भावप्रकाशः/मध्यखण्डे तृतीयो भागः
दिखावट
- अथ मध्यखण्डम्
- तृतीयो भागः
शूलाधिकारः
[सम्पाद्यताम्]- अथ त्रिंशः शूलाधिकारः ३०
- दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
- सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः १
- व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
- कलायमुद्गाढकिकोरदूषादत्यर्थरुक्षाध्यशनाभिघातात् २
- कषायतिक्तातिविरुढजान्नविरुद्धवल्लूरकशुष्कशाकैः
- विट्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् ३
- वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे
- जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ४
- मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोदभेदैः
- संस्वेदनाभ्यञ्जनमर्दनाद्यैःस्निग्धोष्णभोज्यैश्च शमं प्रयाति ५
- कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः
- हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम्
- सहृच्छूल इति ख्यातो रसमारुतकोपजः ६
- कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्
- पार्श्वस्थः पार्श्वयोः शूलं कुर्यादाध्मानसंयुतम् ७
- तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति
- निद्रा ञ्च नाप्नुयादेव पार्श्वशूलः पकीर्त्तितः ८
- संरोधात्कुपितोवायुर्बस्तिं संश्रित्य तिष्ठति ९
- बस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते
- विण्मूत्रवातसंरोधी बस्तिशूलः स उच्यते १०
- क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
- कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ११
- ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्
- तृण्मोहदाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् १२
- मध्यन्दिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च
- शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च १३
- आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
- अन्यैर्बलासजनकैरपिहेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोतिशूलम् १४
- हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
- भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च १५
- द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् १६
- सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम्
- सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः १७
- आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः
- कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति १८
- वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्
- हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात् १९
- बस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः
- कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः
- दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः २०
- अतिमात्रं यदा भुक्तं पावके मृदुतां गते
- स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति २१
- यदाऽन्न न गतं पाकं तच्छूलं कुरुते भृशम्
- मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम् २२
- कम्पं वान्तिमतीसारं प्रमोहं जनयेदपि
- अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः २३
- वेदनातितृषा मूर्च्छा आनाहो गौरवारुची
- कासः श्वासो वमिर्हिक्का शूलास्योपद्र वाः स्मृताः २४
- एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः
- सर्वदोषान्वितो घोरस्त्वसाध्यो भूर्युपद्र वः २५
- वेदनातितृषामूर्च्छा आनाहो गौरवं ज्वरः २६
- भ्रमो रुचिः कृशत्वञ्च बलहानिस्तथैव च
- उपद्र वा दशैवैते यस्य शूलेषु नास्ति सः २७
- स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा
- कफपित्ते समावृत्य शूलकारी भवेद् बली
- भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् २८
- तस्य लक्षणमप्येतत्समासेनाभिधीयते २९
- आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः
- स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ३०
- तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम्
- शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः ३१
- छर्दिहृल्लाससंमोहस्वल्परुग्दीर्घसन्तति
- कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् ३२
- संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्
- त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम् ३३
- जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते
- पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा
- न शमं याति नियमात्सोऽन्नद्र व उदाहृतः ३४
- वमनं लङ्घनं स्वेदः पाचनं फलवर्त्तयः
- क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ३५
- विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत्
- स्वल्पशूलाकुलस्य स्यात्स्वेद एव सुखावहः ३६
- मृत्तिकां सजलां पाकाद्घनीभूतां पटे क्षिपेत्
- कृत्वा तत्पोट्टलद्यं शूली यथास्वेदं विधारयेत् ३७
- कार्पासास्थिकुलत्थ कैस्तिलयवैरेरण्डमूलातसी
- वर्षाभूशणबीजकाञ्जिकयुतैरेकीकृतैर्वा पृथक् ३८
- स्वेदः स्यादथ कूर्परोदरशिरः स्फिग्जानुपादाङ्गुली
- गुल्फस्कन्धकटीरुजो विजयते निःशेषवातार्त्तिहा ३८
- तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ३९
- शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम्
- नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ४०
- विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्
- हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ४१
- पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः
- पायसैः कृशरैः पिण्डैः स्निग्धैर्वा पिशितोत्करैः ४२
- वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः
- ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ४३
- बलापुनर्नवैरण्ड बृहतीद्बयगोक्षुरैः
- सहिङ्गुलवणोपेतं सद्यो वातरुजापहम् ४४
- तुम्बुरुण्यभया हिङ्गु पौष्करं लवणत्रयम्
- पिबेदुष्णामबुनां वापि शूलगुल्मापतन्त्रकी ४५
- यवानीहिङ्गुसिन्धूत्थ क्षारसौवर्चलाभयाः
- सुरामण्डेन पातव्या वातशूलनिषूदनाः ४६
- सौवर्चलाम्लिकाजा जीमरिचैर्द्विगुणोत्तरैः
- मातुलुङ्गरसैः पिष्ट्वा गुटिका वातशूलनुत् ४७
- बीजपूरकमूलं च घृतेन सह पाययेत्
- जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ४८
- गुडः शालिर्यवक्षारः सर्पिष्पानं विरेचनम्
- जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ४९
- मणीरजतताम्राणां भाजनानि गुरूणि च
- तोयेन परिपूर्णानि शूलस्योपरि धारयेत् ५०
- विरेचनं पित्तहरं प्रशस्तं रसाश्च शस्ताः शशलावकानाम्
- सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम्
- प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ५१
- शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकंरसम्
- मधुना जीर्णगोधूमं कफशूले प्रयोजयेत् ५२
- लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्
- सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् ५३
- आमशूले क्रिया कार्या कफशूलप्रणाशिनी
- सेव्यमामहरं सर्वमग्नेर्मन्दस्य वर्द्धनम् ५४
- तीक्ष्णायाश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्
- प्रयोज्यं मधुसर्पिभ्यां सर्वशूलनिवारणम् ५५
- दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः
- अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ५६
- मूलं बैल्वं तथैरण्डं चित्रकं विश्वभेषजम्
- हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ५७
- कूष्माण्डं तनु कृत्वा तु क्षिप्त्वा घर्मे विशोषयेत्
- स्थाल्यां निक्षिप्य तत्सर्वं पिधानेन पिधाय च ५८
- चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत्कुशलो जनः
- यथा तन्न भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ५९
- तदा निर्वापयेच्छीतं सर्वथा चूर्णितं तु तत्
- माषद्वयमितं तावच्छुण्ठीचूर्णेन मिश्रितम् ६०
- जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः
- असाध्यमपि यच्छूलं तदप्येतेन शाम्यति ६१
- लङ्घनं प्रथमं कुर्याद्वमनं सविरेचनम्
- पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ६२
- पीत्वा तु क्षीरमाकण्ठं मदनक्वाथसंयुतम्
- कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम् ६३
- कषायो वाऽथ निम्बस्य कटुतुम्बीरसोऽथवा
- यथाविधि वमेद्धीमान्पक्तिशूलार्दितो जनः ६४
- त्रिवृता च तथा दन्त्या तैलेनैरण्डजेन वा
- दत्तं विरेचनं सद्यः पक्तिशूलनिवारणम् ६५
- विडङ्गतण्डुलव्योषत्रिवृद्दन्ती सचित्रका
- सर्वाण्येतानि संहृत्य सूक्ष्मचूर्णानि कारयेत् ६६
- गुडेन मोदकान्कृत्वा खादेदुष्णेन वारिणा
- जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ६७
- नागरतिलगुडकल्कं पयसा सम्पिष्य यः पुमांल्लिह्यात्
- उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ६८
- पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात्
- पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ६९
- लौहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा
- विलिहन्विनिहन्त्येव शूलं हि परिणामजम् ७०
- नारिकेलं सतोयं च लवणेन सुपूरितम्
- मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ७१
- पिप्पल्या भक्षितं हन्ति शूलं हि परिणामजम्
- वातिकं पैत्तिकञ्चापि श्लैष्मिकं सान्निपातिकम् ७२
- अन्नद्र वाख्ये शूले तु न तावत्स्वास्थ्यमश्नुते
- यावत्कटुकपित्ताम्लमन्नं न च्छर्दयेद् द्र वम् ७३
- जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत्
- पित्तान्तं वमनं कृत्वा कफान्तञ्च विरेचनम् ७४
- अन्नद्र वे च तत्कार्यं जरत्पित्ते यदीरितम्
- जरत्पित्तेऽपि तत्पथ्यं प्रोक्तमन्नद्र वे तु यत् ७५
- आमपक्वाशये शुद्धे गच्छेदन्नद्र वः शमम् ७६
- माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम्
- तादृशीं सर्पिषा खादेदन्नद्र वनिपीडितः ७७
- धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम्
- यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रे ण तद्गदे ७८
- श्यामाकतण्डुलैः सिद्धं सिद्धं कोद्र वतण्डुलैः
- प्रियङ्गुतण्डुलैः सिद्धं पायसं सहितं हितम् ७९
- गौडिकं शौरणं कन्दं कूष्माण्डमपि भक्षयेत्
- कलाययवसक्तून्वा सक्तून्वा लाजसम्भवान् ८०
- गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्
- ससितं शीतदुग्धेनं मृदितं क्वथितं हितम् ८१
- अन्नद्र वो दुश्चिकित्स्यो दुर्विज्ञेयो महागदः
- तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ८२
- अन्नद्र वे जरत्पित्ते वह्निर्मन्दो भवेद्यतः
- तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ८३
- कलाययवगोधूमाः श्यामाकाः कोरदूषकाः
- राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ८४
- दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहितम्
- वास्तूकं कारवेल्ली च कर्कोटकफलानिच ८५
