः
- ज्वरो दाहोऽतिसारश्च पिक्ताद्र क्तस्य चागमः १०
- शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
- कासः कण्ठस्य च ध्वंसो विज्ञेयः कफकोपतः ११
- एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् १२
- त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
- जह्याच्छोषार्दितं जन्तुमिच्छन्सुविमलं यशः १३
- सर्वैरर्द्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
- युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा १४
- महाशनं क्षीयमाणमतीसारनिपीडितम्
- शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् १५
- शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
- कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् १६
- परं दिनसहस्रन्तु यदि जीवति मानवः
- सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः १७
- ज्वरानुबन्धरहितं बलवन्तं क्रियासहम्
- उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् १८
- व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान्
- व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु १९
- व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
- पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः २०
- प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
- बिना शुक्रक्षयकृतैर्विकारैरुपलक्षितः २१
- जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
- कम्पनोऽरुमान्भिन्नकांस्यपात्रहतस्वरः २२
- ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
- सम्प्रस्रुतास्यनासाक्षः शुष्करुक्षमलच्छविः २३
- अध्वप्रशोषी स्रस्ताङ्ग सम्भृष्टपरुषच्छविः
- प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २४
- व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
- लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना २५
- रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
- व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २६
- धनुषाऽयस्यतोऽत्थ भारमुद्वहतो गुरुम्
- युद्ध्य्मानस्य बलिभिः पततो विषमोच्चतः २७
- वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णत
- शिलाकाष्ठाश्मनिर्घातान् क्षिपतोनिघ्नतः परान् २८
- अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम्
- महानदीं वा तरतो हयैर्वा सह धावतः २९
- सहसोत्पततो दूरं तूर्णञ्चापि प्रनृत्यतः
- तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ३०
- स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः
- विक्षतेवक्षसि व्याधिर्बलवान् समुदीर्यते ३१
- उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विभज्यते
- प्रपीड्यते तथा पार्श्वे शुष्यत्यङ्गं प्रवेपते ३२
- क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
- ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ३३
- दुष्टश्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
- कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते
- स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् ३४
- उरोरुक्शोणितच्छर्दिःकासो वैशेषिकः क्षते
- क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ३५
- व्रणरोधात्क्षयाच्चैव कोष्ठात्प्रतिमलात्तथा
- क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ३६
- अल्पलिङ्गस्य दीप्ताग्नेःसाध्यो बलवतो नवः
- परिसंवत्सरो याप्यःसर्वलिङ्गं तु वर्जयेत् ३७
- बलिनो बहुदोषस्य पञ्च कर्माणि कारयेत्
- यक्ष्मिणःक्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ३८
- मलायत्तं बलं पुंसां शुक्रायत्तञ्च जीवितम्
- ततस्माद्यत्नेनसंरक्षेद्यक्ष्मिणो मलरेतसी ३९
- शालिषष्टिकगोधूमयवमुद्गादयो हिताः
- मद्यानि जाङ्गलाः पक्षिमृगाःपथ्या विशुष्यताम् ४०
- सपिप्पलीकं सयवं सकुलत्थं सनागरम् ४१
- दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्
- तेन षड् विनिवर्त्तन्ते विकाराः पीनसादयः ४२
- द्र्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम्
- पादस्थं संस्कृतञ्चाज्ये षडङ्गो यूष उच्यते ४३
- ककुभत्वङ्नागबला वानरिबीजं विचूर्णितम्पयसा
- पीतं मधुघृतयुक्तंससितं यक्ष्मादिकासहरम् ४४
- छागमांसं पयश्छागं छागं सर्पिः सनागरम्
- छागोपसेवी शयनं छागमध्ये तु यक्ष्मनुत् ४५
- मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः
- घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ४६
- शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी
- क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ४७
- सितोपलां तुगाक्षीरी पिप्पली बहुला त्वचः
- अन्त्यादूर्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ४८
- लेहयेद्रा जरोगार्त्तं कासश्वासज्वरातुरम्
- पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम्
- हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्ध्वगे ४९
- जातीफलं विडङ्गानि चित्रकं तगरं तिलाः
- तालीसं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ५०
- कर्पूरश्चाभया धात्री मरिचं पिप्पली तुगा
- एषां त्वक्षसमा भागाश्चातुर्जातकसंयुताः ५१
- पलानि सप्त भङ्गायाः सितासर्वसमा मता
- चूर्णमेतत्क्षयं कासं श्वासञ्च ग्रहणीगदम् ५२
- अरोचकं प्रतिश्यायं तथा चानलमन्दताम्
- एतान् रोगान्निहन्त्येव वृक्षमिन्द्रा शनिर्यथा ५३
- बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत्
- अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ५४
- वासकस्य रसप्रस्थं मानिका सितशर्करा
- पिप्पल्या द्विपलं तावत्सर्पिषश्च शनैः पचेत् ५५
- तस्मिंल्लेहत्वमायाते शीते क्षौद्र पलाष्टकम्
- दत्वाऽवतारयेद् वैद्यो लीढो लेहोऽयमुत्तमः ५६
- हन्त्येव राजयक्ष्माणं कासं श्वासञ्च दारुणम्
- पार्श्वशूलञ्च हृच्छूलं रक्तपित्तं ज्वरं तथा ५७
- व्यवायशोषिणं क्षीणं रसमांसाज्यभोजनैः
- सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ५८
- हर्षणाश्वासनैः क्षीरैःस्निग्धैर्मधुरशीतलैः
- दीपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ५९
- व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमैः
- उपाचरेज्जीवनीयैर्विधिना श्लैष्मिकेण तु ६०
- आस्यासुखैर्दिवास्वप्नैः शीतैर्मधुरबृंहणैः
- अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ६१
- व्रणशोषं जयेत्स्निग्धैर्दीपनैः स्वादुशीतलैः
- ईषदम्लैरनम्लैर्वा यूषमांसरसादिभिः ६२
- उरः क्षतचिकित्सा
- बलाऽश्वगन्धा श्रीपर्णी बहुपुत्री पुनर्नवाः
- पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ६३
- एलापत्र्रत्वचोऽद्धाक्षाः पिप्पल्यर्द्धपलं पृथक्
- सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ६४
- सञ्चूर्ण्य मधुना युक्ता वटिकाः सम्प्रकल्पयेत्
- अक्षमात्रां ततश्चैकां भक्षयेत्तु दिने दिने ६५
- क्षतं क्षयं ज्वरं कासं श्वासं हिक्कां वमिं भ्रमम्
- मूर्च्छां मदं तृषां शोषं पार्श्वशूलमरोचकम् ६६
- प्लीहानमाढ्यवातञ्च रक्तपित्तं स्वरक्षयम्
- एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ६७
- द्रा क्षायाः प्रस्थमेकन्तु मधुकस्य पलाष्टकम्
- पचेत्तोयाढके शुद्धे पादशेषेण तेन तु ६८
- पलिके मधुकद्रा क्षे पिष्टे कृष्णापलद्वयम्
- प्रदाय सर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे ६९
- सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत्
- एतद् द्रा क्षाघृतं सिद्धं क्षतक्षीणसुखावहम् ७०
- वातं पित्तं ज्वरं श्वासं विस्फोटकहलीमकान्
- प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ७१
- क्षीरे धात्री च मञ्जिष्ठा क्षीरिण्याश्च तथा रसैः
- पचेत्समैघृतप्रस्थं मधुरैः कर्षसम्मितैः ७२
- द्रा क्षाद्विचन्दनोशीरैः शर्करोत्पलद्मकैः
- मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ७३
- प्रस्थार्द्धं मधुनः शीते शर्कराऽद्धतुलां तथा
- पलार्द्धिकांश्च सञ्चूर्ण्य त्वगेलापद्मकेशरान् ७४
- विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः
- अमृतप्राशमित्येदश्विभ्यां परिकीर्त्तितम् ७५
- क्षीरमांसाशिनां हन्ति रक्तपित्तं क्षतक्षयम्
- तृष्णाऽरुचिश्वासकासच्छर्दिमूर्च्छाप्रमर्दनम् ७६
- मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ७७
- यद्यच्च तर्पणं शीतमविदाहि हितंलघु
- अन्नपानं निषेव्यंस्यात्क्षतक्षीणैः सुखार्थिभिः ७८
- शोकं स्त्रियः क्रोधमसूयताञ्ज त्यजेदुदारान्विषयान्भजेच्च
- तथा द्विजातींस्त्रिदशान्गुरुंश्च वाचश्च पुण्याः शृणुयाद् द्विजेभ्यः ७९
- अथ राजयक्ष्मणि रसाः
- रसभस्मामृतासत्वं लोहं मधुघृतान्वितम्
- अमृतेश्वरनामायं षड्गुञ्जोराजयक्ष्मणि ८०
- त्रयॐशा मारितात्सूतादेकॐशो हेमभस्मतः
- एकॐशो मृतताम्रस्य शिला गन्धश्च तालकम् ८१
- प्रत्येकंभागयुग्मं स्यादेतत्सर्वं विचूर्णयेत्
- वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ८२
- पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च धारयेत्
- कूप्यां पचेद्र जपुटे स्वाङ्गशीतं समुद्धरेत् ८३
- रसो राजमृगाङ्कोयंचतुर्गुञ्जः क्षयापहः
- मरिचैरुनविंशत्याकणाभिर्दशभिस्तथा ८४
- मधुना सर्पिषा चापि दद्यादेतं रसं भिषग्
- अनेन नश्यति क्षिप्रं वातश्लेष्मभवः क्षयः ८५
- शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
- तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र्रवैः ८६
- द्वियाममातपे गोलं ताम्रपात्रे निधापयेत्
- आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ८७
- धान्यराशौ न्यसेत्पश्चादष्टरात्रात्तमुद्धरेत्
- सञ्चूर्ण्य गालयेद्वस्त्रैः सत्यं वारितरं भवेत् ८८
- त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
- नवभागोन्मितैरेभिः समैरेष रसो भवेत् ८९
- निष्कद्वयमितं नित्यंमधुना सह लेहयेत्
- अयमग्निरसो नाम्नाकासक्षयहरः परः ९०
- इत्येकादशो राजयक्ष्माधिकारः सम्पूर्णः ११
कासरोगाधिकारः
[सम्पाद्यताम्]- अथ द्वादशः कासरोगाधिकारः १२
- धूमोपघाताद्र जसस्तथैव व्यायामरुक्षान्ननिषेवणाच्च
- विमार्गगत्वादपि भोजनस्य वेगावरोधात्क्षवथोस्तथैव १
- प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः
- निरेति वक्त्रात्सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः २
- पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
- क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ३
- पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
- कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ४
- हृच्छङ्खपार्श्वोदरमूर्द्धशूली क्षामाननः क्षीणबलस्वरौजाः
- प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासतिशुष्कमेव ५
- उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषाऽत्त
- पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ६
- प्रलिप्यमानेन मुखेन सीदञ्छिरोरुजाऽत्त कफपूर्णदेहः
- अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ७
- अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः
- रूक्षस्योरःक्षतं वायुर्गृहीत्वाकासमावहेत् ८
- स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्
- कण्ठेन कूजताऽत्यर्थं विभग्नेनेव चोरसा ९
- सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेनशूलिना
- दुःखस्पर्शेनशूलेन भेदपीडाऽभितापिना १०
- पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
- पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ११
- विषमासात्म्यभोज्यातिव्यवायाद् वेगनिग्रहात्
- घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
- कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् १२
- सगात्रशूलज्वरमोहदाहप्राणक्षयं चोपलभेत कासी १३
- शुष्यन् विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्
- तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति १४
- इत्येष क्षयजः कासःक्षीणानां देहनाशनः
- साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः १५
- न वै कदाचित्सिद्ध्य्तेमपि पादगुणान्वितौ
- स्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः १६
- त्रीन्पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् १७
- ज्वरारोचकहृल्लासस्वरभेदक्षयादयः
- भवन्त्युपेक्षया यस्मात् तस्मात्तत्त्वरया जयेत् १८
- कासस्य चिकित्सा
- वास्तूको वायसीशाकं मूलकं सुनिषण्णकम्
- स्नेहास्तैलादयो भक्ष्यास्तथेक्षुरसगौडिकाः १९
- दध्यारनालाम्लफलं प्रसन्नापानमेव च
- शस्यते वातकासेषु स्वाद्वम्ललवणानि च २०
- ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्
- रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्भिषक् २१
- दशमूलीकृता श्वासकासहिक्कारुजाऽपहा
- यवागूर्दीपनी वृष्या वालरोगविनाशिनी २२
- रसः कर्कोटकानां वा घृतभृष्टः सनागरः
- वातकासप्रशमनः शृङ्गीमत्स्यस्य वा पुनः २३
- कण्टकारीयुगद्रा क्षा वासाकर्चूरबालकैः
- नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत्
- शर्करामधुसंयुक्तं पित्तकासहरं परम् २४
- कफजकासस्य चिकित्सा
- पिप्पली कट्फलंशुण्ठी शृङ्गी भार्गी तथोषणम्
- कारवी कण्टकारी च सिन्दुवारो यवानिका २५
- चित्रको वासकश्चैषां कषायं विधिवत्कृतम्
- कफकासविनाशाय पिबेत्कृष्णारजोयुतम् २६
- इक्ष्विक्षुबालिका पद्ममृणालोत्पलचन्दनम्
- मधुकं पिप्पली द्रा क्षा लाक्षा शृङ्गी शतावरी २७
- द्विगुणा च तुगाक्षीरी सिता सर्वचतुर्गुणा
- लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये २८
- चूर्णं काकुभमिष्टं वासकरसभावितं बहून्वारान्
- मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तहरम् २९
- ताप्यमानस्य कासेन नासास्रावे स्वरे जडे
- क्षवथौ गन्धनाशेच धूमपानं प्रयोजयेत् ३०
- मनः शिलाऽलमरिचमांसीमुस्तेङ्गुदैः पिबेत्
- धूमं त्र्! यहञ्च तस्यानु पयश्च सगुडं पिबेत् ३१
- एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान्
- शतैरपि प्रयोगाणामसाध्यान्साधयेद् ध्रुवम् ३२
- बदरीदलमालिप्तं शिलयाऽतपशोषितम्
- तद्धूमपानं सक्षीरं महाकासनिवारणम् ३३
- कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहः
- कण्टकार्याः कणायाश्च चूर्णं समधु कासहत् ३४
- लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम्
- पलार्द्धमानं मरिचं प्रदेयं पलानि चत्वारि महौषधस्य ३५
- सिता समस्तेन समाऽथ चूर्णं रोगानिमानाशु बलान्निहन्ति
- कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीविकारान् ३६
- कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः
- लेहः साज्यमधुः कासश्वासहिक्कानिवारणः ३७
- हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम्
- कासश्लेष्मापहं प्रोक्तं परं वह्नेः प्रदीपनम् ३८
- कर्षः कर्षांशपलं पलद्वयं स्यात्ततोर्द्धकर्षञ्च
- मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ३९
- सर्वौषधिभिरसाध्याः कासा ये वैद्यनिर्मुक्ताः
- अपि पूयं छर्दयतां तेषामिदमौषधं परमम् ४०
- मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसम्मिता
- अर्द्धकर्षो यवक्षारः कर्षयुग्मन्तु दाडिमम् ४१
- एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि
- शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
- अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ४२
- समूलवल्कच्छदकण्टकार्यास्तुलां ततो द्रो णमितं जलञ्च
- हरीतकीनां शतमेकपात्रे विपाच्य कुर्याच्चरणाम्बुशेषम् ४३
- तस्मिन्कषाये तनुवस्त्रपूते हरीतकीभिः सहिते गुडस्य
- तुलां विनिक्षिप्य पचेत्सुपक्वमेतत्समुत्तार्य सुशीतलञ्च ४४
- पलं पलञ्चापि कटुत्रयञ्च तथा चतुर्जातपलं विचूर्ण्य
- पलानि षट् पुष्परसस्य चापि विनिक्षिपेत्तत्र विमिश्रयेच्च ४५
- प्रयुज्यमानो विधिनैष लेहो यथाबलञ्चापियथाऽनलञ्च
- वातात्मकं पित्तकृतं कफोत्थं त्रिदोषजातानपि च त्रिदोषम् ४६
- क्षतोद्भवञ्च क्षयजञ्च कासं श्वासञ्च हन्यात्सह पीनसेन
- यक्ष्माणमेकादशरूपमुग्रं हरीतकी या भृगुणोपदिष्टा ४७
- कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
- पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ४८
- पृथक्पलांशान्येतानि गुडूची चव्यचित्रकौ
- मुस्तं कर्कटशृङ्गी च त्र्! यूषणं धन्वयासकः ४९
- भार्गी रास्नाशटी चैव शर्करापलविंशतिः
- प्रत्येकञ्च पलान्यष्टौ प्रदद्याद् घृततैलयोः ५०
- पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकम्
- चतुर्भागं तुगाक्षीर्याः पिप्पल्याश्च चतुःपलम् ५१
- क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभं
- लेहोऽय हन्ति हिक्काऽतिकासश्वासानशेषतः ५२
- इति द्वादश कासाधिकारः समाप्तः
हिक्काऽधिकारः
[सम्पाद्यताम्]- अथ त्रयोदशो हिक्काऽधिकारः १३
- विदाहिगुरुविष्टम्भि रुक्षाभिष्यन्दिभोजनैः
- शीतपानाशनस्नानरजो धूमात्तथाऽनिलैः १
- व्ययामकर्मभाराध्व वेगाघातापतर्पणैः
- हिक्का श्वासश्च कासश्च नृणां समुपजायते २
- वायुःकफेनानुगतः पञ्च हिक्काःकरोति हि
- अन्नजां यमलां क्षुद्रं गम्भीरां महतीं तथा ३
- मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
- स दोषवानाशु हिनस्त्यसून्यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ४
- कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता
- हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ५
- पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
- हिक्कयेदूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ६
- चिरेण यमलैर्वेगैर्या हिक्कासम्प्रवर्त्तते
- कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ७
- विकृष्टकालैर्या बेगैर्मन्दैः समभिवर्त्तते
- क्षुद्रि का नाम सा हिक्का जत्रुमूलं प्रधाविता ८
- नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
- अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ९
- मर्माणि पीडयन्तीव सततं या प्रवर्त्तते
- महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १०
- आकम्पते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं ताम्यते नित्यमेव
- क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ चान्त्यौ वर्जयेद्धिक्कमानौ ११
- अतिसञ्चितदोषस्य भक्तद्वेषकृशस्य च
- व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः १२
- आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम्
- यमिका च प्रलापार्त्तिमोहतृष्णासमन्विता १३
- अक्षीणस्याप्यदीनस्य स्थिरधात्विन्द्रि यस्य च
- तस्यसाधयितुं शक्या यमिका हन्त्यतोन्यथा १४
- यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्
- भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् १५
- हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते
- ऊर्ध्वाधः शोधनं शस्तं दुर्बले शमनं मतम् १६
- प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः
- चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च १७
- हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम्
- मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् १८
- मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता
- नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् १९
- प्रवालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम्
- पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः २०
- नैपाल्या गोविषाणाद्वा कुष्ठात्सर्जरसस्य वा
- धूपं कुशस्य वा कार्यं पिबेद्धिक्कोपशान्तये २१
- निर्धूमाङ्गारनिक्षिप्त हिङ्गुमाषरजोभवः
- हिक्काः पञ्चापि हन्त्याशु धूमः पीतो न संशयः २२
- हरेणुककणानाञ्च क्वाथो हिङ्गुसमन्वितः
- हिक्काप्रशमनश्रेष्ठो धन्वन्तरिवचो यथा २३
- चन्द्र शूरस्य बीजानि क्षिपेदष्टगुणे जले
- यदा मृदूनि मृद्नीयात्ततो वाससि गालयेत् २४
- हिक्कातिवेगविकलस्तज्जलं पलमात्रया
- पिबेत्पिबेत्पुनश्चापि हिक्कावश्यं प्रशाम्यति २५
- इति त्रयोदशो हिक्काऽधिकारः समाप्तः १३
श्वासरोगाधिकारः
[सम्पाद्यताम्]- अथ चतुर्दशः श्वासरोगाधिकारः १४
- यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्त्तते
- तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते १
- महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
- भिद्यते स महाव्याधिः श्वास एको विशेषतः २
- प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
- आनाहोवक्त्रवैरस्यं शङ्खनिस्तोद एव च ३
- यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
- विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ४
- उद्धूयमानवातो यःशब्द वद् दुःखितो नरः
- उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ५
- प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
- विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ६
- दीनस्य श्वसितञ्चास्य दूराद्विज्ञायते भृशम्
- महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ७
- ऊर्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः
- श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्दितः ८
- ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
- प्रमुह्यन्वेदनाऽत्तश्च शुष्कास्योऽरतिपीडितः ९
- ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुद्ध्य्ते
- मुह्यतस्ताम्यतश्चोर्ध्वश्वासस्तस्य निहन्त्यसून् १०
- यस्तु श्वसिति विच्छिनं सर्वप्राणेन पीडितः
- न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजाऽदितः ११
- आनाहस्वेदमूर्च्छाऽत्तो दह्यमानेन वस्तिना
- विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः १२
- विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
- छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् १३
