भावप्रकाशः/मध्यखण्डे तृतीयो भागः

विकिस्रोतः तः
अथ मध्यखण्डम्
तृतीयो भागः

शूलाधिकारः[सम्पाद्यताम्]

अथ त्रिंशः शूलाधिकारः ३०
दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः १
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
कलायमुद्गाढकिकोरदूषादत्यर्थरुक्षाध्यशनाभिघातात् २
कषायतिक्तातिविरुढजान्नविरुद्धवल्लूरकशुष्कशाकैः
विट्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् ३
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ४
मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोदभेदैः
संस्वेदनाभ्यञ्जनमर्दनाद्यैःस्निग्धोष्णभोज्यैश्च शमं प्रयाति ५
कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः
हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम्
सहृच्छूल इति ख्यातो रसमारुतकोपजः ६
कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्
पार्श्वस्थः पार्श्वयोः शूलं कुर्यादाध्मानसंयुतम् ७
तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति
निद्रा ञ्च नाप्नुयादेव पार्श्वशूलः पकीर्त्तितः ८
संरोधात्कुपितोवायुर्बस्तिं संश्रित्य तिष्ठति ९
बस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स उच्यते १०
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ११
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्
तृण्मोहदाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् १२
मध्यन्दिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च १३
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
अन्यैर्बलासजनकैरपिहेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोतिशूलम् १४
हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च १५
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् १६
सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम्
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः १७
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति १८
वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्
हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात् १९
बस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः
कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः २०
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति २१
यदाऽन्न न गतं पाकं तच्छूलं कुरुते भृशम्
मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम् २२
कम्पं वान्तिमतीसारं प्रमोहं जनयेदपि
अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः २३
वेदनातितृषा मूर्च्छा आनाहो गौरवारुची
कासः श्वासो वमिर्हिक्का शूलास्योपद्र वाः स्मृताः २४
एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वदोषान्वितो घोरस्त्वसाध्यो भूर्युपद्र वः २५
वेदनातितृषामूर्च्छा आनाहो गौरवं ज्वरः २६
भ्रमो रुचिः कृशत्वञ्च बलहानिस्तथैव च
उपद्र वा दशैवैते यस्य शूलेषु नास्ति सः २७
स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा
कफपित्ते समावृत्य शूलकारी भवेद् बली
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् २८
तस्य लक्षणमप्येतत्समासेनाभिधीयते २९
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ३०
तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम्
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः ३१
छर्दिहृल्लाससंमोहस्वल्परुग्दीर्घसन्तति
कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् ३२
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्
त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम् ३३
जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा
न शमं याति नियमात्सोऽन्नद्र व उदाहृतः ३४
वमनं लङ्घनं स्वेदः पाचनं फलवर्त्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ३५
विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत्
स्वल्पशूलाकुलस्य स्यात्स्वेद एव सुखावहः ३६
मृत्तिकां सजलां पाकाद्घनीभूतां पटे क्षिपेत्
कृत्वा तत्पोट्टलद्यं शूली यथास्वेदं विधारयेत् ३७
कार्पासास्थिकुलत्थ कैस्तिलयवैरेरण्डमूलातसी
वर्षाभूशणबीजकाञ्जिकयुतैरेकीकृतैर्वा पृथक् ३८
स्वेदः स्यादथ कूर्परोदरशिरः स्फिग्जानुपादाङ्गुली
गुल्फस्कन्धकटीरुजो विजयते निःशेषवातार्त्तिहा ३८
तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ३९
शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम्
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ४०
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ४१
पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरैः पिण्डैः स्निग्धैर्वा पिशितोत्करैः ४२
वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ४३
बलापुनर्नवैरण्ड बृहतीद्बयगोक्षुरैः
सहिङ्गुलवणोपेतं सद्यो वातरुजापहम् ४४
तुम्बुरुण्यभया हिङ्गु पौष्करं लवणत्रयम्
पिबेदुष्णामबुनां वापि शूलगुल्मापतन्त्रकी ४५
यवानीहिङ्गुसिन्धूत्थ क्षारसौवर्चलाभयाः
सुरामण्डेन पातव्या वातशूलनिषूदनाः ४६
सौवर्चलाम्लिकाजा जीमरिचैर्द्विगुणोत्तरैः
मातुलुङ्गरसैः पिष्ट्वा गुटिका वातशूलनुत् ४७
बीजपूरकमूलं च घृतेन सह पाययेत्
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ४८
गुडः शालिर्यवक्षारः सर्पिष्पानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ४९
मणीरजतताम्राणां भाजनानि गुरूणि च
तोयेन परिपूर्णानि शूलस्योपरि धारयेत् ५०
विरेचनं पित्तहरं प्रशस्तं रसाश्च शस्ताः शशलावकानाम्
सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम्
प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ५१
शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकंरसम्
मधुना जीर्णगोधूमं कफशूले प्रयोजयेत् ५२
लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्
सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् ५३
आमशूले क्रिया कार्या कफशूलप्रणाशिनी
सेव्यमामहरं सर्वमग्नेर्मन्दस्य वर्द्धनम् ५४
तीक्ष्णायाश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्
प्रयोज्यं मधुसर्पिभ्यां सर्वशूलनिवारणम् ५५
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः
अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ५६
मूलं बैल्वं तथैरण्डं चित्रकं विश्वभेषजम्
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ५७
कूष्माण्डं तनु कृत्वा तु क्षिप्त्वा घर्मे विशोषयेत्
स्थाल्यां निक्षिप्य तत्सर्वं पिधानेन पिधाय च ५८
चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत्कुशलो जनः
यथा तन्न भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ५९
तदा निर्वापयेच्छीतं सर्वथा चूर्णितं तु तत्
माषद्वयमितं तावच्छुण्ठीचूर्णेन मिश्रितम् ६०
जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः
असाध्यमपि यच्छूलं तदप्येतेन शाम्यति ६१
लङ्घनं प्रथमं कुर्याद्वमनं सविरेचनम्
पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ६२
पीत्वा तु क्षीरमाकण्ठं मदनक्वाथसंयुतम्
कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम् ६३
कषायो वाऽथ निम्बस्य कटुतुम्बीरसोऽथवा
यथाविधि वमेद्धीमान्पक्तिशूलार्दितो जनः ६४
त्रिवृता च तथा दन्त्या तैलेनैरण्डजेन वा
दत्तं विरेचनं सद्यः पक्तिशूलनिवारणम् ६५
विडङ्गतण्डुलव्योषत्रिवृद्दन्ती सचित्रका
सर्वाण्येतानि संहृत्य सूक्ष्मचूर्णानि कारयेत् ६६
गुडेन मोदकान्कृत्वा खादेदुष्णेन वारिणा
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ६७
नागरतिलगुडकल्कं पयसा सम्पिष्य यः पुमांल्लिह्यात्
उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ६८
पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात्
पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ६९
लौहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा
विलिहन्विनिहन्त्येव शूलं हि परिणामजम् ७०
नारिकेलं सतोयं च लवणेन सुपूरितम्
मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ७१
पिप्पल्या भक्षितं हन्ति शूलं हि परिणामजम्
वातिकं पैत्तिकञ्चापि श्लैष्मिकं सान्निपातिकम् ७२
अन्नद्र वाख्ये शूले तु न तावत्स्वास्थ्यमश्नुते
यावत्कटुकपित्ताम्लमन्नं न च्छर्दयेद् द्र वम् ७३
जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत्
पित्तान्तं वमनं कृत्वा कफान्तञ्च विरेचनम् ७४
अन्नद्र वे च तत्कार्यं जरत्पित्ते यदीरितम्
जरत्पित्तेऽपि तत्पथ्यं प्रोक्तमन्नद्र वे तु यत् ७५
आमपक्वाशये शुद्धे गच्छेदन्नद्र वः शमम् ७६
माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम्
तादृशीं सर्पिषा खादेदन्नद्र वनिपीडितः ७७
धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम्
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रे ण तद्गदे ७८
श्यामाकतण्डुलैः सिद्धं सिद्धं कोद्र वतण्डुलैः
प्रियङ्गुतण्डुलैः सिद्धं पायसं सहितं हितम् ७९
गौडिकं शौरणं कन्दं कूष्माण्डमपि भक्षयेत्
कलाययवसक्तून्वा सक्तून्वा लाजसम्भवान् ८०
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्
ससितं शीतदुग्धेनं मृदितं क्वथितं हितम् ८१
अन्नद्र वो दुश्चिकित्स्यो दुर्विज्ञेयो महागदः
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ८२
अन्नद्र वे जरत्पित्ते वह्निर्मन्दो भवेद्यतः
तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ८३
कलाययवगोधूमाः श्यामाकाः कोरदूषकाः
राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ८४
दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहितम्
वास्तूकं कारवेल्ली च कर्कोटकफलानिच ८५
बर्हिणो हरिणा मत्स्या रोहिताद्याः कपिञ्जलाः
एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ८६
गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम्
त्रिपलं लोहकिट्टस्य तत्सर्वं मधुसर्पिषा ८७
समालोड्य समश्नीयादक्षमात्रप्रमाणतः
आदिमध्यावसानेषु भोजनस्य निहन्ति तत्८८
अन्नद्र वं जरत्पित्तमम्लपित्तं सुदारुणम्
परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ८९
व्यायामं मैथुनं मद्यं लवणं कटुकं रसम्
वेगरोधं शुचं क्रोधं द्विदलं शूलवांस्त्यजेत् ९०
इति त्रिंशः शूलाधिकारोऽथवा शूलपरिणामशूलान्नद्र वजरत्पित्ताधिकारः समाप्तः ३०

उदावर्त्तानाहाधिकारः[सम्पाद्यताम्]

अथैकत्रिंश उदावर्त्तानाहाधिकारः ३१
वातविण्मूत्रजृम्भाऽश्रुक्षवोद्गारवमीन्द्रि यैः
क्षुत्तृष्णोच्छ्वासनिद्रा णां धृत्योदावर्त्तसम्भवः १
यथोर्ध्वं जायते वायोरावर्त्तः स चिकित्सकैः
उदावर्त्त इति प्रोक्तो व्याधिस्तत्रानिलः प्रभुः २
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ३
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ४
वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ५
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ६
आनन्दजं वाप्यथ शोकजंवा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरो गुरुत्वं न्यनामयाश्च भवन्ति तीव्राः सह पीनसेन ७
मन्यास्तम्भः शिरः शूलमर्दितार्द्धावभेदकौ
इन्द्रि याणाञ्च दौर्बल्यं क्षवथोः स्याद्विधारणात् ८
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वाऽप्रवृत्तिः
उद्गारवेगेऽभिहते भवन्ति जन्तोर्विकाराः पवनप्रसूताः ९
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः १०
मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते तु शुक्रे ११
तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाविघातात्कृशता च दृष्टेः १२
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद् धृदये व्यथा च १३
श्रान्तस्य निश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः १४
जृम्भाऽङ्गमर्दाक्षिशिरोऽतिजाड्यं निद्रा विघातादथ वाऽपि तन्द्रा १५
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्त्तं करोति च १६
वातमूत्रपुरीषाश्रुकफमेदोवहानि वै
स्रोतांस्युदावर्त्तयति पुरीषं न प्रवर्त्तयेत् १७
ततो हृद्वस्तिशूलार्त्तो हृल्लासारतिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः १८
श्वासकासप्रतिश्यायदाह मोहतृषाज्वरान्
वमिहिक्काशिरोरोग मनः श्रवणविभ्रमान्
बहूनन्यांश्च लभते विकारान्वातकोपजान् १९
तृष्णाच्छर्दिपरिक्लिष्टं क्षीणं शूकैरुपद्रुतम्
शकृद् वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् २०
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति २१
तस्मिन्भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च २२
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च
श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि २३
अधोवातनिरोधोत्थे उदावर्त्ते हितं मतम्
स्नेहपानं तथा स्वेदो वर्त्तिर्वस्तिर्हितो मतः २४
विड्विघातसमुत्थे तु विड्भङ्गाऽन्न तथौषधम्
वत्तर्यभ्यङ्गावगाहाश्च स्वेदो वस्तिर्हितो मतः २५
मूत्रावरोधजनिते क्षीरवारि वचां पिबेत्
दुःस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च २६
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम्
सितामिक्षुरसं क्षीरं द्रा क्षां यष्टीमथापि वा
सर्वथैव प्रयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् २७
जृम्भाऽभिघातजे स्नेहं स्वेदं वाऽपि प्रयोजयेत्
अन्यानपि प्रयुञ्जीत समीरणहरान्विधीन् २८
नेत्रनीरावरोधोत्थे मुञ्चेद्वाऽपि दृशोर्जलम्
स्वप्यात्सुखञ्च तस्याग्रेकथयेच्च कथाः प्रियाः २९
क्षवथोर्घातजे तीक्ष्णघ्राणनस्यार्कदर्शनैः
प्रवर्त्तयेत्क्षुतं सक्तां स्नेहस्वेदौ च शीलयेत् ३०
उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत्
छर्दिनिग्रहसञ्जाते वमनं लङ्घनं हितम् ३१
विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा
वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः ३२
आ वारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यःशुक्रोदावर्तिनं नरम् ३३
तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः
शालि पयोनिरुहश्च हितं मैथुनमेव च ३४
क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु
रुच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् ३५
तृषाविघातसम्भूते शीतःसर्वो विधिर्हितः
कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः
श्रमश्वासधृतौ शस्तो विश्रामः सरसौदनः ३६
निद्रा वेगविघातोत्थे पिबेत्क्षीरं सितायुतम्
संवाहनं सुशय्याऽत्र हितः स्वप्नः प्रियाः कथाः ३७
हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिं विनिर्मिताम्
घृताभ्यक्तं गुदे न्यस्येदुदावर्त्तविनाशिनीम् ३८
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः
गुडक्षीरसमायुक्ताः फलवर्त्तिरिहोदिता ३९
खण्डपलं त्रिवृताऽक्ष कृष्णाकर्षो द्वयोश्चूर्णम्
प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात् ४०
एतद् गाढपुरीषे देयं विज्ञैरुदावर्त्ते
मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ४१
सव्योषपिप्पलीमूलं त्रिवृद्दन्ती च चित्रकम्
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ४२
एतद् गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम्
उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ४३
मूलकं शुष्कमाद्र रं! च वर्षाभूः पञ्चमूलकम्
कृतमालफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत्पीतं शमयेत्क्षिप्रमुदावर्त्तमशेषतः ४४
तुल्यकारणकार्यत्वादुदावर्त्तहरीं क्रियाम्
आनाहेषु च कुर्वीत विशेषश्चाभिधीयते ४५
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
गुडेन तुल्या गुटिका हरत्यानाहमुल्वणम् ४६
वर्त्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः
मधुनि गुडे वा पक्वैर्विहिता साऽङगुष्ठसम्मिता विज्ञैः ४७
वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता
आनाहमुदरजार्त्तिं शमयति जठरे तथा गुल्मम् ४८
इत्येकत्रिंश उदावर्त्तानाहाधिकारः समाप्तः ३१

गुल्माधिकारः[सम्पाद्यताम्]