- बर्हिणो हरिणा मत्स्या रोहिताद्याः कपिञ्जलाः
- एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ८६
- गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम्
- त्रिपलं लोहकिट्टस्य तत्सर्वं मधुसर्पिषा ८७
- समालोड्य समश्नीयादक्षमात्रप्रमाणतः
- आदिमध्यावसानेषु भोजनस्य निहन्ति तत्८८
- अन्नद्र वं जरत्पित्तमम्लपित्तं सुदारुणम्
- परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ८९
- व्यायामं मैथुनं मद्यं लवणं कटुकं रसम्
- वेगरोधं शुचं क्रोधं द्विदलं शूलवांस्त्यजेत् ९०
- इति त्रिंशः शूलाधिकारोऽथवा शूलपरिणामशूलान्नद्र वजरत्पित्ताधिकारः समाप्तः ३०
उदावर्त्तानाहाधिकारः
[सम्पाद्यताम्]- अथैकत्रिंश उदावर्त्तानाहाधिकारः ३१
- वातविण्मूत्रजृम्भाऽश्रुक्षवोद्गारवमीन्द्रि यैः
- क्षुत्तृष्णोच्छ्वासनिद्रा णां धृत्योदावर्त्तसम्भवः १
- यथोर्ध्वं जायते वायोरावर्त्तः स चिकित्सकैः
- उदावर्त्त इति प्रोक्तो व्याधिस्तत्रानिलः प्रभुः २
- वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
- जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ३
- आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
- पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ४
- वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
- विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ५
- मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
- तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ६
- आनन्दजं वाप्यथ शोकजंवा नेत्रोदकं प्राप्तममुञ्चतो हि
- शिरो गुरुत्वं न्यनामयाश्च भवन्ति तीव्राः सह पीनसेन ७
- मन्यास्तम्भः शिरः शूलमर्दितार्द्धावभेदकौ
- इन्द्रि याणाञ्च दौर्बल्यं क्षवथोः स्याद्विधारणात् ८
- कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वाऽप्रवृत्तिः
- उद्गारवेगेऽभिहते भवन्ति जन्तोर्विकाराः पवनप्रसूताः ९
- कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
- कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः १०
- मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
- शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते तु शुक्रे ११
- तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाविघातात्कृशता च दृष्टेः १२
- कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद् धृदये व्यथा च १३
- श्रान्तस्य निश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः १४
- जृम्भाऽङ्गमर्दाक्षिशिरोऽतिजाड्यं निद्रा विघातादथ वाऽपि तन्द्रा १५
- वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
- भोजनैः कुपितः सद्य उदावर्त्तं करोति च १६
- वातमूत्रपुरीषाश्रुकफमेदोवहानि वै
- स्रोतांस्युदावर्त्तयति पुरीषं न प्रवर्त्तयेत् १७
- ततो हृद्वस्तिशूलार्त्तो हृल्लासारतिपीडितः
- वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः १८
- श्वासकासप्रतिश्यायदाह मोहतृषाज्वरान्
- वमिहिक्काशिरोरोग मनः श्रवणविभ्रमान्
- बहूनन्यांश्च लभते विकारान्वातकोपजान् १९
- तृष्णाच्छर्दिपरिक्लिष्टं क्षीणं शूकैरुपद्रुतम्
- शकृद् वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् २०
- आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
- प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति २१
- तस्मिन्भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
- आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च २२
- स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च
- श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि २३
- अधोवातनिरोधोत्थे उदावर्त्ते हितं मतम्
- स्नेहपानं तथा स्वेदो वर्त्तिर्वस्तिर्हितो मतः २४
- विड्विघातसमुत्थे तु विड्भङ्गाऽन्न तथौषधम्
- वत्तर्यभ्यङ्गावगाहाश्च स्वेदो वस्तिर्हितो मतः २५
- मूत्रावरोधजनिते क्षीरवारि वचां पिबेत्
- दुःस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च २६
- एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम्
- सितामिक्षुरसं क्षीरं द्रा क्षां यष्टीमथापि वा
- सर्वथैव प्रयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् २७
- जृम्भाऽभिघातजे स्नेहं स्वेदं वाऽपि प्रयोजयेत्
- अन्यानपि प्रयुञ्जीत समीरणहरान्विधीन् २८
- नेत्रनीरावरोधोत्थे मुञ्चेद्वाऽपि दृशोर्जलम्
- स्वप्यात्सुखञ्च तस्याग्रेकथयेच्च कथाः प्रियाः २९
- क्षवथोर्घातजे तीक्ष्णघ्राणनस्यार्कदर्शनैः
- प्रवर्त्तयेत्क्षुतं सक्तां स्नेहस्वेदौ च शीलयेत् ३०
- उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत्
- छर्दिनिग्रहसञ्जाते वमनं लङ्घनं हितम् ३१
- विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा
- वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः ३२
- आ वारिनाशात् क्वथितं पीतवन्तं प्रकामतः
- रमयेयुः प्रिया नार्यःशुक्रोदावर्तिनं नरम् ३३
- तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः
- शालि पयोनिरुहश्च हितं मैथुनमेव च ३४
- क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु
- रुच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् ३५
- तृषाविघातसम्भूते शीतःसर्वो विधिर्हितः
- कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः
- श्रमश्वासधृतौ शस्तो विश्रामः सरसौदनः ३६
- निद्रा वेगविघातोत्थे पिबेत्क्षीरं सितायुतम्
- संवाहनं सुशय्याऽत्र हितः स्वप्नः प्रियाः कथाः ३७
- हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिं विनिर्मिताम्
- घृताभ्यक्तं गुदे न्यस्येदुदावर्त्तविनाशिनीम् ३८
- मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः
- गुडक्षीरसमायुक्ताः फलवर्त्तिरिहोदिता ३९
- खण्डपलं त्रिवृताऽक्ष कृष्णाकर्षो द्वयोश्चूर्णम्
- प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात् ४०
- एतद् गाढपुरीषे देयं विज्ञैरुदावर्त्ते
- मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ४१
- सव्योषपिप्पलीमूलं त्रिवृद्दन्ती च चित्रकम्
- तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ४२
- एतद् गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम्
- उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ४३
- मूलकं शुष्कमाद्र रं! च वर्षाभूः पञ्चमूलकम्
- कृतमालफलं चाप्सु पक्त्वा तेन घृतं पचेत्
- तत्पीतं शमयेत्क्षिप्रमुदावर्त्तमशेषतः ४४
- तुल्यकारणकार्यत्वादुदावर्त्तहरीं क्रियाम्
- आनाहेषु च कुर्वीत विशेषश्चाभिधीयते ४५
- त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
- गुडेन तुल्या गुटिका हरत्यानाहमुल्वणम् ४६
- वर्त्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः
- मधुनि गुडे वा पक्वैर्विहिता साऽङगुष्ठसम्मिता विज्ञैः ४७
- वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता
- आनाहमुदरजार्त्तिं शमयति जठरे तथा गुल्मम् ४८
- इत्येकत्रिंश उदावर्त्तानाहाधिकारः समाप्तः ३१
गुल्माधिकारः
[सम्पाद्यताम्]- अथ द्वात्रिंशो गुल्माधिकारः ३२
- दुष्टा वातादयोऽत्यर्थ मिथ्याहारविहारतः
- कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् १
- पञ्चविधत्वं विवृणोति
- स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
- पुरुषाणां तथा स्त्रीणां रक्तजश्चोपजायते २
- आर्त्तवादपिगुल्मः स्यात्स तुं स्त्रीणां प्रजायते
- अन्यस्त्वसृग्भवः पुंसां तथा स्त्रीणां प्रजायते ३
- तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः ४
- हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः
- वृत्तश्चयोपचयवान्स गुल्म इति कीर्त्तितः ५
- उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
- आटोपमाध्मानमपक्तिशूलमासन्नगुल्मस्य वदन्ति चिह्नम् ६
- अरुचिं कृच्छ्रविण्मूत्रवातत्वं चान्त्रकूजनम्
- आनाहं चोर्ध्ववातञ्च सर्वगुल्मेषु लक्षयेत् ७
- रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
- शोकाभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ८
- यः स्थानसंस्थानरुजाविकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
- श्यावारुणत्वं शिशिरज्वरञ्च हृत्कुक्षिपार्श्वाङ्गशिरोरुजञ्च ९
- करोति जीर्णेऽत्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
- वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते १०
- कट्वम्लतीक्ष्णेष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा
- आमोऽभिघातो रुधिरञ्च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ११
- ज्वरः पिपासा सदनाङ्गरागौ शूलं महज्जीर्यति भोजने च
- स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १२
- शीतं गुरु स्निग्धमचेष्टनञ्च सम्पूरण प्रस्वपनं दिवा च
- गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य १३
- स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि
- कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफकोपजाते १४
- व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनाऽथम् १५
- महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
- मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १६
- नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
- वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् १७
- पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणञ्चाप्यपरं निबोध
- यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
- स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १८
- सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः
- कृतमूलः शिरानद्धोयदा कूर्म इवोन्नतः १९
- दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः
- तृष्णातन्द्रा प्रतिश्यायैर्युज्यते न स सिध्यति २०
- गृहीत्वा सज्वरश्वासं छर्द्यतीसारपीडितम्
- हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् २१
- श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
- जायते दुर्बलत्वञ्च गुल्मिनो मरणाय वै २२
- वातारितैलेन पयोयुतेन पथ्यासमेतेन विरेचनं हि
- संस्वेदनं स्निग्धमतिप्रशस्तं प्रभञ्जनक्रोधकृते च गुल्मे २३
- स्वर्जिकाकुष्ठसहितः क्षारः केतकसम्भवः
- पीतस्तैलेन शमयेद् गुल्मं पवनसम्भवम् २४
- तित्तिरांश्च मयूरांश्च कुक्कुटान्क्रौञ्चवर्त्तकान्
- सर्पिः शालि प्रसन्नाञ्च वातगुल्मे प्रयोजयेत् २५
- पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना
- विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम् २६
- अभयां द्रा क्षया खादेत्पित्तगुल्मी गुडेन वा
- योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् २७
- हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी
- वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
- पथ्यापौष्करवेतसाम्लहपुषाऽजाज्यस्तदेभिः कृतं
- चूर्णं भावितमेतदार्द्र करसैः स्याद्बीजपूरद्र वैः