- प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते
- ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च १४
- करोति पीनसं तेन कण्ठे घुर्घुरकं तथा
- अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् १५
- प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
- प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः १६
- श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
- तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् १७
- तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भषितुम्
- न चापि लभते निद्रा ं! शयानः श्वासपीडितः १८
- पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
- आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति १९
- उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्त्तिमान्
- विशुष्कास्यो मुहुःश्वासो मुहुश्चैवावधम्यते २०
- मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते
- स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः २१
- ज्वरमूर्च्छापरीतञ्च विद्यात्प्रतमकं तु तम् २२
- उदावर्त्तरजोऽजीर्णक्लिन्नकायनिरोधजः
- तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति
- मज्जतस्तमसीवास्य विद्यात्प्रतमकन्तु तम् २३
- रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
- क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः २४
- हिनस्ति न च गात्राणि न च दुःखो यथेतरे
- न च भोजनपानानां निरुणद्ध्युचितां गतिम् २५
- नेन्द्रि याणां व्यथाञ्चापिकाञ्चिदुत्पादयेद्रुजम्
- स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः २६
- क्षुद्र ः! साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
- त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च २७
- कामं प्राणहरा रोगा बहवो न तु ते तथा
- यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै २८
- श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत्
- युक्तैर्लवणतैलाभ्यां तैरस्य ग्रन्थितः कफः २९
- श्वासो विलयमायाति मारुतश्चोपशाम्यति
- स्विन्नं ज्ञात्वा ततश्चैनं भोजयेच्च रसौदनम् ३०
- स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्
- पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ३१
- प्रस्थं बिभीतकानामस्थि विना साधयेदजामूत्रे
- अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ३२
- देवदारुबलामांसीः पिष्ट्वा वर्त्तिं प्रकल्पयेत्
- तां घृताक्तां पिबेद्धूमं श्वासं हन्ति सुदारुणम् ३३
- दशमूलीशटीरास्नापिप्पलीविश्वपौष्करैः
- शृङ्गीतामलकीभार्गीगुडूचीनागराग्निभिः ३४
- यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः
- श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ३५
- दशमूलस्य वा क्वाथः षौष्करेणावचूर्णितः
- श्वासकासप्रशमनः पार्श्वशूलनिवारणः ३६
- रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम्
- पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ३७
- शृङ्गीमहौषधकणाघनपौष्कराणां चूर्णं शटीमरिचयोश्च सिताविमिश्रम्
- क्वाथेन पीतममृतावृषपञ्चमूल्याः श्वासं त्र्! यहेण विनिहन्ति हि घोररूपम् ३८
- पञ्चमूली तु सामान्या पित्ते योज्या कनीयसी
- महती मारुते देया सैव देया कफाधिके ३९
- कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा
- शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ४०
- हरिद्रा ं! मरिचं द्रा क्षां कणां रास्नां शटीं गुडम्
- कटुतैलं लिहन्हन्याच्छ्वासान् प्राणहरानपि ४१
- शतं सङ्गृह्य भार्ग्यास्तु दशमूल्यास्तथा शतम्
- शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ४२
- पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते
- आलोड्य च तुलां पूतां गुडस्य त्वभयास्ततः ४३
- पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत्
- शीते च मधुनस्तत्र षट्पलानि विनिक्षिपेत् ४४
- त्रिकटुं त्रिसुगन्धञ्च पलमात्रं पृथक् पृथक्
- यवक्षारं कर्षयुग्मं सञ्चूर्ण्य प्रक्षिपेत्ततः ४५
- भक्षयेदभयामेकां लेहस्यार्द्धपलं तथा
- श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ४६
- अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
- स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः
- नाम्ना भार्गीगुडः ख्यातो भिषग्भिः सकलैर्मतः ४७
- अष्टाङ्गचूर्णसंयुक्तं छागक्षीरं प्रयोजयेत्
- श्वासं कासान्वितं घोरं हन्यादेतन्न संशयः ४८
- दशमूलरसो देयः श्वासनिर्मूलशान्तये
- अवश्यंमरणीयो यो जीवेद्वर्षशतं नरः४९
- रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला
- एतानिकर्षमात्राणि मरिचं चाष्टकर्षकम् ५०
- कटुत्रयं कर्षयुग्मं पृथगत्र विनिक्षिपेत्
- रसः श्वासकुठारोऽय सर्वश्वासनिवारणः ५१
- इति चतुर्दशः श्वासाधिकारः समाप्तः १४
स्वरभेदाधिकारः
[सम्पाद्यताम्]- पञ्चदशः स्वरभेदाधिकारः १५
- अत्युच्चभाषणविषाध्ययनाभिघातसन्दुषणैः प्रकुपिताः पवनादयस्तु
- स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः
- स्वरं भवति चापि हि षड्विधः सः १
- वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च २
- पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ३
- ब्रूयात्कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात्४
- सर्वात्मके भवति सर्वविकारसम्पत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ५
- धूम्येत वाक्क्षयकृते क्षयमाप्नुयाच्च स्यादेव चापि गतवाक्परिर्जनीयः ६
- अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ७
- क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
- मेदस्विनः सर्वसमुद्भश्च स्वरामयो नैव स सिद्धिमेति ८
- वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः
- योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः
- वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम्
- कफे सक्षारकटुकं क्षौद्रं कवल इष्यते
- गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः
- तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति
- आद्ये कोष्णं जलं पेयं भुक्त्वा घृतरसौदनम्
- क्षीराम्बुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रि तः ९
- पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
- पिबेन्मूत्रेण मतिमान्कफजे स्वरसङ्क्षये १०
- निदिग्धिकातुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु
- तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम् ११
- जले द्रो णद्वये क्वाथ्यं गृह्णीयादाढकं ततः
- पूते क्षिपेत्तदर्द्धन्तु पुराणस्य गुडस्य च १२
- सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत्
- अष्टौ पलानि पिप्पल्यास्त्रिजातकपलं तथा १३
- मरिचस्य पलं चैकं सर्वमेकत्र चूर्णितम्
- मधुनः कुडवं दत्वा तदश्नीयाद्यथाऽनलम् १४
- निदिग्धिकाऽवलेहोऽय भिषग्भिर्मुनिभिर्मतः
- स्वरभेदहरो मुख्यः प्रतिश्यायहरस्तथा १५
- कासश्वासाग्निमान्द्यादीन्गुल्ममेहगलामयान्
- आनाहमूत्रकृच्छ्राणि हन्याद् ग्रन्थ्यर्बुदानिच १६
- मृगनाभिः ससूक्ष्मैला लवङ्गकुसुमानि च
- त्वक्क्षीरी चेति लेहोऽय मधुसर्पिः समायुतः
- वाक्स्तम्भमुग्रंजयतिस्वरभ्रंशसमन्वितम् १७
- ब्राह्मी वचाऽभया वासा पिप्पली मधुसंयुता
- अस्य प्रयोगात्सप्ताहात्किन्नरैः सह गीयते १८
- इति पञ्चदशः स्वरभेदाधिकारः १५
अरोचकाधिकारः
[सम्पाद्यताम्]- षोडशोऽरोचकाधिकारः १६
- वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
- अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन १
- कट्वम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्त्रम्
- माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन २
- अरोचकं शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात्
- स्वाभाविकञ्चास्यमथारुचिश्च त्रिदोषजे नैकरसं भवेच्च ३
- हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकम्
- श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद् वैगुण्यमोहजडताभिरथापरञ्च ४
- प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वाद्यते नरः
- अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु ५
- चिन्तयित्वा तु मनसा दृष्ट्वा स्पृष्ट्वा तु भोजनम्
- द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते ६
- कुपितस्य भयार्त्तस्य तथा भक्तविरोधिनः
- यत्र नान्नेभवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते ७
- भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
- रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम् ८
- शृङ्गबेररसंवाऽपि मधुना सह योजयेत्
- अरुचिश्वासकासघ्नं प्रतिश्यायकफापहम् ९
- पक्वाम्लीका सिता शीतवारिणा वस्त्रगालिता
- एलालवङ्गकर्पूरमरिचैरवधूलिता १०
- पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः
- अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा ११
- राजिकाजीरकौ भृष्टौ भृष्टं हिङ्गु सनागरम्
- सैन्धवं दधि गोः सर्वं वस्त्रपूतं प्रकल्पयेत् १२
- तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा
- तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम् १३
- सम्यगावर्त्तितं दुग्धं निबद्धं दधि माहिषम्
- एकीकृत्य पटे घृष्टं शुभ्रशर्करया समम् १४
- एलालवङ्गकर्पूरमरिचैश्च समन्वितम्
- नाम्ना शिखरिणी कुर्याद्रुचिं सकलवल्लभाम् १५
- द्वे पले दाडिमाम्लस्य खण्डं दद्यात्पलत्रयम्
- त्रिसुगन्धि पलं चैकं चूर्णमेकत्र कारयेत् १६
- तच्चूर्णं मात्रया भुक्तमरोचकहरं परम्
- दीपनं पाचनं च स्यात् पीनसज्वरकासजित् १७
- लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम्
- जलं सकृष्णागुरुभृङ्गकेशरं कणा च विश्वा नलदं सहेलया १८
- तुषारजातीफलवंशरोचनाः सिताऽद्धभागाः सकलं विचूर्णितम्
- सुरोचनं तर्पणमग्निदीपनं बलप्रदं वश्यतमं त्रिदोषजित् १९
- उरोविबन्धं तमकं गलग्रहं सकासहिक्काऽरुचियक्ष्मपीनसम्
- ग्रहण्यतीसारमुरःक्षतं नृणां तथा प्रमेहान्निखिलान्निहन्ति च २०
- यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसैः
- बदराम्लञ्च कुर्वीत चतुःशाणमितानि च
- सार्द्धद्विशाणं मरिचं पिप्पली दशशाणिका २१
- त्वक्सौवर्चलधान्याकजीरकं द्विद्विशाणिकम्
- चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत् २२
- चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम्
- चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीज्वरम् २३
- छर्दिशोषातिसारांश्च प्लीहानाहविबद्धताम्
- अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् २४
- इति षोडशोऽरोचकाधिकारः समाप्तः १६
छर्द्यधिकारः
[सम्पाद्यताम्]- अथ सप्तदशश्छर्द्यधिकारः १७
- अतिद्र वैरतिस्निग्धै रहृद्यैर्लवणैरपि
- अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः १
- आमाद्भयात्तथोद्वेगाद जीर्णात्क्रिमिदोषतः
- नार्याश्चापन्नसत्त्वाया स्तथाऽतिद्रुतमश्नतः
- बीभत्सैर्हेतुभिश्चान्यैर्भुक्तमुत्क्लिश्यते बलात् २
- दुष्टदोषैः पृथक्सर्वैर्विभत्सालोकनादिभिः
- छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ३
- हृल्लासोद्गारसंरोधौ प्रसेको लवणास्यता
- द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ४
- छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
- निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ५
- हृत्पार्श्वपीडामुखशोष शीर्षनाभ्यर्त्तिकासस्वरभेदतोदः
- उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ६
- कृच्छ्रेण चाल्पं महता च वेगेनार्त्तोऽनिलाच्छर्दयतीव दुःखम् ७
- मूर्च्छापिपासामुखशोष मूर्द्धताल्वक्षिसन्तापतमोभ्रमार्त्तः
- पीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत्सदाहम् ८
- तन्द्रा ऽस्यमाधुर्यकफप्रसेक सन्तोषनिद्रा ऽरुचिगौरवार्त्तः
- स्निग्धं घनं स्वादु कफाद्धि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ९
- असात्म्यजा च कम्जाऽमजा च बीभत्सजा दौर्हृदजा च या हि
- सा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ११
- शूलहृल्लासबहुला कृमिजा च विशेषतः
- कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १२
- कासः श्वासो ज्वरस्तृष्णाहिक्कावैचित्त्यमेव च
- हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः१३
- क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
- सचन्द्रि कां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेन्निरुपद्र वां च १४
- आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्
- विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि १५
- हन्यात्क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्
- मुद्गामलकयूषो वा ससर्पिष्कः स सैन्धवः १६
- गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम्
- पिबेन्मधुयुतं तेन छर्दिर्नश्यति पित्तजा १७
- हरीतकीनां चूर्णन्तुलिह्यान्माक्षिकसंयुतम्
- अधोमार्गीकृते दोषे छर्दिः शीघ्रं निवर्त्तते १८
- विडङ्गत्रिफलाविश्वा चूर्णं मधुयुतं जयेत्
- विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् १९
- पिष्ट्वा धात्रीफलं लाजाञ्छर्कराञ्च पलोन्मिताम्
- दत्वा मधुपलञ्चापि कुडवं सलिलस्य च
- वाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम् २०
- गुडूच्या रचितं हन्ति हिमं मधु समन्वितम्
- दुर्निवारामपि च्छर्दिं त्रिदोषजनितां बलात् २१
- एलालवङ्गगजकेशरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्
- चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्दिं
- निहन्ति कफमारुतपित्तजाताम् २२
- अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जले
- तज्जलं पानमात्रेण छर्दिं जयति दुर्जयाम् २३
- पथ्यात्रिकटुधान्याक जीरकाणां रजो लिहन्
- मधुना नाशयेच्छर्दिमरुचिञ्च त्रिदोषजाम् २४
- बिल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
- छर्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा २५
- आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करः
- निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् २६
- जम्ब्वाम्रपल्लवशृतं लाजरजः संयुतं शीतम्
- शमयति मधुना युक्तं वमिमतिसारं तृषामुग्राम् २७
- बीभत्सजां हृद्यतमैरिष्टैर्दौर्हृदजां फलैः
- लङ्घनैरामजां छर्दिं जयेत्सात्म्यैरसात्म्यजाम् २८
- कृमिहृद्रो गवद्धन्याच्छर्दिं कृमिसमुद्भवाम्
- तत्र तत्र यथादोषं क्रियां कुर्याच्चिकित्सकः २९
- सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः
- समधुकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ३०
- सौवर्चलमजाजी च शर्करा मरिचानि च
- क्षौद्रे ण सहितं लीढं सद्यश्छर्दिनिवारणम् ३१
- इति सप्तदशश्छर्द्यधिकारः सम्पूर्णः १७
तृष्णाऽधिकारः
[सम्पाद्यताम्]- अष्टादशस्तृष्णाऽधिकारः १८
- भयश्रमाभ्यां बलसङ्क्षयाद्वाऽप्यूर्ध्वं चितं पित्तविवर्द्धनैश्च
- पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम् १
- स्रोतःस्वपां वाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः
- तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽमसमुद्भवा च
- भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
- ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः
- सर्वाणि रूपाणि भवन्ति तस्यामुत्पत्तिकाले तु विशेषतो हि ३
- क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि
- स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ४
- मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
- शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च ५
- वाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य
- निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ६
- क्षतस्य रुक्छोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु ७
- रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतस्तु निशादिनेषु
- पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
- रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ८
- त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री ९
- स्निग्धं तथाऽम्ल लवणञ्च भुक्तं गुर्वन्नमेवाशु तृषां करोति १०
- दीनस्वरः प्रताम्यन्दीनाननहृदयशुष्कगलतालुः
- भवति खलु सोपसर्गा तृष्णा सा शोषिणी कष्टा ११
- ज्वरमोहक्षयकासश्वासाद्युप सृष्टदेहानाम्
- सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्
- घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १२
- वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् १३
- तृष्णायां पवनोत्थायां सगुडं दधि शस्यते
- स्वादु तिक्तं द्र वं शीतं पित्ततृष्णाऽपहं परम् १४
- मुस्तपर्पटकोदीच्यच्छत्राख्यो शीरचन्दनैः
- शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये १५
- लाजोदकं मधुयुतं शीतं गुडविमर्दितम्
- काश्मरीशर्करायुक्तं पिबेत्तृष्णाऽदितो नरः १६
- आस्तरणमार्द्र वासः प्रावरणं चार्द्र वासः स्यात्
- तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां नियतम् १७
- गोस्तनीक्षुरसक्षीरयष्टी मधुमधूत्पलैः
- नियतं नासिकापीते तृष्णा शाम्यति दारुणा १८
- वैशद्यं जनयत्यास्ये सन्दधाति मुखे जलम्
- तृष्णादाहप्रशमनं मधुगण्डूषधारणम् १९
- जिह्वातालुगलक्लोमशोषे मूर्ध्नि निधापयेत्
- केशरं मातुलुङ्गस्य घृतसैन्धवसंयुतम् २०
- दाडिमं बदरं लोध्रं कपित्थं बीजपूरकम्
- पिष्ट्व्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः २१
- वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्
- पाययेद्वामयेच्चाथ तेन तृष्णा प्रशाम्यति २२
- प्रातः शर्करयोपेतः क्वाथो धान्याकसम्भवः
- जयेत्तृष्णां तथा दाहं भवेत्स्रोतोविशोधनम् २३
- आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
- एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
- तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् २४
- क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः
- क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुरोदकं वा २५
- आमोद्भवां बिल्ववचायुतानां जयेत्कषायैरथ दीपनानाम्
- गुर्वान्नजामुल्लिखनैर्जयेच्च क्षयं विना सर्वकृताञ्च तृष्णाम् २६
- स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्
- अतिरोगदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पयः २७
- मूर्च्छाच्छर्दितृषानाह स्त्रीमद्यभृशकर्षिताः
- पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये २८
- सात्म्यान्नपानभेषज्यैस्तृष्णां तस्य जयेत्पुनः
- तस्यां जितायामन्योऽपि व्याधिःशक्यश्चिकित्सितुम् २९
- तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि
- मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ३०
- तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
- तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वारयेत् ३१
- अन्नेनापि विना जन्तुः प्राणान्धारयते चिरम्
- तोयाभावात्पिपासार्त्तः क्षणात्प्राणैर्विमुच्यते ३२
- इत्यष्टादशस्तृष्णाऽधिकारः समाप्तः १८
मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः
[सम्पाद्यताम्]- अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः १९
- क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
- वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः १
- करणायतनेषूग्रो बाह्येष्वाभ्यन्तरेषु च
- निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः २
- संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
- तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ३
- सुखदुःव्यपोहाच्च नरः पतति काष्ठवत्
- मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्त्तिता ४
- वातादिभिः शोणितेन मद्येन च विषेण च
- षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ५
- हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलक्षयः
- सर्वासां पूर्वरूर्पाणि यथास्वं तां विभावयेत् ६
- नीलं वा यदि वा कृष्णमाकाशमथ वाऽरुणम्
- पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ७
- वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
- कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसम्भवे ८
- रक्तं हरितवर्णं वा वियत्पीतमथापि वा
- पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ९
- सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
- सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे १०
- मेघसङ्काशमाकाशं तमोभिर्वा घनैर्वृतम्
- पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ११
- गुरुभिः प्रावृतैरङ्गैर्यथैवाद्रे र्ण! चर्मणा
- सप्रसेकःसहृल्लासो मूर्च्छाये कफसम्भवे १२
- सर्वाकृतिः सन्निपातादपस्मार इवागतः
- स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः १३
- पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः
- तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
- द्र व्यस्वभावमित्येके दृष्ट्वा यदभिमुह्यति १४
- स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः १५
- गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
- त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ १६
- मद्येन प्रलपञ्छेते नष्टविभ्रान्तमानसः
- गात्राणि विक्षिपन्भूमौ जरां यावन्न याति तत् १७
- वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
- वेदितव्यं तीव्रतरं ययास्वं विषलक्षणैः १८
- मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद् भ्रमः
- तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा १९
- इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
- निद्रा ऽत्तस्येव यस्येहा तस्य तन्द्रा ं! विनिर्दिशेत् २०
- योऽनायासः श्रमो देहे प्रवृद्धः श्वाससङ्गतः
- क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः २१
- यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः
- विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः २२
- वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
- संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः २३
- स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
- प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् २४
- दोषेषु मदमूर्च्छाया गतवेगेषु देहिनः
- स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना २५
- सेकावगाहा मणयःसहाराः शीताः प्रदेहा व्यजनानिलाश्च
- शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि २६
- सिद्धानिवर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
- तथा यवो लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्रा ः! २७
- कोलमज्जोषणोशीरकेसरं शीतवारिणा
- पीतं मूर्च्छां जयेल्लीढ्वा कृष्णां वा मधुसंयुताम् २८
- शीतेन तोयेन बिसं मृणालं कृष्णां च पथ्यां मधुनाऽवलिह्यात्
- कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् २९
- द्रा क्षासितादाडिमलाजवन्ति कह्लारनीलोत्पलपद्मवन्ति
- पिबेत्कषायाणि च शीतलानि पिबेज्ज्वरं यानि शमं नयन्ति ३०
- शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
- अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ३१
- अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
- प्रमोहद्रो हि भवति भाषितं भिषजां वरैः ३२
- मधूकसारसिन्धूत्थवचोषणकणाः समाः
- श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ३३
- रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिः
- मद्यजायां पिवेन्मद्यं निद्रा ं! सेवेत वा सुखम्
- विषजायां विषघ्नानि भेषजानि प्रयोजयेत् ३४
- प्रभूतदोषस्तमसोऽतिरेकात्सम्मूर्छितो नैव विबुध्यते यः
- संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्तितोऽसौ ३५
- अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च
- सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ३६
- लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च
- आत्मगुप्ताऽवघर्षश्च हितस्तस्य प्रबोधने ३७
- कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्
- शीतसेकावगाहादीन्सर्वाङ्गे पीडनं हठात् ३८
- ताम्रचूर्णसमोशीरं केशरं शीतवारिणा
- पीतं मूर्च्छां द्रुतं हन्याद् वृक्षमिन्द्रा शनिर्यथा ३९
- पिबेद् दुरालभाक्वाथं सघृतं भ्रमशान्तये
- पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ४०
- ताम्रं दुरालभाक्वाथः पीतन्तु घृतसंयुतम्
- निवारयेद् भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ४१
- तुरङ्गलालालवणोत्तमेन्दुमनः शिलामागधिकामधूनि ४२
- नियोज्य तान्यक्ष्णि विमिश्रितानि तन्द्रा ं! सनिद्रा ं! विनिवारयन्ति ४३
- सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
- बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ४४
- शुण्ठीकणोग्रालवणोत्तमानि नस्येन तन्द्रा विजयोल्वणानि
- क्षुद्रा ऽमृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ४५
- इत्येकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा सन्यासाधिकारः समाप्तः १९
मदात्ययाधिकारः
[सम्पाद्यताम्]- अथ विंशो मदात्ययाधिकारः २०
- मद्यं स्वभावतः प्राज्ञैर्यथैवान्नं तथा स्मृतम्
- अयुक्तियुक्तं रोगाय युक्तियुक्तं रसायनम् १
- प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्
- विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् २
- विधिना मात्रया काले हितैरन्नैर्यथाबलम्
- प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ३
- अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः
- स्निग्धोष्णैस्तादृशैरन्नैर्वातप्रकृतिकः पिबेत् ४
- शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः
- फलैरन्नैः सह नरः पित्तप्रकृतिकः पिबेत् ५
- श्लैष्मिको जाङ्गलैर्मांसैर्मरिचैर्मदिरां पिबेत्
- प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ६
- वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति
- वातिकस्तु पिबेन्मद्यं प्रायो गौडिकपैष्टिकम् ७
- कफपित्तात्मको यस्तु माध्वीकं माधवं पिबेत्
- विधिर्वसुमतामेष कथितश्चरकादिभिः
- यथोपपत्तिकं वाऽपि पिबेन्मद्यं हि मात्रया ८
- रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रि यात्मनाम्
- प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ९
- मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्
- दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् १०
- लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुकरं तथा
- रुक्षं विकासि विशदं मद्यं दशगुणं स्मृतम् ११
- गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
- प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् १२
- गौरवं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः
- माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादञ्चाशु भावनात् १३
- रौक्ष्यात्स्नेहं व्यवायित्वात् स्थिरत्वं सूक्ष्मतामपि
- विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्र तां तथा १४
- सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्
- सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्यकुरुते मदम् १५
- हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम् १६
- विकाराश्च यथासत्त्वं चित्रा राजसतामसाः
- जायन्ते मोहनिद्रा न्ता इत्येतन्मदलक्षणम् १७
- हर्षमोजो बलं पुष्टिमारोग्यं पौरुषं तथा
- युक्त्या पीतं करोत्याशु मद्यं मदसुखप्रदम् १८
- रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्
- प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् १९
- स्वापनं नष्टनिद्रा णां मूकानां वाग्विशोधनम्
- नाशनं चातिनिद्रा णां विबन्धानां विबन्धनुत् २०
- वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्
- अपि प्रवयसां मद्यमुत्सर्गान्मोदकारकम् २१
- बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च
- विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् २२
- बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्द्धनश्च
- सम्पाठगीतस्वरवर्द्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि २३
- अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाऽकृतिरप्रशान्तः
- आलस्यनिद्रा ऽभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन २४
- गच्छेदगम्यां न गुरुंश्च मन्येत्खादेदभक्ष्याणि च नष्टसञ्ज्ञः
- ब्रूयाच्च गुह्यानि हृदि स्थितानिमदे तृतीये पुरुषोऽस्वतन्त्रः २५
- चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
- कार्याकार्यविभागज्ञो मृतादपि परो मृतः २६
- को मदं तादृशं गच्छेदुन्मादमिव चापरम्
- बहुदोषमिवामूढः कान्तारं स्ववशः कृती २७
- नातिमाद्यन्ति बलिनः कृताहारा महाशनाः
- स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः २८
- मेदःकफाधिका मन्दवातपित्तं दृढाग्नयः
- विपर्ययेऽतिमाद्यन्ति विष्टब्धाः कुपिताश्च ये
- मद्येन चाम्लरुक्षेण साजीर्णे बहुनाऽपि च २९
- विषस्य ये गुणा दृष्टा सन्निपातप्रकोपणाः
- त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ३०
- तस्मादविधिपीतेन तथा मात्राऽधिकेन च
- युक्तेन चाहितैरन्नैरकालेसेवितेन च ३१
- मद्येन खलु जायन्ते मदात्ययमुखा गदाः ३२
- निर्भुक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
- उत्पादयेत्कष्टतमान्विकारानुत्पादयेच्चापि शरीरभेदम् ३३
- क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
- व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ३४
- अत्यम्लरुक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
- उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ३५
- मद्योत्पन्नविकारान् विवृणोति
- पानात्ययं परमदं पानाजीर्णमथापि च
- पानविभ्रममत्युग्रं तेषां वक्ष्यामि लक्षणम् ३६
- शरीरदुःखं बलवत्प्रमोहो हृदयव्यथा
- अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ३७
- शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा
- जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ३८
- उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः
- शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ३९
- छर्दिर्विड्भेद उत्क्लेशो वातपित्तकफात्मकः
- श्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ४०
- तृणभस्मलतापर्णपांशुभिश्चावपूरणम्
- प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ४१
- व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च
- मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ४२
- स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्षितः
- रुक्षाल्पप्रमिताशी च यः पिवत्यतिमात्रया ४३
- रूक्षं परिणतं मद्यं निशि निद्रा ं! निहत्य च
- करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ४४
- हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
- विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ४५
- तीक्ष्णोष्णमद्यमम्लं च योऽतिमात्रं निषेवते
- अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽज्ञानवान्नरः
- तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ४६
- तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
- विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ४७
- मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ४८
- अव्यायामदिवास्वप्नशय्यासनसुखे रतः
- मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ४९
- छर्द्यरोचकहृंल्लासतन्द्रा स्तैमित्यगौरवैः
- विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ५०
- त्रिदोषो हेतुभिः सर्वैः सर्वैर्लिङ्गैर्मदात्ययः ५१
- श्लेष्मक्षयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
- लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ५२
- आध्मानमुग्रमथवोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि
- ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि ५३
- हृद्गात्रतोदकफसंस्रवकण्ठधूम मूर्च्छावमीमदशिरोरुजनप्रदेहाः
- द्वेषः सुराऽन्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः ५४
- हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभाऽस्यमपि पानहतं त्यजेच्च
- जिह्वौष्ठदन्तमसितन्त्वथ वाऽपि नीलम्पीते च यस्य नयने रुधिरप्रभे च
- हिक्का ज्वरो वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं त्यजेत्तम् ५५
- मद्योत्थानाञ्च रोगाणां मद्यमेव हि भेषजम्
- यथा दहनदग्धानां दहनं स्वेदनं हितम् ५६
- मिथ्याऽतिहीनमद्येन यो व्याधिरुपजायते
- समेनैव निपीतेन मद्येन स हि शाम्यति ५७
- बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्
- यवानीहपुषाजाजी शृङ्गबेरावचूर्णितम् ५८
- सस्नेहैः शक्तुभिर्युक्तमुपदंशैश्चिरोत्थितम्
- दद्यात्सलवणं मद्यं वातपैत्तिकशान्तये ५९
- मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
- जीर्णमद्याय दातव्यं वातपानात्ययापहम् ६०
- चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीपकम्
- चूर्णं मद्येन पातव्यं पानात्ययरुजाऽपहम् ६१
- लावतित्तिरदक्षाणां रसैश्च शिखिनामपि
- पक्षिणां मृगमत्स्यानामानूपानां तथौदनैः ६२
- स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः
- स्निग्धैर्गोधूमकैरन्नैर्वातप्रायं मदात्ययम् ६३
- नारीणां यौवनोष्माणां निर्दयैरुपगूहनैः
- श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखप्रदैः ६४
- शयनाच्छादनैरुष्णैश्चान्तर्गेहैः सुखप्रदैः
- मारुतैः प्रबलैः शीघ्रं प्रशाम्यति मदात्ययः ६५
- पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः
- सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ६६
- मद्यं खर्जूरमृद्वीकापरूषकरसैर्युतम्
- सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ६७
- सशर्करं वा माध्वीकं संयुक्तमथ वा परम्
- दद्याद्बहूदकं काले पातुं पित्तमदात्यये ६८
- शशान्कपिञ्जलानेणांल्लावानसितपुच्छकान्
- मधुराम्लान्प्रयुञ्जीत भोजने शालिषष्टिकान् ६९
- पटोलयवमिश्रं वा छागलं कल्पयेद्र सम्
- सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ७०
- द्रा क्षाऽमलकखर्जूरपरूषकरसेन च
- कल्पयेत्तर्पणान्यूषान् रसांश्च विविधात्मकान् ७१
- शीतानि चान्नपानानि शीतशय्यासनानि च
- शीतवातजलस्पर्शाः शीतान्युपवनानि च ७२
- क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च
- चन्दनोदकशीतानां स्पर्शाश्चन्द्रा शुं!शीतलाः ७३
- रुक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम्
- यवगोधूमकञ्चान्नं रुक्षयूषेण भोजयेत् ७४
- कुलत्थकानां शुष्काणां मूलकानां रसेन वा
- प्रभूतकटुसंयुक्तं यवान्नं वा प्रदापयेत् ७५
- छागमांसरसं रुक्षमम्लं वा जाङ्गलं रसम्
- व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ७६
- स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम्
- कट्वम्ललवणं मांसं खादेत्कफमदात्यये ७७
- वामकद्र व्ययुक्तेन मद्येनोल्लेखनं मतम्
- मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ७८
- यदिदं कर्म्मनिर्दिष्टं वातपित्तकफान्प्रति
- सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ७९
- सगुडः कूष्माण्डरसः शमयति मदमाशु कोद्र वजम्
- धत्तूरजञ्च दुग्धं सशर्करं चाशु पानेन ८०
- सच्छर्दिमूर्च्छाऽतीसारं मदं पूगफलोद्भवम्
- सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ८१
- वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणादपि च
- शाम्यति पूगफलोद्भवमदः सशूलः सशर्कराकवलात् ८२
- तत्क्षणान्मृदितं चूर्णं समाघ्रातं प्रणाशयेत्
- ताम्बूलोत्थं मदं पुंसामेकमेव स्वभावतः ८३
- जातीफलमदं शीघ्रं हन्ति पथ्या निषेविता
- शीततोयावगाहश्च शर्करा दधियोजिता
- बिभीतमदशान्त्यर्थमियमेव मता पुनः ८४
- मद्यं पीत्वा यदि ना तत्क्षणमवलेढि शर्करां सघृताम्
- जातु न मदयति मद्यं मनागपि प्रथितवीर्यमपि ८५
- इति विंशो मदात्ययाधिकारः समाप्तः २०
दाहाधिकारः
[सम्पाद्यताम्]- अथैकविंशो दाहाधिकारः २१
- पित्तज्वरसमः पित्ताद् दाहः स्यात्तस्य संक्रमः १
- कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम्
- सन्धूप्यते चोष्यते च ताम्राभस्ताम्रलोचनः
- लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते २
- असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुस्तरः ३
- त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
- दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ४
- तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्
- स बाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः
- संशुष्कगलताल्वोष्ठो जिह्वां निष्काश्य वेपते ५
- धातुक्षयोत्थो यो दाहस्तत्र मूर्च्छातृषाऽन्वितः
- क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः ६
- मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः ७
- सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ८
- शतधौतघृताभ्यक्तं लेपं वा यवशक्तुभिः
- कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान् ९
- छादयेत्तस्य सर्वाङ्गमारनालार्द्र वाससा
- लामज्जकेन युक्तेन चन्दनेनानुलेपयेत्
- चन्दनाम्वुकणास्यन्दितालवृन्तोपवीजनैः १०
- सुप्याद् दाहार्दितोऽम्भोजकदलीदलसंस्तरे
- परिषेकावगाहेषु व्यजनानाञ्च सेवने ११
- शस्यते शिशिरं तोयं दाहतृष्णोपशान्तये
- फलिनी लोध्रसेव्याम्बुहेमपत्रं कुटन्नटम्
- कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् १२
- ह्रीबेरपद्मकोशीरचन्दनाम्बुजवारिणा
- सम्पूर्णामवगाहेत द्रो णीं दाहार्दितो नरः १३
- वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
- नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः १४
- पाययेत्कमलस्याम्भः शर्कराऽम्भ पयोऽपि च
- क्षीरमिक्षुरसञ्चापि कारयेत्पित्तजिद्विधिम् १५
- पटीरपर्पटोशीरनीर नीरदनीरजैः
- मृणालमिसिधान्याकपद्मकामलकैः कृतः १६
- अर्द्धशिष्टः सिताशीतः पीतः क्षौद्र समन्वितः
- क्वांथो व्यपोहयेद् दाहं नृणाञ्च परमोल्बणम् १७
- तिलतैलं भवेत्प्रस्थं तत्षोडशगुणे शनैः
- काञ्जिके विपचेत्तत्स्याद्दाहज्वरहरं परम् १८
- इत्येकविंशोदाहाधिकारः समाप्तः २१
उन्मादाधिकारः
[सम्पाद्यताम्]- अथ द्वाविंश उन्मादाधिकारः २२
- मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
- मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः १
- स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च २
- विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
- उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमा च चेष्टा ३
- एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
- मानसेन च दुःखेन स पञ्चविध उच्यते
- विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् ४
- तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
- स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
- धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
- अबद्धवाक्यं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
- रुक्षाल्पशीतान्नविरेकधातुक्ष योपवासैरनिलोऽतिवृद्धः
- चिन्ताऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ७
- अस्थानहास्यस्मितनृत्यगीतवा गङ्गविक्षेपणरोदनानि पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम् ८
- अजीर्णकट्वम्लविदाहशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
- उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ९
- अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्र वणौष्ण्यरोषाः
- प्रच्छायशीतान्नजलाभिलाषा पीता च भा पित्तकृतस्य लिङ्गम् १०
- सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः
- बुद्धिं स्मृतिञ्चाप्युपहन्ति चित्तं प्रमोहयन्सञ्जनयेद्विकारम् ११
- वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा
- छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके स्यात् १२
- यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्
- सर्वाणि रूपाणि बिभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १३
- चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
- गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः १४
- चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमूढः १५
- रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः श्यावाननो विषकृते तु भवेत्परासुः १६
- अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
- जागरूको ह्यसन्देहमुन्मादेन विनश्यति १७
- अमत्तर्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः
- प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनसो विकारः १८
- सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो ऽप्यवितथसंस्कृतप्रभाषी
- तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः १९
- संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
- सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः २०
- हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
- नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः २१
- ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः
- तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः २२
- प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
- मांसेप्सुस्तिलगुडपायसाभिलाषी तद्भक्तो भवति पितृग्रहाभिजुष्टः २३
- यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्किण्यौ मुहुरपि जिह्वयाऽवलेढि
- क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः २४
- मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
- क्रोधालुर्विविधबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः २५
- देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः
- आत्मपीडाकरोऽहिस्रो ब्रह्मराक्षससेवितः २६
- उद्बस्त्रः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
- बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टंस्त्रसति रुदन्पिशाचजुष्टः २७
- स्थूलाक्षो द्रुतमटनः सफेनवामी निद्रा लुः पतति च कम्पते च योऽति
- यश्चाद्रि द्विरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे २८
- देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
- गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ २९
- पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः
- रक्षःपिशाचा रात्रौ च चतुर्दश्यां विशन्ति हि ३०
- वातिके स्नेहपानं प्राग्विरेकः पित्तसम्भवे
- कफजे वमनं कार्यं परो वस्त्यादिकः क्रम
- यच्चोपद्रे क्ष्यते किञ्चिदपस्मारे चिकित्सितम्
- उन्मादे तच्च कर्त्तव्यं सामान्याद् दोषदूष्ययोः ३१
- जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
- रक्षेदुन्मादिनं यत्नात्सद्यः प्राणहरं हि तत् ३२
- ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः
- दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः ३३
- सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च
- मञ्जिष्ठा त्रिफला श्वेता कटभी त्वक् कटुत्रयम् ३४
- समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्
- बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ३५
- नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा
- अपस्मारविषोन्मादकृत्याऽलक्ष्मीज्वरापहम् ३६
- भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते
- सर्पिरेतेन संसिद्धं सगोमूत्रं तदर्थकृत् ३७
- ब्रूयादिष्टविनाशञ्च दर्शयेदद्भुतानि च
- बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे ३८
- कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत्
- कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे ३९
- सर्पेणोद्धृतदंष्ट्रेण दशेत्सिंहैर्गजैश्च तम्
- त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा ४०
- अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
- त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ४१
- देहदुःखभयेभ्यो हि यतः प्राणभयं भवेत्
- ततस्तस्य शमं याति सर्वतो विप्लुतं मनः ४२
- इष्टद्र व्यविनाशेन मनो यस्याभिहन्यते
- तस्य तत्सदृशप्राप्त्या ज्ञात्वाऽश्वासैः शमं नयेत् ४३
- त्र्! यूषणं हिङ्गु लवणं वचा कटुकरोहिणी
- शिरीषस्य करञ्जस्य बीजं गौराश्च सर्षपाः ४४
- गोमूत्रपिष्टैरेभिस्तु वर्तिर्नेत्राञ्जने हिता
- हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम् ४५
- कुष्ठाश्वगन्धे लवणाजमोदे द्वेजीरके त्रीणि कटूनि पाठा
- मङ्गल्यपुष्पी च समान्यमूनि सर्वैः समानाञ्च वचां विचूर्ण्य ४६
- ब्राह्मीरसेनाखिलमेव भाव्यं वारत्रयं शुष्कमिदं हि चूर्णम्
- अक्षप्रमाणं मधुना घृतेन लिह्यान्नरः सप्त दिनानि चूर्णम् ४७
- सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा
- हिताय सर्वलोकानां दुर्मेधानां विचेतसाम् ४८
- एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः
- सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम् ४९
- विश्वाऽजमोदरजनीद्वयसैन्धवोग्रायष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम्
- चूर्णं प्रभातसमये लिहतः ससर्पिर्वाग्देवता निवसति स्वयमेव वक्त्रे ५०
- क्वाथे विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम्
- पादशेषं प्रकर्त्तव्यमेष क्वाथविधिः स्मृतः ५१
- दशमूली तथा रास्ना वातारिस्त्रिवृता बला
- मूर्वा शतावरी चेति क्वाथैस्तु कुडवैः पृथक् ५२
- कृतैः क्वाथैर्घृतप्रस्थद्वयं मृद्वग्निना पचेत्
- कल्कीकृतैर्वक्ष्यमाणद्र व्यैः सम्यक् पुनः पचेत् ५३
- विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्
- स्थिराऽनन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम् ५४
- नीलोत्पलैला मञ्जिष्ठा दन्ती दाडिमकेसरम्
- विडङ्गं ह्यग्निपत्री च कुष्ठं चन्दनपद्मके ५५
- तालीशपत्रं बृहती मालतीकुसुमं नवम्
- अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक् ५६
- चतुर्गुणं जलं दत्वा पिष्टैस्तद्विपचेद् घृतम्
- महाचैतसनामेदं सर्वचेतोविकारनुत् ५७
- अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः
- वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके ५८
- म्रूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु च
- पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च ५९
- देवादिहतचित्तानां गद्गदानामचेतसाम्
- शस्तं स्त्रीणाञ्च वन्ध्यानां धन्यमायुर्बलप्रदम् ६०
- अलक्ष्मी पापरक्षोध्नं सर्वग्रहनिवारणम्
- हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम् ६१
- पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः
- जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ६२
- कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम्
- अञ्जनं सर्वदेवादिकृतोन्मादहरं परम्६३
- ॠक्षजम्बुकलोमानि शल्लकी लशुनं तथा
- हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत्
- एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ६४
- कल्याणकञ्च युञ्जीत महद् वा चैतसं घृतम्
- तैलं नारायणं वाऽथ महानारायणं तथा ६५
- ॠते पिशाचादन्येषु प्रतिकूलं न वाऽचरेत्
- रोगिणंभिषजं यत्ते क्रुद्धा हन्युर्महौजसः ६६
- इति द्वाविंश उन्मादाधिकारः समाप्तः २२
अपस्माराधिकारः
[सम्पाद्यताम्]- अथ त्रयोविंशोऽपस्माराधिकारः २३
- चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
- कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते १
- वातात्पित्तात्कफात्सर्वैर्दोषैः स स्याच्चतुर्विधः २
- तमःप्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
- अपस्मार इति ज्ञेयो गदो घोरतरो हि सः ३
- हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
- निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ ४
- कम्पते प्रदशेद्दन्तान्फेनोद्वामी श्वसित्यपि
- अभितोऽरुणवर्णानि पश्येद्रू पाणि चानिलात् ५
- पीतफेनाङ्गवक्त्राक्षः पीतासृगूपदर्शनः
- सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिके ६
- शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः
- पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ७
- समस्तैर्लक्षणैरेतैर्वि ज्ञातव्यस्त्रिदोषजः
- अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ८
- प्रस्फुरन्तञ्च बहुशः क्षीणं प्रचलितभ्रुवम्
- नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ९
- पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः
- अपस्मारं प्रकुर्वन्ति वेगं किञ्चिदथान्तरम् १०
- तैलेन लशुनः सेव्यः पयसा च शतावरी
- ब्राह्मीरसश्च मधुना सर्वापस्मारभेषजम् ११
- चूर्णः सिद्धार्थकादीनां भक्षितैरथवाऽपि तैः
- गोमूत्रपिष्टैः सर्वाङ्गलेपैः शाम्यत्यपस्मृतिः १२
- सिद्धार्थशिग्रुकट्वङ्गकिणिहीभिः प्रलेपनम्
- चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् १३
- निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः
- उपैति सहसा नाशमपस्मारो महागदः १४
- मनोह्वा तार्क्ष्यविष्ठा च शकृत्पारावतस्य च
- अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः १५
- यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः
- अपस्मारं महाघोरं चिरोत्थं स जयेद् ध्रुवम् १६
- कूष्माण्डकफलोत्थेन रसेन परिपेषितम्
- अपस्मारविनाशाय यष्ट्याह्वं स पिबेत्त्र्यहम् १७
- ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्
- पुराणं स्यादपस्मारोन्मादग्रहहरं परम् १८
- कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्
- यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम् १९
- हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता
- दशमूलीजलं तस्य कल्याणाख्यं प्रयोजयेत् २०
- पञ्चकोलं समरिचं त्रिफला विडसैन्धवम्
- कृष्णाविडङ्गपूतीकयवानीधान्यजीरकम्
- पीतमुष्णाम्बुना चूर्णं वातश्लेष्मामयापहम् २१
- अपस्मारे तथोन्मादेऽप्यर्शसां ग्रहणीगदे
- एतत्कल्याणकं चूर्णं नष्टस्याग्नेश्च दीपनम् २२
- द्वौ कीटमेढ्रौ विधिवदानीय रविवासरे
- कण्ठे भुजे वा सन्धार्य जयेदुग्रामपस्मृतिम् २३
- शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः
- बस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ २४
- उन्मादेषु यदुद्दिष्टं पथ्यं नस्याञ्जनौषधम्
- अपस्मारेऽपि तत्सर्वं प्रयोक्तव्यं भिषग्वरैः २५
- मृतसूताभ्रलोहञ्च शिलागन्धञ्च तालकम्
- रसाञ्जनञ्च तुल्यांशं नरमूत्रेण मर्दयेत् २६
- तद्गोलद्विगुणं गन्धं लौहपात्रे क्षणं पचेत्
- पञ्चगुञ्जोन्मितं भक्ष्यमपस्मारहरं परम् २७
- व्योषं सौवर्चलं हिङ्गु नरमूत्रेऽजसर्पिषा
- पिबेत्कर्षमितं पश्चाद्र सोऽय भूतभैरवः २८
- इति त्रयोविंशोऽपस्माराधिकारः समाप्तः २३
वातव्याध्यधिकारः
[सम्पाद्यताम्]- अथ चतुर्विंशो वातव्याध्यधिकारः २४
- कषायकटुतिक्तकप्रमितरुक्षलघ्वन्नतः पुरः पवनजागरप्रतरणाभिघातश्रमैः हिमादनशनात्तथा निधुवनाच्च
- धातुक्षयान्मलादिरयधारणान्मदनशोकचिन्ताभयैः १
- अतिक्षतजमोक्षणाद्गदकृतातिमांसक्षयादतीववमनान्नृणामति विरेचनादामतः पयोदसमये दिनक्षण दयोस्तृतीयांश योर्ज रामति गतेऽशिते शिशिरसञ्ज्ञकालेऽपिच २
- देहेस्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
- करोति विविधान् रोगान्सर्वाङ्गैकाङ्गसंश्रयान् ३
- शिरोग्रहोऽल्पकृशता जृम्भाऽत्यर्थं हनुग्रहः
- जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ४
- वाचालता प्रलापञ्च रसानामनभिज्ञता
- बाधिर्यं कर्णनादश्च स्पर्शाज्ञत्वं तथाऽदितम् ५
- मन्यास्तम्भोऽत्र गणितो बाहुशोषोऽपबाहुकः
- वर्णिता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ६
- आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रतिष्ठीला
- तूनी च प्रतितूनी च वह्निवैषम्यमेव च ७
- आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च
- मुहुश्च मूत्रणं मूत्रनिग्रहो मलगाढता ८
- पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परा
- कलायखञ्जता चापि खञ्जता पङ्गुता तथा ९
- क्रोष्टुशीर्षकखल्ल्यौ च वातकण्टक एव च
- पादहर्षः पाददाह आक्षेपो दण्डकाभिधः १०
- वातपित्तकृताक्षेपस्तथा दण्डापतानकः
- अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ११
- आन्तरश्च तथा बाह्यो धनुर्वातश्च कुब्जकः
- अपतन्त्रोऽपतानश्च पक्षाघातः खिलाङ्गकः १२
- कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा
- रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नश्च हर्षणम् १३
- अङ्गमर्दोऽङ्गविभ्रंशः शिरासंकोच एव च
- अङ्गशोषश्च भीरुत्वं मोहश्च चलचित्तता १४
- निद्रा नाशः स्वेदनाशो बलहानिस्तथैव च
- शुक्रक्षयो रजोनाशो गर्भनाशः परिभ्रमः १५
- एत एवाशीतिसंख्या रोगा योगेन रूढितः
- वातव्याधीतिनामानो मुनिभिःपरिकीर्त्तिताः १६
- मधुरलवणसाम्लस्निग्धस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि
- दहनजलदशोषाभ्यङ्गसम्मर्दनानि प्रकुपितपवनानां शान्तिमेतानिकुर्युः १७
- अथ विशिष्टानां वातव्याधीनां लक्षणानि चिकित्सा च
- रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः शिराः
- रुक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः १८
- शिरोग्रहे तु कर्त्तव्या शिरोगतमरुत्क्रिया
- दशमूलीकषायेण मातुलुङ्गरसेन च
- शृतेन तैलेनाभ्याङ्गः शिरोबस्तिश्च युज्यते १९
- पीत्वैकं श्वासमनिलः पुनस्त्यजति वेगवान्
- आलस्यनिद्रा युक्तश्च स जृम्भ इति कथ्यते २०
- शुण्ठी पिप्पल्यूषणं दीप्यकञ्च सिन्धूद्भूतं चेति सर्वे पृथग्वा
- तद्रू पं वा सूक्ष्मचूर्णीकृतं वा जृम्भाऽरम्भस्तम्भकृत्स्यात्तदेव २१
- जृम्भावेगे समुत्पन्ने शोभने शयने नरम्
- स्वापयेत्तेन नियमाज्जृम्भावेगः प्रशाम्यति २२
- जृम्भावेगःक्षयं याति कटुतैलेन मर्दनात्
- भोजनात्स्वादुभोज्यानां तथा ताम्बूलभक्षणात् २३
- जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
- कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनुम् २४
- करोति विवृतास्यत्वमथ वा संवृतास्यताम्
- हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् २५
- संवृतं चिबुकं स्निग्धं स्विन्नमुन्नमयेद्भिषक्
- विवृतं नमयित्वा तु कुर्यात्प्राप्तामिह क्रियाम् २६
- पिप्पलीमार्द्र कञ्चापि सञ्चर्व्य च मुहुर्मुहुः
- निष्ठीवेत्तप्ततोयेन शोधयेद्वदनान्तरम् २७
- निष्कुष्य लशुनं सम्यक्संक्षुद्य तिलतैलवत्
- सैन्धवेनान्वितं खादेद्धनुस्तम्भार्दितो नरः २८
- रसोनगुटिकामाषविदलं परिपेष्य च
- याजयेत्पिष्टिकां ताञ्च सैन्धवार्द्र कहिङ्गुभिः २९
- ततस्तु वटकान्कृत्वा तिलतैले पचेच्छनैः
- भक्षयेत्तान्यथावह्निं हनुस्तम्भात्सुखी भवेत् ३०
- अभ्यज्य पक्वतैलेन स्वेदयेन्मृदुनाग्नि
- वस्तिं विधारयेन्मूर्ध्नि तैलेन परिपूरितम् ३१
- समूलपत्रशाखायाः प्रसारण्याः शतं पलैः
- सम्यक्संक्षुद्य सलिले द्रो णमात्रे पचेद्भिषक् ३२
- सलिलस्य चतुर्थाशं क्वाथं समवशेषयेत्
- ततः पलशते तैले तं कषायं पुनः पचेत् ३३
- पचेत्पलशतं मस्तु काञ्जिकं मस्तुनः समम्
- ततः शुद्धं पचेद् दुग्धं गव्यं तैलाच्चतुर्गुणम् ३४
- चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचा
- शतपुष्पा देवदारु रास्ना च गजपिप्पली ३५
- प्रसारणीभवं मूलं मांसी रक्तञ्च चन्दनम्
- तथा वातारिमूलञ्च बलामूलञ्च नागरम् ३६
- तैलस्य चाष्टमांशेन सर्वकल्कानि साधयेत्
- नाम्ना प्रसारणीतैलं विख्यातं तत्प्रयुज्यते ३७
- पाने नस्ये शिरोवस्तौ मर्दने स्वेदने तथा
- प्रयुक्तं वातजान् रोगान्सर्वानपि विनाशयेत् ३८
- विशेषतो हनुस्तम्भं जिह्वास्तम्भं तथाऽदितम्
- गद्गदत्वञ्च विश्वाचीं मन्यास्तम्भापबाहुकौ ३९
- त्रिकशूलं गृध्रसीञ्च खञ्जतां पङ्गुतां तथा
- कलायखञ्जतां खल्लीं स्तम्भं सङ्कोचमेव च ४०
- आन्तरं बाह्यमायामं तथा दण्डापतानकम्
- धनुर्वातञ्च कुब्जत्वं व्यपोहति न संशयः ४१
- क्षीणानां स्थविराणाञ्च वातसङ्कोचितात्मनाम्
- प्रसारयेद्यतोऽङ्गानि तदुक्तैषा प्रसारणी ४२
- वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
- जिह्वास्तम्भः स तेनाद्मपानवाक्येष्वनीशता ४३
- जिह्वास्तम्भे यथाऽवस्थं वातव्याधिचिकित्सितम्
- सामान्योक्ता क्रिया चात्रार्दितस्यापि हिता मता ४४
- आघृत्य वायुः सकफो धमनीः शब्दवाहिनीः
- नरान्करोत्यवचनान्मूकमिन्मिनगद्गदान् ४५
- अथ गद्गदमिन्मिनमूकानां चिकित्सा
- प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोघ्रैः
- आजे पयसि सपाठैः सिद्धं सारस्वतं नाम्ना ४६
- विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणाज्जित्वा
- स्मृतिमतिमेधाप्रतिभाः कुर्यात्सुस्पष्टवाग्भवति ४७
- सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्
- अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ४८
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
- तच्चूर्णं सर्पिषा लेह्यं प्रत्यहं भक्षयेन्नरः ४९
- एकविशंतिरात्रेण भवेच्छुतिधरो नरः
- मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ५०
- स्वहेतुकुपिताद्वातादसम्बद्धं निरर्थकम्
- वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ५१
- सतगरवरतिक्तारेवताम्भोदतिक्तानलदतुरगगन्धा भारतीहारहूराः
- मलयजदशमूलीशङ्खपुष्प्यः सुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ५२
- भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्
- रसज्ञा यन्न जानाति रसाज्ञानं तदुच्यते ५३
- घर्षेज्जिह्वां जडां सिन्धुत्र्! यूषणैः साम्लवेतसैः
- अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् ५४
- किराततिक्तका कट्वी कुटजस्य फलं त्वचा
- ब्राह्मी फलञ्च पालाशं सर्जिका कृष्णजीरकम् ५५
- पिप्पली पिप्पलीमूलं चित्रं नागरमूषणम्
- एषां कल्कैर्मुहुर्घर्षेज्जिह्विकामार्द्रि कारसैः ५६
- तेन सम्यग्विजानाति रसना सकलान् रसान्
- कल्कः किराततिक्तादिर्जिह्वायाःशून्यतां हरेत् ५७
- स्पृश्यमाना त्वचा या तु शीतोष्णं मृदु कर्कशम्
- न जानाति बुधैस्त्वक् सा शून्येति परिकीर्त्तिता ५८
- सुप्तवाते त्वसृङ्मोक्षं कारयेद् बहुशो भिषक्
- दद्याच्च लवणाङ्गारधूमैस्तैलसमन्वितैः ५९
- उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च
- हसतो जृम्भतो भाराद्विषमाच्छयनासनात् ६०
- शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
- अर्दयत्यनिलो वक्त्रमर्दितं जनयेत्ततः ६१
- वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते
- शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ६२
- ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना
- तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ६३
- वातात्पित्तात्कफाच्च स्यात्त्रिविधं तत्समासतः
- लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः ६४
- ओष्ठयोः श्वयथुः शूलं चार्दिते वातजे भवेत् ६५
- पीतमास्यं ज्वरस्तृष्णापित्तजे मोहधूपने
- गण्डे गिरसि मन्यायां शोथः स्तम्भः कफात्मके ६६
- क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः
- न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च ६७
- स्नेहपानानि नस्यश्च भोज्यान्यनिलहन्ति च
- उपनाहाश्च शस्यन्ते नावनं वस्तयोऽदिते ६८
- बलया पञ्चमूल्या वा क्षीरं वातात्मके हितम्
- दशमूलकषायेण मातुलुङ्गरसेन वा ६९
- पिष्टं मांसघृतं जग्ध्वा नवनीतेन सोऽदिती
- क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ७०
- अर्दिते पित्तजे शीतान्स्नेहांश्चैव विनिर्दिशेत्
- घृतवस्तिप्रसेकञ्च क्षीरमेकं तथैव च ७१
- जिह्मीभूताननो मूको दाहवान्योऽदिती भवेत्
- कुर्यात्प्रतिक्रियां तस्य वातपित्तविनाशिनीम् ७२
- श्लेष्मभागे क्षयं नीते बृंहणैः समुपाचरेत्
- अर्दिते शोथसंयुक्ते वमनं च प्रशस्यते ७३
- रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽदितरोगयुक्तः
- तस्यार्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात् ७४
- दिवास्वप्नासनस्थानविकृतोर्ध्वनिरीक्षणैः
- मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ७५
- दशमूलीकृतं क्वाथं पञ्चमूल्याऽपि कल्पितम्
- रुक्षं स्वेदं तथा नस्यं मन्यास्तम्भे प्रयोजयेत् ७६
- तैलेनाज्येन वा ग्रीवामभ्यज्यार्कदलैरथ
- एरण्डपत्रैराच्छाद्य स्वेदयेद् बहुशो भिषक् ७७
- कुक्कुटाण्डद्र वैरुष्णैः सैन्धवाज्यसमन्वितैः
- ग्रीवां सम्मर्दयेत्तेन मन्यास्तम्भः प्रशाम्यति ७८
- अंसदेशे स्थितो वायुः शोषयेदंसबन्धनम्
- अंसबन्धनशोषात्स्याद् बाहुशोषः सवेदनः ७९
- बाहुशोषे पिबेद् भुक्त्वा सर्पिः कल्याणकं महत्
- बलामूलशृतं तोयं सैन्धवेन समन्वितम्
- बाहुशोषकरे वाते मन्यास्तम्भे च शस्यते ८०
- शिराः सङ्कोच्य बाहुस्थः स कुर्यादपबाहुकम् ८१
- परमौषधमपबाहु कमन्यास्तम्भोर्ध्वजत्रुगतरोगे
- शीतलजलेन नस्यं तदुपशमं जिङ्गिनी च पुरः ८२
- मूलं बलायास्त्वथ पारिभद्र जं तथाऽत्मगुप्तास्वरसं पिबेद्वा
- युञ्जीत यो माषरसेन नस्यं भवेदसौ वज्रसमानबाहुः ८३
- माषातसीयवकुरण्टककण्टकारी गोकण्टटुण्टुकजटाकपिकच्छतोयैः
- कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन चापि ८४
- शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलकपुनर्नवया सरण्या
- रास्नाबलाऽमृतलताकटुकैर्विपक्वं माषाख्यमेतदपबाहुहरं हि तैलम् ८५
- तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः
- बाह्वोः कर्मक्षयकरी विश्वाची सा निगद्यते ८६
- दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम्
- सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामपबाहुके ८७
- माषसिन्धुबलारास्ना दशमूलकहिङ्गुभिः
- वचाशिवजटाऽख्याभिः सिद्धं तैलं सनागरम् ८८
- ऊर्ध्वं भक्ताशनाद्धन्याद् बाहुशोषापबाहुकौ
- विश्वाचीमुद्धतां चापि पक्षाघातं तथाऽदितम् ८९
- अधःप्रतिहतो वायुः श्लेष्मणा मारुतेन च
- करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ९०
- भागा दश विश्वायास्तत्तुल्या वृद्धदारकस्यापि
- त्रय एव च पथ्यायाश्चतुरंशं हिङ्गु सम्भृष्टम् ९१
- एकः सैन्धवभागस्तत्तुल्यं चित्रकं चात्र
- संवृद्धमूर्ध्ववातं हन्त्येतच्चूर्णितं भुक्तम् ९२
- साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
- आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ९३
- आध्माने लङ्घनं पूर्वं दीपनं पाचनं ततः
- फलवर्तिक्रियां कुर्याद्वस्तिकर्म च शोधनम् ९४
- कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
- खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत्
- मधुनाऽक्षमितं लिह्याच्चूर्णमाध्माननाशनम् ९५
- दारुहैमवतीकुष्ठशताह्वा हिङ्गुसैन्धवैः
- लिम्पेदुष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ९६
- अभयाऽरग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत्
- मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ९७
- तानि सङ्कुट्य सर्वाणि जलाढकयुगे पचेत्
- तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ९८
- निस्त्वग्जैपालबीजानि नवानि पलमात्रया
- तनुवस्त्रधृतान्येव तस्मिन्क्वाथे शनैः पचेत् ९९
- ज्वालयेदनलं मन्दं यावत्क्वाथो घनो भवेत्
- तत खल्वे क्षिपेद्भागानष्टौ जैपालबीजतः १००
- भागांस्त्रीन्नागराद् द्वौ च मरिचाद् द्वौ च पारदात्
- गन्धकाद् द्वौ च तानीह यावद्यामं विमर्दयेत् १०१
- रसो नाराचनामाऽय भक्षितो रक्तिकामितः
- जलेन शीतलेनैव रोगानेतान्विनाशयेत् १०२
- आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च
- उदावर्त्तं तथा गुल्ममुदराणि हरत्यसौ १०३
- वेगे शान्ते तु भुञ्जीत शर्करासहितं दधि
- ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक् १०४
- विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
- प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम् १०५
- प्रत्याध्माने समुत्पन्ने कुर्याद्वमनलङ्घने
- दीपनादीनि युञ्जीत पूर्ववद्वस्तिकर्म च १०६
- नाभेरधस्तात्सञ्जातः सञ्चारी यदि वाऽचलः १०७
- अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नतः
- वाताष्ठीलां विजानीयाद् वहिर्मार्गनिरोधिनीम् १०८
- एतामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
- प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् १०९
- अष्ठीलायाः क्रिया कार्या गुल्मस्यान्तरविद्र धेः
- चूर्णं हिङ्ग्वादिकं चात्र पिबेदुष्णेन वारिणा ११०
- हिङ्गुग्रन्थिक धान्यजीरकवचाचव्याग्निपाठाशटी
- वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
- पथ्यापौष्करवेतसाम्लहपुषायोज्यंतदेभिः कृतं
- चूर्णं भावितमेतदार्द्र करसैः स्याद् बीजपूरद्र वैः १११
- अधो या वेदना याति वर्चोमूत्राशयोत्थिता
- भिन्दन्तीव गुदोपस्थं सा तूनी नामतो मता ११२
- गुदोपस्थोत्थिता सैव प्रतिलोमं विधाविता
- वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते ११३
- तून्याञ्च प्रतितून्याञ्च प्रशस्ताः स्नेहवस्तयः