अथ द्वात्रिंशो गुल्माधिकारः ३२
दुष्टा वातादयोऽत्यर्थ मिथ्याहारविहारतः
कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् १
पञ्चविधत्वं विवृणोति
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
पुरुषाणां तथा स्त्रीणां रक्तजश्चोपजायते २
आर्त्तवादपिगुल्मः स्यात्स तुं स्त्रीणां प्रजायते
अन्यस्त्वसृग्भवः पुंसां तथा स्त्रीणां प्रजायते ३
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः ४
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः
वृत्तश्चयोपचयवान्स गुल्म इति कीर्त्तितः ५
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
आटोपमाध्मानमपक्तिशूलमासन्नगुल्मस्य वदन्ति चिह्नम् ६
अरुचिं कृच्छ्रविण्मूत्रवातत्वं चान्त्रकूजनम्
आनाहं चोर्ध्ववातञ्च सर्वगुल्मेषु लक्षयेत् ७
रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
शोकाभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ८
यः स्थानसंस्थानरुजाविकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
श्यावारुणत्वं शिशिरज्वरञ्च हृत्कुक्षिपार्श्वाङ्गशिरोरुजञ्च ९
करोति जीर्णेऽत्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते १०
कट्वम्लतीक्ष्णेष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा
आमोऽभिघातो रुधिरञ्च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ११
ज्वरः पिपासा सदनाङ्गरागौ शूलं महज्जीर्यति भोजने च
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १२
शीतं गुरु स्निग्धमचेष्टनञ्च सम्पूरण प्रस्वपनं दिवा च
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य १३
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफकोपजाते १४
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनाऽथम् १५
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १६
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् १७
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणञ्चाप्यपरं निबोध
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १८
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः
कृतमूलः शिरानद्धोयदा कूर्म इवोन्नतः १९
दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः
तृष्णातन्द्रा प्रतिश्यायैर्युज्यते न स सिध्यति २०
गृहीत्वा सज्वरश्वासं छर्द्यतीसारपीडितम्
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् २१
श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
जायते दुर्बलत्वञ्च गुल्मिनो मरणाय वै २२
वातारितैलेन पयोयुतेन पथ्यासमेतेन विरेचनं हि
संस्वेदनं स्निग्धमतिप्रशस्तं प्रभञ्जनक्रोधकृते च गुल्मे २३
स्वर्जिकाकुष्ठसहितः क्षारः केतकसम्भवः
पीतस्तैलेन शमयेद् गुल्मं पवनसम्भवम् २४
तित्तिरांश्च मयूरांश्च कुक्कुटान्क्रौञ्चवर्त्तकान्
सर्पिः शालि प्रसन्नाञ्च वातगुल्मे प्रयोजयेत् २५
पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना
विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम् २६
अभयां द्रा क्षया खादेत्पित्तगुल्मी गुडेन वा
योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् २७
हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषाऽजाज्यस्तदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद्बीजपूरद्र वैः
गुल्माध्मानगुदाङ्कुरान्ग्रहणिकोदावर्त्तसंज्ञंगदं प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्वयारोचकान् २८
ऊरुस्तंभमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां
प्रत्यष्ठीलकया सहापहरते प्राक्पीतमुष्णाम्बुना २९
हृत्कुक्षिवङ्क्षणकटीजठरान्तरेषु वस्तिस्तनांसफलकेषु च पार्श्वयोश्च
शूलानि नाशयति वातबलासजानि हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम् ३०
धीमानुपाचरेद् गुल्मं प्रत्याख्याय त्रिदोषजम्
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ३१
शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम्
शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम् ३२
स्वर्जिका शाणमाना स्यात्तावदेव गुडं भवेत्
उभयोर्वटिकां खादेद् गुल्ममायविनाशिनीम् ३३
पलाशवज्रीशिखरिचिञ्चाऽकतिलनालजाः
यवजः स्वर्जिका चेति क्षारा ह्यष्टौ प्रकीर्त्तिताः
एते गुल्महराः क्षारा अजीर्णस्य च पाचकाः ३४
सामुद्रं सैन्धवं काचंयवक्षारं सुवर्चलम्
टङ्कणं स्वर्जिकाक्षारतुल्यं चूर्णं प्रकल्पयेत् ३५
वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्! यहम्
वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डे पुटे पचेत् ३६
तत्क्षारं चूर्णयेत्पश्चात्त्र्यूषणं त्रिफला तथा
यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत् ३७
सर्वचूर्णसमं क्षारं सर्वमेकत्र कारयेत्
तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत् ३८
गुल्मे शूले तथाऽजीर्णे शोथे सर्वोदरेषु च
मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम् ३९
वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः
गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे ४०
वज्रक्षार इति ख्यातः प्रोक्तः पूर्वं स्वयम्भुवा
सेवितो हरतेऽजीर्णं तथाऽजीर्णभवान्गदान् ४१
सुवर्चिका टङ्कमिता तत्समानाऽद्रि काऽपि च
उभे भुञ्जीत युगपद् गुल्मामयनिवृत्तये ४२
शुक्तिचूर्णस्य गुटिकां टङ्कमात्रां सुवेष्टयेत्
गुडेन शाणामानेन तां लिहेद् गुल्मरोगवान् ४३
गुल्मी कुमारिकामांसं कर्षार्द्धगोघृतान्वितम्
गिलेद्व्योषाभयासिन्धुसूक्ष्मचूर्णावधूलितम् ४४
वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम्
न खादेदालुकं गुल्मी मधुराणि फलानि च ४५
स्निग्धस्विन्नशरीरस्य योज्यं स्नेहविरेचनम्
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ४६
कल्कः पीतो जयेद् गुल्मं तिलक्वाथेन रक्तजम्
तिलक्वाथो गुडव्योषघृतभार्गीयुतो भवेत् ४७
योनिरक्तभवे गुल्मे नष्टपुष्पेषु योषिताम्
पीतो धात्रीरसो युक्तो मरिचैश्चास्रगुल्मनुत् ४८
गुण्डारोचनिकाचूर्णं शर्करामाक्षिकान्वितम्
विदधीताशु गुल्मिन्या मनलसञ्चङ्क्रमाय च ४९
विशेषमपरञ्चाशु शृणु रक्तप्रभेदनम्
पलाशक्षारतोयेन सर्पिः सिद्धं पिबेच्च सा ५०
सक्षारं त्र्! यूषणं सर्पिः प्रपिबेदस्रगुल्मिनी ५१
यस्मिन्न च रसक्षीरतोयसाध्यरसादिषु
फेनोद्गारस्य निष्पत्तिर्नष्टदुग्धसमाकृतेः
स एव तस्य पाकस्य कालो नेतरलक्षणः ५२
इति द्वात्रिंशो गुल्माधिकारः समाप्तः ३२

प्लीहयकृदधिकारः[सम्पाद्यताम्]

अथ त्रयस्त्रिंशः प्लीहयकृदधिकारः ३३
शोणिताज्जायते प्लीहा वामतो हृदयादधः
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः १
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च
प्लीहाऽभिवृद्धिं कुरुतः प्रवृद्धौ तं प्लीहसञ्ज्ञं गदमामनन्ति २
वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
मन्दज्वराग्निःकफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ३
क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम्
मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ४
सज्वरः सपिपासश्च सदाहो मोहसंयुतः
पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ५
प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः
अरोचकेन संयुक्तः प्लीहा कफज उच्यते ६
नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः
वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ७
दोपत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्त्यपि ८
अधो दक्षिणतश्चापि हृदयाद् यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ९
प्लीहामयस्यहेत्वादि समस्तं यकृदामये
किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः १०
पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः
तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ११
अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम्
निहन्ति मस्तुना पीतं प्लीहानमतिदारुणम् १२
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं च सैन्धवम्
मातुलुङ्गरसोपेतं प्लीहशूलहरं भवेत् १३
पलाशक्षारतोयेन पिप्पली परिभाविता
प्लीहगुल्मार्त्तिशमनी वह्निमान्द्यहरी मता १४
रसेन जम्बीरफलस्य शङ्खनाभीरजः पीतमवश्यमेव
शाणप्रमाणं शमयेदशेषं प्लीहामयं कूर्मसमानमाशु १५
शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः
प्लीहानं यदि न हरति शैलोऽपि तदा जले प्लवते १६
सुपक्वसहकारस्य रसः क्षौद्र समन्वितः
पीतः प्रशमयत्येव प्लीहानं नेह संशयः १७
सुस्विन्नं शाल्मलीपुष्पं निशापर्युषितं नरः
राजिकाचूर्णसंयुक्तं खादेत्प्लीहोपशान्तये १८
यवानिकाचित्रकयाव शूकषड्ग्रन्थिदन्तीमगधोद्भवानाम्
चूर्णं हरेत् प्लीहगदं निपीतमुष्णाम्बुना मस्तुसुराऽसवैर्वा १९
प्लीहोद्दिष्टाःक्रियाः सर्वा यकृद्रो गे समाचरेत्
कार्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् २०
क्षारं विडङ्गकृष्णाभ्यां पूतीकस्याम्बु निःसृतम्
पिबेत्प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये २१
इति त्रयस्त्रिंशः प्लीहयकृदधिकारः समाप्तः ३३

हृद्रोगाधिकारः[सम्पाद्यताम्]

अथ चतुस्त्रिंशो हृद्रोगाधिकारः ३४
अत्युष्णगुर्वम्लकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः
हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि वा ३
तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः
धूमायनं च मूर्च्छा च क्लेदः शोषो मुखस्य च ४
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चास्यस्य बलासावतते हृदि ५
विद्यात्त्रिदोषमप्येवं सर्वलिङ्गं हृदामयम् ६
त्रिदोषगेतुहृद्रो गे यो दुरात्मा निषेवते
तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ७
मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति
संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ८
उत्क्लेदः ष्ठीवनं तोदः शूलं हृंल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
क्लोम्नः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः १०
घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते ११
हरीतकीवचारास्ना पिप्पलीनागरोद्भवम्
शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम् १२
पुटदग्धहरिणशृङ्गं पिष्ट्वा गव्येन सर्पिषा पिबतः
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि १३
तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्
पिबति पयोभुक्स भवति गतसकलहृदामयः पुरुषः १४
गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम्
मधुशर्करासमेतं शमयति हृद्रो गमुद्धतं पुंसाम् १५
पार्थस्य कल्केन रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु १६
घृतं बलानागबलाऽजुनानां क्वाथेन कल्केन च यष्टिकायाः
सिद्धन्तु हन्याद्घृदयामयं हि सवातरक्तक्षतरक्तपित्तम् १७
इति चतुस्त्रिंशोहृद्रोगाधिकारः समाप्तः ३४

मूत्रकृच्छ्राधिकारः[सम्पाद्यताम्]

अथ पञ्चत्रिंशोमूत्रकृच्छ्राधिकारः ३५
व्यायामतीक्ष्णौषधरुक्षमद्यप्रसङ्गनृत्यद्रुतपृष्ठयानात्
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथ वा कोपमुपेत्य बस्तौ
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
तीव्रा च रुग्वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ३
पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ४
वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ५
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ६
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च ७
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः
आध्मानंवातशूलञ्च मूत्रसङ्गं करोति च ८
शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
सशुक्रं मूत्रयेत्कृच्छ्राद्वस्तिमेहनशूलवान् ९
अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहृतम्
अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे
विशेषणं शर्करायाः शृणु कीर्त्तयतो मम
पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
विमुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
तथा भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ११
अभ्यञ्जनस्नेहनिरूहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्
स्थिराऽदिभिर्वातहरैश्च सिद्धान्दद्याद्र सांश्चानिलमूत्रकृच्छ्रे १२
अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकः
प्रपिबेद्वातरोगार्त्तः शूलवान्मूत्रकृच्छ्रवान् १३
पुनर्नवैरण्डशतावरीभिःपत्तूरवृश्चीरबलाऽश्मभिद्भिः
द्विपञ्चमूलेन कुलत्थकेन यवैश्च तोयोत्क्वथिते कषाये १४
तैलं वराहर्क्षवसाघृतञ्च तैरेवकल्कैर्लवणैश्च सिद्धम्
तन्मात्रयाऽत्र प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम् १५
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्वस्तिपयोविकाराः
द्रा क्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः १६
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्
पित्तकृछ्रहरं पञ्चमूलं वस्तिविशोधनम् १७
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत्पैत्तिकमूत्रकृच्छ्रे १८
एर्वारुबीजं मधुकञ्च दार्वी पैत्ते पिबेत्तण्डुलधावनेन
दार्वी तथैवामलकीरसेन समाक्षिकं पित्तकृते तु कृच्छ्रे १९
हरीतकीगोक्षुरराज वृक्षपाषाणभिद्धन्वयवासकानाम्
क्वाथं पिबेन्माक्षिकसम्प्रयुक्तं कृच्छ्रे सदाहे स रुजे विबन्धे २०
शतावरीकाशकुशश्वदंष्ट्राविदारिकेक्ष्वामलकेषु सिद्धम्
सर्पिः पयो वा सितया विमिश्रं कृच्छ्रेषु पित्तप्रभवेषु योज्यम् २१
त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेषु स्वरसेषु सिद्धम्
सर्पिर्गुडार्द्धांशयुतं प्रयोज्यं कृच्छ्राश्मरीमूत्रविघातदोषे
अयं विशेषेण पुनर्विधेयः सर्वाश्मरीणां प्रवरः प्रयोगः २२
क्षारोष्णतीव्रौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहः
तक्रञ्च तिक्तौषधसिद्धतैलान्यभ्यङ्गपानं कफमूत्रकृच्छ्रे २३
मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा
कफकृच्छ्रविनाशाय सूक्ष्मं पिष्ट्वा गुटीं पिबेत् २४
तक्रेण युक्तं शितिमारकस्य बीजं पिबेन्मूत्रविघातहेतोः
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे २५
त्रिकटु त्रिफला मुस्तंगुग्गुलुञ्च समाक्षिकम्
गोक्षुरक्वाथ संयुक्तं गुटिकां भक्षयेद् बुधः २६
प्रमेहं मूत्रकृच्छ्रञ्च म्रूत्राघातं तथैव च
अश्मरीं प्रदरञ्चैव नाशयेदविकल्पतः २७
सर्वत्रिदोषप्रभवे च वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्पित्ते विरेकः पवने तु वस्तिः २८
बृहतीधावनीपाठायष्टी मधुकलिङ्गकाः
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः २९
गुडेनमिश्रितं क्षीरं कदुष्णं कामतः पिबेत्
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ३०
मूत्रकृच्छेऽभिघातोत्थे वातकृच्छ्रक्रिया मता ३१
मद्यं पिबेद्वा ससितं ससर्पिः शृतं पयो वाऽद्धसिताप्रयुक्तम्
धात्रीरसञ्चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना विमिश्रम् ३२
स्वेदचूर्णक्रियाऽभ्यङ्गवस्तयः स्युः पुरीषजे
क्वाथो गोक्षुरबीजस्य यवक्षारयुतः सदा
मूत्रकृच्छ्रं शकृज्जन्म पीतः शीघ्रं नियच्छति ३३
लेहः शुक्रविबन्धोत्थे सशिलाजतु माक्षिकम्
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ३४
मूत्रदोषप्रशुर्द्ध्य्थं शुक्रदोषहरञ्च तत्
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमा ३५
सप्तच्छदारग्वधकेवु कैला निम्बः करञ्जः कुटजो गुडूची
साध्या जले तेन पचेद्यवागूं सिद्धं कषायं मधुसंयुतं वा ३६
एर्वारुबीजकल्कश्च श्लक्ष्णपिष्टोऽक्षसंमितः
धान्याम्ललवणैः पेयो मूत्रकृच्छ्रविनाशनः ३७
त्रिकण्टकारग्वधदर्भकाश दुरालभापर्वतभेदपथ्याः
निघ्नन्ति पीता मधुनाऽश्मरीन्तु सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ३८
निदिग्धिकायाः स्वरसं कुडवं मधुसंयुतम्
मूत्रदोषहरं पीत्वा नरः सम्पद्यते सुखी ३९
कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित्
पीतञ्च त्रपुसीबीजं सतिलाज्यपयोऽन्वितम् ४०
त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम्
वारिणा लवणीकृत्य पिबेन्मूत्ररुजाऽपहम् ४१
यवारुबूकैस्तृणपञ्चमूलीपाषाणभेदैः सशतावरीभिः
कृच्छ्रेषु गुग्गुल्वभयाविमिश्रैः कृतः कषायो गुडसम्प्रयुक्तः ४२
मूलानि कुशकाशेक्षुशराणां चेक्षुबालिका
मूत्राघाताश्मरीकृच्छ्रे पञ्चमूली तृणात्मिका ४३
गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम्
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ४४
सितातुल्यो यवक्षारः सर्वकृच्छ्रप्रसाधनः
द्रा क्षासितोपलाकल्कं कृच्छ्रघ्नं मस्तुना युतम् ४५
विदारि सारिवा छागशृङ्गी वत्सादनी निशा
कृच्छ्रं पित्तानिलाद्धन्ति वल्लीजं पञ्चमूलकम् ४६
एलाऽश्मभेदकशिलाजतुप्पिलीनामेर्वारुबीजलवणोत्तमकुङ्कुमानाम्
चूर्णानि तण्डुलजले लुलितानि पीत्वा प्रत्यग्रमृत्युरपि जीवति मूत्रकृच्छ्री ४७
अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम्
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ४८
पुनर्नवामूलतुलां दशमूलं शतावरीम्
बलां तुरङ्गगन्धां च तृणमूलं त्रिकण्टकम् ४९
विदारिकन्दनागाह्वगुडूच्यतिबलास्तथा
पृथग्दशपलान्भागानपां द्रो णे विपाचयेत् ५०
तेन पादावशेषेण घृतस्यार्धाढकं पचेत्
मधुकं शृङ्गबेरञ्च द्रा क्षां सैन्धवपिप्पलीम् ५१
द्विपलांशान्पृथग्दत्वा यवान्याः कुडवं तथा
त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ५२
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम्
राज्ञां राजसमानानां बहुस्त्रीपतयश्च ये ५३
मूत्रकृच्छ्रे कटिस्रस्ते तथा गाढ पुरीषिणाम्
मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ५४
यथोक्तानाञ्च गुल्मानां वातशोणितिनश्च ये
बल्यं रसायनं श्रीदं सुकुमारकुमारकम् ५५
पुनर्नवाशते द्रो णः प्रदेयोऽन्येऽपि चापरः ५६
इति पञ्चत्रिंशो मूत्रकृच्छ्राधिकारः समाप्तः ३५

मूत्राघाताधिकारः[सम्पाद्यताम्]