- गुल्माध्मानगुदाङ्कुरान्ग्रहणिकोदावर्त्तसंज्ञंगदं प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्वयारोचकान् २८
- ऊरुस्तंभमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां
- प्रत्यष्ठीलकया सहापहरते प्राक्पीतमुष्णाम्बुना २९
- हृत्कुक्षिवङ्क्षणकटीजठरान्तरेषु वस्तिस्तनांसफलकेषु च पार्श्वयोश्च
- शूलानि नाशयति वातबलासजानि हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम् ३०
- धीमानुपाचरेद् गुल्मं प्रत्याख्याय त्रिदोषजम्
- सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ३१
- शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम्
- शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम् ३२
- स्वर्जिका शाणमाना स्यात्तावदेव गुडं भवेत्
- उभयोर्वटिकां खादेद् गुल्ममायविनाशिनीम् ३३
- पलाशवज्रीशिखरिचिञ्चाऽकतिलनालजाः
- यवजः स्वर्जिका चेति क्षारा ह्यष्टौ प्रकीर्त्तिताः
- एते गुल्महराः क्षारा अजीर्णस्य च पाचकाः ३४
- सामुद्रं सैन्धवं काचंयवक्षारं सुवर्चलम्
- टङ्कणं स्वर्जिकाक्षारतुल्यं चूर्णं प्रकल्पयेत् ३५
- वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्! यहम्
- वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डे पुटे पचेत् ३६
- तत्क्षारं चूर्णयेत्पश्चात्त्र्यूषणं त्रिफला तथा
- यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत् ३७
- सर्वचूर्णसमं क्षारं सर्वमेकत्र कारयेत्
- तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत् ३८
- गुल्मे शूले तथाऽजीर्णे शोथे सर्वोदरेषु च
- मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम् ३९
- वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः
- गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे ४०
- वज्रक्षार इति ख्यातः प्रोक्तः पूर्वं स्वयम्भुवा
- सेवितो हरतेऽजीर्णं तथाऽजीर्णभवान्गदान् ४१
- सुवर्चिका टङ्कमिता तत्समानाऽद्रि काऽपि च
- उभे भुञ्जीत युगपद् गुल्मामयनिवृत्तये ४२
- शुक्तिचूर्णस्य गुटिकां टङ्कमात्रां सुवेष्टयेत्
- गुडेन शाणामानेन तां लिहेद् गुल्मरोगवान् ४३
- गुल्मी कुमारिकामांसं कर्षार्द्धगोघृतान्वितम्
- गिलेद्व्योषाभयासिन्धुसूक्ष्मचूर्णावधूलितम् ४४
- वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम्
- न खादेदालुकं गुल्मी मधुराणि फलानि च ४५
- स्निग्धस्विन्नशरीरस्य योज्यं स्नेहविरेचनम्
- शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ४६
- कल्कः पीतो जयेद् गुल्मं तिलक्वाथेन रक्तजम्
- तिलक्वाथो गुडव्योषघृतभार्गीयुतो भवेत् ४७
- योनिरक्तभवे गुल्मे नष्टपुष्पेषु योषिताम्
- पीतो धात्रीरसो युक्तो मरिचैश्चास्रगुल्मनुत् ४८
- गुण्डारोचनिकाचूर्णं शर्करामाक्षिकान्वितम्
- विदधीताशु गुल्मिन्या मनलसञ्चङ्क्रमाय च ४९
- विशेषमपरञ्चाशु शृणु रक्तप्रभेदनम्
- पलाशक्षारतोयेन सर्पिः सिद्धं पिबेच्च सा ५०
- सक्षारं त्र्! यूषणं सर्पिः प्रपिबेदस्रगुल्मिनी ५१
- यस्मिन्न च रसक्षीरतोयसाध्यरसादिषु
- फेनोद्गारस्य निष्पत्तिर्नष्टदुग्धसमाकृतेः
- स एव तस्य पाकस्य कालो नेतरलक्षणः ५२
- इति द्वात्रिंशो गुल्माधिकारः समाप्तः ३२
प्लीहयकृदधिकारः
[सम्पाद्यताम्]- अथ त्रयस्त्रिंशः प्लीहयकृदधिकारः ३३
- शोणिताज्जायते प्लीहा वामतो हृदयादधः
- रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः १
- विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च
- प्लीहाऽभिवृद्धिं कुरुतः प्रवृद्धौ तं प्लीहसञ्ज्ञं गदमामनन्ति २
- वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
- मन्दज्वराग्निःकफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ३
- क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम्
- मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ४
- सज्वरः सपिपासश्च सदाहो मोहसंयुतः
- पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ५
- प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः
- अरोचकेन संयुक्तः प्लीहा कफज उच्यते ६
- नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः
- वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ७
- दोपत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्त्यपि ८
- अधो दक्षिणतश्चापि हृदयाद् यकृतः स्थितिः
- तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ९
- प्लीहामयस्यहेत्वादि समस्तं यकृदामये
- किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः १०
- पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः
- तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ११
- अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम्
- निहन्ति मस्तुना पीतं प्लीहानमतिदारुणम् १२
- हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं च सैन्धवम्
- मातुलुङ्गरसोपेतं प्लीहशूलहरं भवेत् १३
- पलाशक्षारतोयेन पिप्पली परिभाविता
- प्लीहगुल्मार्त्तिशमनी वह्निमान्द्यहरी मता १४
- रसेन जम्बीरफलस्य शङ्खनाभीरजः पीतमवश्यमेव
- शाणप्रमाणं शमयेदशेषं प्लीहामयं कूर्मसमानमाशु १५
- शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः
- प्लीहानं यदि न हरति शैलोऽपि तदा जले प्लवते १६
- सुपक्वसहकारस्य रसः क्षौद्र समन्वितः
- पीतः प्रशमयत्येव प्लीहानं नेह संशयः १७
- सुस्विन्नं शाल्मलीपुष्पं निशापर्युषितं नरः
- राजिकाचूर्णसंयुक्तं खादेत्प्लीहोपशान्तये १८
- यवानिकाचित्रकयाव शूकषड्ग्रन्थिदन्तीमगधोद्भवानाम्
- चूर्णं हरेत् प्लीहगदं निपीतमुष्णाम्बुना मस्तुसुराऽसवैर्वा १९
- प्लीहोद्दिष्टाःक्रियाः सर्वा यकृद्रो गे समाचरेत्
- कार्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् २०
- क्षारं विडङ्गकृष्णाभ्यां पूतीकस्याम्बु निःसृतम्
- पिबेत्प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये २१
- इति त्रयस्त्रिंशः प्लीहयकृदधिकारः समाप्तः ३३
हृद्रोगाधिकारः
[सम्पाद्यताम्]- अथ चतुस्त्रिंशो हृद्रोगाधिकारः ३४
- अत्युष्णगुर्वम्लकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
- सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
- दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः
- हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
- आयम्यते मारुतजे हृदयं तुद्यते तथा
- निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि वा ३
- तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः
- धूमायनं च मूर्च्छा च क्लेदः शोषो मुखस्य च ४
- गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
- माधुर्यमपि चास्यस्य बलासावतते हृदि ५
- विद्यात्त्रिदोषमप्येवं सर्वलिङ्गं हृदामयम् ६
- त्रिदोषगेतुहृद्रो गे यो दुरात्मा निषेवते
- तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ७
- मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति
- संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ८
- उत्क्लेदः ष्ठीवनं तोदः शूलं हृंल्लासकस्तमः
- अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
- क्लोम्नः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
- कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः १०
- घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
- हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते ११
- हरीतकीवचारास्ना पिप्पलीनागरोद्भवम्
- शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम् १२
- पुटदग्धहरिणशृङ्गं पिष्ट्वा गव्येन सर्पिषा पिबतः
- हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि १३
- तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्
- पिबति पयोभुक्स भवति गतसकलहृदामयः पुरुषः १४
- गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम्
- मधुशर्करासमेतं शमयति हृद्रो गमुद्धतं पुंसाम् १५
- पार्थस्य कल्केन रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु १६
- घृतं बलानागबलाऽजुनानां क्वाथेन कल्केन च यष्टिकायाः
- सिद्धन्तु हन्याद्घृदयामयं हि सवातरक्तक्षतरक्तपित्तम् १७
- इति चतुस्त्रिंशोहृद्रोगाधिकारः समाप्तः ३४
मूत्रकृच्छ्राधिकारः
[सम्पाद्यताम्]- अथ पञ्चत्रिंशोमूत्रकृच्छ्राधिकारः ३५
- व्यायामतीक्ष्णौषधरुक्षमद्यप्रसङ्गनृत्यद्रुतपृष्ठयानात्
- आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
- पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथ वा कोपमुपेत्य बस्तौ
- मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
- तीव्रा च रुग्वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ३
- पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ४
- वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ५
- सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ६
- मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च ७
- शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः
- आध्मानंवातशूलञ्च मूत्रसङ्गं करोति च ८
- शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
- सशुक्रं मूत्रयेत्कृच्छ्राद्वस्तिमेहनशूलवान् ९
- अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहृतम्
- अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे
- विशेषणं शर्करायाः शृणु कीर्त्तयतो मम
- पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
- विमुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
- हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
- तथा भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ११
- अभ्यञ्जनस्नेहनिरूहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्
- स्थिराऽदिभिर्वातहरैश्च सिद्धान्दद्याद्र सांश्चानिलमूत्रकृच्छ्रे १२
- अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकः
- प्रपिबेद्वातरोगार्त्तः शूलवान्मूत्रकृच्छ्रवान् १३
- पुनर्नवैरण्डशतावरीभिःपत्तूरवृश्चीरबलाऽश्मभिद्भिः
- द्विपञ्चमूलेन कुलत्थकेन यवैश्च तोयोत्क्वथिते कषाये १४
- तैलं वराहर्क्षवसाघृतञ्च तैरेवकल्कैर्लवणैश्च सिद्धम्
- तन्मात्रयाऽत्र प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम् १५
- सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्वस्तिपयोविकाराः
- द्रा क्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः १६
- कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्
- पित्तकृछ्रहरं पञ्चमूलं वस्तिविशोधनम् १७
- शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्
- क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत्पैत्तिकमूत्रकृच्छ्रे १८
- एर्वारुबीजं मधुकञ्च दार्वी पैत्ते पिबेत्तण्डुलधावनेन
- दार्वी तथैवामलकीरसेन समाक्षिकं पित्तकृते तु कृच्छ्रे १९
- हरीतकीगोक्षुरराज वृक्षपाषाणभिद्धन्वयवासकानाम्