- पिबेद्वा स्नेहलवणं पिप्पल्यादिमथाम्बुना
- उष्णेन रामठं क्षारं प्रगाढमथ वा घृतम् ११४
- स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं मतम्
- तत्र वातेन या पीडा त्रिकशूलं तदुच्यते ११५
- कारयेद्वालुकास्वेदं त्रिकशूलेप्रयत्नतः
- यद्वाऽधस्तात्करीषाग्निं धारयेत्सततं नरः ११६
- आभाऽश्वगन्धा हपुषागुडूची शतावरी गोक्षुरकश्च रास्ना
- श्यामा शताह्वा च शटी यवानी सनागरा चेति समं विचूर्ण्य ११७
- सर्वैः समं गुग्गुलुमत्र दद्यात्क्षिपेदिहाज्यञ्च तदर्द्धभागम्
- तद्भक्षयेदर्द्धपिचुप्रमाणं प्रभातकाले पयसाऽथ यूषैः ११८
- मद्येन वा कोष्णजलेन चापि क्षीरेण वा मांसरसेन वाऽपि
- त्रिकग्रहे जानुहनुग्रहे च वाते भुजस्थे चरणस्थिते च ११९
- सन्धिस्थिते चास्थिगते च तस्मिन्मज्जस्थिते स्नायुगते च कोष्ठे
- रोगान् हरेद्वातकफानुविद्धान् वातेरितान् हृद्ग्रहयोनिदोषान् १२०
- भग्नास्थिविद्धेषु च खञ्जतायां सगृध्रसीके खलु पक्षघाते
- महौषधं गुग्गुलुमेतमाहुस्त्रयोदशाङ्गं भिषजः पुराणाः १२१
- मारुतेऽविगुणे वस्तौ मूत्रं सम्यक्प्रवर्त्तते
- विकारा विविधाश्चापि तस्मिन्दुष्टे भवन्ति हि १२२
- बलामूर्वात्वचश्चूर्णं ससितं कर्षसम्मितम्
- पिबेत्कुडवदुग्धेन मुहुर्मूत्रणशान्तये १२३
- पथ्याबिभीतधात्रीणां चूर्णं चूर्णं मृतायसः
- मधुना सह संलीढं मुहुर्मूत्रणशान्तिकृत् १२४
- यवक्षारस्य चूर्णस्तु संयोज्य सितया सह
- भक्षयेन्नियतं तस्य प्रशाम्येन्मूत्रनिग्रहः १२५
- कूष्माण्डस्य तु बीजानि बीजानि त्रपुषस्य च
- वस्तौ सन्धारयेत्तेन प्रशाम्येन्मूत्रनिग्रहः १२६
- आमलक्याश्च कल्केन वस्तिभागं प्रलेपयेत्
- तेन प्रशाम्यति क्षिप्रं नियमान्मूत्रनिग्रहः १२७
- मेहनस्याथ योनेर्वा मुखस्याभ्यन्तरे शनैः
- घनसारयुतां वर्त्तिं धारयेन्मूत्रनिग्रहे १२८
- स्फिक्पूर्वोरुकटीपृष्टजानुजङ्घापदं क्रमात्
- गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः १२९
- वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः
- वातजायां भवेत्तोदो देहस्यातीव वक्रता १३०
- जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् १३१
- वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्दवम्
- तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च १३२
- गृध्रस्यार्त्तं नरं सम्यग् रेकेण वमनेन वा
- ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत् १३३
- नादौ वस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति
- स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतं यथा १३४
- तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः
- मासमेकं प्रयोगोऽय गृध्रस्यूरुग्रहापहः १३५
- तैलं घृतं चार्द्र कमातुलुङ्गरसं सचुक्रं सगुडं पिबेद्वा
- कट्युरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्त्तहरः प्रयोगः १३६
- निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
- तत्पानन्तु कटीशूले गृध्रस्यां परमौषधम् १३७
- एरण्डमूलं बिल्वञ्च बृहती कण्टकारिका
- कषायोरुचकोपेतः पीतो वङ्क्षणवस्तिजम्
- गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च १३८
- गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः
- दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् १३९
- सिंहास्यदन्तीकृतमालकानां पिबेत्कषायं रुबुतैलमिश्रम्
- यो गृध्रसीनष्टगतिः प्रसुप्तः स शीघ्रगः स्याद्धि किमत्र चित्रम् १४०
- बृहन्निम्बतरोः सारो वारिणा परिपेषितः
- स पीतो नाशयेत्क्षिप्रमसाध्यामपि गृध्रसीम् १४१
- शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः
- दुर्वारं गृध्रसीरोगं पीतमात्रः प्रणाशयेत् १४२
- रास्नायास्तु पलं चैकं पञ्चकर्षाणि गुग्गुलोः
- सर्पिषावटिकां कृत्वा भक्षयेद् गृध्रसीहरीम् १४३
- रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
- क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठत्रिकपार्श्वशूली १४४
- पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्
- प्रस्थेन युक्तञ्च पलङ्कषाणां द्रो णे जले संस्थितमेकरात्रम् १४५
- अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत्तत्पुनरेव लौहे
- अमूनि वह्नेरवतार्य दद्याद् द्र व्याणि सञ्चूर्ण्य पलार्द्धकानि १४६
- विडङ्गदन्तीत्रिफलागुडूची कृष्णात्रिवृन्नागरकोषणानि
- यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि १४७
- निषेव्यमाणो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च
- प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् १४८
- पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः
- बलेन नागेन समं मनुष्यं जवेन कुर्यात्तुरगेण तुल्यम् १४९
- आयुः प्रकर्षं विदधाति चक्षुर्बलं तथा पुष्टिकरो विषघ्नः
- क्षतस्य सन्धानकरो विशेषाद्रो गेषु शस्तः सकलेषु तज्ज्ञैः १५०
- वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा
- खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् १५१
- उपाचरेदभिनवं खञ्जं पङ्गुमथापि च
- विरेकास्थापनस्वेदगुग्गुलुस्नेहवस्तिभिः १५२
- कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते
- कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् १५३
- क्रमः कलायखञ्जस्य खञ्जपङ्ग्वोरिव स्मृतः
- विशेषात्स्नेहनं कर्म कार्यमत्र विचक्षणैः १५४
- वातशोणितजः शोथो जानुमध्ये महारुजः
- ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् १५५
- गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाऽम्भसा
- क्षीरेणैरण्ड तैलं वा पिबेद्वा वृद्धदारकम् १५६
- रसैस्तित्तिरमांसस्य पीतेर्गुग्गुलुसंयुतैः
- वातरक्तक्रियाभिश्च जयेज्जम्बूकमस्तकम् १५७
- खल्लीतु पादजङ्घोरुकरमूलावमोटिनी १५८
- कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः
- सुखोष्णो मर्दने योज्यः खल्लीशूलनिवारणः १५९
- रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते यदा
- वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् १६०
- रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके
- पिबेदैरण्डतैलं वा दहेत्सूचीभिरेव च १६१
- पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
- विशेषतश्चङ्क्रमणे पाददाहं तमादिशेत् १६२
- वातरक्तक्रमं कुर्यात्पाददाहे विशेषतः
- मसूरविदलैः पिष्टैः शृतशीतेन वारिणा
- चरणौ लेपयेत्सम्यग्पाददाहप्रशान्तये १६३
- नवनीतेन संलिप्तौ वह्निना परिता पितौ
- मुच्येते चरणौ क्षिप्रं परितापात्सुदारुणात् १६४
- हृष्येते चरणौ यस्य भवतश्च प्रसुप्तकौ
- पादहर्षः स विज्ञेयः कफवातप्रकोपजः १६५
- पादहर्षे तु कर्त्तव्यः कफवातहरो विधिः १६६
- यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
- तदा क्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चलः
- मुहुराक्षेपणाद्वायुराक्षेपक इति स्मृतः १६७
- पित्तश्लेष्मान्वितो वायुर्वायुरेव च केवलः
- कुर्यादाक्षेपकं चान्यं चतुर्थमभिघातजम् १६८
- पाणिपादशिरः पृष्ठश्रोणीः स्तभ्नाति मारुतः
- दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः १६९
- कफावृतो यदा वायुर्धमनीष्वेव तिष्ठति
- स दण्डवत्स्तम्भयति कृच्छ्रो दण्डापतानकः १७०
- बलामूलकषायस्य दशमूलीशृतस्य च
- यवकोलकुलत्थानां क्वाथस्य पयसस्तथा १७१
- अष्टावष्टौ स्मृता भागास्तैलादेकस्तदेकतः
- पचेदवाप्य मधुरं गणं सैन्धवसंयुतम् १७२
- तथाऽगुरुं सर्जरसं सरलं देवदारु च
- मञ्जिष्ठां पद्मकं कुष्ठमेलां कालानुसारिवाम् १७३
- मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्
- शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् १७४
- तत्साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा
- प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत् १७५
- एतन्महाबलातैलं प्रयुक्तमविलम्बितम्
- सर्वानाक्षेपकादींस्तु वातव्याधीन्व्यपोहति १७६
- हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम्
- षण्मासादुपयुक्तं तदन्त्रवृद्धिञ्च नाशयेत् १७७
- यथाबलमतो मात्रां सूतिकायै च दापयेत्
- या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् १७८
- क्षीणवाते मर्महते ह्यभिघातहते तथा
- भग्ने श्रमाभिपन्ने च सर्वथैतत्प्रयुज्यते १७९
- एतद्धि राज्ञा कर्त्तव्यं कर्त्तव्यं राजपूजितैः
- सुखिभिः सुकुमारैश्च धनिभिर्मानवैः सदा १८०
- अङ्गुलीगुल्फजठरहृद्व क्षोगलसंश्रितः
- स्नायुप्रतानमनिलस्तदाऽक्षिपतिवेगवान् १८१
- विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् १८२
- अभ्यन्तरे धनुरिव यदा नमति मानवः
- तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली १८३
- महाहेतुर्बली वायुःसशिराः स्नायुकण्डराः
- मन्यापृष्ठाश्रिता बाह्यः संशोष्यानामयेद् बहिः १८४
- यत्र तं बहिरायामं प्रवदन्ति भिषग्वराः
- तमसाध्यं बुधाः प्राहुर्वक्षः कट्यूरुभञ्जनम् १८५
- बाह्यायामेऽन्तरायामे विधेयाऽदितवत्क्रिया १८६
- धनुस्तुल्यो नमेद्यस्तु स धनुः स्तम्भसञ्ज्ञितः
- विवर्णो बद्धवदनः स्रस्ताङ्गो नष्टचेतनः
- प्रस्विद्यंश्च धनुःस्तम्भी दशरात्रं न जीवति १८७
- हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरुक्
- क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् १८८
- बाह्यायामेऽन्तरायामे धनुःस्तंभे च कुब्जके
- योज्यं प्रसारणीतैलं तेन तेषां शमो भवेत् १८९
- वातव्याधिषु सामान्या याः क्रियाः कथिताः पुरा
- कर्त्तव्या एव ताः सर्वास्तैलमेतद्विशेषतः १९०
- क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
- पीडयन्हृदयं गत्वा शिरः शङ्खौ च पीडयन् १९१
- धनुर्वन्नमयेद्गात्राण्या क्षिपेन्मोहयेत्तथा
- स कृच्छ्रादुच्छ्वसेदुच्चैः स्तब्धाक्षोऽथ निमीलकः
- कपोत इव कूजेच्च निः संज्ञः सोऽपतन्त्रकः १९२
- अथापतन्त्रकेणार्त्तमातुरं नापतर्पयेत्
- निरूहवस्तिं वमनं सेवयेन्न कदाचन १९३
- श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत्
- तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति १९४
- मरिचं शिग्रुबीजानि विडङ्गश्च फणिज्जकम्
- एतानिसूक्ष्मचूर्णानि दद्याच्छीर्षविरेचने १९५
- हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम् १९६
- घृतमार्द्र कसंयुक्तमपतन्त्रकनाशनम्
- अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् १९७
- दृष्टिं संस्तभ्य संज्ञाश्च हत्वा कण्ठेन कूजति
- हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
- वायुना दारुणं प्राहुरेके तमपतानकम् १९८
- गर्भजातनिमित्तश्च शोणितातिस्रवाच्च यः
- अभिघातनिमितश्च न सिध्यत्यपतानकः १९९
- अथापतानकेनार्त्तमस्रुता क्षमवेपनम्
- अखट्वापातिनं चैव त्वरया समुपाचरेत् २००
- अपतानकिने शस्तं दशमूलीशृतं जलम्
- पिप्पलीचूर्णसंयुक्तं जीर्णं मांसरसौदनम् २०१
- तैलेन मर्दनं चैव तथा तीक्ष्णं विरेचनम्
- स्रोतोविशोधनं पश्चात् सर्पिष्पानं हितं स्मृतम् २०२
- हन्त्यभुक्तवता पीतमम्लं दध्यपतानकम्
- मरिचेन समायुक्तं स्नेहवस्तिरथापि वा २०३
- गृहीत्वाऽद्ध तनोर्वायुः शिरा स्नायूर्विशोष्य च
- पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन् २०४
- कृत्स्नोऽद्धकायस्तस्य स्यादकर्मण्यो विचेतनः
- एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः २०५
- दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
- शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते २०६
- शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
- साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् २०७
- गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
- पक्षाघातं परिहरेद्वेदनारहितो यदि २०८
- अथ पक्षाघातचिकित्सा
- माषात्मगुप्तावातारिवाट्यालकजटाशृतम् २०९
- हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत्
- माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः २१०
- ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम्
- माषाक्वाथशृतं तैलं पक्षाघातं व्यपोहति २११
- माषात्मगुप्ताऽतिविषोरुबूकरास्नाशताह्वालवणैः सुपिष्टैः
- चतुर्गुणे माषबलाकषाये तैलं शृतं हन्ति हि पक्षघातम् २१२
- सर्वाङ्गपवने क्रुद्धे गात्रस्फुरणभञ्जने
- वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः २१३
- सर्वाङ्गगतमेकाङ्गगतञ्चापि समीरणम्
- तैलावगाहनं हन्ति तोयवेगमिवाचलः २१४
- स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
- सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् २१५
- प्रथमं ह्रस्वकेशत्वं ततो वाचालताऽपि च
- आटोपः पार्श्वशूलञ्च पुरीषस्यातिगाढता २१६
- तथा मलाप्रवृत्तिश्च कम्पः स्तम्भश्च रूक्षता
- कार्श्यं कार्ष्ण्यञ्च शैत्यञ्च लोमहर्षो व्यथा तथा २१७
- तोदो भेदः शिरास्फूर्त्तिरङ्गमर्दोऽङ्गशुष्कता
- संकोचश्चाङ्गविभ्रंशो मोहश्चञ्चलचित्तता २१८
- निद्रा नाशः स्वेदनाशो बलहानिश्च भीरुता
- शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः २१९
- सामान्यवातरोगाणां या चिकित्सा प्रवक्ष्यते
- एषां सातु विधातव्या तयैते यान्ति संक्षयम् २२०
- एवंविधानि रूपाणि करोति कुपितोऽनिलः
- हेतुस्थानविशेषेण भवेद्रो गविशेषकृत् २२१
- उदाने पित्तसंयुक्ते दाहो मूर्च्छा भ्रमः क्लमः
- अस्वेदहर्षौ मन्दाग्निः शीतता च कफावृते २२२
- प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
- दौर्बल्यं सदनं तन्द्रा वैरस्यञ्च कफावृते २२३
- स्वेदो दाहस्तृषा मूर्च्छा समाने पित्तसंयुते
- कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते २२४
- अपाने पित्तसंयुक्ते दाहौष्ण्यं रक्तमूत्रता
- अधःकाये गुरुत्वञ्च शीतता च कफावृते २२५
- व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
- स्तम्भोऽथ दण्डकश्चापि शूलशोथौ कफावृते २२६
- वाते सपित्ते कुर्वीत वातपित्तहरीः क्रियाः
- सकफे तत्र कुर्वीत वातश्लेष्महरीं क्रियाम् २२७
- त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
- आतन्यते सरागा च सर्वरुक्त्वग्गतेऽनिले २२८
- रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
- गात्रे चारूंषि भुक्तस्यस्तम्भश्चासृग्गतेऽनिले २२९
- गुर्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा
- सरुक्स्तिमितमत्यर्थं वाते मांससमाश्रिते २३०
- तथा मेदःश्रितः कुर्याद् ग्रन्थीन्मन्दरुजो व्रणान् २३१
- भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
- अस्वप्नः सतता रुक् च वाते दुष्टेऽस्थिसंस्थिते
- वाते मज्जगते पीडा न कदाचित्प्रशाम्यति २३२
- क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
- विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः २३३
- वायौ त्वगाश्रिते स्नेहाभ्यङ्गं स्वेदञ्च कारयेत्
- रक्तस्थे शीतलांल्लेपान्विरेकं रक्तमोक्षणम् २३४
- मांसमेदोगते वाते सविरेकं निरूहणम्
- अस्थिमज्जगते स्नेहं बहिरन्तश्च योजयेत् २३५
- केतकनागबलाऽतिबलानां यद्बहुलेन रसेन विपक्वम्
- तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति २३६
- हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् २३७
- अथ स्थानविशेषेण वातव्याधिविशेषाः
- वाते कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
- ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलञ्च जायते २३८
- पाचनीयै रसेर्युक्तैरन्यैर्वा पाचयेन्मलान्
- विशेषतः पिबेत्क्षीरं नरः कोष्ठगतेऽनिले २३९
- हृत्पार्श्वोदरनाभीरुक्तृष्णोद्गारविसूचिकाः
- कासः कण्ठास्यशोषश्च श्वासश्चामाशयेऽनिले २४०
- आमाशयस्थे त्वनिले प्रशस्तं प्राग् लङ्घनं दीपनपाचनञ्च
- प्रच्छर्दनं तीक्ष्णविरेचनं वा मुद्गा यवाः शालियुताः पुराणाः २४१
- भूतीकपथ्याशटिपुष्कराणि बिल्वामृतादारुकनागराणि
- उग्राविषामागधिकाविडानिक्वाथास्त्रयः सामसमीरणघ्नाः २४२
- चित्रकेन्द्र यवौ पाठा कटुकातिविषाऽभया
- आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना २४३
- योगेऽस्मिन्भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक्
- दिनेषु षट्सु दातव्यास्तेन षड् धरणः स्मृतः २४४
- आमाशयगते वाते छर्दिताय यथाक्रमम्
- देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना २४५
- पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
- कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् २४६
- वह्नेः सम्वर्द्धनं कार्यं कर्मौदावर्त्तकं तथा
- देयः स्नेहविरेकश्च पक्वाशयगतेऽनिले २४७
- वाते जठरगे दद्यात्क्षारचूर्णादि दीपनम् २४८
- शुण्ठीकुटजबीजाग्निचूर्ण कोष्णाम्बु कुक्षिगे २४९
- ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
- जङ्घोरुत्रिकपार्श्वांसपृष्ठरोगी गुदेऽनिले २५०
- वाते गुदगते दुष्टे कर्मोदावर्त्तकं हितम् २५१
- हृदयानिलनाशाय गुडूचीं मरिचान्विताम्
- पिबेत्प्रातः प्रयत्नेन सुखं तप्ताम्भसा सह
- पिबेदुष्णाम्भसा पिष्टमाश्वगन्धं बिभीतकम्
- गुडयुक्तं प्रयत्नेन हृदयानिलनाशनम्
- देवदारुसमायुक्तं नागरं परिपेषितम्
- हृद्वातवेदनायुक्तः पीत्वा सुखमवाप्नुयात् २५२
- श्रोत्रादिष्विन्द्रि यवधं कुर्यात्क्रुद्धः समीरणः २५३
- श्रोत्रादिष्वनिले दुष्टे कार्यो वातहरः क्रमः
- स्नेहाभ्यङ्गावगाहाश्च मर्दनालेपनानि च २५४
- कुर्याच्छिरागतः शूलं शिराकुञ्चनपूरणम्
- स बाह्याभ्यन्तरायामं खल्लीं कुब्जत्वमेव च २५५
- स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
- वाते शिरोगते कुर्यात्तथा चासृग्विमोक्षणम् २५६
- शूलमाक्षेपकः कम्पः स्तम्भः स्नाय्वनिलाद्भवेत्
- स्वेदोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
- क्रुद्धे स्नायुगते वाते कारयेत्कुशलो भिषक् २५७
- हन्ति सन्धिगतः सन्धीञ्छूलशोथौ करोति च २५८
- कुर्यात्सन्धिगते वाते दाहस्नेहोपनाहनम्
- इन्द्र वारुणिकामूलं मागधीगुडसंयुतम्
- भक्षयेत्कर्षमात्रं तत्सन्धिवातं व्यपोहति २५९
- हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः
- कालेन महता यत्नात्सिध्यन्ति न च वा न वा २६०
- नवान् बलवतां त्वेतान् साधयेन्निरुपद्र वान् २६१
- विसर्पदाहरुग्भङ्गमूर्च्छाऽरुच्यग्निमार्दवैः
- क्षीणमांसबलं वाता घ्नन्ति पक्षवधादतः २६२
- शूनं सुप्तत्वचं म्लानं कम्पाध्माननिपीडितम्
- रुजाऽत्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् २६३
- अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
- वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् २६४
- अथ वातव्याधीनां सामान्यानि भेषजानि
- माषस्यार्द्धाढकं देयं तुलार्द्धं दशमूलतः
- पलानि च्छागमांसस्य त्रिंशद्द्रो णेऽम्भसः पचेत् २६५
- चतुर्भागावशेषं तं कषायमवतारयेत्
- प्रस्थञ्च तिलतैलस्य पयो दद्याच्चतुगुर्णम् २६६
- जीवनीयानि मञ्जिष्ठा चव्यं चित्रककट्फलम्
- सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम् २६७
- आत्मगुप्ता तथैरण्डः शताह्वा लवणत्रयम्
- देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी २६८
- एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना
- पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा २६९
- कर्णशूले शिरः शूले तिमिरे च त्रिदोषजे
- पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे २७०
- कलायखञ्जे पङ्गौ च गृध्रस्यामपबाहुके
- पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णादिपूरणे २७१
- तैलमेतत्प्रशंसन्ति सर्ववातविकारनुत्
- महामाषादिनामेदं भाषितं मुनिभिः पुरा २७२
- माषा यवातसीक्षुद्रा मर्कटी च कुरण्टकः २७३
- गोकण्टष्टुण्टुकश्चैषां प्रत्येकं पलसप्तकम्
- चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत् २७४
- कार्पासकास्थि बदरं शणबीजं कुलत्थकम्
- पृथक्चतुर्दशपलं चतुर्गुणजले पचेत् २७५
- कषायं तत्र गृह्णीयाच्चतुर्थांशावशेषितम्
- प्रस्थञ्च च्छागमांसस्य चतुःषष्टिपले जले २७६
- प्रक्षिप्य पाचयेद्धीमान्पादशेषं रसं नयेत्
- तैलप्रस्थे ततः क्वाथान्सर्वास्तान्क्रमतः पचेत् २७७
- कल्कद्र व्यैः पचेदेभिरमृताकुष्ठसैन्धवैः
- रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया २७८
- बलाप्रसारणीभ्याञ्च मांस्या कटुकया तथा
- पृथक्कर्षमितैरेतैः साधयेन्मृदुनाग्निना २७९
- हन्यात्तैलमिदं शीघ्रं वातव्याधीनशेषतः
- आक्षेपकं पक्षघातमूरुस्तम्भापबाहुकौ
- हस्तकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा २८०
- अश्वगन्धाबलाबिल्वं पाटलाबृहतीद्वयम्
- श्वदंष्ट्रातिवलानिम्बश्योनाकञ्च पुनर्नवाम् २८१
- प्रसारणीमग्निमन्थं कुर्याद्दशपलं पृथक्
- चतुद्रो र्णे! जले पक्त्वा पादशेषं शृतं नयेत् २८२
- तैलाढकेन संयोज्य शतावर्या रसाढकम्
- प्रक्षिपेत्तत्र गोक्षीरं ततस्तैलाच्चतुर्गुणम् २८३
- पृथक्पलमितैः कल्कैर्द्र व्यैरेभिः पचेद्भिषक्
- वचाचन्दनकुष्ठैलामांसीशैलेयसैन्धवैः २८४
- अश्वगन्धाबलारास्नाशतपुष्पेन्द्र दारुभिः
- पर्णीचतुष्टयेनैव तगरेण प्रसाधयेत् २८५
- तत्तैलं भोजनेऽभ्यङ्गे पाने वस्तौ च योजयेत्
- पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् २८६
- कुब्जत्वं बधिरत्वञ्च गतिभङ्गं कटीग्रहम्
- गात्रशोषेन्द्रि यध्वंसं शुक्रनाशं ज्वरक्षयान् २८७
- अन्त्रवृद्धिं कुरण्डञ्च दन्तरोगं शिरोग्रहम्
- पार्श्वशूलञ्च पङ्गुत्वं बुद्धिनाशञ्च गृध्रसीम् २८८
- अन्यांश्च विविधान्वातान्हरेत्सर्वाङ्गसंश्रयान्
- अस्याः प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते २८९
- यथा नारायणो देवो दुष्टदैत्यविनाशनः
- तथेदं वातरोगाणां नाशनं तैलमुत्तमम् २९०
- तिलतैलं समादाय चतुराढकसम्मितम्
- पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये २९१
- तत्राजं दुग्धमथवा गव्यं तैलसमं पचेत्
- शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक् २९२
- दशमूली बला रास्ना शिग्रूत्पलपुनर्नवाः
- शेफालिका नागबला बला चैव प्रसारणी २९३