अथ षट्त्रिंशो मूत्राघाताधिकारः ३६
जायन्ते कुपितैर्दोषैमूत्राघातास्त्रयोदश
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकाऽदयः १
रौक्ष्याद्वेगविघाताद्वा वार्युवस्तौ सवेदनः
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः २
मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्त्तते
वातकुण्डलिकां तीव्रां व्याधिं विद्यात्सुदारुणम् ३
आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
कुर्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ४
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ५
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ६
चिरं धारयतो मूत्रं त्वरया न प्रवर्त्तते
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ७
मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः
अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ८
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तन्मूत्रजठरं विद्यादधोवस्तिनिरोधजम् ९
वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं प्रवृत्तं सज्जेत सरक्तंवा प्रवाहतः १०
स्रवेच्छनैरल्पमल्पं सरुजं वापि नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ११
रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् १२
अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
अश्मरी तुल्यरुग्ग्रन्थिर्मूत्रे ग्रन्थिः स उच्यते १३
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्त्तते
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते १४
व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम्
वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः १५
मूत्रं हारिद्र मथवा सरसं रक्तमेव वा
कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् १६
पित्तं कफो द्वावपि वा संहन्यतेऽनिलेन चेत्
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं स्रवेत् १७
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् १८
रूक्षदुर्बलयोर्वातेनोदावर्त्तं शकृद्यदा १९
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत्कृच्छ्राद्विडिवघातं विनिर्दिशेत् २०
द्रुताध्वलङ्घनायासैरभि घातात्प्रपीडनात्
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठिति गर्भवत् २१
शूलस्पन्दनदाहार्त्तो विन्दुं बिन्दुं स्रवत्यपि
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् २२
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः २३
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् २४
श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिद्ध्य्ति
अविभ्रान्तबिलः साध्यो न च यः कुण्डलीकृतः
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च २५
मूत्राघातचिकित्सा
स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्
दद्यादुत्तरवस्तिं च मूत्राघाते सवेदने २६
नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलंससितम्
पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच कचः २७
गोजीनाम्नोमूलं पलमेकं क्वथितशेषितं पीतम्
क्षिप्त्वा मधु च सिताञ्च प्रणुदति मूत्रस्य संरोधम् २८
गोधापद्या मूलं क्वथितं घृततैलगोरसोन्मिश्रम्
पीतं निरुद्धमचिराद्भिनत्ति मूत्रस्य संघातम् २९
पिबेच्छिलाजतु क्वाथे युक्तं वीरतरादिजे
क्वाथं सपत्रमूलस्य गोक्षुरस्य फलस्य च ३०
पिबेन्मधुसितायुक्तं मूत्रकृच्छ्ररुजाऽपहम् ३१
घनसारस्य चूर्णेन वस्तस्याथाविकाम्बुना
गुण्डयित्वा ध्वजे क्षिप्त्वा मूत्ररोधो जहाति तम् ३२
सदाभद्रा ऽश्मभिन्मूलं शतावर्याः सचित्रकम्
रोहिणीकोकिलाक्षौ च वचाशैलत्रिकण्टकम् ३३
श्लक्ष्णपिष्टः सुरापीतो मूत्राघातप्रबाधनः
पिबेद्वर्हिशिखामूलं दुग्धभुक्तण्डुलाम्भसा ३४
वस्तिमुत्तरवस्तिं वा सर्वेषामेव दापयेत्
निदिग्धिकायाः स्वरसं पिबेद्वस्त्रात्परिस्रुतम् ३५
जले कुङ्कुमकल्कं वा सक्षौद्र मुषितं निशि
सतैलं पाटलाभस्मक्षारं बद्ध्वा परिस्रुतम् ३६
त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूलैः
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ३७
सिताक्षारान्वितं मूलं वायसीतिलकन्दयोः
कोशकाररसैः पीतं वस्तिकुण्डलजिद्भवेत् ३८
शृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुना
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ३९
शिलोद्भिदैरण्डसमस्थिराभिः पुनर्नवाभीरुरसेषु सिद्धम्
तैलं शृतं क्षीरमथानुपानं कालेषु कृच्छ्रादिषु सम्प्रयोज्यम् ४०
धान्य गोक्षुरकक्वाथकल्कयुक्तं घृतं हितम्
मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ४१
पाषाणभेदो वाराही शालिमूलं शरस्तथा
भल्लातकं शिरीषस्य मूलमेषामथाहरेत् ४३
समभागानि सर्वाणि क्वाथयित्वा विचक्षणः
पादशेषकषायेण घृतप्रस्थं विपाचयेत् ४४
कल्कं दत्वाऽथ मतिमान् गिरिजं मधुकं तथा
नीलोत्पलञ्च काकोली बीजं त्रापुषमेव च ४५
कूष्माण्डञ्च तथैर्वारुसम्भवञ्च समं भवेत्
उष्णवातं निहन्त्येतद् घृतं भद्रा वहं स्मृतम् ४६
विदारी बृषको यूथी मातुलुङ्गी च भूतृणम्
पाषाणभेदः कस्तूरी वसुको वशिरोऽनलः ४७
पुनर्नवा वचा रास्ना बला चातिबला तथा
कशेरुविषशृङ्गाटतामलक्यः स्थिराऽदयः ४८
शरेक्षुदर्भमूलञ्च कुशः काशस्तथैव च
पलद्वयन्तु संहृत्य जलद्रो णे विपाचयेत् ४९
पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत्
शतावर्यास्तथा धात्र्! याः स्वरसो घृतसम्मितः ५०
षट्पलं शर्करायाश्च कार्षिकाण्यपराणि च
यष्ट्याह्वं पिप्पलीद्रा क्षाकाश्मर्यं सपरुषकम् ५१
एला दुरालभाकौन्तीकुङ्कुमं नागकेशरम्
जीवनीयानि चाष्टौ च दत्वा च द्विगुणं पयः ५२
एतत्सर्पिर्विपक्तव्यं शनैर्मृद्वग्निना बुधैः
मूत्राघातेषु सर्वेषु विशेषात्पित्तजेषु च ५३
शर्कराऽश्मरिशूलेषुशोणितप्रभवेषु च
हृद्रो गे पित्तगुल्मे च वातासृक्पित्तजेषु च ५४
कासश्वासक्षतोरस्कधनुः स्त्रीभारकर्षिते
तृष्णाच्छर्दिमनः कम्पशोणितच्छर्दने तथा ५५
रक्ते यक्ष्मण्यपस्मारे तथोन्मादे शिरोग्रहे
योनिदोषे रजोदोषे शुक्रदोषे स्वरामये ५६
एतत्स्मृतिकरं वृष्यं वाजीकरणमुत्तमम्
पुत्रदं बलवर्णाढ्यं विशेषाद्वातनाशनम् ५७
पानभोजननस्येषु न क्वचित्प्रतिहन्यते
विदारीघृतमित्युक्तं रसायनमनुत्तमम् ५८
पिष्ट्वाऽखुमलमुष्णेन चारनालेन लिप्यते
बद्धमूत्रं निहन्त्याशु तथैव करभीभवम् ५९
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रिच्यते
मैथुनोपरमश्चास्य बृंहणीयो विधिर्हितः ६०
ताम्रचूडवसातैलं हितं चोत्तरवस्तिषु
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ६१
समांशमर्धभागानि क्षीरक्षौद्र घृतानि च
सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत्
हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ६२
क्षौद्रा र्द्धभागः कर्त्तव्यो भागः स्यात्क्षीरसर्पिषोः ६३
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम्
स्वयं गुप्ताफलञ्चैव तथैवेक्षुरसस्य च ६४
पिप्पलीनां तथा चूर्णं समभागं प्रदापयेत्
तदैकध्यं समानीय खल्ले नातिविमथ्य च ६५
तस्य पाणितलं चूर्णं लिहेत्क्षीरं ततः पिबेत्
एतत्सम्यक् प्रयुञ्जानो योनिदोषात्प्रमुच्यते ६६
कर्पूररसजा युक्ता वस्त्रवर्त्तिः शनैः शनैः
मेढमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ६७
मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत्प्रकीर्त्तितम्
मूत्राघातेषु कृच्छ्रेषु तत्कुर्याद् देशकालवित् ६८
इतिषट्त्रिंशो मूत्राघाताधिकारः समाप्तः ३६

अश्मरीरोगाधिकारः[सम्पाद्यताम्]

अथ सप्तत्रिंशोऽश्मरीरोगाधिकारः ३७
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः १
विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः २
नैकदोषाश्रयाः सर्वा अथासां पूर्वलक्षणम्
वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ३
सामान्यलिङ्गं रुग् नाभिसेवनीवस्तिमूर्द्धसु
विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने ४
तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्
तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत् ५
तत्र वाताद् भृशं चार्त्तो दन्तान्खादति वेपते
मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ६
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः
श्यावा रूक्षाश्मरी सा स्यात्सञ्चिता कण्टकैरिव ७
तस्याः पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ८
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः
काश्मर्यारग्वधफलैः क्वाथं कृत्वा विचक्षणः ९
रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः
अश्मरीमूत्रकृच्छघ्नं दीपनं पाचनं परम्
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रजम् १०
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः
शृतं पिबेदश्मजतु प्रगाढं सशर्करे चाश्मरिमूत्रकृच्छ्रे ११
वरुणस्य त्वचं श्रेष्ठां शुण्ठीं गोक्षुरसंयुताम्
यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिमम्
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् १२
पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका १३
कपोतवङ्कार्त्तगलकाञ्चनोशीरगुन्द्र काः
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् १४
यवाः कुलत्थाः कोलानि कतकस्य फलानि च १५
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु १६
क्षारान्यवागूः पेयाश्चकषायांश्च पयांसि च
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्वातनाशने १७
वीरवृक्षोग्निमन्थश्च काशवृक्षादनीकुशाः
मोरटेन्दीवरीसूर्यभक्तागोक्षुरटुण्टुकाः १८
वसुको वशिरो दर्भशैरीयावश्मभेदकः
गुन्द्रो नलः कुरुण्टश्च गणो वीरतरादिकः १९
अश्मरीशर्कराकृच्छ्रमारुतार्त्तिहरो मतः
बृहद्वाते वीरतरस्तदभावे मतः शरः २०
पित्तेन दह्यते वस्तिः पच्यमान इवोष्मणा
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी २१
अथ पित्ताश्मरीचिकित्सा
कुशः काशः शरो गुन्द्र इत्कटो मोरटाश्मभित्
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः २२
भल्लुकः पाटला पाठा पत्तूरोऽथ कुरुण्टकः
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् २३
घृतं शिलाऽह्वमधुकैर्बीजैरिन्दीवरस्य च
त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च २४
क्षारान्यवागूः पेयाश्च कषायांश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने २५
मधुकः कृतह्रस्वत्वाद्वीजैर्बीजकमुच्यते
शिलाजतु शिलाऽह्व स्यात्पटीरो गुत्थगुन्द्र कौ २६
कुर्यात्क्षीरादिकं क्वाथे तस्मिन्क्षेपमावापकैः
वर्गत्वेन यथालाभं परिभाषा प्रवर्त्तते २७
वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता २८
एता भवन्ति बालानां तेषामेव तु भूयसा
आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः २९
अथ कफाश्मरीचिकित्सा
गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः
कुष्ठभद्रा ह्वमरिचचित्रकैः ससुराह्वयैः
एतैः सिद्धमजासर्पिरुषकादिगणेन च ३०
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव च
शट्यादिस्तेन चात्रेष्टो गणः श्यामाऽदिको बुधः ३१
वरुणार्त्तगलौ शिग्रुस्तर्कारीनक्तमालकौ
मोरटारणिबिल्वाश्च बिम्वीवसुकचित्रकाः ३२
शैरीयो वशिरोऽक्षीवश्चाजशृङ्गी शतावरी
दर्भो बृहतिका व्याघ्री मुनिभिः परिकीर्त्तितः
वरुणादिगणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरः शूलं गुल्माभ्यन्तरविद्र धीन् ३४
क्षारान्यवागूः पेयाश्च कषायाश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्कफनाशने ३५
शुक्राश्मरी तु महती जायते शुक्रधारणात् ३६
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
शोषयित्वोपसंहृत्य शुक्रं तच्छुक्रमश्मरी ३७
वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते
पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा ३८
सा भिन्नमूर्त्तिर्वातेन शर्करेत्यभिधीयते ३९
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् ४०
दौर्बल्यं सदनं कार्श्यं कुक्षिरोगमथारुचिम्
पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ४१
प्रसूननाभिवृषणं बद्धमूत्रं रुजाऽतुरम्
अश्मरी क्षपयत्याशु शर्करा सिकताऽन्विता ४२
शुक्राश्मर्यान्तु सामान्यो विधिरश्मरिनाशनः
यवक्षारगुडोन्मिश्रं रसं पुष्पफलोद्भवम् ४३
पिबेन्मूत्रविबन्धघ्नं शर्कराऽश्मरिनाशनम्
तिलापामार्गकदलीपलाशयवबिल्वजः ४४
क्वाथः पेयोऽविमूत्रेण शर्कराऽश्मरिनाशनः ४५
केबुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
पीतमुष्णाम्बु सगुडं शर्करां पातयत्यधः ४६
पाषाणभिद्गोक्षुरकोरुवूकौ द्बे कण्टकार्ये क्षुरकाह्वमूलम्
दध्ना पिबेत्क्षीरसुपिष्टमेतत् स्याद् भेदनार्थं सिकताऽश्मरीणाम् ४७
यः पिबेद्र जनीं सम्यक् सगुडां तुषवारिणा
तस्याशु चिररूढाऽपि यात्यस्तं मेढ्रशर्करा ४८
पिबतः कुटजं दध्ना पथ्यमन्नञ्च खादतः
निपतन्त्यचिरात्तस्य नियतं मेढ्रशर्कराः ४९
त्रापुसबीजं पयसा पीतं वा नारिकेरजं कुसुमम्
विण्मूत्रशर्करायां भवति सुखी कतिपयैर्दिवसैः ५०
श्वदंष्ट्रा वरुणः शुण्ठीक्वाथं क्षौद्र युतं पिबेत्
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रहरं परम् ५१
कूष्माण्डकरसो हिङ्गुयवक्षारसमायुतः
वस्तौ मेढ्रे सशूलघ्नो मूत्रकृच्छ्रहरः परम् ५२
पुनर्नवाऽयो रजनी श्वदंष्ट्रा वरी प्रवालश्च सदर्भपुष्पः
क्षीराम्रमद्येक्षुरसप्रपिष्टो हितो भवेदश्मरिशर्करासु ५३
वरुणत्वक्छिलाभेदशुण्ठीगोक्षुरकैः कृतः
कषायः क्षारसंयुक्तः शर्कराश्च भिनत्यपि ५४
पञ्चमूल्यास्तृणाख्यायास्तथा गोक्षुरकस्य तु
पृथग्दशपलान्भागाञ्जलद्रो णे विपाचयेत् ५५
तत्सिद्धं मूत्रदोषेषु शर्करास्वश्मरीषु च
चतुर्भागावशिष्टेन घृतप्रस्थं विपाचयेत्
गुडगोक्षुरबीजञ्च कल्कं तत्र प्रदापयेत् ५६
तत्सिद्धंमूत्रदोषेषु शर्करास्वश्मरीषु च
स्नेहने भोजने चैव प्रयोज्यं सर्पिरुत्तमम् ५७
त्वक्पत्रफलमूलस्य वरुणस्य त्रिकण्टकात्
कषायेण पचेत्तैलं वस्तिनाऽस्थापनेन च
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रात्प्रमुच्यते ५८
कुशाग्निमन्थशैरीयनल दर्भेक्षुगोक्षुराः
कपोतवङ्कावसुकवशि रेन्दीवरीशराः ५९
धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः
एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ६०
पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना
शर्कराश्मरिरोगेषु मूत्रकृच्छ्रं च दारुणे ६१
प्रदरे योनिशूले च शुक्रदोषे तथैव च
वन्ध्यागर्भप्रदं प्रोक्तं तैलमेतत्कुशादिकम् ६२
नागरवारुणगोक्षुर पाषाणभित्कपोतवङ्कजः क्वाथः
गुडयवशूकविमिश्रः पीतो हन्त्यश्मरीमुग्राम् ६३
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्
अविक्षीरेण सप्ताहं पेयमश्मरिनाशनम् ६४
पिबेद्वरुणजं मूलं क्वाथं तत्कल्कसंयुतम्
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिनाशनः ६५
शृङ्गवेरयवक्षार पथ्याकालीयकान्वितः
दधिमण्डो भिनत्त्युग्रामश्मरीमाशु पानतः ६६
पाषाणभेदवरुणगोक्षुरककपोतवङ्कजः क्वाथः
गिरिजतुगुडप्रगाढः कर्कटिकात्रपुसबीजयुतः ६७
पेयोऽश्मरीमवश्यं दुर्भेदामपि भिनत्ति योगवरः
शिखरिणमिव शतकोटिः शतमन्योर्हस्तनिर्मुक्तः ६८
श्रीकरिणीफलबीजं पिष्टं मथितेन यः पुमानद्यात्
शाकमशितमथवाऽस्या हन्याद् रोगाश्मरीपीडाम् ६९
श्वदंष्ट्रैरण्डबीजानि नागरं वरुणत्वचः
एतत्क्वाथवरं प्रातः पिबेदश्मरिनाशनम् ७०
रक्तोद्भवे रुक्षमृणालतालकाशेक्षुबालेक्षुकुशोदकानि
पिबेत्सिताक्षौद्र युतानि खादेद्विदारिमिक्षुत्रपुसानि चैव ७१
पलान्यष्टौ तु कुर्वीत क्षाराणां वरुणत्वचाम्
तदर्द्धं यावशूकन्तु ततोऽप्यर्द्धं गुडात्स्मृतम् ७२
एकीकृत्य विमृद्यैतत्खादेत्कर्षप्रमाणतः
घर्माग्बुपानतोऽवश्यं कृच्छ्राश्मरिविनाशनम् ७३
वरुणकभस्मपरिस्रुतसलिलं तच्चूर्णं यावशूकयुतम्
क्वथनीयं तत्तावद्यावच्चूर्णत्वमायाति ७४
तद्गुडयुक्तं हन्यात्तदुदारामश्मरीं घोराम्
प्लीहानं गुल्मवरं श्रोण्यां कुक्षौ रुजां तीव्राम् ७५
आमचयं बस्तिगदान्कृच्छ्रं वा वातजं घोरम्
वह्निसदनं सुकष्टामश्ममयीमश्मरीञ्चाशु ७६
नो जग्धं कृमिभिर्घनं सुतरुणं स्निग्धं शुचिस्थानजं
घस्रे पुण्यनिरीक्षिते वरुणकं छित्वा तुलां ग्राहयेत्
संगृह्माशु चतुर्गुणासु विपचेत्पादावशेषं जलं
तत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत्पुनः ७७
ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलं
शुण्ठ्येर्वारुकबीजगोक्षुरकणापाषाणभिच्छीतलाः
कूष्माण्डात्रपुसाक्षबीजकुनटीवास्तूकशोभाञ्जनैः
द्रा क्षैलागिरिजाभयाकृमिहृतां चूर्णीकृतानां क्षिपेत् ७८
पथ्याशी प्रतिवासरं गुडममुं युञ्ज्यात्प्रमाणं नरः
खादेत्तस्य समस्तदोषजनिताश्मर्यः पतन्ति द्रुतम् ७९
कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ८०
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं मूत्राभिघातञ्च समूत्रबन्धम्
आमूलमेतानि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ८१
शरादिपञ्चमूल्या वा कषायेण पचेद् घृतम्
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम्
अश्मरीमूत्रकृच्छघ्नं रेतोमार्गरुजाऽपहम् ८२
वरुणस्य तुलां क्षुण्णां जलद्रो णे विपाचयेत्
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ८३
वरुणं कदलद्यं बिल्वं तृणजं पञ्चमूलकम्
अमृतां चाश्मभेदञ्च बीजञ्च त्रपुसस्यच ८४
शतपर्वा तिलक्षारं पालाशक्षारमेव च
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ८५
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ८६
जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णञ्च मस्तु च
अश्मरीं शर्कराञ्चैव मूत्रकृच्छ्रञ्च नाशयेत् ८७
सैन्धवाद्यन्तु यत्तैलमृषिभिः परिकीर्त्तितम्
तत्तैलं द्विगुणं क्षीरं पचेद्वीरतरादिना ८८
क्वाथेन पूर्वकल्केन साधितन्तु भिषग्वरैः
एतत्तैलवरं श्रेष्ठमश्मरीणां निवारणम् ८९
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ९०
वीरावृक्षाश्म भेदाग्निमन्थश्योनाकपाटलाः
वृक्षादनीसहैरण्ड भल्लूकोशीरपद्मकम् ९१
कुशकाशशरेक्षूणामास्फोताकोकिलाक्षयोः
शतावरी श्वदंष्ट्रा च सेत्कटाह्वयवञ्जुलाः ९२
कपोतवङ्का श्रीपर्णी काश्मरीमूलसंयुता
एतैः कषायैः कल्कैश्च तैलं धीरो विपाचयेत् ९३
वातपित्तविकारेषु वस्तिं दद्याद्विचक्षणः
शर्कराऽश्मरिशूलघ्नं मृत्रकृच्छ्रविनाशनम् ९४
पुनर्नवाऽमृता भीरुसक्षारलवणत्रयैः
शटीकुष्ठवचा मुस्तरास्नाकट्फलपौष्करैः ९५
यवानीहपुषाहिङ्गु शताह्वासाजमोदकैः
विडङ्गातिविषायष्टी पञ्चकोलकसंयुतैः ९६
एतैरक्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
गोमूत्रं द्विगुणं देयं काञ्जिकं तद्वदेव तु ९७
पुनर्नवाऽद्यमित्येतत्तैलं पानेन वस्तिना
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रप्रमोचनम् ९८
कठ्यूरुवस्तिमेढ्रस्य कुक्षिवङ्क्षणसंयुतम्
कफवातामशूलघ्नमन्त्रवृद्धेश्च नाशनम् ९९
ब्रध्नाधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते
सर्वदैवोपयोज्यस्तु गणो वीरतरादिकः १००
घृतैः शीतैः कषायैश्च क्षीरैश्चोत्तरवस्तिभिः
बलवत्यो न शाम्यन्ति प्रत्याख्याय समुद्धरेत् १०१
यदृच्छया मूत्रमार्गमायान्त्यस्त्वन्तराश्रिताः
स्रोतसाऽपहरेच्छित्त्वा बडिशेनाथ चोद्धरेत् १०२
इति सप्तत्रिंशोऽश्मरीरोगाधिकारः समाप्तः ३७