- क्वाथं पिबेन्माक्षिकसम्प्रयुक्तं कृच्छ्रे सदाहे स रुजे विबन्धे २०
- शतावरीकाशकुशश्वदंष्ट्राविदारिकेक्ष्वामलकेषु सिद्धम्
- सर्पिः पयो वा सितया विमिश्रं कृच्छ्रेषु पित्तप्रभवेषु योज्यम् २१
- त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेषु स्वरसेषु सिद्धम्
- सर्पिर्गुडार्द्धांशयुतं प्रयोज्यं कृच्छ्राश्मरीमूत्रविघातदोषे
- अयं विशेषेण पुनर्विधेयः सर्वाश्मरीणां प्रवरः प्रयोगः २२
- क्षारोष्णतीव्रौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहः
- तक्रञ्च तिक्तौषधसिद्धतैलान्यभ्यङ्गपानं कफमूत्रकृच्छ्रे २३
- मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा
- कफकृच्छ्रविनाशाय सूक्ष्मं पिष्ट्वा गुटीं पिबेत् २४
- तक्रेण युक्तं शितिमारकस्य बीजं पिबेन्मूत्रविघातहेतोः
- पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे २५
- त्रिकटु त्रिफला मुस्तंगुग्गुलुञ्च समाक्षिकम्
- गोक्षुरक्वाथ संयुक्तं गुटिकां भक्षयेद् बुधः २६
- प्रमेहं मूत्रकृच्छ्रञ्च म्रूत्राघातं तथैव च
- अश्मरीं प्रदरञ्चैव नाशयेदविकल्पतः २७
- सर्वत्रिदोषप्रभवे च वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्
- त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्पित्ते विरेकः पवने तु वस्तिः २८
- बृहतीधावनीपाठायष्टी मधुकलिङ्गकाः
- पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः २९
- गुडेनमिश्रितं क्षीरं कदुष्णं कामतः पिबेत्
- मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ३०
- मूत्रकृच्छेऽभिघातोत्थे वातकृच्छ्रक्रिया मता ३१
- मद्यं पिबेद्वा ससितं ससर्पिः शृतं पयो वाऽद्धसिताप्रयुक्तम्
- धात्रीरसञ्चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना विमिश्रम् ३२
- स्वेदचूर्णक्रियाऽभ्यङ्गवस्तयः स्युः पुरीषजे
- क्वाथो गोक्षुरबीजस्य यवक्षारयुतः सदा
- मूत्रकृच्छ्रं शकृज्जन्म पीतः शीघ्रं नियच्छति ३३
- लेहः शुक्रविबन्धोत्थे सशिलाजतु माक्षिकम्
- एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ३४
- मूत्रदोषप्रशुर्द्ध्य्थं शुक्रदोषहरञ्च तत्
- वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमा ३५
- सप्तच्छदारग्वधकेवु कैला निम्बः करञ्जः कुटजो गुडूची
- साध्या जले तेन पचेद्यवागूं सिद्धं कषायं मधुसंयुतं वा ३६
- एर्वारुबीजकल्कश्च श्लक्ष्णपिष्टोऽक्षसंमितः
- धान्याम्ललवणैः पेयो मूत्रकृच्छ्रविनाशनः ३७
- त्रिकण्टकारग्वधदर्भकाश दुरालभापर्वतभेदपथ्याः
- निघ्नन्ति पीता मधुनाऽश्मरीन्तु सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ३८
- निदिग्धिकायाः स्वरसं कुडवं मधुसंयुतम्
- मूत्रदोषहरं पीत्वा नरः सम्पद्यते सुखी ३९
- कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित्
- पीतञ्च त्रपुसीबीजं सतिलाज्यपयोऽन्वितम् ४०
- त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम्
- वारिणा लवणीकृत्य पिबेन्मूत्ररुजाऽपहम् ४१
- यवारुबूकैस्तृणपञ्चमूलीपाषाणभेदैः सशतावरीभिः
- कृच्छ्रेषु गुग्गुल्वभयाविमिश्रैः कृतः कषायो गुडसम्प्रयुक्तः ४२
- मूलानि कुशकाशेक्षुशराणां चेक्षुबालिका
- मूत्राघाताश्मरीकृच्छ्रे पञ्चमूली तृणात्मिका ४३
- गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम्
- पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ४४
- सितातुल्यो यवक्षारः सर्वकृच्छ्रप्रसाधनः
- द्रा क्षासितोपलाकल्कं कृच्छ्रघ्नं मस्तुना युतम् ४५
- विदारि सारिवा छागशृङ्गी वत्सादनी निशा
- कृच्छ्रं पित्तानिलाद्धन्ति वल्लीजं पञ्चमूलकम् ४६
- एलाऽश्मभेदकशिलाजतुप्पिलीनामेर्वारुबीजलवणोत्तमकुङ्कुमानाम्
- चूर्णानि तण्डुलजले लुलितानि पीत्वा प्रत्यग्रमृत्युरपि जीवति मूत्रकृच्छ्री ४७
- अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम्
- मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ४८
- पुनर्नवामूलतुलां दशमूलं शतावरीम्
- बलां तुरङ्गगन्धां च तृणमूलं त्रिकण्टकम् ४९
- विदारिकन्दनागाह्वगुडूच्यतिबलास्तथा
- पृथग्दशपलान्भागानपां द्रो णे विपाचयेत् ५०
- तेन पादावशेषेण घृतस्यार्धाढकं पचेत्
- मधुकं शृङ्गबेरञ्च द्रा क्षां सैन्धवपिप्पलीम् ५१
- द्विपलांशान्पृथग्दत्वा यवान्याः कुडवं तथा
- त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ५२
- एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम्
- राज्ञां राजसमानानां बहुस्त्रीपतयश्च ये ५३
- मूत्रकृच्छ्रे कटिस्रस्ते तथा गाढ पुरीषिणाम्
- मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ५४
- यथोक्तानाञ्च गुल्मानां वातशोणितिनश्च ये
- बल्यं रसायनं श्रीदं सुकुमारकुमारकम् ५५
- पुनर्नवाशते द्रो णः प्रदेयोऽन्येऽपि चापरः ५६
- इति पञ्चत्रिंशो मूत्रकृच्छ्राधिकारः समाप्तः ३५
मूत्राघाताधिकारः
[सम्पाद्यताम्]- अथ षट्त्रिंशो मूत्राघाताधिकारः ३६
- जायन्ते कुपितैर्दोषैमूत्राघातास्त्रयोदश
- प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकाऽदयः १
- रौक्ष्याद्वेगविघाताद्वा वार्युवस्तौ सवेदनः
- मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः २
- मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्त्तते
- वातकुण्डलिकां तीव्रां व्याधिं विद्यात्सुदारुणम् ३
- आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
- कुर्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ४
- वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
- निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ५
- मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
- वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ६
- चिरं धारयतो मूत्रं त्वरया न प्रवर्त्तते
- मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ७
- मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः
- अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ८
- नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
- तन्मूत्रजठरं विद्यादधोवस्तिनिरोधजम् ९
- वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः
- मूत्रं प्रवृत्तं सज्जेत सरक्तंवा प्रवाहतः १०
- स्रवेच्छनैरल्पमल्पं सरुजं वापि नीरुजम्
- विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ११
- रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
- मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् १२
- अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
- अश्मरी तुल्यरुग्ग्रन्थिर्मूत्रे ग्रन्थिः स उच्यते १३
- मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्
- स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्त्तते
- भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते १४
- व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम्
- वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः १५
- मूत्रं हारिद्र मथवा सरसं रक्तमेव वा
- कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् १६
- पित्तं कफो द्वावपि वा संहन्यतेऽनिलेन चेत्
- कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं स्रवेत् १७
- सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्
- शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् १८
- रूक्षदुर्बलयोर्वातेनोदावर्त्तं शकृद्यदा १९
- मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
- विड्गन्धं मूत्रयेत्कृच्छ्राद्विडिवघातं विनिर्दिशेत् २०
- द्रुताध्वलङ्घनायासैरभि घातात्प्रपीडनात्
- स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठिति गर्भवत् २१
- शूलस्पन्दनदाहार्त्तो विन्दुं बिन्दुं स्रवत्यपि
- पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् २२
- वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
- पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः २३
- तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता
- श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् २४
- श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिद्ध्य्ति
- अविभ्रान्तबिलः साध्यो न च यः कुण्डलीकृतः
- स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च २५
- मूत्राघातचिकित्सा
- स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्
- दद्यादुत्तरवस्तिं च मूत्राघाते सवेदने २६
- नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलंससितम्
- पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच कचः २७
- गोजीनाम्नोमूलं पलमेकं क्वथितशेषितं पीतम्
- क्षिप्त्वा मधु च सिताञ्च प्रणुदति मूत्रस्य संरोधम् २८
- गोधापद्या मूलं क्वथितं घृततैलगोरसोन्मिश्रम्
- पीतं निरुद्धमचिराद्भिनत्ति मूत्रस्य संघातम् २९
- पिबेच्छिलाजतु क्वाथे युक्तं वीरतरादिजे
- क्वाथं सपत्रमूलस्य गोक्षुरस्य फलस्य च ३०
- पिबेन्मधुसितायुक्तं मूत्रकृच्छ्ररुजाऽपहम् ३१
- घनसारस्य चूर्णेन वस्तस्याथाविकाम्बुना
- गुण्डयित्वा ध्वजे क्षिप्त्वा मूत्ररोधो जहाति तम् ३२
- सदाभद्रा ऽश्मभिन्मूलं शतावर्याः सचित्रकम्
- रोहिणीकोकिलाक्षौ च वचाशैलत्रिकण्टकम् ३३
- श्लक्ष्णपिष्टः सुरापीतो मूत्राघातप्रबाधनः
- पिबेद्वर्हिशिखामूलं दुग्धभुक्तण्डुलाम्भसा ३४
- वस्तिमुत्तरवस्तिं वा सर्वेषामेव दापयेत्
- निदिग्धिकायाः स्वरसं पिबेद्वस्त्रात्परिस्रुतम् ३५
- जले कुङ्कुमकल्कं वा सक्षौद्र मुषितं निशि
- सतैलं पाटलाभस्मक्षारं बद्ध्वा परिस्रुतम् ३६
- त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूलैः
- गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ३७
- सिताक्षारान्वितं मूलं वायसीतिलकन्दयोः
- कोशकाररसैः पीतं वस्तिकुण्डलजिद्भवेत् ३८
- शृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुना
- पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ३९
- शिलोद्भिदैरण्डसमस्थिराभिः पुनर्नवाभीरुरसेषु सिद्धम्
- तैलं शृतं क्षीरमथानुपानं कालेषु कृच्छ्रादिषु सम्प्रयोज्यम् ४०
- धान्य गोक्षुरकक्वाथकल्कयुक्तं घृतं हितम्
- मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ४१
- पाषाणभेदो वाराही शालिमूलं शरस्तथा
- भल्लातकं शिरीषस्य मूलमेषामथाहरेत् ४३
- समभागानि सर्वाणि क्वाथयित्वा विचक्षणः
- पादशेषकषायेण घृतप्रस्थं विपाचयेत् ४४
- कल्कं दत्वाऽथ मतिमान् गिरिजं मधुकं तथा
- नीलोत्पलञ्च काकोली बीजं त्रापुषमेव च ४५
- कूष्माण्डञ्च तथैर्वारुसम्भवञ्च समं भवेत्
- उष्णवातं निहन्त्येतद् घृतं भद्रा वहं स्मृतम् ४६
- विदारी बृषको यूथी मातुलुङ्गी च भूतृणम्
- पाषाणभेदः कस्तूरी वसुको वशिरोऽनलः ४७
- पुनर्नवा वचा रास्ना बला चातिबला तथा
- कशेरुविषशृङ्गाटतामलक्यः स्थिराऽदयः ४८
- शरेक्षुदर्भमूलञ्च कुशः काशस्तथैव च
- पलद्वयन्तु संहृत्य जलद्रो णे विपाचयेत् ४९
- पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत्
- शतावर्यास्तथा धात्र्! याः स्वरसो घृतसम्मितः ५०