- अश्वगन्धा सहचरो दशमूलं करञ्जकः
- खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम् २९४
- वकुलैरण्डवरुणशालयुग्मकटम्भराः
- शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम् २९५
- काञ्चनारः कपित्थश्च पारिभद्र ः! प्रियालकम्
- पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम् २९६
- उदुम्बरः सप्तला च कन्यका मालतीत्वचम्
- मागधी नलमूलञ्च यवकोलकुलत्थकम् २९७
- आत्मगुप्ताऽककार्पासबीजं वत्सादनी स्नुही
- केतकीमूलधत्तूरलाङ्गलीगर्दभाण्डकम् २९८
- चित्रकञ्च महानिम्बं पञ्चवल्कलमेव च
- मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम् २९९ एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत्
- पादशेषं परिस्राव्य तत्र तैलं पुनः पचेत् ३००
- छागो मेषश्च हरिण एणश्च बहुशृङ्गकः
- शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः ३०१
- वन्यो वराहः खड्गी च महिषो घोटकस्तथा
- कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः ३०२
- वर्त्तिकस्तित्तिरिर्लावः खञ्जरीटश्चकोरकः
- उलूको नीलकण्ठश्च वन्यकुक्कुट एव च ३०३
- गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च
- कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा ३०४
- रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा
- इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च ३०५
- महामत्स्यः कच्छपश्च शिशुमारश्च साङ्कुचिः
- मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका ३०६
- यथालाभममीषाञ्च क्वाथं तैलसमं पचेत् ३०७
- रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि
- सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च ३०८
- एला सयष्टी तगराब्दपत्रं भृङ्गोऽष्टवर्गस्तुवचा पलाशी
- स्थौणेयवृश्चीरकचोरकाख्यं मूर्वात्वचं कट्फलपद्मकं च ३०९
- मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च
- जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च ३१०
- कैवर्त्तमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च
- सधातकीग्रन्थिकपर्पटाश्च पटोलहेमाह्वजयन्तिकाश्च ३११
- त्रायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभात्रिवृतारुणाश्च
- द्रा क्षाकणाद्रो णपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च ३१२
- नीलोत्पलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च
- कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च
- लवङ्गकर्पूररसालकाण्डकस्तूरिकाबालकमम्बरञ्च ३१३
- कल्कानमीषां विपचेत्सुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम्
- शुभे च नक्षत्रमुहूर्त्तलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च ३१४
- सम्पूज्य नारायणनामधेयं देवं त्रिनेत्रं जगतामधीशम्
- पात्रे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत् ३१५
- अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने
- पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकित्सकः ३१६
- बहुनाऽत्र किमुक्तेन तैलमेतत्प्रयोजितम्
- अवश्यं वातजान्व्याधीनशीतिमति नाशयेत् ३१७
- एतस्याभ्यासतो जन्तोर्जरा जातु न जायते
- पतन्ति वलयो नाङ्गे पलितञ्च न जायते ३१८
- नेत्रं तेजस्वि नितरां गरुडस्येव जायते
- नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते ३१९
- पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते
- बुद्धिभ्रंशो न जायेत तस्मात्कर्मसु पाटवम् ३२०
- यथा जलेन सिक्तस्य शाखिनः पल्लवादयः
- वर्द्धन्ते धातवस्तद्वद् देहिनोऽनेन नित्यशः ३२१
- आमं गर्भं त्यजेज्जातु सूतिका रुग्युता च या
- याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम् ३२२
- वन्ध्या च लभते पुत्रं गर्भपातो न जायते
- योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति ३२३
- अस्मात्तैलवरादन्यत्कुत्रचिन्नास्ति भेषजम्
- बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत् ३२४
- पुरा देवासुरे युद्धे दैत्यैरभिहतान्सुरान्
- भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽदितान् ३२५
- दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम्
- तैलं नारायणो देवो महानारायणाभिधम् ३२६
- नागरं पिप्पलीमूलंचव्यमूषणचित्रकम्
- भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् ३२७
- रेणुकेन्द्र यवौ पाठा बिडङ्गं गजपिप्पली
- कटुकाऽतिविषा भार्गी वचा मूर्वा च पत्रकम् ३२८
- देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम्
- एला त्रिकण्टकं पथ्या धान्यकञ्च बिभीतकम् ३२९
- धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ३३०
- यावन्त्येतानि चूर्णानि तावानेवात्र गुग्गुलुः
- संमर्द्य सर्पिषा पश्चात्सर्वं संमिश्रयेच्च तत् ३३१
- एवं पिण्डच्च तत्कृत्वा धारयेद् घृतभाजने
- गुटिकाष्टङ्कमात्रास्तु खादेत्तास्तु यथोचिताः ३३२
- आदौ शाणोन्मितं खादेत्सार्द्धशाणं ततः परम्
- तदग्रे कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ३३३
- गुग्गुलुर्योगराजोऽय महामुख्यो रसायनः
- मैथुनाहारपानानां नियमो नात्र विद्यते ३३४
- अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदरानपि
- आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ३३५
- प्रमेहं नाभिशूलञ्च कृमिक्षयमुरोग्रहम्
- सर्वान्वातामयान्हन्यादामवातमपस्मृतिम् ३३६
- वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
- शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ३३७
- रास्नाऽदिक्वाथसंयुक्तः सर्ववातामयान्हरेत्
- काकोल्यादिशृतात्पित्तं कफमारग्वधादिना ३३८
- दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम्
- मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ३३९
- छिन्नाक्वाथेन वातास्रं शोथं मूलकजाच्छृतात्
- पाटलाक्वाथसहितो विषं मूषकसम्भवम् ३४०
- त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम्
- पुनर्नवाऽदिक्वाथेन हन्ति सर्वोदराण्यपि ३४१
- रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम्
- सप्तधातुगते वाते सामे सर्वाङ्गगेऽपि चेत् ३४२
- युक्तः कल्को रसोनस्य तिलतैलेन सिन्धुना
- वातरोगान्हरेत्सर्वाञ्ज्वरांश्च विषमानपि ३४३
- क्षीरेण तैलेन घृतेन वाऽपि मांसेन सार्द्धं लशुनानि खादेत्
- शाल्योदनेनापि च षष्टिकेन पलार्द्धवृद्ध्या दिवसानि सप्त ३४४
- वातोत्थरोगान्विषमज्वरांश्च शूलान्सगुल्मान्दहनस्य मान्द्यम्
- प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान् ३४५
- अन्नप्रकारैः पललप्रकारैर्गोधूमकैर्वा यवशक्तुभिर्वा
- दुग्धेन तैलेन घृतेन वाऽपि युक्तानि शीते लशुनानि खादेत् ३४६
- संवर्त्तकैर्लावकपिञ्जलैर्वा मृग्याः पलैर्वाऽप्यथ कौक्कुटैर्वा
- वाराहवर्त्तीरकहारिणैर्वा सुसंस्कृतैरग्निबलं समीक्ष्य ३४७
- रसोनपक्वकन्दस्य गुलिका निस्तुषीकृताः
- पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ३४८
- निश्युग्रगन्धनाशाय दध्ना सन्नीय रक्षयेत्
- ततः प्रक्षाल्य संशोष्य शिलायां परिपेषयेत् ३४९
- कल्कस्य पञ्चमं भागं चूर्णमेषां विनिक्षिपेत्
- सौवर्चलं यवानीञ्च भर्जितं हिङ्गु सैन्धवम् ३५०
- कटुत्रिकं जीरकञ्च समभागानि चूर्णयेत्
- तिलतैलञ्च कल्कस्य तुर्याशं तत्र मिश्रयेत् ३५१
- खादेत्कर्षमितं प्रातः किं वा दोषाद्यपेक्षया
- अनुपानं प्रकुर्वीत वातारिशृतमन्वहम् ३५२
- सर्वाङ्गैकाङ्गजं वातमर्दितञ्चापतन्त्रकम्
- अपस्मारं तथोन्मादमूरुस्तम्भञ्च गृध्रसीम् ३५३
- उरः पृष्ठकटीपार्श्वकुक्षिपीडां कृमीन्हरेत्
- मद्यं मांसं तथाऽम्लञ्च रसं सेवेत नित्यशः ३५४
- आयासमातपं रोषमतिनीरं गुडं स्त्रियम्
- रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम् ३५५
- वर्जयेत्तदतीसारी प्रमेही पाण्डुरोगवान्
- अरोचकी गर्भिणी च मूर्च्छाऽशोरोगसंयुतः ३५६
- रक्तपित्ती च शोषी च यक्ष्मी छर्द्यर्दितो नरः
- पित्ते तु पथ्यभुक्कुर्यात्प्रयोगान्ते विरेचनम् ३५७
- अन्यथा तस्य जायन्ते कुष्ठपाण्ड्वामयादयः
- स्त्रीस्तन्यं त्वरितं दद्याद्वालानामप्यनिच्छताम् ३५८
- तथा च लभते सिद्धिं महावीर्याद्र सोनतः ३५९
- रसो गन्धो वरा वह्निर्गुग्गुलुः क्रमवर्द्धितः
- तत्रैकभागः सूतः स्याद्गन्धको द्विगुणः स्मृतः ३६०
- त्रिभागा त्रिफला योज्या चतुर्भागस्तु चित्रकः
- गुग्गुलुः पञ्चभागः स्याद्रुबुतैलेन मर्दयेत् ३६१
- क्षित्वा तत्रोदितं चूर्णं तेन तैलेन मर्दयेत्
- गुटिकां कर्षमात्रान्तु भक्षयेत्प्रातरेव हि ३६२
- नागरैरण्डमूलानां कषायं प्रपिबेदनु
- अभ्यज्यैरण्डतैलेन स्वेदयेत्पृष्ठदेशकम् ३६३
- विरेकपरिणामे तु स्निग्धमुष्णञ्च भोजयेत्
- वातारिसंज्ञको ह्येष रसो नियतसेवितः
- मासेन मरुतो रोगान्हरेत्सुरतवर्जिनः ३६४
- इति चतुर्विंशो वातव्याध्यधिकारः समाप्तः २४
ऊरुस्तम्भाधिकारः
[सम्पाद्यताम्]- अथ पञ्चविंश ऊरुस्तम्भाधिकारः २५
- शीतोष्णद्र वसंशुष्क गुरूस्निग्धैर्निषेवितैः
- जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः १
- सश्लेष्ममेदः पवनः साममत्यर्थसञ्चितम्
- अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते २
- सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन सः
- तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ३
- परकीयाविव गुरू स्यातामतिभृशव्यथौ
- ध्यानाङ्गमर्दस्तैमित्यतन्द्रा च्छर्द्य रुचिज्वरैः ४
- संयुतौ पादसदनकृच्छ्रोद्धरण सुप्तिभिः
- तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ५
- प्राग्रूपं तस्य निद्रा तिध्यानं स्तिमितता ज्वरः
- रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ६
- वातशङ्किभिरज्ञानात्तत्र स्यात्स्नेहनात्पुनः
- पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ७
- जङ्घोरुग्लानिरत्यर्थं शश्वद्वादाहवेदना
- पादञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ८
- संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
- अन्य नेयौ हि सम्भग्नावूरूपादौ च मन्यते ९
- यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत्
- ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् १०
- स्नेहासृक्स्राववमनं वस्तिकर्म विरेचनम्
- वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ११
- तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम्
- आममेदः कफाधिक्यान्मारुतं परिरक्षता १२
- यत्स्यात्कफप्रशमनं न तु मारुतकोपनम्
- तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् १३
- सर्वो रुक्षः क्रमः कार्यस्तत्रादौ कफनाशनः
- पश्चाद्वातविनाशाय विधातव्याखिला क्रिया १४
- भोज्याः पुराणाः श्यामाककोद्र वोद्दालशालयः
- जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः १५
- शाकैरलवणैर्दद्याज्जल तैलाज्यसाधितैः
- सुनिषण्णकनिम्बार्कवृन्ता रग्वधपल्लवैः १६
- वायसीवास्तुकाद्यैश्च साधितैः शाकमूलकैः
- शाकैरलवणैर्युक्तं जीर्णे शाल्योदनं भिषक् १७
- रूक्षणाद्वातकोपश्चेन्निद्रा नाशार्त्तिपूर्वकः
- स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः १८
- प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम्
- सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः १९
- यथा विशुष्केस्य कफे शान्तिमूरुग्रहो व्रजेत्
- शरीरबलमग्निञ्च कार्यैषा रक्षता क्रिया २०
- सक्षारमूत्रस्वेदांश्च रुक्षाण्युत्सादनानि च
- कुर्याद्दाहे च मूत्राद्यैः करञ्जफलसर्षपैः २१
- मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्
- पिचुमर्दस्य वा मूलैरथवा देवदारुणः २२
- क्षौद्र सर्षपवल्मीक मृत्तिकासंयुतैर्भिषक्
- गाढमुत्सादनं कुर्यादूरूस्तम्भे सवेदने २३
- दन्तीद्र वन्तीसुरसासर्षपैश्चापि बुद्धिमान्
- तर्कारीसुरसाशिग्रुव चावत्सकनिम्बकैः
- पत्रमूलफलैस्तोयं शृतमुष्णञ्च सेवनम् २४
- भक्लातकामृताशुण्ठीदा रुपथ्यापुनर्नवाः
- पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः २५
- पिप्पली पिप्पलीमूलं भल्लातकफलानि च
- कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते २६
- रास्नाश्यामाकपथ्यामरिचमिसिशिवावेल्लशट्यश्वगन्धा
- यासच्छिन्नाजमोदासुमुखमतिविषावृद्धदारौ बृहत्यौ
- शुण्ठी तिक्ता यवानी सहचरचविकैरण्डदार्व्याजकर्णा
- ऊरुस्तम्भामवातं कफपवनरुजं दण्डकांश्चाशु हन्यात् २७
- ग्रन्थिकारुष्ककृष्णानां क्वाथं क्षौद्रा न्वितं पिबेत्
- लिह्याद्वा त्रिफलाचूर्णं क्षौद्रे ण कटुकायुतम् २८
- सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः
- पिप्पलीवर्द्धमानं वा माक्षिकेण गुडेन वा २९
- ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ३०
- शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम्
- ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ३१
- त्रिफला पिप्पली मुस्तं चव्यं कटुकरोहिणी
- लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः ३२
- घृतं सौरेश्वरं दद्यादूरुस्तम्भे कफोत्तरे
- दद्याच्छुण्ठीघृतं वापि वैश्वानरमथापि वा
- सैन्धवाद्यं हितं तैलममृताख्योपि गुग्गुलुः ३३
- कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्
- अजगन्धाश्वगन्धे च तैलं तैः सार्षपं पचेत् ३४
- सक्षौद्र्रं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत् ३५
- पलाभ्यां पिप्पलीमूलान्नागरादष्टकट्वरम्
- तैलप्रस्थं समं दध्ना गृध्रस्यूरुग्रहापहम् ३६
- सस्नेहदधिसम्भूतं तक्रं कट्वरमुच्यते
- अष्टकट्वरतैलेच तैलंसार्षपमिष्यते
- पिप्पलीमूलशुण्ठ्योश्च प्रत्येकं द्विपलं कृतम् ३७
- द्विपञ्चमूली त्रिफला चित्रकं देवदारु च
- एकाष्ठीला त्वपामार्गे श्रेयसी वायसी शुभा ३८
- बला भार्गी पृथक्पर्णी सुवहा मदयन्तिका
- विशालोशीरकाश्मर्यस्तिस्रो देयास्तथाग्निकः ३९
- चिरबिल्वो ह्यशोकश्च कलश्यंशुमती तथा
- पयस्या पीलुपर्ण्यश्च गुडूची च शतावरी ४०
- एषां पञ्च पलान्भागाञ्जलद्रो णेषु सप्तसु
- अष्टभागावशेषेण पचेत्तैलाढकं भिषक् ४१
- कुष्ठञ्च शतपुष्पा च त्र्! यूषणं चित्रकं वरा
- देवदार्वगुरु श्रेष्ठं विडङ्गं मुस्तमेव च ४२
- अश्वगन्धा स्थिरा पाठा मूली श्यामाकमेव च
- पिप्पल्यः शृङ्गबेरञ्च दन्ती हिङ्ग्वम्लवेतसम् ४३
- अनेन गर्भेण भिषक्कषायेण च साधयेत्
- सिद्धशीतञ्चपूतञ्च क्षौद्रे ण सह संसृजेत् ४४
- तदस्य नस्यपानार्थं तदेवाभ्यञ्जने भवेत् ४५
- ऊरुस्तम्भश्चिरोद्भूतस्तैलेनानेन शाम्यति
- आमवातं शीतवातं क्षुद्र वातञ्च नाशयेत् ४६
- सिन्धुरुग्विश्वजासोग्राभार्गीयष्टीस्थिराफलैः
- दारुविश्वशटीधान्यकृष्णाकट्फलपौष्करः ४७
- दीप्यकातिविषैरण्डनीलीनीलाम्बुजःपचेत्
- तैलं सकाञ्जिकं हन्ति पानाभ्यञ्जननावनैः ४८
- आमवातं कृमीन्गुल्मान्प्लीहोदरशिरोरुजः
- मन्दाग्निं पक्षसन्ध्यण्डवातस्तम्भगदानपि ४९
- द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्
- द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढके ५०
- आरनालात् पञ्च प्रस्थं तैलस्यैरण्डजस्य च
- गृध्रस्यूरुग्रहास्यार्त्तिसर्ववातविकारनुत् ५१
- इति पञ्चविंश ऊरुस्तम्भाधिकारः समाप्तः २५
आमवाताधिकारः
[सम्पाद्यताम्]- अथ षड्विंश आमवाताधिकारः २६
- विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्यच
- स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा १
- वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
- तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते २
- वातपिक्तकफैर्भूयो दूषितः सोऽन्नजो रसः
- स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ३
- जनयत्यग्निदौर्बल्यं हृदयस्य च गौरवम्
- व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिरुदारुणः ४
- अजीर्णाद्योरसो जातः सञ्चितो हि क्रमेण वै
- आमसञ्ज्ञां स लभते शिरोगात्ररुजाकरः ५
- युगपत्कुपितावेतौ त्रिकसन्धिप्रवेशकौ
- स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते ६
- अङ्गमर्दोऽरुचिस्तृष्णा चालस्यं गौरवं ज्वरः
- अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ७
- स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत्
- हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ८
- करोति सरुजं शोथं यत्र दोषः प्रपद्यते
- स देशो रुज्यतेऽत्थ व्याविद्ध इव वृश्चिकैः ९
- जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्
- उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रताम् १०
- कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम्
- तृट्छर्दिभ्रममूर्च्छाश्च हृद्र् गहं विडिवबद्धताम्
- जाड्यान्त्रकूजनानाहं कष्टांश्चान्यानुपद्र वान् ११
- पित्तात्सदाहरागञ्च सशूलं पवनात्मकम्
- स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत् १२
- एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
- सर्वदेहचरैः शोथैः स कष्टं सान्निपातिकः १३
- लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च
- विरेचनं स्नेहनञ्च वस्तयश्चाममारुते १४
- रूक्षः स्वेदोविधातव्यो बालुकापुटकैस्तथा
- उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिताः १५
- आमवाताभिभूताय पीडिताय पिपासया
- पञ्चकोलेन संसिद्धं पानीयं हितमुच्यते १६
- शुष्कमूलकयूषं वा यूषं वा पाञ्चमौलिकम्
- रसकं काञ्जिकं वाऽपि शुण्ठीचूर्णविचूर्णितम् १७
- सौवीरं स्विन्नवार्ताकं तथा तिक्तफलानि च
- वास्तूकशाकं सारिष्टशाकं पौनर्नवं हितम् १८
- पटोलं गोक्षुरञ्चैव वरुणं कारवेंल्लकम्
- यवान्नं कोरदूषान्नं पुराणं शालिषष्टिकम् १९
- लावकानां तथा मांसं हितं तक्रेण संस्कृतम्
- हितश्च यूषः कौलत्थः कालायश्चणकस्य च २०
- रुच्यं दद्याद्यथासात्म्यमामवातहितञ्च यत्
- शतपुष्पा वचा विश्वश्वदंष्ट्रावरुणत्वचः २१
- पुनर्नवासदेवाह्वाशटीमुण्डितिकाः समाः
- प्रसारणी च तर्कारि फलञ्च मदनस्य च २२
- शुक्तकाञ्जिकपिष्टं च कोष्णं च लेपने हितम्
- अहिंस्रा केबुकान् मूलं शिग्रुर्वल्मीकमृत्तिका २३
- मूत्रपिष्टैश्च कर्त्तव्यमुपनाहः प्रलेपनम् २४
- चित्रकं कटुकापाठाकलिङ्गाति विषाऽमृताः
- देवदारुवचामुस्त नागरातिविषाऽभयाः
- पिबेदुष्णाम्बुना नित्यमामवातस्य भेषजम् २५
- शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषाऽमृताः
- कषायमामवातस्य पाचनं रुक्षभोजनम्२६
- पुनर्नवा च बृहतीवर्द्धमानफणिज्जकैः
- कल्पयेत्क्वाथमामे तु मूर्वाशिग्रुद्रुमैर्भिषक् २७
- सेचनं चामवातस्य रुबूकपयसाऽपि वा २८
- लिह्यात्पथ्यां सविश्वां वा मूत्रैर्वा गुग्गुलुं पिबेत्
- विश्वाऽलम्बुषयोः कल्कमद्याद्वा तिलविश्वयोः २९
- विश्वापथ्याऽमृताक्वाथं कवोष्णं कौशिकान्वितम्
- कटीजङ्घोरुपृष्ठानां रुजं पीतं निवर्त्तयेत् ३०
- हिङ्गुं चव्यं विडं शुण्ठी कृष्णाऽजाजी सपुष्करम्
- भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत् ३१
- पिप्पली पिप्पलीमूलं सैन्धवं कृष्णजीरकम्
- चव्यचित्रकतालीशपत्रकं नागकेशरम् ३२
- एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च
- मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम् ३३
- दाडिमात्कुडवञ्चैव द्वे पले चाम्लवेतसात्
- सर्वमेकत्र सङ्क्षुद्य योजयेत्कुशलो भिषक् ३४
- पिप्पल्याद्यमिति ख्यातं नष्टस्याग्नेश्च दीपनम्
- अर्शांसि ग्रहणीं गुल्ममुदरं सभगन्दरम् ३५
- कृमिकण्ड्वरुचीर्हन्यात्सुरयोष्णोदकेन वा
- नातः परतरं किञ्चिदामवातस्य भेषजम् ३६
- पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत्
- तक्रेणोष्णोदकेनापि काञ्जिकेनाथ वा पुनः ३७
- आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि
- पीनसं कासहृद्रो गं स्वरभेदमरोचकम् ३८
- रसोनविश्वनिर्गुण्डीक्वाथमामार्दितः पिबेत् ३९
- रास्नां गुडूचीमेरण्डं देवदारु महौषधम्
- पिबेत्सार्वाङ्गिकेवाते सामे सन्ध्यस्थिमज्जगे ४०
- पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
- क्वथितं वारि तत्पेयमामवातविनाशनम् ४१
- शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम्
- सप्तरात्रं पिबेज्जन्तुरामवातविनाशनम् ४२
- रास्नाऽमृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
- क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपार्श्वत्रिकपृष्ठशूली ४३
- आमवाते कणायुक्तं दशमूलीजलं पिबेत्
- खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा ४४
- चित्रकेन्द्र यवौ पाठा कटुकाऽतिविषाऽभयाः
- आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना ४५
- पुनर्नवाऽमृता शुण्ठी शताह्वा वृद्धदारुकम्
- शटी मुण्डितिका चूर्णमारनालेनपाययेत् ४६
- आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना
- आमवातं निहन्त्याशु गृध्रसीमुद्धतामपि ४७
- कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा
- आमवातप्रशमनं कफवातहरं परम् ४८
- पञ्चकोलकचूर्णन्तु पिबेदुष्णेन वारिणा
- मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ४९
- आमवातगजेन्द्र स्य शरीरवनचारिणः
- एक एव निहन्त्याशु एरण्डतैलकेशरी ५०
- एरण्डतैलयुक्ता हरीतकी भक्षयेन्नरोविधिवत्
- आमानिलार्त्तियुक्तोगृध्रसीवृद्ध्यर्दितो नियतम् ५१
- आरग्वधस्य पत्राणि भृष्टानि कटुतैलतः
- आमघ्नानि नरः कुर्यात्सायं भक्तावृतानि च ५२
- वायुः कट्याश्रितः शुद्धः सामो वा जनयेद्रुजम्
- कटीग्रहः स एवोक्तः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ५३
- शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः
- सामे वाते कटीशूले पाचनं रुक्प्रणाशन् ५४
- यवक्षारसमायुक्तं मूत्रकृच्छ्रविनाशनम्
- दशमूलीकषायेण पिबेद्वा नागराम्भसा
- कटीशूलेषु पातव्यं तैलमेरण्डसम्भवम् ५५
- महौषधगुडूच्योश्च क्वाथं पिप्पलिसंयुतम्
- पिबेदामे सरुक्कोष्ठे कटीशूले विशेषतः ५६
- विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
- तत्पायसं कटीशूले गृध्रस्यां परमौषधम् ५७
- सर्पिस्तैलं गुडं शुक्तं पञ्चमं विश्वभेषजम् ५८
- पीतमेतद्भवेत्सद्यस्तर्पणं कटिशूलनुत्