प्रमेहपिडिकाऽधिकारः[सम्पाद्यताम्]

अथाष्टत्रिंशत्तमः प्रमेहपिडिकाऽधिकारः ३८
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् १
मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतं प्रदूष्य
करोति मेहान्समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि
क्षीणेषु दोषेष्ववकृष्य धातून्सन्दूष्य मेहान्कुरुतेऽनिलश्च २
साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते ३
कफश्च पित्तं पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः
मज्जारसौजः पिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ४
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यञ्च जायते ५
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता ६
दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ७
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्
मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छलम् ८
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः
सान्द्री भवेत्पर्युषितं सान्द्र मेहेन मेहति ९
सुरामेही सुरातुल्यमुपर्यच्छमधोघनम्
संहृष्टरोमा पिष्टेन पिष्टवद् बहुलं सितम् १०
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति
मूर्ताणून्सिकता मेही सिकतारूपिणो मलान् ११
शीतमेही सुबहुशो मधुरं भृशशीतलम्
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छलम् १२
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् १३
नीलमेहेन नीलाभं कालमेही मसीनिभम्
हारिद्र मेही कटुकंहरिद्रा सन्निभं दहत् १४
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम्
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहिनः १५
वसामेही वसामिश्रं वसाऽभ मूत्रयेन्मुहुः
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहः १६
कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः
हस्ती मत्त इवाजस्रं मूत्रवेगविवर्जितम्
सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति १७
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः
उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम् १८
वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
दाहस्तृष्णाऽम्लको मूर्च्छा विड्भेदः पित्तजन्मनाम् १९
वातजानामुदावर्त्तकम्पहृद्ग्रहलोलताः
शूलमुन्निद्र ता शोषःश्वासः कासश्चजायते २०
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
पिडिकापीडितं गाढं प्रमेहो हन्ति मानवम् २१
मूर्च्छाच्छर्दि ज्वरश्वासकासवीसर्पगौरवैः
उपद्र वैरुपेतो यः प्रमेही दुष्प्रतिक्रियः २२
रजः प्रवर्त्ततेयस्मान्मासि मासि विशोधयेत्
सर्वाञ्छरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः २३
जातः प्रमेहीमधुमेहिनो वा न साध्यरोगः स हि बीजदोषात्
ये चापि केचित्कुलजा विकारा
भवन्ति तांश्चापि वदन्त्यसाध्यान् २४
सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च २५
मधुमेहोमधुनिभो जायते स किल द्विधा
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा २६
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन्
क्षणात्क्षीणःक्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् २७
मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति
सर्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः २८
शराविका कच्छपिका जालिनी विनताऽलजी
मसूरिका सर्षपिका पुत्रिणी सविदारिका २९
विद्र धिश्चेति पिडिकाः प्रमेहोपेक्षया दश
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ३०
अन्तोन्नता च तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी ३१
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता ३२
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
महती पिडिका नीला सा बुधैर्विनता स्मृता ३३
महत्यल्पचिता ज्ञेया पिडिकाऽपि च पुत्रिणी
मसूरदलसंस्थाना विज्ञेया तु मसूरिका ३४
रक्ताऽसिता स्फोटचिता विज्ञेया त्वलजी बुधैः
विदारीकन्दवद् वृत्ता कठिना च विदारिका ३५
विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका तु सा ३६
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः ३७
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ३८
गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
सोपद्र वादुर्बलाग्नेः पिडिकाः परिवर्जयेत् ३९
तृट्शोषमांससंकोचमोहहिक्कामदज्वराः
विसर्पमर्मसंरोधाः पिडिकानामुपद्र वाः ४०
श्यामाककोद्र वोद्दाल गोधूमाश्चणकास्तथा
आढक्यश्च कुलत्थाश्चपुराणा मेहिनां हिताः ४१
मेहिनां तिक्तशाकानिजाङ्गला हरिणाण्डजाः
यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः ४२
सौवीरकं सुरा तक्रं तैलं क्षीरं घृतं गुडम्
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ४३
तत्रादित एव प्रमेहिणमुपस्निग्धमन्यतमेन प्रियङ्ग्वादिसिद्धेन तैलेन वामयेत् प्रगाढं विरेचयेच्च विरेचनादनन्तरं सुरसाऽदिक कषायेणास्थापयेतै महौषधभद्र दारुमुस्तावापेन मधुसैन्धवयुक्तेनै दह्यमानं वा न्यग्रोधादिकषायेण निस्तैलेन वातोत्कटेषु मेहेषु स्नेहपानं विशेषतः पारिजातजयानिम्बवह्निगायत्रीणां पृथक् ४४
पाठायाः सागुरोः पीताद्बयस्य शारदस्य च
जलेक्षुमद्यसिकताशनैर्ल वणपिष्टकान्
सान्द्र मेहान्क्रमाद् घ्नन्ति क्वाथाश्चाष्टौ समाक्षिकाः ४५
हरीतकीकट्फलमुस्तलोध्राः पाठाविडङ्गार्जुनधन्वनाश्च
उभे हरिद्रे तगरं विडङ्गं कन्दं विशालाऽजुनदीप्यकाश्च ४६
दार्वी विडङ्गः खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि
दार्व्यग्निमन्थो त्रिफलावचा च पाठा च मूर्वा च तथा श्वदंष्ट्रा ४७
वचा ह्युशीराण्यभया गुडूची वृषं शिवाचित्रकसप्तपर्णाः
पादैः कषायाः कफमेहविज्ञैर्दशोपदिष्टा मधुसम्प्रयुक्ताः ४८
उशीरलोध्रार्जुन चन्दनानामुशीरमुस्तामलकाभयानाम्
पटोलनिम्बामलकामृतानां मुस्ताभयामुष्ककवृक्षकाणाम् ४९
लोध्राम्रकासीसकधातकीनां विश्वार्जुनैलाशिरिषोत्पलानाम्
शिरीषधान्यार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम् ५०
अश्वत्थपाठाऽसनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्
पैत्तेषु मेहेषु दशोपदिष्टाः कषाययोगा मधुसम्प्रयुक्ताः ५१
कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम्
पित्तमेहघ्ननिर्यूहसिद्धं पित्तहरं घृतम् ५२
कम्पिल्लसप्तच्छदशालजानि बैभीतरोहीतककौटजानि
पटोलकालीयगदागुरूणि क्षौद्रे ण लिह्यात्कफपित्तमेही ५३
दूर्वाकसेरुपूतीक कुम्भीकप्लवशैवलम्
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ५४
त्रिफलाऽरग्वधद्रा क्षाकषायो मधुसंयुतः
पीतो निहन्ति फेनाभं प्रमेहं नियतं नृणाम् ५५
अश्वत्थाच्चतुरङ्गुल्यान्न्यग्रोधादेः फलत्रयात्
सरक्तसारमञ्जिष्ठाः क्वाथाः पञ्च समाक्षिकाः
नीलहारिद्र फेनाख्यक्षारमाञ्जिष्ठकाह्वयान् ५६
मधुना त्रिफलाचूर्णमथवाश्मजतूद्भवम्
लौहजं वाभयोत्थं वा लिहेन्मेहनिवृत्तये ५७
कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः
सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः ५८
फलत्रिकंदारुनिशां विशालां मुस्तां च निष्क्वाथ्य निशांश कल्कम्
पिबेत्कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुच्छ्रितेषु ५९
गोभक्षितान्यवान्मूत्रभावितान्केवलानपि
चित्रकोदश्विता खादेन्निम्बमुद्गरसेन वा ६०
भक्षयीताम्बुना मासं प्रमेही यवपिष्टकम्
मेदोघ्ना बद्धमूत्राश्च समाः सर्वेषु धातुषु
यवास्तस्माद्विशिष्यन्ते प्रमेहेषु विशेषतः ६१
त्रिकटु त्रिफला पाठा मूलं शोभाञ्जनस्य च
विडङ्गतण्डुला हिङ्गु तथा कटुकरोहिणी ६२
बृहती कण्टकारी च हरिद्रे द्वे यवानिका
केबुकं शालपर्णी च तथाऽतिविषचित्रकौ ६३
सौवर्चलं जीरकञ्च हपुषा धान्यमेव च
एषां कर्षप्रमाणञ्च श्लक्ष्णचूर्णञ्च कारयेत् ६४
यवशक्तु पलानाञ्च नवतिं द्वितयाधिकाम्
घृततैलमधूनाञ्च प्रत्येकञ्च पलानि षट् ६५
एभिः कर्षप्रमाणञ्च प्रत्यहं मोदकं सुधीः
भक्षयेन्नाशयेदुग्रान्प्रमेहानतिदारुणान् ६६
न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम्
आम्रं कपित्थं जम्बूञ्च प्रियालं ककुभं धवम् ६७
मधूकं मधुकं लोध्रं वरुणं पारिभद्र कम्
पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी ६८
करञ्जत्रिफलाशक्रभल्लातकफलानि च
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६९
न्यग्रोधाद्यमिदं चूर्णं मधुना सह योजयेत्
फलत्रयरसं चानु पिबेन्मूत्रं विशुद्ध्य्ति ७०
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च
प्रशमं यान्ति योगेन पिडिका न च जायते ७१
चूर्णानिलोहत्रिफलासितानां क्षौद्रे ण लिह्याच्च पृथक् समं वा
मेहान्समस्तानपि नाशयन्ति पीतः कदाचित्स्वरसो गुडूच्याः ७२
त्रिकटु त्रिफलातुल्यं गुग्गुलुञ्च समांशिकम्
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद् बुधः ७३
दोषकालबलापेक्षी भक्षयेच्चानुलोमिकीम्
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ७४
प्रमेहान्वातरोगांश्च वातशोणितमेव च
मूत्राघातं मूत्रदोषं प्रदरं चाशु नाशयेत् ७५
दाडिमस्य च बीजानि कृमिघ्नस्य च तण्डुलाः
रजनी चविकाऽजाजी नागरं त्रिफला कणा ७६
त्रिकण्टकस्य च फलं यवानी धान्यकं तथा
वृक्षाम्लचविकालोध्रसिन्धूद्भवसमाहितैः ७७
कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत्
भोज्ये पाने प्रदातव्यं सर्वर्त्तुषु च मात्रया ७८
प्रमेहान्विंशतिं चैव मूत्राघातं तथाऽश्मरीम्
कृच्छ्रं सुदारुणञ्चैव हन्यादेव न संशयः ७९
विबन्धानाहशूलघ्नं कामलाज्वरनाशनम्
दाडिमाद्यं घृतं चैतदश्विभ्यां परकीर्त्तितम् ८०
श्वदंष्ट्रा सकणा मुस्ता गुडूची फल्गुपल्लवाः
दर्भाङ्कुरास्तु गण्डीरो रोहिषस्य च पल्लवाः ८१
काला पुनर्नवा श्यामा शारिवा देवदारु च
पिप्पली शृङ्गवेरञ्च विडङ्गं मरिचानि च
पाठा कम्पिल्लकं भार्गी द्वे हरिद्रे निदिग्धिका
एरण्डमूलं दन्ती च चित्रकं कटुरोहिणी ८३
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
यावन्त्येतानि चूर्णानि तावत्स्याच्चाप्ययोरजः ८४
ततो विडालपदकं पिबेदुष्णेन वारिणा
अलाभे चापि मद्यानां प्रमेहान्हन्तिविंशतिम् ८५
श्वयथुञ्च तथाऽशासि पाण्डुरोगं हलीमकम्
उदाराण्यथ शूलानि प्लीहानं चापकर्षति ८६
एभिर्गोमूत्रपिष्टैस्तु गुटिकाः कारयेद्भिषक्
रोगेष्वेतेषु मुख्याः स्युर्बलमांसविवर्द्धनाः ८७
कण्टकार्या गुडूच्याश्च संहरेच्च शतं शतम्
संकुट्योदूखले विद्वांश्चतुद्रो र्णे!ऽम्भसः पचेत् ८८
तेन पादावशेषेण घृतप्रस्थं विपाचयेत्
त्रिकटुत्रिफलारास्नाविडङ्गान्यथ चित्रकम् ८९
काश्मर्याणाञ्च मूलानि पूतीकस्य त्वगेव च
कलिङ्ग इति सर्वाणि सूक्ष्मपिष्टानि कारयेत् ९०
अक्षमात्रां पिबेत्प्राज्ञः शालिभिः पयसा हि तैः
प्रमेहं मधुमेहञ्च मूत्रकृच्छ्रं भगन्दरम् ९१
आलस्यं चान्त्रवृद्धिञ्च कुष्ठरोगं विशेषतः
क्षयञ्चैव निहन्त्येतन्नाम्ना सिंहामृतं घृतम् ९२
दशमूलं करञ्जौ द्वौ देवदारु हरीतकी
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ९३
सुधानीपकदम्बाश्च बिल्वं भल्लातकानिच
शटी पुष्करमूलं च पिप्पलीमूलमेव च ९४
पृथग्दशपलान्भागानेतास्तोयेऽमणे पचेत्
यवकोलकुलत्थानां प्रस्थं प्रस्थं विपाचयेत् ९५
तेन पादावशेषेण घृतप्रस्थं पचेद्भिषक्
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ९६
शृङ्गबेरविडङ्गानि चव्यं कम्पिल्लकं तथा
गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम् ९७
एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम्
कुष्ठप्रमेहगुल्मांश्च श्वयथुं वातशोणितम् ९८
प्लीहोदराणि चार्शांसि विद्र धिं पिडिकाश्च याः
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ९९
पृथक्तोयेऽमणे ह्यत्र पचेद् द्र व्याच्छतं शतम्
शतत्रयाधिके तोये व्युत्सर्गः क्रमतो भवेत् १००
अर्जुनपटोलनिम्बैः सवचादीप्यकरसासमञ्जिष्ठैः
भल्लातकागुरुघनैः सगदानलचन्दनोशीरैः १०१
गोक्षुरकसोमवल्कैर्नवपटोलैर्हरिद्र या त्रिफलया
अश्मन्तकार्जुनाभ्यां दीप्यकयुक्तेन चैव लोध्रेण १०२
मञ्जिष्ठाऽतिविषाभ्यां कल्ककषायैः पचेत्तैलम्
कफवातोत्थे मेहे पित्तकृते साधयेत्सर्पिः १०३
सारवर्गकषायं चतुर्थांशावशिष्टमवतार्य परिस्राव्य पुनरपनीय साधयेत्
सिद्ध्य्ति चामलकलोध्रप्रियङ्गुदन्तीकृष्णायसताम्रचूर्णान्यावपेत्
तदेतद् दग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्
ततो यथायोगमुपयञ्जीत एष लेहः सर्वमेहानपहन्ति १०४
गोकण्टकं सदलमूलफलं गृहीत्वा सङकुट्टितं पलशतं क्वथितं तु तोये
पादस्थितेन सलिलेन पलानि दत्वा पञ्चाशतं तु विपचेदथ शर्करायाः १०५
तस्मिन्घनत्वमुपगच्छति चूर्णितानि दद्यात्पलद्वयमितानि सुभाजनानि
शुण्ठीकणामरिचनागदलत्वगेला जातीयकोषककुभत्रपुसीफलानि १०६
वांशीपलाष्टकमिह प्रणिधाय नित्यं लेह्यं तु शुद्धममृतं पलसम्मितन्तु
हन्त्याशु मूत्रपरिदाहविबन्धशुक्रकृच्छ्राश्मरीरुधिरमेहमधुप्रमेहान् १०७
असनश्च प्रियालञ्च शालं खादिरकं तथा
शालवर्गं तथा ग्राह्यं भवेच्चैतद्विचक्षणैः १०८
मधुमेहत्वमापन्नं भिषग्भिः परिवर्जितम्
योगेनानेन मतिमान्प्रमेहिणमुपाचरेत् १०९
मासि शुक्रे शुचौ वाऽपि शैलाः सूर्यांशुतापिताः
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ११०
शिलाजत्विति विख्यातं महाव्याधिनिवारणम्
त्रप्वादीनां तु लोहानां षण्णामन्यतमञ्च यत् १११
ज्ञेयं स्वगन्धतश्चापि षड्योनिप्रथितं क्षितौ
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ११२
तस्य लोहस्य तद्वीर्यं रसं वापि बिभर्त्ति तत्
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ११३
यथा तथा प्रयोगेपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ११४
कटुपाक्युष्णवीर्यञ्च शोषणं छेदनं तथा
तत्र यल्लघु कृष्णाभं स्निग्धं निःशर्करञ्च यत् ११५
गोमूत्रगन्धि नीलं वा तत्प्रधानञ्च वक्ष्यते
तद्भावितं सारगणैर्हृतदोषं दिनादितः ११६
पिबेत्सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्
जाङ्गलेन रसेनाद्यात्तस्मिञ्जीर्णे तु भोजनम् ११७
उपयुज्य तुलामेकाममृतस्यास्य जन्मतः
विजित्य मधुमेहाख्यमातङ्कं रोगकारकम् ११८
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः
शतं शतं तुलायां तु सहस्रं दशतौलिकम् ११९
भल्लातकविधानेन परिहारविधिः स्मृतः
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् १२०
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्
व्यपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् १२१
न सोऽस्ति रोगो यं वापि न निहन्याच्छिलाजतु
शर्करा चिरसम्भूतां भिनत्ति च तथाश्मरीम् १२२
भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः
एवं च माक्षिकं धातुं तापीजममृतोपमम् १२३
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्
व्यपोहति जराकुष्ठमेहपाण्ड्वामयक्षयान् १२४
तद्भावितान्कुलत्थांश्च कपोतांश्च विवर्जयेत् १२५
प्रमेहपिडिकानां प्राक्कार्यं रक्तावसेचनम्
पाटनञ्च विपक्वानां तासां पाने प्रशस्यते १२६
क्वाथो वनस्पतेर्बास्त्यं मूत्रं तीक्ष्णञ्च शोधनम्
एलादिकेन कल्केन तैलं च व्रणरोपणम् १२७
आरग्वधादिना क्वाथं कुर्यादुद्वर्त्तनानि च
शालसारादिना सेकान्भोज्यादींश्चणकादिना १२८
प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्
विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते १२९
इत्यष्टत्रिंशः प्रमेहपिडिकाऽधिकारः समाप्तः ३८