- षट्पलं शर्करायाश्च कार्षिकाण्यपराणि च
- यष्ट्याह्वं पिप्पलीद्रा क्षाकाश्मर्यं सपरुषकम् ५१
- एला दुरालभाकौन्तीकुङ्कुमं नागकेशरम्
- जीवनीयानि चाष्टौ च दत्वा च द्विगुणं पयः ५२
- एतत्सर्पिर्विपक्तव्यं शनैर्मृद्वग्निना बुधैः
- मूत्राघातेषु सर्वेषु विशेषात्पित्तजेषु च ५३
- शर्कराऽश्मरिशूलेषुशोणितप्रभवेषु च
- हृद्रो गे पित्तगुल्मे च वातासृक्पित्तजेषु च ५४
- कासश्वासक्षतोरस्कधनुः स्त्रीभारकर्षिते
- तृष्णाच्छर्दिमनः कम्पशोणितच्छर्दने तथा ५५
- रक्ते यक्ष्मण्यपस्मारे तथोन्मादे शिरोग्रहे
- योनिदोषे रजोदोषे शुक्रदोषे स्वरामये ५६
- एतत्स्मृतिकरं वृष्यं वाजीकरणमुत्तमम्
- पुत्रदं बलवर्णाढ्यं विशेषाद्वातनाशनम् ५७
- पानभोजननस्येषु न क्वचित्प्रतिहन्यते
- विदारीघृतमित्युक्तं रसायनमनुत्तमम् ५८
- पिष्ट्वाऽखुमलमुष्णेन चारनालेन लिप्यते
- बद्धमूत्रं निहन्त्याशु तथैव करभीभवम् ५९
- स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रिच्यते
- मैथुनोपरमश्चास्य बृंहणीयो विधिर्हितः ६०
- ताम्रचूडवसातैलं हितं चोत्तरवस्तिषु
- स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ६१
- समांशमर्धभागानि क्षीरक्षौद्र घृतानि च
- सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत्
- हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ६२
- क्षौद्रा र्द्धभागः कर्त्तव्यो भागः स्यात्क्षीरसर्पिषोः ६३
- शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम्
- स्वयं गुप्ताफलञ्चैव तथैवेक्षुरसस्य च ६४
- पिप्पलीनां तथा चूर्णं समभागं प्रदापयेत्
- तदैकध्यं समानीय खल्ले नातिविमथ्य च ६५
- तस्य पाणितलं चूर्णं लिहेत्क्षीरं ततः पिबेत्
- एतत्सम्यक् प्रयुञ्जानो योनिदोषात्प्रमुच्यते ६६
- कर्पूररसजा युक्ता वस्त्रवर्त्तिः शनैः शनैः
- मेढमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ६७
- मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत्प्रकीर्त्तितम्
- मूत्राघातेषु कृच्छ्रेषु तत्कुर्याद् देशकालवित् ६८
- इतिषट्त्रिंशो मूत्राघाताधिकारः समाप्तः ३६
अश्मरीरोगाधिकारः
[सम्पाद्यताम्]- अथ सप्तत्रिंशोऽश्मरीरोगाधिकारः ३७
- वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता
- प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः १
- विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
- यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः २
- नैकदोषाश्रयाः सर्वा अथासां पूर्वलक्षणम्
- वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्
- मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ३
- सामान्यलिङ्गं रुग् नाभिसेवनीवस्तिमूर्द्धसु
- विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने ४
- तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्
- तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत् ५
- तत्र वाताद् भृशं चार्त्तो दन्तान्खादति वेपते
- मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ६
- सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः
- श्यावा रूक्षाश्मरी सा स्यात्सञ्चिता कण्टकैरिव ७
- तस्याः पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ८
- शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः
- काश्मर्यारग्वधफलैः क्वाथं कृत्वा विचक्षणः ९
- रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः
- अश्मरीमूत्रकृच्छघ्नं दीपनं पाचनं परम्
- हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रजम् १०
- एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः
- शृतं पिबेदश्मजतु प्रगाढं सशर्करे चाश्मरिमूत्रकृच्छ्रे ११
- वरुणस्य त्वचं श्रेष्ठां शुण्ठीं गोक्षुरसंयुताम्
- यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिमम्
- अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् १२
- पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा
- शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका १३
- कपोतवङ्कार्त्तगलकाञ्चनोशीरगुन्द्र काः
- वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् १४
- यवाः कुलत्थाः कोलानि कतकस्य फलानि च १५
- ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्
- भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु १६
- क्षारान्यवागूः पेयाश्चकषायांश्च पयांसि च
- भोजनानि प्रकुर्वीत वर्गेऽस्मिन्वातनाशने १७
- वीरवृक्षोग्निमन्थश्च काशवृक्षादनीकुशाः
- मोरटेन्दीवरीसूर्यभक्तागोक्षुरटुण्टुकाः १८
- वसुको वशिरो दर्भशैरीयावश्मभेदकः
- गुन्द्रो नलः कुरुण्टश्च गणो वीरतरादिकः १९
- अश्मरीशर्कराकृच्छ्रमारुतार्त्तिहरो मतः
- बृहद्वाते वीरतरस्तदभावे मतः शरः २०
- पित्तेन दह्यते वस्तिः पच्यमान इवोष्मणा
- भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी २१
- अथ पित्ताश्मरीचिकित्सा
- कुशः काशः शरो गुन्द्र इत्कटो मोरटाश्मभित्
- दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः २२
- भल्लुकः पाटला पाठा पत्तूरोऽथ कुरुण्टकः
- पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् २३
- घृतं शिलाऽह्वमधुकैर्बीजैरिन्दीवरस्य च
- त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
- भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च २४
- क्षारान्यवागूः पेयाश्च कषायांश्च पयांसि च
- भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने २५
- मधुकः कृतह्रस्वत्वाद्वीजैर्बीजकमुच्यते
- शिलाजतु शिलाऽह्व स्यात्पटीरो गुत्थगुन्द्र कौ २६
- कुर्यात्क्षीरादिकं क्वाथे तस्मिन्क्षेपमावापकैः
- वर्गत्वेन यथालाभं परिभाषा प्रवर्त्तते २७
- वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः
- अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता २८
- एता भवन्ति बालानां तेषामेव तु भूयसा
- आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः २९
- अथ कफाश्मरीचिकित्सा
- गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः
- कुष्ठभद्रा ह्वमरिचचित्रकैः ससुराह्वयैः
- एतैः सिद्धमजासर्पिरुषकादिगणेन च ३०
- भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव च
- शट्यादिस्तेन चात्रेष्टो गणः श्यामाऽदिको बुधः ३१
- वरुणार्त्तगलौ शिग्रुस्तर्कारीनक्तमालकौ
- मोरटारणिबिल्वाश्च बिम्वीवसुकचित्रकाः ३२
- शैरीयो वशिरोऽक्षीवश्चाजशृङ्गी शतावरी
- दर्भो बृहतिका व्याघ्री मुनिभिः परिकीर्त्तितः
- वरुणादिगणो ह्येष कफमेदोनिवारणः
- विनिहन्ति शिरः शूलं गुल्माभ्यन्तरविद्र धीन् ३४
- क्षारान्यवागूः पेयाश्च कषायाश्च पयांसि च
- भोजनानि च कुर्वीत वर्गेऽस्मिन्कफनाशने ३५
- शुक्राश्मरी तु महती जायते शुक्रधारणात् ३६
- स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
- शोषयित्वोपसंहृत्य शुक्रं तच्छुक्रमश्मरी ३७
- वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी
- तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते
- पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा ३८
- सा भिन्नमूर्त्तिर्वातेन शर्करेत्यभिधीयते ३९
- अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे
- निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
- मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् ४०
- दौर्बल्यं सदनं कार्श्यं कुक्षिरोगमथारुचिम्
- पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ४१
- प्रसूननाभिवृषणं बद्धमूत्रं रुजाऽतुरम्
- अश्मरी क्षपयत्याशु शर्करा सिकताऽन्विता ४२
- शुक्राश्मर्यान्तु सामान्यो विधिरश्मरिनाशनः
- यवक्षारगुडोन्मिश्रं रसं पुष्पफलोद्भवम् ४३
- पिबेन्मूत्रविबन्धघ्नं शर्कराऽश्मरिनाशनम्
- तिलापामार्गकदलीपलाशयवबिल्वजः ४४
- क्वाथः पेयोऽविमूत्रेण शर्कराऽश्मरिनाशनः ४५
- केबुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
- पीतमुष्णाम्बु सगुडं शर्करां पातयत्यधः ४६
- पाषाणभिद्गोक्षुरकोरुवूकौ द्बे कण्टकार्ये क्षुरकाह्वमूलम्
- दध्ना पिबेत्क्षीरसुपिष्टमेतत् स्याद् भेदनार्थं सिकताऽश्मरीणाम् ४७
- यः पिबेद्र जनीं सम्यक् सगुडां तुषवारिणा
- तस्याशु चिररूढाऽपि यात्यस्तं मेढ्रशर्करा ४८
- पिबतः कुटजं दध्ना पथ्यमन्नञ्च खादतः
- निपतन्त्यचिरात्तस्य नियतं मेढ्रशर्कराः ४९
- त्रापुसबीजं पयसा पीतं वा नारिकेरजं कुसुमम्
- विण्मूत्रशर्करायां भवति सुखी कतिपयैर्दिवसैः ५०
- श्वदंष्ट्रा वरुणः शुण्ठीक्वाथं क्षौद्र युतं पिबेत्
- शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रहरं परम् ५१
- कूष्माण्डकरसो हिङ्गुयवक्षारसमायुतः
- वस्तौ मेढ्रे सशूलघ्नो मूत्रकृच्छ्रहरः परम् ५२
- पुनर्नवाऽयो रजनी श्वदंष्ट्रा वरी प्रवालश्च सदर्भपुष्पः
- क्षीराम्रमद्येक्षुरसप्रपिष्टो हितो भवेदश्मरिशर्करासु ५३
- वरुणत्वक्छिलाभेदशुण्ठीगोक्षुरकैः कृतः
- कषायः क्षारसंयुक्तः शर्कराश्च भिनत्यपि ५४
- पञ्चमूल्यास्तृणाख्यायास्तथा गोक्षुरकस्य तु
- पृथग्दशपलान्भागाञ्जलद्रो णे विपाचयेत् ५५
- तत्सिद्धं मूत्रदोषेषु शर्करास्वश्मरीषु च
- चतुर्भागावशिष्टेन घृतप्रस्थं विपाचयेत्
- गुडगोक्षुरबीजञ्च कल्कं तत्र प्रदापयेत् ५६
- तत्सिद्धंमूत्रदोषेषु शर्करास्वश्मरीषु च
- स्नेहने भोजने चैव प्रयोज्यं सर्पिरुत्तमम् ५७
- त्वक्पत्रफलमूलस्य वरुणस्य त्रिकण्टकात्
- कषायेण पचेत्तैलं वस्तिनाऽस्थापनेन च
- शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रात्प्रमुच्यते ५८
- कुशाग्निमन्थशैरीयनल दर्भेक्षुगोक्षुराः
- कपोतवङ्कावसुकवशि रेन्दीवरीशराः ५९
- धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः
- एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ६०
- पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना
- शर्कराश्मरिरोगेषु मूत्रकृच्छ्रं च दारुणे ६१
- प्रदरे योनिशूले च शुक्रदोषे तथैव च
- वन्ध्यागर्भप्रदं प्रोक्तं तैलमेतत्कुशादिकम् ६२
- नागरवारुणगोक्षुर पाषाणभित्कपोतवङ्कजः क्वाथः
- गुडयवशूकविमिश्रः पीतो हन्त्यश्मरीमुग्राम् ६३
- त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्
- अविक्षीरेण सप्ताहं पेयमश्मरिनाशनम् ६४
- पिबेद्वरुणजं मूलं क्वाथं तत्कल्कसंयुतम्
- क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिनाशनः ६५
- शृङ्गवेरयवक्षार पथ्याकालीयकान्वितः
- दधिमण्डो भिनत्त्युग्रामश्मरीमाशु पानतः ६६
- पाषाणभेदवरुणगोक्षुरककपोतवङ्कजः क्वाथः
- गिरिजतुगुडप्रगाढः कर्कटिकात्रपुसबीजयुतः ६७
- पेयोऽश्मरीमवश्यं दुर्भेदामपि भिनत्ति योगवरः
- शिखरिणमिव शतकोटिः शतमन्योर्हस्तनिर्मुक्तः ६८
- श्रीकरिणीफलबीजं पिष्टं मथितेन यः पुमानद्यात्
- शाकमशितमथवाऽस्या हन्याद् रोगाश्मरीपीडाम् ६९
- श्वदंष्ट्रैरण्डबीजानि नागरं वरुणत्वचः
- एतत्क्वाथवरं प्रातः पिबेदश्मरिनाशनम् ७०
- रक्तोद्भवे रुक्षमृणालतालकाशेक्षुबालेक्षुकुशोदकानि
- पिबेत्सिताक्षौद्र युतानि खादेद्विदारिमिक्षुत्रपुसानि चैव ७१