- न हि चैतत्समं किञ्चिन्निरामे कटिमारुते ५९
- सुरतरुवल्कलसहितं गोमूत्रं स्थापितन्तु सप्ताहम्
- हिङ्गुवचाशत पुष्पासैन्धवयुक्तेन तेनाथ ६०
- तत्पुटपक्वं हन्यात्कटीरुजं दारुणं पुंसाम्
- आममेदोवृद्धिभवान्विकारांश्चानिलोद्भवान् ६१
- अमृतानागरगोक्षुरमुण्डितिकावरुणकैः कृतं चूर्णम्
- मस्त्वारनालपीतं सामानिलनाशनं ख्यातम् ६२
- अलम्बुषा गोक्षुरकं त्रिफलानागरामृताः
- यथोत्तरं भागवृद्ध्या श्यामाचूर्णञ्च तत्समम् ६३
- पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा
- आमवातं जयत्याशु सशोथं वातशोणितम् ६४
- त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम्
- अलम्बुषाऽदिकं चूर्णं रोगानीकविनाशनम् ६५
- हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात्
- प्रत्येकं तेन वा युञ्ज्याद्भागवृद्धिं यथोत्तरम् ६६
- अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च
- गुडूची नागरञ्चेति समभागानि कारयेत् ६७
- काञ्जिकेन तु तत्पेयं विडालपदमात्रकम्
- आमवाते प्रवृद्धे च योगोऽयममृतोपमः ६८
- अलम्बुषा गोक्षुरकं गुडूची वृद्धदारुकम्
- पिप्पली त्रिवृता मुस्ता वरुणं सपुनर्नवम्
- त्रिफला नागरञ्चेति सूक्ष्मचूर्णानि कारयेत् ६९
- मस्त्वारनालतक्रेण पयोमांसरसेन वा
- आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम् ७०
- मणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव तु
- भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ७१
- दश द्वौ च हरीतक्याः सूक्ष्मचूर्णीकृतं शुभम्
- मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा ७२
- पीतं जयत्यामवातं गुल्महृद्वस्तिजान्गदान्
- प्लीहानं ग्रन्थिशूलादीनानाहं गुदजानि च ७३
- विबन्धं जाठरान् रोगान्कटीवस्तिसमुत्थितान्
- वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ७४
- असीतकं मागधिका गुडूची श्यामावराहीगजकर्णशुण्ठीः
- समा धृताः कृत्स्नमिदन्तु चूर्णं पिबेत्तदुष्णोदकमण्डयूषैः ७५
- तक्रैः रसैर्मद्यसमस्तुभिर्वा यथेष्टचेष्टस्य च भोजनस्य
- सबाहुकं गृध्रसिखञ्जवातं विश्वाचितूनीप्रतितूनिरोगान् ७६
- जङ्घाऽमवातार्दितवातरक्तं कटीग्रहं गुल्मगुदामयञ्च
- सक्रोष्टुकंपाण्डुगरोग्रशोथं हन्यादुरुस्तम्भमुदीर्णवेगम् ७७
- शुण्ठीनां षट्पलं पिष्टं धान्यकं द्विपलं तथा
- चतुर्गुणं जलं दत्वा घृतप्रस्थं विपाचयेत् ७८
- वातश्लेष्मामयान् हन्यादग्निवृद्धिकरं परम्
- दुर्नामश्वासकासघ्नं बलवर्णाग्निवर्द्धनम् ७९
- सर्पिर्नागरकल्केन सौवीरं तच्चतुर्गुणम्
- सिद्धमग्निकरं श्रेष्ठमामवातहरं परम् ८०
- पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे
- दीपनार्थं मतिमता मस्तुना च प्रकीर्त्तितम् ८१
- नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
- चतुर्गुणेन तेनाथ केवलेनजलेन वा ८२
- वातश्लेष्मप्रशमनमग्निसन्दीपनं परम्
- नागरं घृतमित्युक्तं कटीशूलामनाशनम् ८३
- हिङ्गुं त्रिकटुकं चव्यं मणिमन्थं तथैव च
- कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत् ८४
- आरनालाढकं दत्वा तत्सर्पिर्जठरापहम्
- शूलं विबन्धमानाहमामवातं कटीग्रहम् ८५
- नाशयेद् ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ८६
- शृङ्गबेरयवक्षारपिप्पलीमूलपिप्पलद्यः
- पिष्ट्वा विपाचयेत्सर्पिरारनालं चतुर्गुणम् ८७
- शूलं विबन्धमानाहमामवातं कटिग्रहम्
- नाशयेद् ग्रहणीदोषमग्निसन्दीपनं परम् ८८
- पिबेद् बिन्दुघृतं वापि धान्वन्तरमथापि वा
- महाशुण्ठीघृतं वापि आमवाते पुनः पुनः ८९
- यत्किञ्चिल्लेखनं सर्पिर्दीपनं पाचनञ्च यत्
- तत्सर्वमामवातेषु योज्यं वा मस्तु षट्पलम् ९०
- अजमोदमरिचपिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः
- सैन्धवपिप्पलीमूलं भागा नवकस्य पलिकाः स्युः ९१
- शुण्ठी दशपलिकास्यात्पलानि तावन्ति वृद्धदारस्य
- पथ्यापलानि पञ्च च सर्वाण्येकत्र कारयेच्चूर्णम् ९२
- समगुडवटकानदतश्चूर्णं वाप्युष्णवारिणा पिबतः
- नश्यन्त्यामानिलजाः सर्वे रोगाः सुकष्टाश्च ९३
- प्रतितूनी विश्वाची रोगाश्चान्येऽपि गृध्रसी चोग्रा
- कटिपृष्ठगुदस्फुटिनञ्चैवार्त्तिर्जङ्घयोस्तीव्रा ९४
- श्वयथुश्च सर्वसन्धिषु ये चान्येऽप्यामवातसम्भूताः
- सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ९५
- क्षुद्बोधमरोगित्वं स्थिरयौवनमथ वलीपलितनाशम्
- कुरुते च तथाभ्यासाद् गुणानथान्यांस्तथा सुबहून् ९६
- चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा
- विडङ्गमजमोदाञ्च जीरके सुरदारु च ९७
- चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्
- त्रिफलां मुस्तकं व्योषन्त्वगुशीरं यवाग्रजम् ९८
- तालीशपत्रं पत्रञ्च सूक्ष्मचूर्णानि कारयेत्
- यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम् ९९
- सम्मर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत्
- अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि
- योगराज इति ख्यातो योगोऽयममृतोपमः १००
- अग्निमान्द्यामवातादीन् कृमिदुष्टव्रणानपि
- प्लीहगुल्मोदरानाहदुर्नामानिविनाशयेत् १०१
- अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा
- वातरोगाञ्जयत्येष सन्धिमज्जगतानपि १०२
- प्रसारण्याढके क्वाथे प्रस्थो गुडरसो मतः
- पक्वः पञ्चोषणरजोयुक्तः स्यादामवातहा १०३
- नागरस्य पलान्यष्टौ घृतस्य पलविंशतिम्
- क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्द्धशतं पचेत् १०४
- व्योषत्रिजातकद्र व्यात्प्रत्येकञ्च पलं पलम्
- निदध्याच्चूर्णितं तत्र खादेदग्निबलं प्रति १०५
- आमवातप्रशमनं बलपुष्टिविवर्द्धनम् १०६
- बल्यमायुष्यमोजस्यं वलीपलितनाशनम्
- आमवातप्रशमनं सौभाग्यकरमुत्तमम् १०७
- पलं शतं रसोनस्य तिलस्य कुडवं तथा
- हिङ्गुं त्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च १०८
- शतपुष्पा निशा कुष्ठं पिप्पलीमूलचित्रकौ
- अजमोदा यवानी च धान्यकञ्चापि बुद्धिमान् १०९
- प्रत्येकञ्च पलञ्चैषां श्लक्ष्णचूर्णानि कारयेत्
- घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडशम् ११०
- प्रक्षिप्य तैलमानञ्च प्रस्थार्द्धं काञ्जिकस्य च
- खादेत्कर्षप्रमाणन्तु तोयं मद्यं पिबेदनु १११
- आमवाते रक्तवाते सर्वाङ्गैकाङ्गसंश्रिते
- अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च
- सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते ११२
- प्रसारण्या रसे सिद्धं तैलमेरण्डजं पिबेत्
- सर्वदोषहरञ्चैव कफरोगहरं परम् ११३
- द्विपञ्चमूलीनिर्यासफलदध्यम्लकाञ्जिकैः ११४
- तैलं कट्यूरुपार्श्वार्त्तिकफवातामयान्ग्रहान्
- हन्ति वस्तिप्रदानेन करोत्यग्निबलं महत् ११५
- सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका
- स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्चलं विडम् ११६
- वचाजमोदाजरणाः पौष्करं मधुकं कणा
- एतान्यर्द्ध पलांशानि सूक्ष्मपिष्टानि कारयेत् ११७
- प्रस्थमेरण्डतैलस्य प्रस्थाम्बुशतपुष्पजम्
- काञ्जिकं द्विगुणं दत्वा मस्तु च द्विगुणं तथा ११८
- एतं सम्भृत्य सम्भारं शनैर्मृद्वग्निना पचेत्
- सिद्धमेतत् प्रयोक्तव्यमामवातहरं परम् ११९
- पानाभ्यञ्जनवस्तौ च कुरुतेग्निबलं भृशम्
- वातार्त्तवङ्क्षणे शस्तं कटीजानूरुसन्धिजे १२०
- शूले हृत्पार्श्वजे तद्वद् वृद्धे श्लेष्मणि पीडिते
- बाह्यायामार्दितानाहैरन्त्रवृद्धिनिपीडिते
- अन्यांश्चानिलजान् रोगान्नाशयत्याशु देहिनाम् १२१
- स्वल्पप्रसारणीतैलं तैलं वा सैन्धवादिकम्
- दशमूलाद्यतैलेन वस्तिदानं प्रशस्यते १२२
- तैलस्य द्विपलं दद्यात्काञ्जिकस्य चतुष्पलम्
- दशमूलरसं मूत्रं पृथक्पञ्च पलानि तु१२३
- वचा मदनवाट्या वा शताह्वाकुष्ठसैन्धवैः
- पिप्पल्यतिविषामुस्तारास्नाकट्फलपौष्करैः १२४
- अक्षांशिकैश्च तत्सर्वं मन्थयेत विचक्षणः
- प्रस्थार्धं प्रथमं देयो वस्तिर्निरभिशङ्कितः १२५
- द्वितीये च तृतीये च वर्जयेत्प्रसृतद्वयम्
- सर्ववातविकारेषु मेहेषु वृषणामये १२६
- कुक्षौ हृत्पृष्ठपार्श्वेषु जानुजङ्घाकटीग्रहे
- विबन्धानाहरोगेषु शर्कराऽश्मरिपीडिते १२७
- भग्नविश्लिष्टगात्रेषु पिच्चितेषु क्षतेषु च
- एतन्निरुहवत्प्राज्ञो निरायासो महागुणः १२८
- दधिमत्स्यगुडक्षीरं पोतकीमाषपिष्टकम्
- वर्जयेदामवातार्त्तो मांसमानूपसम्भवम् १२९
- अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छलाः
- वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः १३०
- रास्नैरण्डशतावरीसहचरादुःस्पर्शवासामृता
- देवाह्वातिविषाभयाघनशटीशुण्ठीकषायःकृतः
- पीतः सोरुवुतैल एष विहितः सामे सशूलेनिलं
- कट्यूरुत्रिकपृष्ठकोष्ठजठरक्रोडेषु चामार्त्तिजित् १३१
- रास्ना वातारिमूलञ्च वासकञ्च दुरालभम्
- शटीदारुबलामुस्तनागरातिविषाभयाः १३२
- श्वदंष्ट्रा व्याधिघातश्च मिसिधान्यपुनर्नवाः
- अश्वगन्धामृताकृष्णा वृद्धदारः शतावरी १३३
- वचा सहचरश्चैव चविका बृहतीद्वयम्
- समभागान्वितैरेतै रास्नाद्विगुणभागिकैः १३४
- कषायं पाययेत्सिद्धमष्टभागावशेषितम्
- शुण्ठीचूर्णसमायुक्तमाभाद्येन युतं तथा १३५
- अलम्बुषादिसंयुक्त मजमोदादिसंयुतम्
- यथादोषं यथाव्याधि प्रक्षेपं कारयेद्भिषक् १३६
- सर्वेषु वातरोगेषु सन्धिमज्जगतेषु च
- आनाहेषु च सर्वेषु सर्वगात्रानुकम्पने १३७
- कुब्जके वामने चैव पक्षाघाते तथार्दिते
- जानुजङ्घास्थिपीडासु गृध्रस्यां च हनुग्रहे १३८
- प्रशस्तं वातरक्ते स्यादूरुस्तम्भे तथार्शसि
- विश्वाचीगुल्महृद्रो गविषूचीक्रोष्टुशीर्षके १३९
- अन्त्रवृद्धौ श्लीपदे च योनिशुक्रामये तथा
- पुंसां मेढ्रगते रोगे स्त्रीणां वन्ध्यामये तथा १४०
- योषितां गर्भदं मुख्यं नास्ति किञ्चिदतः परम्
- सर्वेषां पाचनानान्तु श्रेष्ठमेतद्धि पाचनम् १४१
- महारास्नादिकं नाम प्रजापतिविनिर्मितम् १४२
- रास्नाविश्वविडङ्गानि रुबूकं त्रिफला तथा
- दशमूलं पृथक् श्यामा क्वाथो वातामयापहः
- अर्द्धावभेदके त्वाढ्ये चार्दिते वातखञ्जके १४३
- नेत्ररोगे शिरः शूले ज्वरापस्मारयोस्तथा
- मनोभ्रंशे च विविधे कथितञ्च शुभप्रदम् १४४
- इति षड्विंश आमवाताधिकारः समाप्तः २६
पित्तव्याध्यधिकारः
[सम्पाद्यताम्]- अथ सप्तविंशः पित्तव्याध्यधिकारः २७
- कट्वम्लोष्णविदाहि तीक्ष्णलवणक्रोधोपवासातप
- स्त्रीसम्भोगतृषा क्षुधाभिहननव्यायाममद्यादिभिः
- मध्ये चापि हि भोजनस्य जरता भुक्तेन मध्यन्दिने
- मध्याह्ने रजनी निदाधशरदोः पित्तं करोत्यामयान् १
- अकालपलितं नेत्ररक्तता मूत्ररक्तता
- नेत्रास्यपीतता तद्वन्मूत्रस्यापि च पीतता २
- मलस्य पीतता प्रोक्ता शाखानामपि पीतता
- दन्तानाञ्चापि पीतत्वं पीतत्वं वपुषस्तथा ३
- तमसो दर्शनञ्चापि परितः पीतदर्शनम्
- निद्रा ल्पतादि शोषश्च मुखे गन्धश्च लोहवत् ४
- मुखस्य तिक्तता चापि तथा च वदनाम्लता
- उच्छ्वासस्योष्णता चापि धूमोद्गारस्तथैव च ५
- भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः
- तेजोद्वेषश्च शीतेच्छाद्यतृप्तिररतिस्तथा ६
- भक्षितस्य विदाहश्च जठरानलतीक्ष्णता
- रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा ७
- मूत्रोष्णता मूत्रकृच्छ्रं मूत्राल्पत्वं तनूष्णता
- स्वेदस्य चापि दौर्गन्ध्यं देहप्रावरणं तथा ८
- शरीरस्यावसादश्च पाकश्च वपुषस्तथा
- चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः ९
- इति सप्तविंशः पित्तव्याध्यधिकारः समाप्तः २७
श्लेष्मव्याध्यधिकारः
[सम्पाद्यताम्]- अथाष्टाविंशः श्लेष्मव्याध्यधिकारः २८
- गुरुमधुररसादि स्निग्धमन्दोदराग्नि
- द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
- प्रथमदिवसभागे भुक्तमात्रे वसन्ते
- भवति हि कफरोगो रात्रिभागेपि चाद्ये १
- प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
- मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च २
- कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
- बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ३
- अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
- मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ४
- स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
- योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ५
- रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
- धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ६
- तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
- पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ७
- इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः २८
वातरक्ताधिकारः
[सम्पाद्यताम्]- अथैकोनत्रिंशो वातरक्ताधिकारः २९
- लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
- क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः १
- कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
- दध्यारनालसौवीरशुक्ततक्रसुरासवैः २
- विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः
- प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
- स्थूलानां सुखिनाञ्चापि प्रकुप्येद्वातशोणितम् ३
- हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहाशनस्य ४
- कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं शीघ्रं पादयोश्चीयते तु
- तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ५
- स्वेदोत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेतिरुक्
- सन्धिशैथिल्यमालस्यं सदनं पिडिकोद्गमः ६
- जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
- निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ७
- कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्
- वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ८
- वातेऽधिकेऽधिकं तत्र शूलं स्फुरणतोदनम्
- शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ९
- धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्
- शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः १०
- रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
- स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ११
- पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदस्तृषा
- स्पर्शासहत्वं रुग्दाहः शोथः पाको भृशोष्णता १२
- कफे स्तैमित्यगुरुता सुप्तिः स्निग्धत्वशीतता
- कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गञ्च सङ्करे १३
- पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
- आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति १४
- अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
- मूर्च्छा चामन्दरुक्तृष्णाज्वरमोहप्रवेपकाः १५
- हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
- अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः १६
- एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन चापि तत्
- अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम् १७
- एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
- त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८
- आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतञ्च यत्
- उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः
- वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् १९
- वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्
- अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् २०
- उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् २१
- शृङ्गेण वै चिमिचिमाकण्डूरुग्वेपनान्वितम्
- प्रच्छन्नेन शिराभिर्वा देशाद्देशान्तरं व्रजेत् २२
- अङ्गेम्लाने तु न स्राव्यं रक्षेद्वातोत्तरञ्च यत्
- गम्भीरं श्वयथुं स्तम्भं कम्पवायुं शिराऽमयान्
- ग्लानिमन्यांश्च वातोत्थान्कुर्याद्वायुरसृक्क्षयात् २३
- खञ्जादीन् वातरोगांश्च मृत्युञ्चानवशेषितम्
- कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्र क्तं विनिर्हरेत् २४
- रुक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च
- नहि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् २५
- बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
- विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् २६
- दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा
- कटूष्णगुर्वभिष्यन्दि लवणाम्लौ च वर्जयेत् २७
- पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः
- भोजनार्थे रसार्थे तु विष्किराः प्रतुदा हिताः २८
- आढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः
- यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते २९
- सुनिषण्णकवेत्राग्रकाकमाचीशतावरी
- वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ३०
- घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् ३१
- सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तिमिः
- सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्
- हितो गोधूमचूर्णश्च च्छागक्षीरघृताप्लुतः ३२
- लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्वृताः
- क्षारपिष्टातसीलेपो वर्द्धमानफलेन वा ३३
- उभे शताह्वे मधुकं बलां चै प्रियालकं चापि कसेरुकं च
- वृत्तं विदारीञ्च सितोपलाञ्चै कुर्यात्प्रदेहं पवने सरक्ते ३४
- रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
- घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलार्त्तिं प्रणुदेत्प्रदेहः ३५
- वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्
- क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ३६
- दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम्
- परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ३७
- पटोलकटुकाभीरुत्रिफलाऽमृतसाधितम्
- क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ३८
- त्रिवृद्विदारीक्षुरकक्वाथो वातास्रनाशनः
- अमृता कफवातघ्नी कफमेदोविशोषिणी ३९
- वातरक्तप्रशमनी कण्डूवीसर्पनाशिनी ४०
- गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव च
- प्रभूतकालमासेव्य मुच्यते वातशोणितात् ४१
- अमृता नागर धान्यक कर्षत्रितयेन पाचनं सिद्धम्
- जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ४२
- वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुमिश्रितः
- समीरणसमायुक्तं शोणितं सम्प्रणाशयेत् ४३
- तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम्
- तद्वातरक्तं शमयत्युदीर्णमाजानुभिन्नं च्युतमप्यवश्यम् ४४
- गुग्गुल्वमृतवल्लीभिद्रा र्क्षा! लुङ्गरसेन वा
- त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ४५
- भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
- पादस्फोटं महाघोरं स्फुटत्सर्वाङ्गसञ्चयम्
- तत्सर्वं नाशयत्याशु साध्यञ्चैव सशोणितम् ४६
- माहिषं नवनीतं तु बलिना परिमिश्रितम्
- गोमूत्रमिश्रितं कृत्वा क्षीरेण लवणेन च ४७
- तदेकत्र समालोड्य वह्निना भावयेच्छनैः
- गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये ४८
- इति गुग्गुलवटिका
- घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च
- वातासृगुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची ४९
- सिंहास्यपञ्चमूलीच्छिन्नरुहैरण्डगोक्षुरक्वाथः
- एरण्डतैलरामठसैन्धवचूर्णान्वितः पीतः ५०
- प्रशमयति वातरक्तं तथामवातं कटीशूलम्
- मूत्रपुरीषविबन्धं ब्रध्नविकारं सुदुर्वारम् ५१
- गन्धर्वहस्तवृषगोक्षुरकामृतानां
- मूलं बलेक्षुरकयोश्च पचेत्तु धीमान्
- वातासृगाशु विनिहन्ति चिरप्ररुढ
- माजानुगं स्फुटितमूर्ध्वगतन्तु धीमान् ५२
- कफपित्तप्रशमनं कण्डूवीसर्पनाशनम्
- वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ५३
- पिप्पलीवर्द्धमानं वा सेव्यं पथ्या गुडेन वा ५४
- कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां यथाबलम्
- पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ५५
- मधुकाद् द्विगुणं तैलं तैलादाजं पयो भवेत्
- तद्यथाऽग्निबलं पेयं वातरक्तरुजाऽपहम् ५६
- अगस्ति पुष्पचूर्णेन माहिषं जनयेद्दधि
- तदुत्थनवनीतेन देहजं स्फुटनं जयेत् ५७
- नवकार्षिकक्वाथः
- त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी
- वत्सादनी दारुनिशा कषायो नवकार्षिकः
- वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ५८
- कण्डूकपालिकाकुष्ठं पानादेवापकर्षति
- पञ्चरक्तिकमाषेण कषायो नवकार्षिकः ५९
- किञ्चैवं साधिते क्वाथे योग्या मात्रा प्रदीयते
- कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ६०
- ततस्तु कुडवं यावदष्टादशगुणं जलम्
- चतुर्गुणमतश्चोर्ध्वं यावत्प्रस्थादिकं भवेत् ६१
- विरेचनैर्घृतक्षीरपानैः सेकैः सवस्तिभिः
- लेपनं शाल्मलीकल्कमविक्षीरेण संयुतम् ६२
- रक्तोत्तरं क्षीरघृतं मधुकोशीरवारिभिः
- सेचनं चात्र कर्त्तव्यमविक्षीरैः क्षणं क्षणम् ६३
- सहस्रशतधौतेन घृतेन रुधिरोत्तरे
- लेपनं सुष्ठु शीतेन घृतसर्जरसेन वा ६४
- शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्
- सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् ६५
- तिलाः प्रियालं मधुकं बिसमूलं च वेतसम्
- सघृतं पयसा पिष्टं प्रलेपो दाहरोगनुत् ६६
- पित्तोत्तरे तुकाश्मर्यद्रा क्षाऽरग्वधचन्दनैः ६७
- मधुकक्षीरकाकोलीयुक्तैः क्वाथं सुशीतलम्
- शर्करामधुसंयुक्तं वातरक्ते पिबेन्नरः ६८
- धारोष्णं मूत्रसंयुक्तं क्षीरं दोषानुलोमनम्
- पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिले ६९
- क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
- बहुदोषे विरेकार्थं जीर्णे क्षीरौदनाशनः ७०
- पटोलं त्रिफला भीरु गुडूची कटुरोहिणी
- क्वाथः पित्ताधिके शस्तः शर्करामधुसंयुतः ७१
- तिक्तस्य सर्पिषःपानं बहुशश्च विरेचनम्
- वमनं मृदुनाऽत्यर्थं स्नेहसेको विलङ्घनम् ७२
- कोष्णाः सेकाश्च शस्यन्ते वारतक्ते कफोत्तरे