स्थौल्याधिकारः[सम्पाद्यताम्]

अथैकोनचत्वारिंशत्तमः स्थौल्याधिकारः ३९
अव्यायामदिवा स्वप्नश्लेष्मलाहारसेविनः
मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत् १
मेदसावृतमार्गत्वात्पुष्यन्त्यन्ये न धातवः
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु २
क्षुद्र श्वासतृषामोहस्वप्नक्रथनसादनैः
युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः ३
मेदस्तु सर्वभूतानामुदरे हि व्यवस्थितम्
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ४
मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
चरन्सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ५
तस्मात्स शीघ्रं जरयत्याहारञ्चाभिकाङ्क्षति
विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात् ६
एतावुपद्र वकरौ विशेषादग्निमारुतौ
एतौ हि दहतः स्थूलं वनं दावानिलौ यथा ७
मेदस्यतीव संवृद्धे सहसैवानिलादयः
विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम् ८
मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९
स्थूले स्युर्दुस्तराः कुष्ठा विसर्पाः सभगन्दराः
ज्वरातीसारमेहार्शःश्लीपदापचिकामलाः
मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवोऽणवः १०
पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्र वाः
लेखना वस्तयश्चैव सेव्या मेदस्विना सदा ११
धूम्रपानं तथा क्रोधो रक्तमोक्षणमेव च
जीर्णे च भोजनं कार्यं यवगोधूमयोःसदा १२
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः
सन्तर्पणकृतैर्दोषैःस्थौल्याद् युक्त्या विमुच्यते १३
श्रमचिन्ताव्यवायाध्व क्षौद्र जागरणप्रियः
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः १४
सचव्यजीरकव्योषहिङ्गु सौवर्चलानलाः
मस्तुना शक्तवः पीता मेदोघ्ना वह्निदीपनाः १५
फलत्रयं त्रिकटुकं सतैलं लवणान्वितम्
षण्मासादुपयोगेन कफमेदोऽनिलापहम् १६
विडङ्गं नागरं क्षारः काललोहरजो मधु
यवामलकचूर्णन्तु योगोऽतिस्थौल्यनाशनः १७
मूलं वा त्रिफलाचूर्णं मधुयुक्तं मधूदकम्
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्र संयुतः १८
अतिस्थौल्यहरः प्रोक्तो मण्डकः सेवितो ध्रुवम् १९
कर्कशदलवह्निसलिलं शतपुष्पाहिङ्गुसंयुक्तम्
पिबतो निहन्तिनियतं सर्वभवां मेदसांवृद्धिम् २०
क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः
मेदोवृद्धिविनाशाय भक्तं मण्डसमन्वितम् २१
गवेधुकानां पिष्टानां यवानाञ्चाथ सक्तवः
सक्षौद्र त्रिफलाक्वाथः पीतो मेदोहरो मतः २२
गुडूचीत्रिफलाक्वाथस्तथा लोहरजोऽन्वितः
अश्मजं महिषाक्षं वा तेनैव विधिना पचेत् २३
अतिमुक्तबीजमध्यं मधुलीढंहन्त्युदरवृद्धिम्
मधुना चित्रकमूलं तथैव हितभोजनो भुङ्क्ते २४
यद्वोरुवूकमूलं मधुदिग्धं स्थाप्यते निशां सकलाम्
तस्य सलिलस्य पानाज्जठरे वृद्धिः शमं याति २५
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम्
उष्णमन्नस्य मण्डं वा पिबन्कृशतनुर्भवेत् २६
बदरीपत्रकल्केन पेया काञ्जिकसाधिता
स्थौल्यनुत्स्यादग्निमन्थरसक्वाथः शिलाजतु २७
शैलेयकुष्ठागुरुदेवदारुकौन्तीसमुस्तान्यथ पञ्चपत्रैः
श्रीवासस्पृक्काखरपुष्पदेवपुष्पं तथा सर्वमिदं प्रपिष्य
धत्तूरपत्रस्य रसेन गाढमुद्वर्त्तनं स्थौल्यहरं प्रदिष्टम् २८
अमृतात्रुटिवेल्लवत्सकं कलिपथ्याऽमलकानि गुग्गुलुः
क्रमवृद्धमिदं मधुप्लुतं पिडिकास्थौल्यभगन्दराञ्जयेत् २९
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलं समम्
खादन्सर्वाञ्जयेद् व्याधीन्मेदःश्लेष्मामवातजान् ३०
त्र्! यूषणाग्निघनवेल्लवचाभिर्भक्षयन्समघृतं महिषाक्षम्
आशु हन्ति कफमारुतमेदोदोषजान्बलवतोऽपि विकारान् ३१
गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम्
त्रिवृताऽलम्बुषा शुण्ठी निर्गुण्डी चित्रकस्तथा ३२
एषां दशपलान्भागांस्तोये पञ्चाढके पचेत्
पादशेषं ततः कृत्वा कषायमवतारयेत् ३३
पलद्वादशकं देयं रुक्मलोहं सुचूर्णितम् ३४
पुराणसर्पिषः प्रस्थं शर्कराऽष्टपलान्वितम्
पचेत्ताम्रमये पात्रे सुशीते चावदारिते ३५
प्रस्थार्द्धं माक्षिकं देयं शिलाजतु पलद्वयम्
एलात्वचोः पलार्द्धञ्च विडङ्गानि पलत्रयम् ३६
मरिचं चाञ्जनं कृष्णा द्विपलं त्रिफलाऽन्वितम्
पलद्वयन्तु कासीसं सूक्ष्मचूर्णीकृतं बुधैः ३७
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत्
ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम् ३८
अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा
वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम् ३९
कामलां पाण्डुरोगञ्च श्वयथुं सभगन्दरम्
मूर्च्छामोहविषोन्मादगराणि विषमाणि च ४०
स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम्
कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम् ४१
बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम्
श्रीकरं पुत्रजननं वलीपलितनाशनम् ४२
नाश्नीयात्कदलीकन्दं काञ्जिकं करमर्दकम्
करीरं कारवेल्लञ्च ककारादि विवर्जयेत् ४३
शालसारादिनिर्यूहं चतुर्थांशावशेषितम्
परिस्रुतं ततः शीतं मधुना मधुरीकृतम् ४४
फाणितीभावमापन्नं गुडं शोधितमेव च
सूक्ष्मपिष्टानि चूर्णानि पिप्पल्यादेर्गणस्य च ४५
एकध्यमावपेत्कुम्भे संस्कृते घृतभाविते
पिप्पलीचूर्णमधुभिः प्रलिप्ते चान्तरे शुचौ ४६
सूक्ष्माणि तीक्ष्णलोहस्य तनुपत्राणि बुद्धिमान्
खदिराङ्गारतप्तानि बहुशः प्रक्षिपेद् बुधः ४७
सुपिधानं ततः कृत्वा यवपल्वे निधापयेत्
मासांस्त्रींश्चतुरो वाऽपि यावद्वा लोहसंक्षयात् ४८
ततो जातरसं जन्तुः प्रातः प्रातर्यथाबलम्
उपयुञ्ज्याद्यथायोग्यमाहारं चास्य कल्पयेत् ४९
एष स्थूलं समाकर्षेन्नष्टस्याग्नेः प्रबोधनः
शोथघ्नः कुष्ठमेहघ्नो गुल्मपाण्ड्वामयापहः ५०
प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
अभिष्यन्दापहरणे लोहारिष्टो महागुणः ५१
व्योषचित्रकशिग्रूणि त्रिफलां कटुरोहिणीम्
बृहत्यौ द्वे हरिद्रे च पाठामतिविषां स्थिराम्
हिङ्गुकेवुकमूलानि यवानीं धान्यचित्रकम्
सौवर्च्चलमजाजीञ्च हपुषां चेति चूर्णयेत् ५३
चूर्णतैलघृतक्षौद्र भागाः स्युर्मानतः समाः
शक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत् ५४
प्रयोगात्त्वस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ५५
प्लीहा पाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः
हृद्रो गो राजयक्ष्मा च कासश्वासौ गलग्रहः ५६
कृमयो ग्रहणीदोषः श्वैत्र्! यं स्थौल्यमतीव च
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्द्धते ५७
त्रिफलातिविषामूर्वात्रि वृच्चित्रकवासकैः
निम्बारग्वधषड्ग्रन्था सप्तपर्णनिशाद्वयैः ५८
गुडूचीन्द्रा सुरीकृष्णा कुष्ठसर्षपनागरैः
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ५९
पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम्
स्थूलतालस्यपाण्ड्वादीञ्जयेत्कफकृतान्गदान् ६०
चन्दनं कुङ्कमोशीरप्रियङ्गुत्रुटिरोचनाः
तुरुष्कागुरुकस्तूरीकर्पूरा जातिपत्रिका ६१
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च
नलिका नलदं कुष्ठं हरेणु तगरं प्लवम् ६२
नवव्याघ्रनखं स्पृक्का बोलं दमनकं तथा
स्थौणेयकं चोरकञ्च शैलेयं सैलवालुकम् ६३
सरलं सप्तपर्णञ्च लाक्षा तामलकी तथा
लामज्जकं पद्मकञ्च धातक्याः कुसुमानि च ६४
प्रपौण्डरीकं कर्चूरं समांशैः शाणमात्रकैः
महासुगन्धमित्येतत्तैलप्रस्थेन साधयेत् ६५
प्रस्वेदजलदौर्गन्ध्यकण्डूकुष्ठहरं परम्
अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोपि वा ६६
युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः
सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ६७
वन्ध्यापि लभते गर्भं षण्ढोपि पुरुषायते
अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम् ६८
इति महासुगन्धि तैलम्
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः
बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः ६९
अलम्बुषाभवं चूर्णं पीतं काञ्जिकसंयुतम्
दौर्गन्ध्यं नाशयत्याशु दुष्टं मेदोभवं नृणाम् ७०
बिल्वशिवा समभागा लेपाद् भुजमूलगन्धमपहरति
परिणतपिडिकाञ्चापि पूतिकरञ्जोत्थबीजं वा ७१
चिञ्चापत्रस्वरसं म्रक्षितकल्कादियोजितं जयति
दग्धहरिद्रो द्वर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम् ७२
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः
पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः ७३
हिलमोचिरसो युक्तश्चूर्णैरुदधिफेनजैः
प्रलेपेन हरत्याशु देहदौर्गन्ध्यमुत्कटम् ७४
हरीतकीं तु सम्पिष्य गात्रमुद्वर्त्तयेन्नरः
पश्चात्स्नानं प्रकुर्वीत देहस्वेदप्रशान्तये ७५
हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलञ्च
एषोऽङ्गरागः कथितोऽङ्गनानां जम्ब्वाः कषायस्तु नराधिपानाम् ७६
गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम्
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्र जनीद्वयेन ७७
बब्बूलस्य दलैः सम्यग्वारिणा परिपेषितैः
गात्रमुद्वर्त्तयेत्पश्चाद्धरीतक्या सुपिष्टया ७८
भूय उद्वर्त्तनं कृत्वा पश्चात्स्नानं समाचरेत्
प्रस्वेदान्मुच्यते शीघ्रं ततस्त्वेवं समाचरेत् ७९
बिल्वाम्रजम्बूफलपूरकाणां पत्रैः कपित्थस्य दलानुमिश्रैः
आपूर्ववत्कर्मविधानयोगैर्वचा विशोध्या वरगन्धहेतोः ८०
पथ्यानखीचन्दनकुष्ठसर्जैः पुनः पुनश्चागुरुशर्कराभ्याम्
धूपो जनानां हृदयापहारी विख्यातनामा मलयानिलोऽयम् ८१
चण्डांशुकतिलैर्लोध्र शिरीषोशीरकेशरैः
उद्वर्त्तनं भवेद् ग्रीष्मे स्वेदकर्मनिवारणम् ८२
सुरया सममभयाफलचूर्णं मधुना विलिह्य प्रत्यूषे
स्वेदान्हत्वा लभते पुरुषोप्यत्यन्तसौरभ्यम् ८३
मल्लीकुसुमाभयकरिलेपो घर्मे विचर्चिकादाहे
विचकिलपत्रहरिद्रे पर्कटिपत्रञ्च दूर्वया सहितम् ८४
सम्पिष्य गात्रलेपाद्घर्मविचर्ची शमं याति ८५
हस्तपादस्रुतौ योज्यो गुग्गुलः पञ्चतिक्तकः
अशक्तौ पञ्चतिक्ताख्यं घृतं खादेदतन्द्रि तः ८६
इत्येकोनचत्वारिंशत्तमः स्थौल्याधिकारो वा मेदोरोगाधिकारः समाप्तः ३९