- पलान्यष्टौ तु कुर्वीत क्षाराणां वरुणत्वचाम्
- तदर्द्धं यावशूकन्तु ततोऽप्यर्द्धं गुडात्स्मृतम् ७२
- एकीकृत्य विमृद्यैतत्खादेत्कर्षप्रमाणतः
- घर्माग्बुपानतोऽवश्यं कृच्छ्राश्मरिविनाशनम् ७३
- वरुणकभस्मपरिस्रुतसलिलं तच्चूर्णं यावशूकयुतम्
- क्वथनीयं तत्तावद्यावच्चूर्णत्वमायाति ७४
- तद्गुडयुक्तं हन्यात्तदुदारामश्मरीं घोराम्
- प्लीहानं गुल्मवरं श्रोण्यां कुक्षौ रुजां तीव्राम् ७५
- आमचयं बस्तिगदान्कृच्छ्रं वा वातजं घोरम्
- वह्निसदनं सुकष्टामश्ममयीमश्मरीञ्चाशु ७६
- नो जग्धं कृमिभिर्घनं सुतरुणं स्निग्धं शुचिस्थानजं
- घस्रे पुण्यनिरीक्षिते वरुणकं छित्वा तुलां ग्राहयेत्
- संगृह्माशु चतुर्गुणासु विपचेत्पादावशेषं जलं
- तत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत्पुनः ७७
- ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलं
- शुण्ठ्येर्वारुकबीजगोक्षुरकणापाषाणभिच्छीतलाः
- कूष्माण्डात्रपुसाक्षबीजकुनटीवास्तूकशोभाञ्जनैः
- द्रा क्षैलागिरिजाभयाकृमिहृतां चूर्णीकृतानां क्षिपेत् ७८
- पथ्याशी प्रतिवासरं गुडममुं युञ्ज्यात्प्रमाणं नरः
- खादेत्तस्य समस्तदोषजनिताश्मर्यः पतन्ति द्रुतम् ७९
- कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्
- बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ८०
- दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं मूत्राभिघातञ्च समूत्रबन्धम्
- आमूलमेतानि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ८१
- शरादिपञ्चमूल्या वा कषायेण पचेद् घृतम्
- प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम्
- अश्मरीमूत्रकृच्छघ्नं रेतोमार्गरुजाऽपहम् ८२
- वरुणस्य तुलां क्षुण्णां जलद्रो णे विपाचयेत्
- पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ८३
- वरुणं कदलद्यं बिल्वं तृणजं पञ्चमूलकम्
- अमृतां चाश्मभेदञ्च बीजञ्च त्रपुसस्यच ८४
- शतपर्वा तिलक्षारं पालाशक्षारमेव च
- यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ८५
- अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ८६
- जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णञ्च मस्तु च
- अश्मरीं शर्कराञ्चैव मूत्रकृच्छ्रञ्च नाशयेत् ८७
- सैन्धवाद्यन्तु यत्तैलमृषिभिः परिकीर्त्तितम्
- तत्तैलं द्विगुणं क्षीरं पचेद्वीरतरादिना ८८
- क्वाथेन पूर्वकल्केन साधितन्तु भिषग्वरैः
- एतत्तैलवरं श्रेष्ठमश्मरीणां निवारणम् ८९
- मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा
- भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ९०
- वीरावृक्षाश्म भेदाग्निमन्थश्योनाकपाटलाः
- वृक्षादनीसहैरण्ड भल्लूकोशीरपद्मकम् ९१
- कुशकाशशरेक्षूणामास्फोताकोकिलाक्षयोः
- शतावरी श्वदंष्ट्रा च सेत्कटाह्वयवञ्जुलाः ९२
- कपोतवङ्का श्रीपर्णी काश्मरीमूलसंयुता
- एतैः कषायैः कल्कैश्च तैलं धीरो विपाचयेत् ९३
- वातपित्तविकारेषु वस्तिं दद्याद्विचक्षणः
- शर्कराऽश्मरिशूलघ्नं मृत्रकृच्छ्रविनाशनम् ९४
- पुनर्नवाऽमृता भीरुसक्षारलवणत्रयैः
- शटीकुष्ठवचा मुस्तरास्नाकट्फलपौष्करैः ९५
- यवानीहपुषाहिङ्गु शताह्वासाजमोदकैः
- विडङ्गातिविषायष्टी पञ्चकोलकसंयुतैः ९६
- एतैरक्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
- गोमूत्रं द्विगुणं देयं काञ्जिकं तद्वदेव तु ९७
- पुनर्नवाऽद्यमित्येतत्तैलं पानेन वस्तिना
- शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रप्रमोचनम् ९८
- कठ्यूरुवस्तिमेढ्रस्य कुक्षिवङ्क्षणसंयुतम्
- कफवातामशूलघ्नमन्त्रवृद्धेश्च नाशनम् ९९
- ब्रध्नाधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते
- सर्वदैवोपयोज्यस्तु गणो वीरतरादिकः १००
- घृतैः शीतैः कषायैश्च क्षीरैश्चोत्तरवस्तिभिः
- बलवत्यो न शाम्यन्ति प्रत्याख्याय समुद्धरेत् १०१
- यदृच्छया मूत्रमार्गमायान्त्यस्त्वन्तराश्रिताः
- स्रोतसाऽपहरेच्छित्त्वा बडिशेनाथ चोद्धरेत् १०२
- इति सप्तत्रिंशोऽश्मरीरोगाधिकारः समाप्तः ३७
प्रमेहपिडिकाऽधिकारः
[सम्पाद्यताम्]- अथाष्टत्रिंशत्तमः प्रमेहपिडिकाऽधिकारः ३८
- आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
- नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् १
- मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतं प्रदूष्य
- करोति मेहान्समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि
- क्षीणेषु दोषेष्ववकृष्य धातून्सन्दूष्य मेहान्कुरुतेऽनिलश्च २
- साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः
- समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते ३
- कफश्च पित्तं पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः
- मज्जारसौजः पिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ४
- दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
- दाहश्चिक्कणता देहे तृट् स्वाद्वास्यञ्च जायते ५
- सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता ६
- दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः
- मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ७
- अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्
- मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छलम् ८
- इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः
- सान्द्री भवेत्पर्युषितं सान्द्र मेहेन मेहति ९
- सुरामेही सुरातुल्यमुपर्यच्छमधोघनम्
- संहृष्टरोमा पिष्टेन पिष्टवद् बहुलं सितम् १०
- शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति
- मूर्ताणून्सिकता मेही सिकतारूपिणो मलान् ११
- शीतमेही सुबहुशो मधुरं भृशशीतलम्
- शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
- लालातन्तुयुतं मूत्रं लालामेहेन पिच्छलम् १२
- गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् १३
- नीलमेहेन नीलाभं कालमेही मसीनिभम्
- हारिद्र मेही कटुकंहरिद्रा सन्निभं दहत् १४
- विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम्
- विस्रमुष्णं सलवणं रक्ताभं रक्तमेहिनः १५
- वसामेही वसामिश्रं वसाऽभ मूत्रयेन्मुहुः
- मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहः १६
- कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः
- हस्ती मत्त इवाजस्रं मूत्रवेगविवर्जितम्
- सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति १७
- अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः
- उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम् १८
- वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
- दाहस्तृष्णाऽम्लको मूर्च्छा विड्भेदः पित्तजन्मनाम् १९
- वातजानामुदावर्त्तकम्पहृद्ग्रहलोलताः
- शूलमुन्निद्र ता शोषःश्वासः कासश्चजायते २०
- यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
- पिडिकापीडितं गाढं प्रमेहो हन्ति मानवम् २१
- मूर्च्छाच्छर्दि ज्वरश्वासकासवीसर्पगौरवैः
- उपद्र वैरुपेतो यः प्रमेही दुष्प्रतिक्रियः २२
- रजः प्रवर्त्ततेयस्मान्मासि मासि विशोधयेत्
- सर्वाञ्छरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः २३
- जातः प्रमेहीमधुमेहिनो वा न साध्यरोगः स हि बीजदोषात्
- ये चापि केचित्कुलजा विकारा
- भवन्ति तांश्चापि वदन्त्यसाध्यान् २४
- सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः
- मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च २५
- मधुमेहोमधुनिभो जायते स किल द्विधा
- क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा २६
- आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन्
- क्षणात्क्षीणःक्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् २७
- मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति
- सर्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः २८
- शराविका कच्छपिका जालिनी विनताऽलजी
- मसूरिका सर्षपिका पुत्रिणी सविदारिका २९
- विद्र धिश्चेति पिडिकाः प्रमेहोपेक्षया दश
- सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ३०
- अन्तोन्नता च तद्रू पा निम्नमध्या शराविका
- गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी ३१
- सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
- जालिनी तीव्रदाहा तु मांसजालसमावृता ३२
- अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
- महती पिडिका नीला सा बुधैर्विनता स्मृता ३३
- महत्यल्पचिता ज्ञेया पिडिकाऽपि च पुत्रिणी
- मसूरदलसंस्थाना विज्ञेया तु मसूरिका ३४
- रक्ताऽसिता स्फोटचिता विज्ञेया त्वलजी बुधैः
- विदारीकन्दवद् वृत्ता कठिना च विदारिका ३५
- विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका तु सा ३६
- ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः ३७
- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
- तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ३८
- गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
- सोपद्र वादुर्बलाग्नेः पिडिकाः परिवर्जयेत् ३९
- तृट्शोषमांससंकोचमोहहिक्कामदज्वराः
- विसर्पमर्मसंरोधाः पिडिकानामुपद्र वाः ४०
- श्यामाककोद्र वोद्दाल गोधूमाश्चणकास्तथा
- आढक्यश्च कुलत्थाश्चपुराणा मेहिनां हिताः ४१
- मेहिनां तिक्तशाकानिजाङ्गला हरिणाण्डजाः
- यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः ४२
- सौवीरकं सुरा तक्रं तैलं क्षीरं घृतं गुडम्
- अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ४३
- तत्रादित एव प्रमेहिणमुपस्निग्धमन्यतमेन प्रियङ्ग्वादिसिद्धेन तैलेन वामयेत् प्रगाढं विरेचयेच्च विरेचनादनन्तरं सुरसाऽदिक कषायेणास्थापयेतै महौषधभद्र दारुमुस्तावापेन मधुसैन्धवयुक्तेनै दह्यमानं वा न्यग्रोधादिकषायेण निस्तैलेन वातोत्कटेषु मेहेषु स्नेहपानं विशेषतः पारिजातजयानिम्बवह्निगायत्रीणां पृथक् ४४
- पाठायाः सागुरोः पीताद्बयस्य शारदस्य च
- जलेक्षुमद्यसिकताशनैर्ल वणपिष्टकान्
- सान्द्र मेहान्क्रमाद् घ्नन्ति क्वाथाश्चाष्टौ समाक्षिकाः ४५
- हरीतकीकट्फलमुस्तलोध्राः पाठाविडङ्गार्जुनधन्वनाश्च
- उभे हरिद्रे तगरं विडङ्गं कन्दं विशालाऽजुनदीप्यकाश्च ४६
- दार्वी विडङ्गः खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि
- दार्व्यग्निमन्थो त्रिफलावचा च पाठा च मूर्वा च तथा श्वदंष्ट्रा ४७
- वचा ह्युशीराण्यभया गुडूची वृषं शिवाचित्रकसप्तपर्णाः
- पादैः कषायाः कफमेहविज्ञैर्दशोपदिष्टा मधुसम्प्रयुक्ताः ४८
- उशीरलोध्रार्जुन चन्दनानामुशीरमुस्तामलकाभयानाम्
- पटोलनिम्बामलकामृतानां मुस्ताभयामुष्ककवृक्षकाणाम् ४९
- लोध्राम्रकासीसकधातकीनां विश्वार्जुनैलाशिरिषोत्पलानाम्
- शिरीषधान्यार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम् ५०
- अश्वत्थपाठाऽसनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्
- पैत्तेषु मेहेषु दशोपदिष्टाः कषाययोगा मधुसम्प्रयुक्ताः ५१
- कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम्
- पित्तमेहघ्ननिर्यूहसिद्धं पित्तहरं घृतम् ५२