- तैलमूत्रसुराशुक्तैः परिषेकाः सदा हिताः ७३
- गौरसर्षपकल्केन प्रदेहो वा रुजापहः ७४
- सवरुणशिग्रोः कल्को धान्याम्लेनानिलार्त्तिजिल्लेपात्
- भवति न वेति विकल्पो न विधेयः सिद्धयोगेऽस्मिन् ७५
- कल्कः श्लेष्मोत्तरे लेपो वाजिगन्धातिलोद्भवः
- लेपः सर्षपनिम्बार्क हिंस्राक्षारतिलैर्हितः ७६
- श्रेष्ठः शक्तुघृतक्षारकपित्थत्वग्भिरेव च
- मसूरशिग्रोस्तद्बीजं हितं धान्याम्लसंयुतम्
- मुहूर्त्ताल्लिप्तमम्लैश्च सिञ्चैद्वातकफोत्तरे ७७
- मुस्तामलकनिशाभिः क्वथितं तोयं समाक्षिकं पेयम्
- जयति सदागतिरक्तं सकफं वा सततयोगेन ७८
- हरिद्रा मृतकक्वाथं मधुना मधुरीकृतम्
- पिबेद्वा त्रिफलाक्वाथं वातरक्ते कफाधिके ७९
- हरीतकीं वा तक्रेण पाययेदुदकेन वा
- गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
- प्रलेपःशूलनुद्वातरक्ते वातकफोत्तरे ८०
- अमृताकटुकायष्टी शुण्ठीकल्कं समाक्षिकम् ८१
- गोमूत्रपीतं जयति सकफं वातशोणितम्
- धात्रीहरिद्रा मुस्तानां कषायं वा समाक्षिकम् ८२
- लाङ्गल्यास्त्वमृतातुल्यं कन्दमुद्धृत्य यत्नतः
- योजयेत्त्रिफलालौहरजस्त्रिकटुकैः समैः ८३
- गुग्गुल्वमृतवल्लीभिद्रा र्क्षा!लुङ्गरसेन वा
- त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ८४
- भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
- पादस्फुटितं दुर्भग्नं जानुप्राप्तं च यद्भवेत् ८५
- यच्च देहोद्गतं रक्तं यच्चासाध्यं प्रकीर्त्तितम्
- घ्नन्त्येता भक्ष्यमाणस्य प्रबलं वातशोणितम् ८६
- बलामतिबलां मेदामात्मगुप्तां शतावरीम्
- काकोलद्यं क्षीरकाकोलद्यं रास्नां मृद्वीं च पेषयेत् ८७
- घृतं चतुर्गुणं क्षीरं तैः सिद्धं वातरक्तनुत्
- हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ८८
- बलास्थिरा नागबला गुडूची शतावरी कल्क कषायसिद्धम्
- तैलं विदध्यादनुवासनेषुतद्वातरक्तं शमयत्युदीर्णम् ८९
- त्रायन्तिका चामलकी द्विकाकोली शतावरी
- कसेरुका कषायेण कल्कैरेभिः पचेद् घृतम् ९०
- उभे परुषके द्रा क्षा काश्मर्यः ससुरद्रुमाः
- पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ९१
- एतदायोजितं सर्पिः पारूषकमिति स्मृतम्
- वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ९२
- शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे
- क्षीरतुल्यं घृतं सिद्धं वातशोणितनाशनम् ९३
- ॠषभक्षीरकाकोलीक्षीरिकाजीवकैः समैः
- सिद्धं त्वार्षभकं सर्पिः सक्षीरं वातरक्तनुत् ९४
- गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्
- हन्ति वातं तथारक्तं कुष्ठं जयति दुस्तरम् ९५
- क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्
- एकद्वित्रिद्र वद्र व्यैः कुर्यात्स्नेहाच्चतुर्गुणम् ९६
- अमृतायाः कषायेण कल्केन च महौषधात्
- मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम् ९७
- आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानपि
- अर्शांसि गुल्मांश्च तथा नाशयेदाशु योजितम् ९८
- अमृतास्वरसविपक्वं सर्पिस्तत्कल्कसाधितं पीतम्
- अपहरति वातरक्तमुत्तानं चावगाढं च ९९
- अमृतायाः पलशतं जलद्रो णावशेषितम्
- घृतप्रस्थं विपक्तव्यं कल्कादष्टौ पलानि च १००
- चतुर्गुणेन पयसा वातासृक्कुष्ठनाशनम्
- कामलापाण्डुरोगघ्नं प्लीहकासज्वरापहम् १०१
- अमृता मधुकं द्रा क्षा त्रिफला नागरं बला
- वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम् १०२
- कटुका रोहिणी कृष्णा काश्मर्यस्य फलानि च
- रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः १०३
- कल्कैरेभिः समैः कृत्वा सर्पिः प्रस्थं विपाचयेत्
- धात्रीरसः समो देयो वारित्रिगुणसंयुतः १०४
- सम्यक्सिद्धं च विज्ञाय भोज्ये पाने च शस्यते
- बहुदोषोत्थितं वातरक्तेन सह मूर्च्छितम् १०५
- उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुकम्
- क्रोष्टुशीर्षे महामूले आमवाते सुदारुणे १०६
- दाहरोगोपसृष्टस्य वेदनां चातिदुस्तराम्
- मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरान् १०७
- एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान्
- सर्वकालोपयोगेन वर्णायुर्बलबर्द्धनम्
- अश्विभ्यां निर्मितं श्रेष्ठं घृतमेतदनुत्तमम् १०८
- गुडूचीस्वरसे सर्पिर्जीवनीयैश्च साधितम्
- कल्कैश्चतुर्गुणैः क्षीरैः सिद्धं वाप्यस्रवातनुत् १०९
- अमृतायाः शतं प्राप्य जलद्रो णे विपाचयेत्
- चतुर्भागावशिष्टन्तु घृतप्रस्थं विपाचयेत् ११०
- क्षीरं चतुर्गुणं तत्र दापयेन्मतिमान् भिषक्
- कल्कञ्चात्र प्रवक्ष्यामि यथावदनुपूर्वशः १११
- काकोली क्षीरकाकोली जीवकर्षभकौ च यत्
- शतावरी पयस्या च मधुकं नीलमुत्पलम् ११२
- अश्वकन्दस्य मूलानि स्थिरां वा कटुरोहिणीम्
- ऋद्धिं वृद्धिं तथा मेदे श्वदंष्ट्रां बृहतीद्वयम्११३
- गुडूचीं पिप्पलद्यं रास्नां वासकं चापि संहरेत्
- तदेकस्थं समैर्भागैः पाचयेन्मृदुनाग्निना ११४
- पानाभ्यञ्जननस्येषु परिषेके च दापयेत्
- वातरक्तं सशोषाढ्यं सदाहं क्रोष्टुशीर्षकम् ११५
- खञ्जोरुस्तम्भवातञ्च वातरक्तं सुदारुणम्
- बहूदितं वातकृच्छ्रं गृध्रसीं वातकण्टकम् ११६
- नाशयेद्योजितं सर्पिर्धन्वन्तरिवचो यथा ११७
- क्वाथेन शतपुष्पायाः कुष्ठस्य मधुकस्य च
- एकैकं साधयेत्तैलं वातरक्तरुजापह्रम् ११८
- सारिवारिष्टकूष्माण्डपोतकीभस्मजाम्बुना
- गुडूचीगव्यदुग्धाभ्यां कर्मरङ्गरसेन च ११९
- विपचेत्तिलजं तैलं दत्वैतानि भिषग्वरः
- काकोल्यौ जीवकं मेदे शताह्वाक्षीरिणीयुतैः १२०
- जिङ्गीसिक्थामृतानन्तासर्जसैन्धवचन्दनैः
- हन्याद्वातास्रजं घोरं स्फुटितं गलितं तथा १२१
- चर्मदलाख्यं पामादींस्त्वग्दोषञ्च विपादिकाम्
- कुष्ठान्यर्शांसि वीसर्प व्रणशोथं भगन्दरम् १२२
- न सोस्ति वातरक्तस्य विकारो योभिवर्द्धितः
- यं न हन्यात्प्रसह्यैतत्पिण्डतैलं महत्स्मृतम् १२३
- सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितैः
- तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते १२४
- सारिवासर्जयष्ट्याह्वमधुसिक्थैः पयोन्वितैः
- सिद्धमेरण्डजं तैलं वातरक्तरुजापहम्
- अपूतमथितस्यास्य पिण्डतैलस्य योगतः १२५
- पद्मकेशरयष्ट्याह्वफेनिलैः पद्मकोत्पलैः
- पृथक्पञ्चपलैर्दत्तं बलाकिंशुकचन्दनैः १२६
- जले शृतं पचेत्तैलं प्रस्थं सौवीरसम्मितम्
- लोध्रकाकोलिकोशीरजीवकर्षभकेशरैः १२७
- मदयन्तिलतापत्रपद्मकेशरपद्मकैः
- प्रपौण्डरीककालीयमेदामांसीप्रियङ्गुभिः १२८
- कुङ्कुमैर्द्विगुणैः कर्षैर्मञ्जिष्ठायाः पलेन च
- महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् १२९
- पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् १३०
- स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः
- खुड्डाकपद्मकमिदं तैलं वातास्रपित्तनुत् १३१
- तुलां पचेज्जलद्रो णे गुडूच्याः पादशेषितम्
- क्षीरद्रो णन्तु ताभ्यां च पचेत्तैलाढकं शनैः १३२
- कल्कैर्मधुकमञ्जिष्ठाजीवनीयगणोत्थितैः
- कुष्ठैलाऽगुरुमृद्वीका मांसी व्याघ्रनखं नखी १३३
- हरेणुः श्रावणी व्योषं शताह्वा शृङ्गिसारिवे
- त्वक्पत्रागुरुविक्रान्ताः स्थिरा तामलकी तथा १३४
- नतकेशरह्रीबेरं पद्मकोत्पलचन्दनम्
- सिद्धं कर्षसमैर्भागैः पानाभ्यङ्गानुवासनैः १३५
- सेव्यं वातास्रजान्हन्ति स्रोतोधात्वन्तराश्रितान्
- धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् १३६
- स्वेदकण्डूरुजाऽयामशिरः कम्पामयार्दितान्
- हन्याद् ब्रणकृतान्दोषान्गुडूचीतैलमुत्तमम् १३७
- गुडूची मधुकं ह्रस्वपञ्चमूलं पुनर्नवाम्
- रास्नामेरण्डमूलञ्च जीवनीयानि लाभतः १३८
- पलानां शतिकैर्भागैर्बलापञ्चशतं भवेत्
- कोलं बिल्वं यवान्माषान् कुलत्थांश्चाढकोन्मितान् १३९
- काश्मर्याणाञ्च शुष्काणां द्रो णं द्रो णशतेऽम्भसः
- साधयेज्जर्जरं पूतं चतुद्रो र्ण!ञ्च शेषयेत् १४०
- तैलद्रो णं पचेत्तेन दत्वा पञ्चगुणं पयः
- पिष्ट्वा त्रिपलिकञ्चैव चन्दनोशीरकेशरम् १४१
- पत्रैलाऽगुरुकुष्ठानि तगरं मधुयष्टिकाम्
- मञ्जिष्ठाऽद्धपलञ्चैव तत्सिद्धं सर्वयौगिकम् १४२
- वातरक्ते क्षते क्षीणे भारार्त्ते क्षीणरेतसि
- वेपनोत्क्षिप्तभग्नानां सर्वैकाङ्गजरोगिणाम् १४३
- योनिदोषमपस्मारमुन्मादं विषमज्वरम्
- हन्यात्पुंसवनञ्चैव तैलाग्र्यममृताह्वयम् १४४
- मृणालोत्पलशालूक सारिवोदीच्यकेशरैः
- चन्दनद्वयभूनिम्ब पद्मबीजकसेरुकैः १४५
- पटोलकटुकानन्ता गुन्द्रा पर्पटवासकैः
- पिष्ट्वा तैलं घृतं पक्वं तृणमूलरसेन वा १४६
- क्षीरद्विगुणसंयुक्तं वस्तिकर्मसु योजितम्
- नस्याभ्यञ्जनपानैर्वा हन्यात्पित्तगदानिदम् १४७
- कनकशिखरिमानक्षारसंसिद्धतोये कुसुमलवणयुक्तैः सर्जनिर्यासचूर्णैः
- विधिशृततिलतैलं कल्कयुक्तं निहन्ति प्रचुर तरमिदानीमिन्द्र लुप्तास्रवातम् १४८
- शुद्धां पचेन्नागबलातुलान्तु जलार्मणे पादकषायसिद्धम्
- विस्राव्य तैलाढकमत्र देयमजापयस्तैलविमिश्रितन्तु १४९
- नतं सयष्टीमधुकञ्चकल्कं दत्वा पृथक्पञ्चपलं विपक्वम्
- तद्वातरक्तं शमयत्युदीर्णं वस्तिप्रदानेन हि सप्तरात्रात्
- दशाहयोगेन करोत्यरोगं पीतञ्च तैलोत्तममश्विनोक्तम् १५०
- जीवकर्षभकौ मेदे ॠष्यप्रोक्ता शतावरी
- मधुकं मधुपर्णी च काकोलीद्वयमेव च १५१
- मुद्गमाषाख्यपर्णी च दशमूलं पुनर्नवा
- बलाऽमृता विदारी च साश्वगन्धाऽश्मभेदकौ १५२
- कुर्यात्कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत्
- लाभतश्च वसामज्जामांसं प्रतुदविष्किरात् १५३
- चतुर्गुणेन पयसा संसिद्धं वातशोणितम्
- सर्वदेहाश्रितान्हन्ति व्याधीन्घोरांश्च वातजान् १५४
- बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्
- शतपाकं भवेदेतद्वातासृग्वातपित्तनुत् १५५
- धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम्
- रेतोयोनिविकारघ्नमेतद्वातविकारनुत् १५६
- मधुयष्ट्याः पलशतं कषाये पादशेषिते
- तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः १५७
- शतपुष्पावरी मूर्वापयस्यागुरुचन्दनैः
- स्थिरहंसपदीमांसी द्विमेदामधुपर्णिभिः १५८
- काकोलीक्षीर काकोलीतामलक्यृद्धिपद्मकैः
- जीवकर्षभजीवन्तीत्वक्पत्र नखबालकैः १५९
- प्रपौण्डरीकमञ्जिष्ठा सारिवेन्दुवितुन्नकैः
- वातासृक्पित्तदाहार्त्तिज्वरघ्नं बलवर्णकृत् १६०
- मधुयष्ट्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
- क्षीरे साध्यं शतं वारांस्तदेव मधुकान्वितम् १६१
- सिद्धं देयं त्रिदोषे स्याद्वातास्रश्वासकासनुत्
- धन्यं पुंसवनञ्चैव कामलादाहनाशनम् १६२
- बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
- सहस्रशतपाकं वा वातासृग्वातरोगनुत् १६३
- रसायनमिदं श्रेष्ठमिन्द्रि याणां प्रसादनम्
- जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् १६४
- पुनर्नवामूलशतं विशुद्धं रुवूकमूलञ्च तथा प्रयोज्य
- दत्वा पलं षोडशकञ्च शुण्ठ्याः सङ्कुट्य सम्यग्विपचेद्घटेऽपाम् १६५
- पलानि चाष्टावथ कौशिकस्यतेनाष्टशेषेण पुनः पचेत
- एरण्डतैलं कुडवञ्च दद्याद्दत्वा त्रिवृच्चूर्णपलानि पञ्च १६६
- निकुम्भचूर्णस्य पलं गुडूच्याः पलद्वयं चार्द्धपलं पलं वा
- पलत्रयत्र्! यूषणचित्रकाणि सिन्धूत्थभल्लातविडङ्गकानि १६७
- कर्षं तथा माक्षिकधातुचूर्णं पुनर्नवायाः पलमेव चूर्णम्
- चूर्णानि दत्वा ह्यवतार्य शीतं खादेन्नरः कर्षसमप्रमाणम् १६८
- वातासृजं वृद्धिगदं च सप्त जयत्यवश्यं त्वथ गृध्रसीं च
- जङ्घोरुपृष्ठत्रिकवस्तिजं च तथामवातं प्रबलं च हन्ति १६९
- यावशूकसुरदारुसैन्धवं मुस्तकत्रुटिवचायवानिकाः
- व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् १७०
- कार्षिकं सुमसृणं सुयोजितं संयुतं पुरपलैश्च पञ्चभिः
- शर्करां पुरसमां सुपेषयेत्तप्तसर्पिषि विनिक्षिपेत्ततः १७१
- वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम्
- श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् १७२
- गृध्रसीं च गुदजाग्निमन्दतां हन्ति कोष्ठजनितं महागदम्
- वज्रमिन्द्र सुकरादिव च्युतं गुप्तशैलकुलमुत्तमं द्रुतम् १७३
- अन्नपानपरिहारवर्जितं सर्वकालसुखदं निरत्ययम्
- सेव्यमानमिदमश्विनिर्मितं गुग्गुलोर्हि वटिका रसायनम् १७४
- चत्वारो माषका हीने मध्यमेऽष्टौ च माषकाः
- श्रेष्ठा द्वादशकाः प्रोक्ताः कोष्ठं विज्ञाय पाययेत् १७५
- स्रंसनत्वाद् गुरुत्वाद्वा गुग्गुलोः करणक्रमः १७६
- प्रस्थमेकं गुडूच्याश्च अर्द्धप्रस्थं च गुग्गुलोः
- प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत्
- सर्वमेकत्र सङ्कुट्य क्वाथयेन्नल्वणेऽम्भसि १७७
- पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक्
- पुनः पचेत्कषायन्तु यावत्सान्द्र त्वमागतम् १७८
- दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः
- ततश्चार्द्धपलं चूर्णं गृह्णीयाच्च प्रतिप्रति १७९
- कर्षन्तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत्
- तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद् बुधः १८०
- ततश्चाग्निबलं मत्वा खादेत्कर्षप्रमाणतः
- वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८१
- दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
- नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति १८२
- त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः
- प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च १८३
- सर्वमेकत्र सङ्कुट्य साधयेन्नल्वणेऽम्भसि
- पुनः पचेत्पादशेषं यावत्सान्द्र त्वमागतम् १८४
- दन्तीचित्रकमूलानां कणाविश्व फलत्रिकम्
- गुडुचीत्वग्विडङ्गानां प्रत्येकार्धपलं मतम् १८५
- त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत्
- सिद्धे चोष्णे क्षिपेत्तत्र अमृतागुग्गुलुं परम् १८६
- अतो यथाबलं खादेदम्लपित्ती विशेषतः
- वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८७
- दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
- नाड्याढ्यवातं श्वयथुं हन्यात्सर्वामयांस्तथा १८८
- अश्विभ्यां निर्मिताश्चायममृताऽख्यो हि गुग्गुलुः १८९
- गुडरामठशुण्ठीनां मांसकूष्माण्डयोरपि
- गुडूच्या गुग्गुलोश्चैव प्रस्थः षोडशभिः पलैः १९०
- स्निग्धः काञ्चनसङ्कांशः पक्वजम्बूफलोपमः
- नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः १९१
- शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वमुपागतः
- पुराणः स तु विज्ञेयो न स देयस्तु रोगिणे १९२
- कृमिरिपुदहनव्योष त्रिफलाऽमरदारुचव्यभूनिम्बाः
- मागधिमूलं मुस्तं शटीवचाधातुमाक्षिकञ्चैव
- लवणक्षारनिशायुक्कुस्तुम्बुरुगजकणाः सहातिविषाः १९३
- कर्षांशिकान्येव समानि कुर्यात्पलाष्टकं चाश्मजतु प्रदद्यात्
- निष्पत्रशुद्धस्य पुरस्य धीमान्पलद्वयं लौहरजस्तथैव १९४
- सिताचतुष्कं पलमत्र वांश्या निकुम्भकुम्भत्रिसुगन्धियुक्तम्
- पृथक्पलं चूर्णमथावपेच्च चन्द्र्रप्रभेयं गुटिका विधेया १९५
- ज्वरातिसारग्रहणीविकारांश्चार्शांसि निर्णाशयते षडेव
- भगन्दरान्कामलपाण्डुरोगान्विनष्टवह्नेः कुरुते च दीप्तिम् १९६
- हन्त्यामयान्पित्तकफानिलोत्थान्नाडीगते मर्मगते व्रणे च
- क्षतक्षये गृध्रसियक्ष्मरोगे मेहे गजाख्ये प्रबले प्रयोज्य १९७
- शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रप्रवाहेऽप्युदरामये च
- शम्भुं समभ्यर्च्य कृतप्रसादं प्राप्ता गुटी चन्द्र मसा प्रशस्ता १९८
- न पानभोज्ये परिहारवादो न शीतवातातपमैथुनेषु
- भक्तस्य पूर्वं सततं प्रयोज्या तक्रानुपानाऽप्यथ मस्तुपाना १९९
- अजारसो जाङ्गलजो रसो वा परोऽथ वा शीतजलानुपानम् २००
- शुक्रदोषान्निहन्त्यष्टौ प्रमेहांश्चापि विंशतिम्
- वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते २०१
- गिरिजतुगुग्गुलुलौहान्येकीकृत्याथ भावयेद् बहुशः
- क्वाथैस्तद्व्याधिहरैस्तदनु च चूर्णीकृतं मिलितम्
- कृमिरिप्वादिकचूर्णैर्गिरिजतुसमधान्यपटोलयूषेण २०२
- वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम्
- प्रक्षिप्य तोयराशौ त्रिफलाञ्च यथोक्तपरिमाणम् २०३
- द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन
- विपचेत्तदप्रमत्तो दर्व्या सङ्घट्टयेन्मुहुर्यावत् २०४
- अर्द्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात्
- अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयः पात्रे २०५
- सान्द्री भूते तस्मिन्नवतार्य हिमोपलप्रख्ये
- त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम् २०६
- कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः
- पलमेकन्तु गुडूच्या दत्वा सञ्चूर्ण्य यत्नेन २०७
- उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलञ्च
- इच्छाऽहारविहारी भेषजमुपयुज्य सर्वकालमिदम् २०८
- तनुरोधी वातशोणितमेकद्वित्र्! युल्बणं चिरोत्थमपि
- भग्नस्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि २०९
- व्रणकासकुष्ठगुल्मश्वयथुं गरपाण्डुमेहांश्च नाशयत्याशु
- मन्दाग्निञ्च विबन्धं प्रमेहपिडकाश्च नाशयत्याशु २१०
- सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान्
- अभिभूय जरादोषं करोति कैशोरकं रूपम् २११
- प्रत्येकं त्रिफलाप्रस्थो जलञ्चाढकमाढकम्
- गुडवद् गुग्गुलोः पाकः सन्धेयस्तु विशेषतः २१२
- त्रिफलाऽतिविषादारुदार्वीमुस्तापरुषकैः
- खदिरासननक्ताह्वगुडूचीनृपपादपैः २१३
- भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः
- क्वाथं कृत्वा ततः पूतं शृतमष्टगुणेऽम्भसि २१४
- गुडूच्यास्तत्र सुकृतं चूर्णमर्द्धं तु वारिणि
- क्षिप्त्वा सुनूतने भाण्डे वासयेद्र जनीगतम्
- सोमोपेतेन पूतेन कौशिकं परिभावयेत्
- षड्गुडेन तु सप्ताहं शिलाजतुसमन्वितम् २१६
- शुक्तस्य तु पलान्यष्टौ समावाप्य विचक्षणः
- ताप्यचूर्णं पलञ्चैकं द्वे पले मधुसर्पिषोः २१७
- एकीकृत्य समं सर्वं लिह्यात्तु त्रिफलाऽम्बुना
- तनुना मुद्गयूषेण जाङ्गलानां रसेन वा २१८
- जीर्णेऽजीर्णे तु भुञ्जीत पुराणं शालिषष्टिकम् २१९
- यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः
- त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् २२०
- निहन्ति वीर्यतः क्षिप्रं कुष्ठरोगान्व्रणानपि
- छिन्नं भिन्नञ्च सन्धत्ते त्रिफलाऽख्यो हि गुग्गुलुः २२१
- पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम्
- सौगन्धिकं पलञ्चैकं कौशिकस्य पलत्रयम् २२२
- कुडवं चित्रतैलस्य सर्वमादाय यत्नतः
- पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे २२३
- हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम्
- श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा
- कुष्ठानिवातरक्तञ्च गुल्मशूलोदराणि च
- आमवातं जयत्येतदपि वैद्यविवर्जितम् २२५
- सर्वदाऽस्योपयोगेन जरापलितनाशनम्
- सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम् २२६
- सिंहनादइति ख्यातो रोगवारणदर्पहा
- वह्नेर्दीप्तिकरं पुसां भाषितो दण्डपाणिना २२७
- अत्राहुस्त्रिफलाक्वाथं पृथक् त्रिपलसम्मितम्
- किञ्चिन्निर्याति चैरण्डस्नेहे पाकोऽधिके खरः २२८
- अष्टौ पलान्यत्र पलङ्कषायाः प्रस्थः पृथक् शुद्धफलत्रयस्य
- दत्वा पचेद् द्रो णयुगे जलस्य पादावशेषं पुनरेव वैद्यः २२९
- दन्तीत्रिवृत्त्र् यूषणवारुणीनां बिडङ्गमुस्तत्रिफलाऽमृतानाम्
- कटूग्रगन्धालुकमाणकानां सगन्धकानाञ्च सपारदानाम् २३०
- पलार्द्धमानं प्रमितं सुचूर्णं दद्याद्विपक्वं पुनरेव तत्र
- फलानि सञ्चूर्ण्य च कानकानिसहस्रसङ्ख्याकलितानि पश्चात् २३१
- खादेद्धि माषद्वितयं प्रतप्तं तोयादिकं देयमतोऽनुपाने
- आमानिलं सन्धिगतं सशूलं शिरोगतं जानुकटिस्थितञ्च २३२
- अर्शोऽतिवृत्तिं विषमज्वरार्त्तिं प्रमेहकुष्ठानि भगन्दरञ्च
- हन्यान्नराणामिति सिंहनादो मेदोमरुच्छ्लेष्मगदान्पुरोऽयम् २३३
- दाहोऽत्यन्तप्रवृत्तिर्वा विकारोऽन्यो न चेद् बहुः
- तत्कृतस्तुतदा तत्र तक्रभक्तं हितं भवेत्
- उद्वर्त्तनं शीतजलस्नानञ्च शयनं तथा २३४
- विरेकातिशयं कुर्यात्सिंहनादो यतः सुधीः
- ज्ञात्वा बलं शरीरे तु दद्यादेवं न वा भिषक् २३५
- तोयारनालगोक्षीरैः क्रमात्पक्वं विशुध्यति
- फलं कानकसञ्ज्ञन्तु कृत्वा चूर्णं ततः क्षिपेत् २३६
- पिण्डितां गुग्गुलोर्मानीं कटुतैले पलाष्टके
- प्रत्येकं त्रिफलाप्रस्थं सार्द्धद्रो णे जले पचेत् २३७
- पादशेषं सुपूतञ्च पुनरग्नावधिश्रयेत्
- त्रिकटुत्रिफलामुस्तविडङ्गामलकानि च २३८
- गुडूच्यग्नित्रिवृद्दन्ती वचासूरणमानकम्
- कस्तूरीरससूतांशं प्रत्येकं शुक्तिसम्मितम् २३९
- सहस्रं कानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत्
- ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम् २४०
- अग्निञ्च कुरुते शीघ्रं वडवाऽनलसन्निभम्
- मेधावृद्धिं वयोवृद्धिं बलं सुविपुलं तथा २४१
- आमवातं शिरोवातं ग्रन्थिवातं भगन्दरम्
- जानुजङ्घाश्रितं वातं सकटीग्रहवेदनम् २४२
- अश्मरीमूत्रकृच्छ्रे च भग्ने च तिमिरोदरे
- अम्लपित्तं तथा कुष्ठं प्रमेहं गुदनिर्गमम् २४३
- कासं पञ्चविधं श्वासं क्षयञ्च विषमज्वरम्
- प्लीहानं श्लीपदं गुल्मान्पाण्डुरोगं सकामलम् २४४
- शोथान्त्रवृद्धिशूलानि गुदजानि विनाशयेत्
- मेदः कफामसञ्जातरोगवारणदर्पहा २४५
- सिंहनाद इति ख्यातो योगोऽयममृतोपमः
- भिषग्भिर्वर्जिते रोगे भाषितो दण्डपाणिना २४६
- शतावरी नागबला वृद्धदारकमुच्चटा
- पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम् २४७
- पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत्
- तदर्धशर्करायुक्तं चूर्णं संमर्दयेद् बुधः २४८
- स्थापयेत्सुदृढे भाण्डे मध्वर्द्धाढकसंयुतम्
- घृतप्रस्थेन वालोड्य त्रिसुगन्धपलेन च २४९
- तं खादेदिष्टभक्ष्यान्नो यथावह्निबलं नरः
- वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् २५०
- वातपित्तकफोत्थांश्च रोगानन्यांश्च तत्कृतान्
- हत्वा करोति पुरुषं हत्वा सर्वामयान् द्रुतम् २५१
- बलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम्
- करोति पुरुषं धन्यं पञ्चवर्षशतायुषम् २५२
- योगसारामृतो नाम लक्ष्मीकीर्त्तिविवर्द्धनः २५३
- व्यायामं मैथुनं कोपमुष्णाम्ललवणं रसम्
- दिवास्वप्नमभिष्यन्दि गुरु चान्यद्विवर्जयेत् २५४
- इत्येकोनत्रिंशोवातरक्ताधिकारः समाप्तः २९