कार्श्याधिकारः[सम्पाद्यताम्]

अथ चत्वारिंशत्तमः कार्श्याधिकारः ४०
वातो रुक्षान्नपानानि लङ्घनं प्रमिताशनम्
क्रियाऽतियोगः शोकश्च वेगनिद्रा विनिग्रहः १
नित्यं रोगो रतिर्नित्यं व्यायामो भोजनाल्पता
भीतिर्धनादिचिन्ता च कार्श्यकारणमीरितम् २
शुष्कस्फिगुदरग्रीवा धमनीजालसन्ततिः
त्वगस्थिशोषोऽतिकृशः स्थूलपर्वाननो मतः ३
प्लीहकासक्षयश्वासगुल्मार्शांस्युदराणि च
भृशं कृशं प्रधावन्ति रोगाश्च ग्रहणीमुखाः
कश्चिदन्यः कृशोऽतीव बलवान्दृश्यते तदा ४
आधानसमये यस्य शुक्रभागोऽधिको भवेत्
मेदोभागस्तु हीनः स्यात्स कृशोऽपि महाबलः ५
मेदसस्त्वधिको यस्य शुक्रभागोऽल्पको भवेत्
स स्निग्धोऽपि सुपुष्टोऽपि बलहीनो विलोक्यते ६
रुक्षान्नादिनिमित्ते तु कृशे युञ्जीत भेषजम्
बृंहणं बलकृद् वृष्यं तथा वाजीकरञ्च यत् ७
पीताऽश्वगन्धा पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाऽम्बुवृष्टिः ८
अश्वगन्धस्य कल्केन क्वाथे तस्मिन्पयस्यपि
सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम् ९
पुष्टिकृद्वालरोगोक्तमश्वगन्धाघृतं भजेत्
वाजीकरोदितं तद्वदश्वगन्धाघृतादिकम् १०
स्वभावादतिकार्श्योयः स्वभावादल्पपावकः
स्वभावादबलो यश्च तस्य नास्ति चिकित्सितम् ११
इति चत्वारिंशत्तमः कार्श्याधिकारः समाप्तः ४०

उदराधिकारः[सम्पाद्यताम्]

अथैकचत्वारिंशत्तम उदराधिकारः ४१
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
अजीर्णान्मलिनैश्चान्नैश्चीयन्ते मलसञ्चयात् १
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः
प्राणानपानान्संदूष्य जनयन्त्युदरं नृणाम् २
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि ३
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ४
तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु
कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम् ५
शुष्ककासोऽङ्गमर्दश्च गुरुतामलसंग्रहः
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत् ६
सतोदभेदमुदरं तनुकृष्णशिराततम्
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च ७
वायुश्चात्र सरुक्छब्दो विचरेत्सर्वतो गतिः ८
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ९
पीतताम्रशिरानद्धं सस्वेदं सोष्म दह्यते
धूमायते मृदुस्पर्शः क्षिप्रपाकं प्रदूयते १०
श्लेष्मोदरेऽङ्गसदनं श्वयथुर्गौरवं तथा
तन्द्रो त्क्लेशोऽरुचिः स्वापः कासः शौक्ल्यं त्वगादिषु ११
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् १२
स्त्रियोऽन्नपानं नखलोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाच्च १३
तस्याशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च १४
स चातुरो मूर्च्छति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च
दूष्योदरं कीर्त्तितमेतदेव प्लीहोदरं कीर्त्तयता निबोध १५
वर्द्धते प्लीहवृद्ध्या यद्विद्यात्प्लीहोदरं हि तत्
हृद्वामे वर्द्धते पार्श्वे निमित्तं तत्र यस्य यत् १६
प्रवृद्धे प्लीह्नि लिङ्गानि यान्युक्तानि भिषग्वरैः
प्लीहोदरेपि दृश्यन्ते तानि सर्वाणि देहिनाम्
प्लीहोदरस्यैव मेदो यकृद्दाल्युदरं तथा १७
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव १८
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
सञ्चीयते यस्य मलो नरस्य शनैः शनैः सङ्करवच्च नाड्याम् १९
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादतिचाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति २०
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः २१
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
एतत्परिस्राव्युदरं प्रदिष्टं क्षतोदरं कीर्त्तयतो निबोध २२
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ वा निरूढः
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि २३
स्नेहोपलिप्तेष्वथ वाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
स्निग्धं महत्तत्परिवृत्तनाभि समन्ततः पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते वाऽप्युदकोदरं तत् २४
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् २५
पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् २६
पयः पूर्णा दृतिरिव क्षोभे शब्दकरं मृदु
अप्रव्यक्तशिराशून्यं नीरार्त्तमुदरं महत् २७
आलस्यमास्यवैरस्यं मूत्रं बहुशकृद् द्रुतम्
जातोदकस्य लिङ्गंस्यान्मन्दाग्निः पाण्डुताऽपि च २८
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
बलशोणितमांसाग्निपरिक्षीणञ्च वर्जयेत् २९
पार्श्वभङ्गान्नविद्वेष शोफातीसारपीडितम्
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ३०
एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ३१
कुष्ठं दन्ती यवक्षारो व्योषं त्रिलवणं वचा ३२
अजाजी दीप्यकं हिङ्गु स्वर्जिकाचव्यचित्रकम्
शुण्ठी चोष्णाम्भसा पीता वातोदररुजाऽपहा ३३
लशुनस्य तुलामेकां जलद्रो णे विपाचयेत्
त्रिकुटु त्रिफला दन्ती हिङ्गुसैन्धवचित्रकम् ३४
देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा
सौवर्चलं विडङ्गानि दीप्यको गजपिप्पली ३५
एतेषां पलिकान्भागांस्त्रिवृतः षट् पलानि च
पिष्ट्वा कषायेणानेन तैलं मृद्वग्निना पचेत् ३६
तत्पिबेत्प्रातरुत्थाय यथाऽग्निबलमात्रया
निहन्ति सकलान् रोगानुदराणि विशेषतः ३७
मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन्
पार्श्वकुक्षिभवं शूलमामशूलमरोचकम् ३८
यकृदष्ठीलिकानाहान्प्लीहानं चाङ्गवेदनाम्
मासमात्रेण नश्यन्ति ह्यशीतिर्वातजा गदाः ३९
पित्तोदरे तु बलिनं पूर्वमेहं विरेचयेत्
पयसा च त्रिवृत्कल्कै रुबूकस्य शृतेन च ४०
पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक्
नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये ४१
नागरत्रिफलाकल्कै र्दध्यम्बुपरिपेषितैः
पाचितं तैलमाज्यं वा पिबेत्सर्वोदरेषु च ४२
शालिषष्टिक गोधूमयवनीवारभोजनम्
निरूहो रेचनं श्रेष्ठं सर्वेषु जठरेषु च ४३
आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः
व्यायामाध्वदिवास्वप्नस्नेहपानानि वर्जयेत् ४४
तथोग्रलवणोष्णानि विदाहीनि गुरूणि च
नाद्यादन्नानि जठरे तोयपानञ्च वर्जयेत् ४५
उदराणां मलाढ्यत्वाद् बहुशः शोधनं हितम्
क्षीरमेरण्डजं तैलं पिबेन्मूत्रेण वाऽसकृत् ४६
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ४७
यवानीहपुषाऽजाजीव्योषयुक्तं कफोदरी
सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः ४८
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका
कारवी पिप्पलीमूलमजगन्धा शटी वचा ४९
शताह्वा जीरकं व्योषं स्वर्णक्षीरी च चित्रकम्
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ५०
विडङ्गश्च समांशानि दन्त्या भागत्रयं भवेत्
त्रिवृद्विशाला द्विगुणा शातला स्याच्चतुर्गुणा ५१
एष नारायणो नाम्ना चूर्णो रोगगणापहः
एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ५२
तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना
आनद्धवाते सुरया वातरोगे प्रसन्नया ५३
दधिमण्डेन विड्भेदे दाडिमाम्बुभिरर्शसि
परिकर्त्तिषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ५४
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे
हृद्रो गे ग्रहणीरोगे कुब्जे मन्देऽनले ज्वरे ५५
दंष्ट्राविषे मूलविषे सगरे कृत्त्रिमे विषे
यथाऽह स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ५६
स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकर्षम्
घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षमथार्द्धकर्षम् ५७
पीत्वोष्णमम्भोऽनुपिबेद्विरेके पेयां रसं वा प्रपिबेद्विधिज्ञः
नाराचमेतज्जठरामयानां युक्त्योपयुक्तं प्रवदन्ति सन्तः ५८
वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम्
निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये ५९
पुनर्नवा दारुनिशा सतिक्ता पटोलपथ्यापिचुमन्दमुस्ताः
सनागराच्छिन्नरुहेति सर्वैः कृतः कषायो विधिना विधिज्ञैः ६०
गोमूत्रयुग्गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम्
सर्वाङ्गशोथोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ६१
इत्येकचत्त्वारिंशत्तम उदरोगाधिकारः समाप्तः ४१

शोथाधिकारः[सम्पाद्यताम्]

अथ द्विचत्वारिंशत्तमः शोथाधिकारः ४२
शुद्ध्य्मायाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
दध्याममृच्छाकविरोधिपिष्टगरोषसृष्टान्ननिषेवणाच्च १
अर्शांस्यचेष्टा वपुषो ह्यशुद्धिर्मर्माभिघाती विषमा प्रसूतिः
मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः २
रक्तपित्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ३
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ शिरातनुत्वम्
सलोमहर्षञ्च विवर्णतां च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ४
चरस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्त्तियुतोऽनिमित्ततः
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली स्याच्छ्वयथुः समीरणात् ५
मृदुः सगन्धाऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
यस्तूष्यते स्पर्शरुगक्षिरागवान्स पित्तशोथो भृशदाहपाकवान् ६
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
सकृच्छ्रजन्मप्रशमो निपीडितो नचोन्नमेद्रा त्रिबली कफात्मकः ७
निदानाकृतिसंसर्गाज्ज्ञेयः शोथो द्विदोषजः ८
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ९
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः १०
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ११
विषजः सविषप्राणिपरिसर्पणमूत्रणात्
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि १२
विण्मूत्रशुक्रोपहतमलवद्वस्तुसङ्करात्
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः १३
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशये स्थिताः
पित्ताशयस्था मध्ये तु वर्चः स्थानगतास्त्वधः
कृत्स्नं देहमनुप्राप्य कुर्युः सर्वसरन्तथा १४
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च
सप्तकोऽय सदौर्बल्यः शोथस्यैते उपद्र वाः १५
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् १६
यो मध्यदेशे श्वयथुः कष्टः सर्वाङ्गगश्च यः
अर्द्धाङ्गेऽरिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति १७
अनन्योपद्र वकृतः शोथः पादसमुत्थितः
पुरुषं हन्ति नारीन्तु मुखजो बस्तिजो द्वयम् १८
शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम्
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे १९
पटोलत्रिफलाऽरिष्टदार्वीक्वाथः सगुग्गुलुः
तद्वत्पित्तकृतं शोथं हन्ति श्लेष्मोद्भवं तथा २०
मिश्रे मिश्रक्रमं कुर्यात्सर्वजे सर्वमेव हि
बिल्वपत्ररसं पूतं सोषणं त्रिभवे पिबेत् २१
शोथे त्वागन्तुजे कुर्यात्सेकलेपादि शीतलम्
भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका २२
महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः
तिलैर्लिप्तः शमं याति शोथो भल्लातकोत्थितः २३
यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति चूर्णैः शालदलस्य च २४
महिष्या नवनीतं वा लेपाद् दुग्धतिलान्वितम् २५
पथ्यानिशाभार्ग्यमृताऽग्निदार्वीपुनर्नवादारुमहौषधानाम्
क्वाथः प्रसह्योदरपाणिपादमुखाश्रितं हन्त्यचिरेण शोथम् २६
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधितम्
वातश्लेष्मोद्भवं शोथं हन्याद् वृषणसम्भवम् २७
बृश्चीरदेवद्रुमनागरैर्वा दन्तीत्रिवृत्त्र् यूषणचित्रकैर्वा
दुग्धं सुसिद्धं विधिना निपीतं गीतं परं शोथहरं भिषग्भिः २८
सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथहृत्
गोमूत्रेणापि कुर्वीत सुखोष्णेनावसेचनम् २९
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहृत् ३०
गुडार्द्र कं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलद्यं वा
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ३१
शोथप्रतिश्यायगलास्यरोगान्सश्वासकासारुचिपीनसादीन्
जीर्णज्वरार्शोग्रहणीविकारान्हन्यात्तथान्यान्कफवातरोगान् ३२
विश्वं गुडेन तुल्यं बृश्चीररसानुपानमभ्यस्तम्
विनिहन्ति सर्वशोथं घनवृन्दं चण्डवायुरिव ३३
कणानागरजं चूर्णं सगुडं शोथनाशनम्
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ३४
गुडात्पलत्रयं ग्राह्यं शृङ्गबेरपलत्रयम्
शृङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम्
चूर्णमेतत्समुद्दिष्टं सर्वश्वयथुनाशनम् ३५
माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ३६
शुष्कमूलकवर्षा भूदारुरास्नामहौषधैः
पक्वमभ्यञ्जनं तैलं सशूलं श्वयथुं हरेत् ३७
इति द्विचत्वारिंशत्तमः शोथाधिकारः समाप्तः ४२

वृद्धिब्रध्नाधिकारः[सम्पाद्यताम्]

अथ त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः ४३
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः १
वृद्धिं करोति कोषस्यफलकोषाभिवाहिनीः
रुद्ध्वा रुद्धगतिर्वायुर्धमनीर्मुष्कगामिनीः २
वातपूर्णदृतिस्पर्शो रुक्षो वातादहेतुरुक् ३
पक्वोदुम्बरसङ्काशःपित्ताद् दाहोष्मपाकवान् ४
कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ५
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ६
कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः ७
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ् मृदुः
मूत्रकृच्छ्रमधः कुर्यात्सञ्चलं फलकोषयोः ८
वातकोपिभिराहारैः शीततोयावगाहनैः
धारणेरणभाराध्व विषमाङ्गप्रवर्त्तनैः
क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ९
उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
प्रपीडितोऽन्त स्वनवान्प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः १०
यस्यान्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात्
अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः ११
अत्यभिष्यन्दिगुर्वन्न शुष्कपूत्यामिषाशनात्
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत् १२
वृद्धावत्यशनं मार्गमुपवासं गुरूणि च
वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत् १३
वातवृद्धौ पिबेत् स्निग्धं यथाप्राप्तं विरेचनम्
सक्षीरञ्च पिबेत्तैलं मासमेरण्डसम्भवम् १४
गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः
वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीम् १५
पित्तग्रन्थिक्रमेणैव पित्तवृद्धिमुपाचरेत्
जलौकाभिर्हरेद्र क्तं वृद्धौ पित्तसमुद्भवे १६
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्
क्षीरपिष्टं प्रलेपेन दाहशोथरुजाऽपहम् १७
त्रिकटुत्रिफलाक्वाथं सक्षारलवणं पिबेत्
विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनम् १८
लेपनाः कटुतीक्ष्णोष्णाः स्वेदनं रूक्षमेव च
परिषेकोपनाहौ च सर्वमुष्णमिहेष्यते १९
मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत्
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम् २०
शीतमालेपनं शस्तं सर्वपित्तहरं तथा
पित्तवृद्धिक्रमं कुर्यादामे पक्वे च रक्तजे २१
स्विन्नं मेदः समुत्थन्तु लेपयेत्सुरसाऽदिना
शिरोविरेचनद्र व्यैः सुखोष्णैर्मूत्रसंयुतैः २२
संस्वेद्य मूत्रप्रभवं वस्त्रपटटेन वेष्टयेत्
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद् ब्रीहिमुखेन वै २३
मुष्ककोषमगच्छन्त्या मन्त्रवृद्धौ विचक्षणः
वातवृद्धिक्रमं कुर्यात्स्वेदं तत्राग्निना हितम् २४
तैलमेरण्डजं पीत्वा बलासिद्धं यथोचितम्
आध्मानशूलोपचितामन्त्रवृद्धिं जयन्नेरः २५
रास्नायष्ट्यमृतैरण्डबलाऽरग्वधगोक्षुरैः
पटोलेन वृषेणापि विधिना विहितं शृतम्
रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति २६
गन्धर्वहस्त तैलेन क्षीरेण विहितं शृतम्
विशालामूलजं चूर्णं वृद्धिं हन्ति न संशयः २७
वचासर्षपकल्केन प्रलेपः शोथनाशनः
शिग्रुत्वक्सर्षपैर्लेपः शोथश्लेष्मानिलापहः २८
शुद्धसूतं तथा गन्धं मृतान्येतानियोजयेत्
लोहं वङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितम् २९
तालकं तुत्थकञ्चापि तथा शङ्खवराटकम्
त्रिकटु त्रिफलां चव्यं विडङ्गं वृद्धदारकम् ३०
कर्चूरं मागधीमूलं पाठां सहवुषां वचाम्
एलाबीजं देवकाष्ठं तथा लवणपञ्चकम् ३१
एतानि समभागानि चूर्णयेदथ कारयेत्
कषायेण हरीतक्या वटिकां टङ्कसम्मिताम् ३२
एकां तां वटिकां यस्तु निगिलेद्वारिणा सह
अण्डवृद्धिरसाध्याऽपि तथ्यं नश्यति सत्वरम् ३३
भृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवः
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ३४
अजाजी हवुषा कुष्ठं गोमेदं बदरान्वितम्
काञ्जिकेन तु सम्पिष्टं तल्लेपो ब्रध्नजित्परः ३५
इति त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः समाप्तः ४३