- कम्पिल्लसप्तच्छदशालजानि बैभीतरोहीतककौटजानि
- पटोलकालीयगदागुरूणि क्षौद्रे ण लिह्यात्कफपित्तमेही ५३
- दूर्वाकसेरुपूतीक कुम्भीकप्लवशैवलम्
- जलेन क्वथितं पीतं शुक्रमेहहरं परम् ५४
- त्रिफलाऽरग्वधद्रा क्षाकषायो मधुसंयुतः
- पीतो निहन्ति फेनाभं प्रमेहं नियतं नृणाम् ५५
- अश्वत्थाच्चतुरङ्गुल्यान्न्यग्रोधादेः फलत्रयात्
- सरक्तसारमञ्जिष्ठाः क्वाथाः पञ्च समाक्षिकाः
- नीलहारिद्र फेनाख्यक्षारमाञ्जिष्ठकाह्वयान् ५६
- मधुना त्रिफलाचूर्णमथवाश्मजतूद्भवम्
- लौहजं वाभयोत्थं वा लिहेन्मेहनिवृत्तये ५७
- कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः
- सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः ५८
- फलत्रिकंदारुनिशां विशालां मुस्तां च निष्क्वाथ्य निशांश कल्कम्
- पिबेत्कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुच्छ्रितेषु ५९
- गोभक्षितान्यवान्मूत्रभावितान्केवलानपि
- चित्रकोदश्विता खादेन्निम्बमुद्गरसेन वा ६०
- भक्षयीताम्बुना मासं प्रमेही यवपिष्टकम्
- मेदोघ्ना बद्धमूत्राश्च समाः सर्वेषु धातुषु
- यवास्तस्माद्विशिष्यन्ते प्रमेहेषु विशेषतः ६१
- त्रिकटु त्रिफला पाठा मूलं शोभाञ्जनस्य च
- विडङ्गतण्डुला हिङ्गु तथा कटुकरोहिणी ६२
- बृहती कण्टकारी च हरिद्रे द्वे यवानिका
- केबुकं शालपर्णी च तथाऽतिविषचित्रकौ ६३
- सौवर्चलं जीरकञ्च हपुषा धान्यमेव च
- एषां कर्षप्रमाणञ्च श्लक्ष्णचूर्णञ्च कारयेत् ६४
- यवशक्तु पलानाञ्च नवतिं द्वितयाधिकाम्
- घृततैलमधूनाञ्च प्रत्येकञ्च पलानि षट् ६५
- एभिः कर्षप्रमाणञ्च प्रत्यहं मोदकं सुधीः
- भक्षयेन्नाशयेदुग्रान्प्रमेहानतिदारुणान् ६६
- न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम्
- आम्रं कपित्थं जम्बूञ्च प्रियालं ककुभं धवम् ६७
- मधूकं मधुकं लोध्रं वरुणं पारिभद्र कम्
- पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी ६८
- करञ्जत्रिफलाशक्रभल्लातकफलानि च
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६९
- न्यग्रोधाद्यमिदं चूर्णं मधुना सह योजयेत्
- फलत्रयरसं चानु पिबेन्मूत्रं विशुद्ध्य्ति ७०
- एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च
- प्रशमं यान्ति योगेन पिडिका न च जायते ७१
- चूर्णानिलोहत्रिफलासितानां क्षौद्रे ण लिह्याच्च पृथक् समं वा
- मेहान्समस्तानपि नाशयन्ति पीतः कदाचित्स्वरसो गुडूच्याः ७२
- त्रिकटु त्रिफलातुल्यं गुग्गुलुञ्च समांशिकम्
- गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद् बुधः ७३
- दोषकालबलापेक्षी भक्षयेच्चानुलोमिकीम्
- न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ७४
- प्रमेहान्वातरोगांश्च वातशोणितमेव च
- मूत्राघातं मूत्रदोषं प्रदरं चाशु नाशयेत् ७५
- दाडिमस्य च बीजानि कृमिघ्नस्य च तण्डुलाः
- रजनी चविकाऽजाजी नागरं त्रिफला कणा ७६
- त्रिकण्टकस्य च फलं यवानी धान्यकं तथा
- वृक्षाम्लचविकालोध्रसिन्धूद्भवसमाहितैः ७७
- कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत्
- भोज्ये पाने प्रदातव्यं सर्वर्त्तुषु च मात्रया ७८
- प्रमेहान्विंशतिं चैव मूत्राघातं तथाऽश्मरीम्
- कृच्छ्रं सुदारुणञ्चैव हन्यादेव न संशयः ७९
- विबन्धानाहशूलघ्नं कामलाज्वरनाशनम्
- दाडिमाद्यं घृतं चैतदश्विभ्यां परकीर्त्तितम् ८०
- श्वदंष्ट्रा सकणा मुस्ता गुडूची फल्गुपल्लवाः
- दर्भाङ्कुरास्तु गण्डीरो रोहिषस्य च पल्लवाः ८१
- काला पुनर्नवा श्यामा शारिवा देवदारु च
- पिप्पली शृङ्गवेरञ्च विडङ्गं मरिचानि च
- पाठा कम्पिल्लकं भार्गी द्वे हरिद्रे निदिग्धिका
- एरण्डमूलं दन्ती च चित्रकं कटुरोहिणी ८३
- एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
- यावन्त्येतानि चूर्णानि तावत्स्याच्चाप्ययोरजः ८४
- ततो विडालपदकं पिबेदुष्णेन वारिणा
- अलाभे चापि मद्यानां प्रमेहान्हन्तिविंशतिम् ८५
- श्वयथुञ्च तथाऽशासि पाण्डुरोगं हलीमकम्
- उदाराण्यथ शूलानि प्लीहानं चापकर्षति ८६
- एभिर्गोमूत्रपिष्टैस्तु गुटिकाः कारयेद्भिषक्
- रोगेष्वेतेषु मुख्याः स्युर्बलमांसविवर्द्धनाः ८७
- कण्टकार्या गुडूच्याश्च संहरेच्च शतं शतम्
- संकुट्योदूखले विद्वांश्चतुद्रो र्णे!ऽम्भसः पचेत् ८८
- तेन पादावशेषेण घृतप्रस्थं विपाचयेत्
- त्रिकटुत्रिफलारास्नाविडङ्गान्यथ चित्रकम् ८९
- काश्मर्याणाञ्च मूलानि पूतीकस्य त्वगेव च
- कलिङ्ग इति सर्वाणि सूक्ष्मपिष्टानि कारयेत् ९०
- अक्षमात्रां पिबेत्प्राज्ञः शालिभिः पयसा हि तैः
- प्रमेहं मधुमेहञ्च मूत्रकृच्छ्रं भगन्दरम् ९१
- आलस्यं चान्त्रवृद्धिञ्च कुष्ठरोगं विशेषतः
- क्षयञ्चैव निहन्त्येतन्नाम्ना सिंहामृतं घृतम् ९२
- दशमूलं करञ्जौ द्वौ देवदारु हरीतकी
- वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ९३
- सुधानीपकदम्बाश्च बिल्वं भल्लातकानिच
- शटी पुष्करमूलं च पिप्पलीमूलमेव च ९४
- पृथग्दशपलान्भागानेतास्तोयेऽमणे पचेत्
- यवकोलकुलत्थानां प्रस्थं प्रस्थं विपाचयेत् ९५
- तेन पादावशेषेण घृतप्रस्थं पचेद्भिषक्
- निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ९६
- शृङ्गबेरविडङ्गानि चव्यं कम्पिल्लकं तथा
- गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम् ९७
- एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम्
- कुष्ठप्रमेहगुल्मांश्च श्वयथुं वातशोणितम् ९८
- प्लीहोदराणि चार्शांसि विद्र धिं पिडिकाश्च याः
- अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ९९
- पृथक्तोयेऽमणे ह्यत्र पचेद् द्र व्याच्छतं शतम्
- शतत्रयाधिके तोये व्युत्सर्गः क्रमतो भवेत् १००
- अर्जुनपटोलनिम्बैः सवचादीप्यकरसासमञ्जिष्ठैः
- भल्लातकागुरुघनैः सगदानलचन्दनोशीरैः १०१
- गोक्षुरकसोमवल्कैर्नवपटोलैर्हरिद्र या त्रिफलया
- अश्मन्तकार्जुनाभ्यां दीप्यकयुक्तेन चैव लोध्रेण १०२
- मञ्जिष्ठाऽतिविषाभ्यां कल्ककषायैः पचेत्तैलम्
- कफवातोत्थे मेहे पित्तकृते साधयेत्सर्पिः १०३
- सारवर्गकषायं चतुर्थांशावशिष्टमवतार्य परिस्राव्य पुनरपनीय साधयेत्
- सिद्ध्य्ति चामलकलोध्रप्रियङ्गुदन्तीकृष्णायसताम्रचूर्णान्यावपेत्
- तदेतद् दग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्
- ततो यथायोगमुपयञ्जीत एष लेहः सर्वमेहानपहन्ति १०४
- गोकण्टकं सदलमूलफलं गृहीत्वा सङकुट्टितं पलशतं क्वथितं तु तोये
- पादस्थितेन सलिलेन पलानि दत्वा पञ्चाशतं तु विपचेदथ शर्करायाः १०५
- तस्मिन्घनत्वमुपगच्छति चूर्णितानि दद्यात्पलद्वयमितानि सुभाजनानि
- शुण्ठीकणामरिचनागदलत्वगेला जातीयकोषककुभत्रपुसीफलानि १०६
- वांशीपलाष्टकमिह प्रणिधाय नित्यं लेह्यं तु शुद्धममृतं पलसम्मितन्तु
- हन्त्याशु मूत्रपरिदाहविबन्धशुक्रकृच्छ्राश्मरीरुधिरमेहमधुप्रमेहान् १०७
- असनश्च प्रियालञ्च शालं खादिरकं तथा
- शालवर्गं तथा ग्राह्यं भवेच्चैतद्विचक्षणैः १०८
- मधुमेहत्वमापन्नं भिषग्भिः परिवर्जितम्
- योगेनानेन मतिमान्प्रमेहिणमुपाचरेत् १०९
- मासि शुक्रे शुचौ वाऽपि शैलाः सूर्यांशुतापिताः
- जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ११०
- शिलाजत्विति विख्यातं महाव्याधिनिवारणम्
- त्रप्वादीनां तु लोहानां षण्णामन्यतमञ्च यत् १११
- ज्ञेयं स्वगन्धतश्चापि षड्योनिप्रथितं क्षितौ
- लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ११२
- तस्य लोहस्य तद्वीर्यं रसं वापि बिभर्त्ति तत्
- त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ११३
- यथा तथा प्रयोगेपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
- तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ११४
- कटुपाक्युष्णवीर्यञ्च शोषणं छेदनं तथा
- तत्र यल्लघु कृष्णाभं स्निग्धं निःशर्करञ्च यत् ११५
- गोमूत्रगन्धि नीलं वा तत्प्रधानञ्च वक्ष्यते
- तद्भावितं सारगणैर्हृतदोषं दिनादितः ११६
- पिबेत्सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्
- जाङ्गलेन रसेनाद्यात्तस्मिञ्जीर्णे तु भोजनम् ११७
- उपयुज्य तुलामेकाममृतस्यास्य जन्मतः
- विजित्य मधुमेहाख्यमातङ्कं रोगकारकम् ११८
- वपुर्वर्णबलोपेतः शतं जीवत्यनामयः
- शतं शतं तुलायां तु सहस्रं दशतौलिकम् ११९
- भल्लातकविधानेन परिहारविधिः स्मृतः
- मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् १२०
- शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्
- व्यपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् १२१
- न सोऽस्ति रोगो यं वापि न निहन्याच्छिलाजतु
- शर्करा चिरसम्भूतां भिनत्ति च तथाश्मरीम् १२२
- भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः
- एवं च माक्षिकं धातुं तापीजममृतोपमम् १२३
- मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्
- व्यपोहति जराकुष्ठमेहपाण्ड्वामयक्षयान् १२४
- तद्भावितान्कुलत्थांश्च कपोतांश्च विवर्जयेत् १२५
- प्रमेहपिडिकानां प्राक्कार्यं रक्तावसेचनम्
- पाटनञ्च विपक्वानां तासां पाने प्रशस्यते १२६
- क्वाथो वनस्पतेर्बास्त्यं मूत्रं तीक्ष्णञ्च शोधनम्
- एलादिकेन कल्केन तैलं च व्रणरोपणम् १२७
- आरग्वधादिना क्वाथं कुर्यादुद्वर्त्तनानि च
- शालसारादिना सेकान्भोज्यादींश्चणकादिना १२८
- प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्
- विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते १२९
- इत्यष्टत्रिंशः प्रमेहपिडिकाऽधिकारः समाप्तः ३८
स्थौल्याधिकारः
[सम्पाद्यताम्]- अथैकोनचत्वारिंशत्तमः स्थौल्याधिकारः ३९
- अव्यायामदिवा स्वप्नश्लेष्मलाहारसेविनः
- मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत् १
- मेदसावृतमार्गत्वात्पुष्यन्त्यन्ये न धातवः
- मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु २
- क्षुद्र श्वासतृषामोहस्वप्नक्रथनसादनैः
- युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः ३
- मेदस्तु सर्वभूतानामुदरे हि व्यवस्थितम्
- अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ४
- मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
- चरन्सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ५
- तस्मात्स शीघ्रं जरयत्याहारञ्चाभिकाङ्क्षति
- विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात् ६
- एतावुपद्र वकरौ विशेषादग्निमारुतौ
- एतौ हि दहतः स्थूलं वनं दावानिलौ यथा ७
- मेदस्यतीव संवृद्धे सहसैवानिलादयः
- विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम् ८
- मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः
- अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९
- स्थूले स्युर्दुस्तराः कुष्ठा विसर्पाः सभगन्दराः
- ज्वरातीसारमेहार्शःश्लीपदापचिकामलाः
- मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवोऽणवः १०
- पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्र वाः
- लेखना वस्तयश्चैव सेव्या मेदस्विना सदा ११
- धूम्रपानं तथा क्रोधो रक्तमोक्षणमेव च
- जीर्णे च भोजनं कार्यं यवगोधूमयोःसदा १२
- उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः
- सन्तर्पणकृतैर्दोषैःस्थौल्याद् युक्त्या विमुच्यते १३