गलगण्डगण्डमाला ग्रन्थ्यर्बुदाधिकारः[सम्पाद्यताम्]

अथ चतुश्चत्वारिंशत्तमो गलगण्डगण्डमाला ग्रन्थ्यर्बुदाधिकारः ४४
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान्वा यदिवा ह्रस्वो गलगण्डं तमादिशेत् १
वातः कफश्चापि गले प्रदुष्टौ मन्ये तु संश्रित्य तथैव मेदः
कुर्वन्ति गण्डं क्रमतः स्वलिङ्गैः समाचितं तं गलगण्डमाहुः २
तोदान्वितः कृष्णशिराऽवनद्धः श्यावारुणो वा पवनात्मकस्तु
पारुष्ययुक्तश्चिरवृद्ध्य्पाको यदृच्छया पाकमियात्कदाचित्
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ३
स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
चिराच्च वृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् ४
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ५
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतोऽरुजश्च
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽणुशब्दं कुरुते च नित्यम् ६
कृच्छ्राच्छ्वसन्तं मृदु सर्वगात्रं संवत्सरातीतमरोचकार्त्तम्
क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ७
कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु
मेदः कफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डः ८
ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् ९
साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता त्वसाध्या १०
वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च
वृत्तोन्नतं विग्रथितन्तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ११
आयम्यते वृश्च्यति तुद्यते च प्रभ्रश्यते मथ्यति भिद्यते च
कृष्णो मृदुर्वस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् १२
दन्दह्मते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नःस्रवेद् दुष्टमतीव चास्रम् १३
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् १४
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
मेदः कृतो गच्छति चात्र भिन्नो पिण्याकसर्पिःप्रतिमन्तु मेदः १५
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुश्च शिराप्रतानम्
सङ्कोच्य सम्पीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् १६
ग्रन्थिः शिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च
अरुक्स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः १७
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमसृक्प्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम्
कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति १८
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति १९
दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कोच्य सम्पीड्य ततस्त्वपाकम्
सास्रावमुन्नह्यति मांसपिण्डं मासाङ्कुरैरावृतमाशु वृद्धिम् २०
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं तु
रक्तक्षयोपद्र वपीडितत्वात्पाण्डुर्भवेदर्बुदपीडितस्तु २१
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं समुपैति शोथम्
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् २२
प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य २३
यज्जायतेऽन्यात्खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद् द्वन्द्वजातं युगपत्क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २४
मांसार्बुदं त्वेतदसाध्यमाहुः साध्येष्वपीमानि विवर्जयेच्च
सम्प्रस्रुतं मर्मसु यच्च जातं स्रोतःसु वा यत्तु भवेदचाल्यम् २५
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु २६
सर्षपाञ्छिग्रुबीजानि शणबीजातसीयवान्
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् २७
गलगण्डगण्डमालाग्रन्थयश्चैव दारुणाः
प्रलेपादेव नश्यन्ति विलयं यान्ति सत्वरम् २८
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना
लेपनं गलगण्डस्य चिरोत्थस्यापि शस्यते २९
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः
सर्पिषा नियताहारो गलगण्डप्रशान्तये ३०
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम्
सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यान्नसेविनाम् ३१
तैलं पिबेद्वाऽमृतवल्लिनिम्बहिंस्राऽभयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां सह देवदारुणा हिताय नित्यं गलगण्डरोगी ३२
यवमुद्गपटोलादिकटु रूक्षान्नभोजनम्
वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ३३
दापयेत्प्रच्छनान्यत्र गण्डगोपालिकोद्भवः
प्रलेपस्त्वनुभूतोऽय बहुधा बहुभिर्जनैः ३४
लवणं जलकुम्भीञ्च कणाचूर्णेन संयुतम्
प्रभाते नित्यमश्नीयाद्गलगण्डप्रशान्तये ३५
काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ३६
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ३७
पलमर्द्धपलञ्चापि पिष्टां तण्डुलवारिणा
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ३८
काञ्चनारस्य गृह्णीयात्त्वचं पञ्चपलोन्मिताम्
नागरस्य कणायाश्च मरिचस्य पलं पलम् ३९
पथ्याबिभीतधात्रीणां पलमर्द्धं पृथक्पृथक्
वरुणस्याक्षमेकं च पत्रकैलात्वचां पुनः ४०
टङ्कं टङ्कं समादाय सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदं सर्वं तावानेवात्र गुग्गुलुः ४१
संकुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत्
गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ४२
गलगण्डं जयत्युग्रमपचीमर्बुदानि च
ग्रन्थीन्व्रणानि गुल्मांश्च कुष्ठानि च भगन्दरम् ४३
प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः
क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ४४
चक्रमर्दकमूलस्य पलकल्के विपाचयेत्
केशरागरसे तैलं कटुकं मृदुनाऽग्निना ४५
पादांशिकं विनिक्षिप्य सिन्दूरमवतारयेत्
एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ४६
गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा
हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ४७
चन्दनं साभया लाक्षा वचा कटुकरोहिणी
एतैस्तैलं शृतं पीत्वा समूलामपचीं हरेत् ४८
व्योषं बिडङ्गं मधुकं सैन्धवं देवदारु च
तैलमेभिः शृतं नस्यात्सकृच्छ्रामपचीं हरेत् ४९
स्वर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः
एतेन विहितो लेपो हन्ति ग्रन्थिं तथाऽबुदम् ५०
ग्रन्थिर्न यो नश्यति भेषजेन निष्काश्य तं शस्त्रचिकित्सकेन
जात्यादिपक्वेन घृतेन वैद्यो व्रणेन चान्येन च सञ्चिकित्सेत् ५१
ग्रन्थिमुद्धृत्य तत्रापि व्रणोक्तं क्रममाचरेत्
शिराग्रन्थिं विहायान्ये शेषे शस्त्रं प्रयुज्यते ५२
ग्रन्थ्यर्बुदानां न यतो विशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः
अतश्चिकित्सेद्भिषगर्बुदानि विधानविद् ग्रन्थिचिकित्सितेन ५३
हरिद्रा लोध्रपत्राङ्गगृह धूममनःशिलाः
मधुप्रगाढो लेपोऽय मेदोऽबुदहरः परः ५४
मूलकस्य कृतः क्षारो हरिद्रा यास्तथैव च
शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽबुदापहः ५५
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण
अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्बुदं गच्छेत् ५६
शिग्रुमूलकयोर्बीजं रक्षोघ्नं सुरसा यवम्
तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्बुदशान्तये ५७
इति चतुश्चत्वारिंशत्तमो गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः समाप्तः ४४

श्लीपदाधिकारः[सम्पाद्यताम्]

अथ पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः ४५
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः १
यः सज्वरो बङ्क्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण
तच्छ्लीपदं स्यात्करकर्णनेत्रशिश्नौष्टनासास्वपि केचिदाहुः २
वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम्
अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ३
पित्तजं पीतसंकाशं दाहज्वरयुतं भृशम्
श्लैष्मिकन्तुभवेत्स्निग्धं श्वेतं पाण्डु गुरु स्थिरम् ४
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वञ्च महत्वञ्च यस्मान्नास्ति विना कफात् ५
वल्मीकमिव सञ्जातं कण्टकैरुपचीयते
अब्दात्मकं महत्तत्तु वर्जनीयं विशेषतः ६
यच्छ्लैष्मिकाहारविहारजातैर्जातं तथा भूरिकफस्य पुंसः
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुकं चापि विवर्जनीयम् ७
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ८
सिद्धार्थशोभाञ्जनदेवदारुविश्वौषधैर्मूत्रयुतैः प्रलिम्पेत्
पुनर्नवानागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ९
धत्तूरैरण्डनिर्गुण्डी वर्षाभूशिग्रुसर्षपैः
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् १०
असाध्यमपि यात्यस्तं श्लीपदं चिरकालजम्
मूलेन सहदेवायास्तालमिश्रेण लेपनात् ११
सप्तताम्बूलपत्राणां कल्कं तप्तेन वारिणा
संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् १२
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत्
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये १३
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम्
सक्षौद्रं श्लीपदे लिह्याच्चिरोत्थं श्लीपदं जयेत्
गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबेन्नित्यम्
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण १५
इति पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः समाप्तः ४५

विद्रध्यधिकारः[सम्पाद्यताम्]

अथ षट्चत्वारिंशत्तमो विद्रध्यधिकारः ४६
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् १
महामूलं रुजावन्तं वृत्तं वाऽप्यथ वाऽयतम्
स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः २
विद्र धिषड्विधत्वं विवृणोति
पृथग् दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
षण्णामपि हि तेषां तु लक्षणं सम्प्रचक्ष्यते ३
कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः
चिरोत्थानप्रपाकश्च विद्र धिर्वातसम्भवः ४
पक्वोदुम्बरसंकाशःश्यावो वा ज्वरदाहवान्
क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसम्भवः ५
शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः
चिरोत्थानप्रपाकश्च विद्र धिः कफसम्भवः
तनुपीतसिताश्चैषामास्रावाः क्रमतो मताः ६
नानावर्णरुजास्रावी घाटालो विषमो महान्
विषमं पच्यते वाऽपि विद्र धिः सान्निपातिकः ७
तैस्तैर्भावैरभिहते क्षतेवाऽपथ्यकारिणाम्
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ८
ज्वरस्तृषा च दाहश्च जायते तस्य देहिनः
आगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः ९
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः
पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते १०
आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षते
गुर्वसात्म्यविरुद्धान्नशुष्कशाकाम्लभोजनैः ११
अतिव्यवायव्यायामवेगाघातविदाहिभिः
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् १२
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
गुदे वस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १३
वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि चाप्यथ
एषां लिङ्गानि जानीयाद् बाह्यविद्र धिलक्षणैः १४
गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता
नाभ्यां हिक्काजृम्भणं च कुक्षौ मारुतकोपनम् १५
कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् १६
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः १७
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः १८
अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति
हृन्नाभिवस्तिवर्ज्येषु तेषु भिन्नेषु वाह्यतः
जीवेत् कदाचित्पुरुषो नेतरेषु कदाचन १९
साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकः
आमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत् २०
जलौकापातनं शस्तं सर्वस्मिन्नेव विद्र धौ
रेको मृदुर्लङ्घनञ्च स्वेदः पित्तोत्तरं विना २१
अपक्वे विद्र धौ युञ्ज्याद् व्रणशोथवदौषधम्
वातघ्नमूलकल्कैस्तु वसातैलघृतान्वितैः २२
सुखोष्णैर्बहुलैर्लेपः प्रयोज्यो वातविद्र धौ
यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् २३
विलीयते क्षणेनैव ह्यविपक्वस्तु विद्र धिः २४
पैत्तिकं विद्र धिं वैद्यः प्रदिह्यात्सर्पिषा युतैः
पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः २५
पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत्
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् २६
इष्टिका सिकता लोहकिट्टं गोशकृता सह
मूत्रैः सुखोष्णैर्लेपेन स्वेदयेच्छ्लेष्मविद्र धिम् २७
दशमूलीकषायेण सस्नेहेन रसेन वा
शोथव्रणं वा कोष्णेन सशूलं परिषेचयेत् २८
पित्तविद्र धिवत्सर्वाः क्रिया निरवशेषतः
विद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः २९
रक्तचन्दन मञ्जिष्ठानिशा मधुकगैरिकैः
क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तके ३०
पीता ह्येते निहन्त्याशु विद्र धिं कोष्ठसम्भवम्
कृष्णाऽजाजी विशाला च धामार्गवफलं तथा ३१
श्वेतवर्षाभुवो मूलं मूलं वा वरुणस्य च
जलेन क्वथितं पीतमन्तर्विद्र धिहृत्परम् ३२
गायत्रीत्रिफलानिम्बकटुकामधुकं समम्
त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ३३
मसूरान्निस्तुषान्दद्यादेष क्वाथो व्रणाञ्चयेत्
गुल्मविद्र धिबीसर्पदाह मोहज्वरापहः ३४
तृण्मूर्च्छाच्छर्दिहृद्रो गपित्तासृक्कुष्ठकामलाः
शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत्
तद्र सं मधुना पीत्वा हन्त्यन्तर्विद्र धिं नरः ३५
शोभाञ्जनकनिर्यूहोहिङ्गुसैन्धवसंयुतः
हन्त्यन्तर्विद्र धिं शीघ्रं प्रातः प्रातर्विशेषतः ३६
इति षट्चत्वारिंशत्तमो विद्रध्यधिकारः समाप्तः ४६

व्रणशोथाधिकारः[सम्पाद्यताम्]

अथ सप्तचत्वारिंशत्तमो व्रणशोथाधिकारः ४७
पृथक्समस्तदोषोत्था रक्तजागन्तुजौ तथा
व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः १
विषमं पच्यते वातात्पित्तोत्थश्चाचिराच्चिरम्
कफजः पित्तवच्छोथौ रक्तागन्तुसमुद्भवौ २
मन्दोष्णताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
मन्दवेदनता चापि शोथस्यामस्य लक्षणम् ३
दह्यते दहनेनेव क्षारेणेव प्रपच्यते
पिपीलिकागणेनेव दश्यते छिद्यते तथा ४
भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ५
सोषचोषो विवर्णः स्यादङ्गुल्येवावपीड्यते
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ६
न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत्
ज्वरस्तृष्णाऽरुचिश्चैतत्पच्यमानस्य लक्षणम् ७
वेदनोपशमः शोथो लोहितोऽल्पो न चोन्नतः
प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः ८
उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
वस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङगुलिपीडिते ९
पूयश्च पीडयेदेकमन्तमन्ते च पीडिते
बुभुक्षा व्रणशोथस्य भवेत्पक्वस्य लक्षणम् १०
ॠतेऽनिलाद्रुङ् न विना न पित्तं पाकः कफञ्चापिविना न पूयः
तस्माद्धि सर्वं परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः ११
कालान्तरेणाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य
पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः १२
कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्
पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता
त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् १३
कक्षं समासाद्य यथैव वह्निर्वातेरितः संदहति प्रसह्य
तथैव पूयो ह्यविनिःसृतस्तु मांसं शिराः स्नायुमपीह खादेत् १४
आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो भिषक्
जानीयात्स भवेद्वैद्यः शेषास्तस्करवृत्तयः १५
यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ १६
आदौ शोथहरोलेपस्ततस्तु परिषेचनम्
विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् १७
पाचनं भेदनं पश्चात्पीडनं शोधनं तथा
रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः १८
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः १९
बीजपूरजटाहिंस्रा देवदारु महौषधम्
रास्नाऽग्निमन्थौ लेपोऽय वातशोथविनाशनः २०
कल्कः काञ्जिकसम्पिष्टः स्निग्धो मधुकचन्दनैः
दूर्वा च नलमूलञ्च पद्मकाष्ठञ्च केशरम्
उशीरं बालकं पद्मं लेपोऽय पित्तशोथहा २१
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसकल्कलैः
ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे २२
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः २३
अजगन्धाऽजशृंगी च मञ्जिष्ठा सरलस्तथा
एकैषिकाऽश्वगन्धा च लेपोऽयश्लेष्मशोथहा २४
कृष्णापुराणपिण्याकं शिग्रुत्वक् सिकता शिवा
मूत्रपिष्टः सुखोष्णोऽय प्रलेपः श्लेष्मशोथहा २५
न रात्रौ लेपनं दद्याद्दत्तञ्च पतितं तथा
न च पर्युषितं शुष्यमाणं तन्नैव धारयेत् २६
तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः
विना लेपेन निर्याति रात्रौ नालेपयेदतः २७
रात्रावपि प्रलेपस्तुविधातव्योविचक्षणैः
अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे २८
यथाऽम्बुभिः सिच्यमानःशान्तिमग्निर्हि गच्छति
दोषाग्निरेवं सहसा परिषेकेण शाम्यति २९
वातघ्नौषधनिष्क्वाथै स्तैलैर्मांसरसैर्घृतैः
उष्णैः संसेचयेच्छोथं वातिकं काञ्जिकेन च ३०
पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्सुशीतलैः
क्षीराज्यमधुखण्डेक्षुरसैःपित्तहरैःशृतैः ३१
कफघ्नौषधनिष्क्वाथैः शीतैस्तु परिषेचयेत्
तैलक्षाराम्बुमूत्रैश्च शोथं श्लेष्मसमुद्भवम् ३२
जातस्य कठिनस्यास्य कार्यं विम्लापनं शनैः ३३
अभ्यज्य स्वेदयित्वा तु वेणुनाढ्या शनैः शनैः
विमर्दयेद्भिषङ् मन्दं तलेनाङ्गुष्ठकेन वा ३४
वेदनोपशमार्थाय तथा पाकशमाय च
अचिरोत्पतिते शोथे शोणितस्रावणं चरेत् ३५
एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः
रक्तं हि वेदनामूलं तच्चेन्नास्ति न चास्ति रुक् ३६
विवर्णःकठिनः श्यावो व्रणोयश्चाल्पवेदनः
विषाणैश्च विशेषेण जलौकाभिः पदैरपि ३७
रुजावतां दारुणानां कठिनानां तथैव च
शोथानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ३८
शोथयोरुपनाहञ्च दद्यादामविदग्धयोः
प्रशाम्यत्यविदग्धस्तु विदग्धः पक्वतां व्रजेत् ३९
दशमूली बला रास्ना वाजिगन्धा प्रसारिणी
मूलं वातरिपोः सिन्धुर्वारिपूर्णे घटे क्षिपेत् ४०
शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम्
शणकार्पासयोर्बीजमतसी च कुलत्थिका ४१
तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः
यथाप्राप्तैरमीभिश्च द्र व्यैरम्लेन संयुतैः ४२
कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्विधिवच्छनैः
अनेन प्रशमं याति वातशोथो न संशयः ४३
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहा ४४
न प्रशाम्यति यः शोथः प्रलेपादिविधानतः
द्र व्याणि पाचनीयानि दद्यात्तत्रोपनाहने ४५
शणमूलकशिग्रुणां फलानि तिलसर्षपाः
अतसी शक्तवः किण्वमुष्णद्र व्यञ्च पाचनम् ४६
अन्तः पूयेष्ववक्त्रेषु तथा चोत्सङ्गवत्स्वपि
गतिमत्सु च रोगेषु भेदनं सम्प्रयुज्यते ४७
रोगे व्यधेन साध्येतु यथादेशं प्रमाणतः
शस्त्रं विधाय दोषांस्तु स्रावयेत्कथितं यथा ४८
बालवृद्धासहक्षीणभीरूणां योषितामपि
व्रणेषु मर्मजातेषु भेदनं द्र व्यलेपनम् ४९
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकाकगृध्राणां मललेपेन भेदनम् ५०
क्षारद्र व्यं तथा क्षारो दारणः परिकीर्तितः
हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः
अत्यर्थं कठिने शोथे कथितो भेदनः परः ५१
द्र व्याणां पिच्छिलानान्तु त्वङ्मूलातिप्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ५२
शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति
न चापिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ५३
व्रणस्य तु विशुद्धस्य क्वाथः शुद्धिकरः परः
पटोलनिम्बपत्रोत्थः सर्वत्रैव प्रयुज्यते ५४
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे
आरग्वधादेः कफजे कषायः शोधने हितः ५५
अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् ५६
तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ५७
एकं वा सारिवामूलं सर्वव्रणविशोधनम् ५८
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ५९
लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
भक्षणाच्छर्दिमन्दाग्निपित्तश्लेष्मकृमीन्हरेत्
व्रणान्विशोधयेद्वत्तर्या सूक्ष्मान् हि सन्धिमर्मजान् ६०
अभयात्रिवृतादन्ती लाङ्गलीमधुसैन्धवैः ६१
निम्बपत्रघृत क्षौद्र दार्वीमधुकसंयुतैः
वर्त्तिस्तिलानां कल्को वा शोधयेद्रो पयेद् व्रणम् ६२
अपेतपूतिमांसानां मांसस्थानामरोहताम्
कल्कस्तु रोपणोदेयस्तिलजो मधुसंयुतः ६३
अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका
समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ६४
मधुयुक्ता सुरा पुंसां कथिता व्रणरोपणी
सुषवीपत्रधत्तूर बलामोटाकुठेरकाः
पृथगेतैः प्रलेपेन गम्भीरव्रणरोपणम् ६५
ककुभोदुम्बराश्वत्थजम्बू कफललोध्रजैः
त्वक्चूर्णैर्धूलिताः क्षिप्रं संरोहन्ति व्रणा ध्रुवम् ६६
प्रियङ्गुधातकीपुष्पं यष्टीमधुजतूनि च
सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूलनात् ६७
यवचूर्णं समधुकं सतैलं सह सर्पिषा
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ६८
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
लशुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ६९
निम्बपत्रवचाहिङ्गुसर्पिर्लवणसर्षपैः
धूपनं स्याद् व्रणे रुक्षकृमिकण्डूरुजाऽपहम् ७०
ये क्लेदपाकस्रुतिगन्धवन्तो व्रणाश्चिरोत्थाः सतताश्च शोथाः
प्रयान्ति ये गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलाशृतेन ७१
पटोलनिम्बासनसार धात्रीपथ्याऽक्षनिर्यूहमहर्मुखेषु
पिबेद्युतं गुग्गुलुना विसर्पविस्फोट दुष्टव्रणशान्तिमिच्छन् ७२
मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम्
प्रलेपः सघृतक्षौद्र स्त्वचः सावर्ण्यकृत्स्मृतः ७३
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वान्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ७४
तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः
बालमूलकवार्त्ताकुपटोलैः कारवेल्लकैः ७५
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ७६
अम्लं दधि च शाकञ्च मांसमानूपमौदकम्
क्षीरं गुरूणि चान्नानि व्रणे च परिवर्जयेत् ७७
व्रणे श्वयथुरायासात्स च रागश्च जागरात्
तौ च रुक्च दिवास्वापात्ते च मृत्युश्च मैथुनात् ७८
क्रुद्धे सद्योव्रणे कुर्यादूर्ध्वं चाधश्च शोधनम्
क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ७९
लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम्
घृष्टे विदलिते चैव सुतरामिष्यते विधिः ८०
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत्
रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ८१
परिषेकं स्नेहपानं लेपं तत्रोपनाहनम्
कुर्वन्ति स्नेहवस्तिञ्च रुजाघ्नं चौषधं पृथक् ८२
खड्गादिच्छिन्नगात्रस्य तत्काले पूरितो व्रणः
गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ८३
कषाया मधुराः शीताः क्रियाः सर्वाः प्रयोजयेत्
सद्योव्रणानां सप्ताहात्पश्चात्पूर्वोक्तमाचरेत् ८४
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः
तस्मिन्पक्वाशयस्थे तु प्रकुर्वीत विरेचनम् ८५
क्वाथो वंशत्वगैरण्डश्वदंष्ट्राऽश्मभिदा कृतः
हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ८६
यवकोलकुलत्थानां निःस्नेहेन रसेन च
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ८७
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा
मञ्जिष्ठाऽभयसिक्थ तुत्थमधुकैर्नक्ताह्वबीजं समैः
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ८८
वृद्धवैद्योपदेशेन पारम्पर्योपदेशतः
जातीवृते तु संसिद्धं क्षेप्तव्यं सिक्थकं बुधैः ८९
जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
सिक्थकं मधुकं कुष्ठं द्वे निशे कटुरोहिणी ९०
मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वङ्नीलमुत्पलम्
सारिवा तुत्थकञ्चापि नक्तमालफलं तथा
एतानि समभागानि कल्कीकृत्य प्रयत्नतः
तिलतैलं पचेत्सम्यग्वैद्यः पाकविचक्षणः ९२
विषव्रणे समुत्पन्ने स्फोटके कुष्ठरोगिणी
दद्रुवीसर्परोगेषुकीटदष्टेषु सर्वथा ९३
सद्यः शस्त्रप्रहारेण दग्धविद्धेषु चैव हि
नखदन्तक्षते देहे दुष्टमांसापकर्षणे ९४
म्रक्षणेन हितं तैलमिदं शोधनरोपणम्
तैलं जात्यादिनाम्नैतत्प्रसिद्धं भिषगादृतम् ९५
चित्रकरसोनरामठशरपुङ्खालाङ्गलीकसिन्दूरैः
सविषैस्तथा सकुष्ठैः कटुतैलं साधु सम्पक्वम् ९६
विपरीतमल्लसंज्ञं तैलं दुष्टव्रणं तथा नाडीम्
बहुभेषजैरसाध्यामपथ्यभोक्तुश्च निस्तुदति ९७
अमृतापटोलमूलत्रिफलात्रिकटुककृमिघ्नानाम्
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ९८
प्रतिवासरमेकैकां गुटिकां खादेदिहापि परिमाणम्
जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ९९
प्लुष्टस्याग्निषु तपनं कार्यमुष्णं तथौषधम्
सम्यक् स्विन्ने शरीरे तु स्विन्नं भवति शोभनम् १००
प्रकृत्या सलिलं शीतं स्कन्दयत्यतिशोणितम्
तस्मात्सुखयति ह्युष्णं न तु शीतं कदाचन १०१
शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्यात्ततः पुनः
घृतलेपप्रदेहांश्च शीतानेवास्य कारयेत् १०२
सम्यदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्
ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपयेत् १०३
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः १०४
तिन्दुक्याश्च कषायैर्वा घृतमिश्रैर्प्रलेपयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् १०५
सिक्थककर्दमजीरकमधुपथ्यासर्वमिश्रितं लेपात्
गव्यं घृतमपहरति विपाकजनितं व्रणं सद्यः १०६
सिद्धं कषायकल्काभ्यां पटोल्याः कटुतैलकम्
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् १०७
वातास्रमस्रतं दुष्टं सशोथं ग्रथितं व्रणम्
कुर्यात्सदाहंकण्ड्वाद्यं व्रणग्रन्थिस्तु स स्मृतः १०८
कम्पिल्लकं विडङ्गानि त्वचं दार्व्यास्तथैव च
पिष्ट्वा तैलं पचेत्तत्तु व्रणग्रन्थिहरं परम् १०९
इति सप्तचत्वारिंशत्तमो व्रणशोथाधिकारो वा व्रणशोथा
गन्तुव्रणाग्निदग्धव्रणाधिकारः समाप्तः ४७

भग्नाधिकारः[सम्पाद्यताम्]

अथाष्टचत्वारिंशत्तमो भग्नाधिकारः ४८
भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धावपि तत्र सन्धौ
उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्यग्गतं क्षिप्तमधश्च भग्नम् १
प्रसारणाकुञ्चनवर्त्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
सामान्यतः सन्धिगतस्य लिङ्गमुत्पिष्टसन्धेः श्वयथोः समन्तात्
विशेषतो रात्रिभवा रुजा च विश्लिष्टकेतौ च रुजा च नित्यम् २
विवर्त्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति
क्षिप्तेऽतिशूलं विगमं रुजश्च क्षिप्ते त्वधोरुग्विघटश्च सन्धेः ३
भग्नन्तु काण्डे बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ४
काण्डे त्वतः कर्कटकाश्वकर्णौ विचूर्णितं पिच्चितमस्थिखल्लितम्
काण्डेषु भग्नं ह्यतिपातितञ्च मज्जागतं विस्फुटितञ्च वक्रम् ५
छिन्नं द्विधा द्वादशधाऽपि काण्डे सामान्यमग्रे किल तस्य लिङ्गम् ६
स्रस्ताङ्गता शोथरुजाऽतिवृद्धिस्तथा व्यथावृद्धिरतीव नित्यम्
सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ७
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ८
भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रतिपिष्टञ्च वर्जयेत्तु चिकित्सकः ९
असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत्
भग्नं स्तने गुदे पृष्ठे शङ्खे मूर्द्धनि वर्जयेत् १०
सम्यक्संहितमप्यस्थि दुर्न्यासाद् दुष्टबन्धनात्
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ११
तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च १२
पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोरपि चास्थीनि वलयानि बभाषिरे १३
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना
पङ्केनालेपनं कार्यं बन्धनञ्च कुशाऽन्वितम् १४
अवनामितमुन्नह्येदुन्नतं चावपीडयेत्
आञ्जेदतिक्षिप्तमधो गतं चोपरिवर्त्तयेत् १५
मधूकोदुम्बराश्वत्थकदम्बनिचुलत्वचः
वंशसर्जार्जुनानाञ्च कुशार्थमुपसंहरेत् १६
पटस्योपरि बध्नीयान्न गाढं शिथिलं न च
सप्तसप्तदिनाच्छीते घर्मे मुञ्चेत्त्र् यहात्त्र् यहात्
मासान्ते पञ्चपञ्चाहाद्भग्नदोषवशेन वा १७
आलेपनार्थं मञ्जिष्ठा मधूकं चाम्बुपेषितम्
शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् १८
सद्योऽभिघातजनिता आगन्तुश्वयथवः प्रशाम्यन्ति
पिष्टकलवणालेपादम्लीकाफलरसाभ्यां वा १९
आम्रातकजटाऽम्लीकाफलं पत्राणि शिग्रुजम् २०
मूलं पौनर्नवं वर्द्धमानस्यापि च केम्बुकात्
सर्वं संक्षुद्य तक्रेण काञ्जिकेन तथैव च २१
पाचयित्वा चरेच्छ्रेष्ठं तेन पीडा प्रणश्यति
शोथश्चास्थि च शीघ्रेण सन्धानं याति वै ध्रुवम् २२
न्यग्रोधादिकषायन्तु सुशीतं परिषेचने
पञ्चमूलीकषायं सक्षीरं दद्यात्सवेदने २३
सुखोष्णमवचार्यं वा चक्रतैलं विजानता
अविदाहिभिरन्नैश्च पिष्टकैः समुपाचरेत् २४
ग्लानिर्हि निहता तस्य सन्धिविश्लेषकारिका
मांसं मांसरसः क्षीरं सर्पिर्यूषःसतीनजः
बृहणञ्चान्नपानञ्च देयं भग्नाय जानता २५
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः २६
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम्
सन्धिमुक्तेऽस्थिसम्भग्ने पिबेत्क्षीरेण वा पुनः २७
रसोन मधुलाक्षाऽज्यसिताकल्कं समश्नताम्
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् २८
चूर्णं पुरेण संयोज्य घृतेनार्जुनलाक्षयोः
भग्नःसन्धानमायाति लीढं क्षीरघृताशिना २९
मूलं शृगालविन्नायाः पीत्वा मांसरसेन तु
चूर्णीकृत्य त्रिसप्ताहादस्थिभग्नमपोहति ३०
आभाचूर्णं मधुयुतमस्थिभग्नस्त्र्! यहं पिबेत्
पीते चास्थि भवेत्सम्यग्वज्रसारनिभं दृढम् ३१
अम्लीकाफलकल्कैः सौवीरैस्तैलमिश्रितैः स्वेदात्
भग्नाभिहतरुजाघ्नैरथ वौषधसाधितं श्वयथौ ३२
आभाफलत्रिकव्योषैः सर्वैरेतैः समांशकैः
तुल्यं गुग्गुलुना योज्यं भग्नसन्धिप्रसाधनम् ३३
लाक्षाऽस्थिसंहृत्ककुभोऽश्वगन्धा चूर्णीकृता नागबला पुरश्च
सम्भग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ३४
रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ३५
तृतीयं सप्तरात्रन्तु भावयेन्मधुकाम्बुना
ततः क्षीरं पुनः पीताञ्छुष्कान्सूक्ष्मान्विचूर्णयेत् ३६
काकोल्यादि सयष्ट्याह्वां मञ्जिष्ठां सारिवां तथा ३७
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ३८
पीडनार्थं तु कर्त्तव्यं सर्वगन्धैः शृतं पयः
चतुर्गुणेन पयसा तत्तैलं पाचयेत्पुनः ३९
यष्टीमंशुमतीम्पत्रं जीवन्तीं तुरगं तथा
रोध्रं प्रपौण्डरीकञ्च तथा कालानुसारिवाम् ४०
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
पिष्ट्वा शृङ्गाटकञ्चैव प्रागुक्तान्यौषधानि च ४१
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्नि
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ४२
आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ४३
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयङ्गताः
पथ्यं पाने तथाऽभ्यङ्गे नस्ये वस्तिषु भोजने ४४
ग्रीवास्कन्धोरसां वृद्धिरेतेनैव प्रजायते
मुखञ्च पद्मप्रतिमं ससुगन्धिसमीरणम् ४५
राजार्हमेतत्कर्त्तव्यं राज्ञामेव चिकित्सकैः
तिलचूर्णसमं तत्र मिलितं चूर्णमिष्यते ४६
पूर्वे वयसि जातं हि भग्नं सुकरमादिशेत्
अल्पदोषस्य जन्तोश्च काले तु समशीतले ४७
प्रथमे वयसि त्वेवं मासात्सन्धिः स्थिरो भवेत्
मध्यमे द्विगुणात्कालादन्तिमे त्रिगुणात्तथा ४८
नैति पाकं यथा भग्नं तथा यत्नेन रक्षयेत्
पक्वमांसशिरास्नायु तद्धि कृच्छ्रेण सिध्यति ४९
पतनादभिघाताद्वा शूनभङ्गं यदक्षतम्
शीतान्सेकान्प्रदेहांश्च भिषक्तस्यावचारयेत् ५०
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत्
वातव्याधिविनिर्दिष्टान्स्नेहांस्तत्रापि योजयेत् ५१
लवणं कटुकक्षारमम्लमायासमैथुनम्
व्यायामञ्च न सेवेत भग्नो रुक्षान्नमेव च ५२
भग्नसन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
शुभचेष्टाप्रचारञ्च सम्यक्सन्धितमादिशेत् ५३
इति श्री मिश्रलटकनतनयश्रीमन्मिश्रभावविरचिते भावप्रकाशे
मध्यखण्डेऽष्टचत्वारिंशत्तमो भग्नाधिकारः समाप्तः ४८
तृतीयोभागेऽपि समाप्तः