- श्रमचिन्ताव्यवायाध्व क्षौद्र जागरणप्रियः
- हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः १४
- सचव्यजीरकव्योषहिङ्गु सौवर्चलानलाः
- मस्तुना शक्तवः पीता मेदोघ्ना वह्निदीपनाः १५
- फलत्रयं त्रिकटुकं सतैलं लवणान्वितम्
- षण्मासादुपयोगेन कफमेदोऽनिलापहम् १६
- विडङ्गं नागरं क्षारः काललोहरजो मधु
- यवामलकचूर्णन्तु योगोऽतिस्थौल्यनाशनः १७
- मूलं वा त्रिफलाचूर्णं मधुयुक्तं मधूदकम्
- बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्र संयुतः १८
- अतिस्थौल्यहरः प्रोक्तो मण्डकः सेवितो ध्रुवम् १९
- कर्कशदलवह्निसलिलं शतपुष्पाहिङ्गुसंयुक्तम्
- पिबतो निहन्तिनियतं सर्वभवां मेदसांवृद्धिम् २०
- क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः
- मेदोवृद्धिविनाशाय भक्तं मण्डसमन्वितम् २१
- गवेधुकानां पिष्टानां यवानाञ्चाथ सक्तवः
- सक्षौद्र त्रिफलाक्वाथः पीतो मेदोहरो मतः २२
- गुडूचीत्रिफलाक्वाथस्तथा लोहरजोऽन्वितः
- अश्मजं महिषाक्षं वा तेनैव विधिना पचेत् २३
- अतिमुक्तबीजमध्यं मधुलीढंहन्त्युदरवृद्धिम्
- मधुना चित्रकमूलं तथैव हितभोजनो भुङ्क्ते २४
- यद्वोरुवूकमूलं मधुदिग्धं स्थाप्यते निशां सकलाम्
- तस्य सलिलस्य पानाज्जठरे वृद्धिः शमं याति २५
- प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम्
- उष्णमन्नस्य मण्डं वा पिबन्कृशतनुर्भवेत् २६
- बदरीपत्रकल्केन पेया काञ्जिकसाधिता
- स्थौल्यनुत्स्यादग्निमन्थरसक्वाथः शिलाजतु २७
- शैलेयकुष्ठागुरुदेवदारुकौन्तीसमुस्तान्यथ पञ्चपत्रैः
- श्रीवासस्पृक्काखरपुष्पदेवपुष्पं तथा सर्वमिदं प्रपिष्य
- धत्तूरपत्रस्य रसेन गाढमुद्वर्त्तनं स्थौल्यहरं प्रदिष्टम् २८
- अमृतात्रुटिवेल्लवत्सकं कलिपथ्याऽमलकानि गुग्गुलुः
- क्रमवृद्धमिदं मधुप्लुतं पिडिकास्थौल्यभगन्दराञ्जयेत् २९
- व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलं समम्
- खादन्सर्वाञ्जयेद् व्याधीन्मेदःश्लेष्मामवातजान् ३०
- त्र्! यूषणाग्निघनवेल्लवचाभिर्भक्षयन्समघृतं महिषाक्षम्
- आशु हन्ति कफमारुतमेदोदोषजान्बलवतोऽपि विकारान् ३१
- गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम्
- त्रिवृताऽलम्बुषा शुण्ठी निर्गुण्डी चित्रकस्तथा ३२
- एषां दशपलान्भागांस्तोये पञ्चाढके पचेत्
- पादशेषं ततः कृत्वा कषायमवतारयेत् ३३
- पलद्वादशकं देयं रुक्मलोहं सुचूर्णितम् ३४
- पुराणसर्पिषः प्रस्थं शर्कराऽष्टपलान्वितम्
- पचेत्ताम्रमये पात्रे सुशीते चावदारिते ३५
- प्रस्थार्द्धं माक्षिकं देयं शिलाजतु पलद्वयम्
- एलात्वचोः पलार्द्धञ्च विडङ्गानि पलत्रयम् ३६
- मरिचं चाञ्जनं कृष्णा द्विपलं त्रिफलाऽन्वितम्
- पलद्वयन्तु कासीसं सूक्ष्मचूर्णीकृतं बुधैः ३७
- चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत्
- ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम् ३८
- अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा
- वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम् ३९
- कामलां पाण्डुरोगञ्च श्वयथुं सभगन्दरम्
- मूर्च्छामोहविषोन्मादगराणि विषमाणि च ४०
- स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम्
- कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम् ४१
- बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम्
- श्रीकरं पुत्रजननं वलीपलितनाशनम् ४२
- नाश्नीयात्कदलीकन्दं काञ्जिकं करमर्दकम्
- करीरं कारवेल्लञ्च ककारादि विवर्जयेत् ४३
- शालसारादिनिर्यूहं चतुर्थांशावशेषितम्
- परिस्रुतं ततः शीतं मधुना मधुरीकृतम् ४४
- फाणितीभावमापन्नं गुडं शोधितमेव च
- सूक्ष्मपिष्टानि चूर्णानि पिप्पल्यादेर्गणस्य च ४५
- एकध्यमावपेत्कुम्भे संस्कृते घृतभाविते
- पिप्पलीचूर्णमधुभिः प्रलिप्ते चान्तरे शुचौ ४६
- सूक्ष्माणि तीक्ष्णलोहस्य तनुपत्राणि बुद्धिमान्
- खदिराङ्गारतप्तानि बहुशः प्रक्षिपेद् बुधः ४७
- सुपिधानं ततः कृत्वा यवपल्वे निधापयेत्
- मासांस्त्रींश्चतुरो वाऽपि यावद्वा लोहसंक्षयात् ४८
- ततो जातरसं जन्तुः प्रातः प्रातर्यथाबलम्
- उपयुञ्ज्याद्यथायोग्यमाहारं चास्य कल्पयेत् ४९
- एष स्थूलं समाकर्षेन्नष्टस्याग्नेः प्रबोधनः
- शोथघ्नः कुष्ठमेहघ्नो गुल्मपाण्ड्वामयापहः ५०
- प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
- अभिष्यन्दापहरणे लोहारिष्टो महागुणः ५१
- व्योषचित्रकशिग्रूणि त्रिफलां कटुरोहिणीम्
- बृहत्यौ द्वे हरिद्रे च पाठामतिविषां स्थिराम्
- हिङ्गुकेवुकमूलानि यवानीं धान्यचित्रकम्
- सौवर्च्चलमजाजीञ्च हपुषां चेति चूर्णयेत् ५३
- चूर्णतैलघृतक्षौद्र भागाः स्युर्मानतः समाः
- शक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत् ५४
- प्रयोगात्त्वस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः
- प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ५५
- प्लीहा पाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः
- हृद्रो गो राजयक्ष्मा च कासश्वासौ गलग्रहः ५६
- कृमयो ग्रहणीदोषः श्वैत्र्! यं स्थौल्यमतीव च
- नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्द्धते ५७
- त्रिफलातिविषामूर्वात्रि वृच्चित्रकवासकैः
- निम्बारग्वधषड्ग्रन्था सप्तपर्णनिशाद्वयैः ५८
- गुडूचीन्द्रा सुरीकृष्णा कुष्ठसर्षपनागरैः
- तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ५९
- पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम्
- स्थूलतालस्यपाण्ड्वादीञ्जयेत्कफकृतान्गदान् ६०
- चन्दनं कुङ्कमोशीरप्रियङ्गुत्रुटिरोचनाः
- तुरुष्कागुरुकस्तूरीकर्पूरा जातिपत्रिका ६१
- जातीकङ्कोलपूगानां लवङ्गस्य फलानि च
- नलिका नलदं कुष्ठं हरेणु तगरं प्लवम् ६२
- नवव्याघ्रनखं स्पृक्का बोलं दमनकं तथा
- स्थौणेयकं चोरकञ्च शैलेयं सैलवालुकम् ६३
- सरलं सप्तपर्णञ्च लाक्षा तामलकी तथा
- लामज्जकं पद्मकञ्च धातक्याः कुसुमानि च ६४
- प्रपौण्डरीकं कर्चूरं समांशैः शाणमात्रकैः
- महासुगन्धमित्येतत्तैलप्रस्थेन साधयेत् ६५
- प्रस्वेदजलदौर्गन्ध्यकण्डूकुष्ठहरं परम्
- अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोपि वा ६६
- युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः
- सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ६७
- वन्ध्यापि लभते गर्भं षण्ढोपि पुरुषायते
- अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम् ६८
- इति महासुगन्धि तैलम्
- वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः
- बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः ६९
- अलम्बुषाभवं चूर्णं पीतं काञ्जिकसंयुतम्
- दौर्गन्ध्यं नाशयत्याशु दुष्टं मेदोभवं नृणाम् ७०
- बिल्वशिवा समभागा लेपाद् भुजमूलगन्धमपहरति
- परिणतपिडिकाञ्चापि पूतिकरञ्जोत्थबीजं वा ७१
- चिञ्चापत्रस्वरसं म्रक्षितकल्कादियोजितं जयति
- दग्धहरिद्रो द्वर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम् ७२
- शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः
- पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः ७३
- हिलमोचिरसो युक्तश्चूर्णैरुदधिफेनजैः
- प्रलेपेन हरत्याशु देहदौर्गन्ध्यमुत्कटम् ७४
- हरीतकीं तु सम्पिष्य गात्रमुद्वर्त्तयेन्नरः
- पश्चात्स्नानं प्रकुर्वीत देहस्वेदप्रशान्तये ७५
- हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलञ्च
- एषोऽङ्गरागः कथितोऽङ्गनानां जम्ब्वाः कषायस्तु नराधिपानाम् ७६
- गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम्
- कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्र जनीद्वयेन ७७
- बब्बूलस्य दलैः सम्यग्वारिणा परिपेषितैः
- गात्रमुद्वर्त्तयेत्पश्चाद्धरीतक्या सुपिष्टया ७८
- भूय उद्वर्त्तनं कृत्वा पश्चात्स्नानं समाचरेत्
- प्रस्वेदान्मुच्यते शीघ्रं ततस्त्वेवं समाचरेत् ७९
- बिल्वाम्रजम्बूफलपूरकाणां पत्रैः कपित्थस्य दलानुमिश्रैः
- आपूर्ववत्कर्मविधानयोगैर्वचा विशोध्या वरगन्धहेतोः ८०
- पथ्यानखीचन्दनकुष्ठसर्जैः पुनः पुनश्चागुरुशर्कराभ्याम्
- धूपो जनानां हृदयापहारी विख्यातनामा मलयानिलोऽयम् ८१
- चण्डांशुकतिलैर्लोध्र शिरीषोशीरकेशरैः
- उद्वर्त्तनं भवेद् ग्रीष्मे स्वेदकर्मनिवारणम् ८२
- सुरया सममभयाफलचूर्णं मधुना विलिह्य प्रत्यूषे
- स्वेदान्हत्वा लभते पुरुषोप्यत्यन्तसौरभ्यम् ८३
- मल्लीकुसुमाभयकरिलेपो घर्मे विचर्चिकादाहे
- विचकिलपत्रहरिद्रे पर्कटिपत्रञ्च दूर्वया सहितम् ८४
- सम्पिष्य गात्रलेपाद्घर्मविचर्ची शमं याति ८५
- हस्तपादस्रुतौ योज्यो गुग्गुलः पञ्चतिक्तकः
- अशक्तौ पञ्चतिक्ताख्यं घृतं खादेदतन्द्रि तः ८६
- इत्येकोनचत्वारिंशत्तमः स्थौल्याधिकारो वा मेदोरोगाधिकारः समाप्तः ३९
कार्श्याधिकारः
[सम्पाद्यताम्]- अथ चत्वारिंशत्तमः कार्श्याधिकारः ४०
- वातो रुक्षान्नपानानि लङ्घनं प्रमिताशनम्
- क्रियाऽतियोगः शोकश्च वेगनिद्रा विनिग्रहः १
- नित्यं रोगो रतिर्नित्यं व्यायामो भोजनाल्पता
- भीतिर्धनादिचिन्ता च कार्श्यकारणमीरितम् २
- शुष्कस्फिगुदरग्रीवा धमनीजालसन्ततिः
- त्वगस्थिशोषोऽतिकृशः स्थूलपर्वाननो मतः ३
- प्लीहकासक्षयश्वासगुल्मार्शांस्युदराणि च
- भृशं कृशं प्रधावन्ति रोगाश्च ग्रहणीमुखाः
- कश्चिदन्यः कृशोऽतीव बलवान्दृश्यते तदा ४
- आधानसमये यस्य शुक्रभागोऽधिको भवेत्
- मेदोभागस्तु हीनः स्यात्स कृशोऽपि महाबलः ५
- मेदसस्त्वधिको यस्य शुक्रभागोऽल्पको भवेत्
- स स्निग्धोऽपि सुपुष्टोऽपि बलहीनो विलोक्यते ६
- रुक्षान्नादिनिमित्ते तु कृशे युञ्जीत भेषजम्
- बृंहणं बलकृद् वृष्यं तथा वाजीकरञ्च यत् ७
- पीताऽश्वगन्धा पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
- कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाऽम्बुवृष्टिः ८
- अश्वगन्धस्य कल्केन क्वाथे तस्मिन्पयस्यपि
- सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम् ९
- पुष्टिकृद्वालरोगोक्तमश्वगन्धाघृतं भजेत्
- वाजीकरोदितं तद्वदश्वगन्धाघृतादिकम् १०
- स्वभावादतिकार्श्योयः स्वभावादल्पपावकः
- स्वभावादबलो यश्च तस्य नास्ति चिकित्सितम् ११
- इति चत्वारिंशत्तमः कार्श्याधिकारः समाप्तः ४०
उदराधिकारः
[सम्पाद्यताम्]- अथैकचत्वारिंशत्तम उदराधिकारः ४१
- रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
- अजीर्णान्मलिनैश्चान्नैश्चीयन्ते मलसञ्चयात् १
- रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः
- प्राणानपानान्संदूष्य जनयन्त्युदरं नृणाम् २
- आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
- शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः
- दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि ३
- पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः
- सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ४
- तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु
- कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम् ५
- शुष्ककासोऽङ्गमर्दश्च गुरुतामलसंग्रहः
- श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत् ६
- सतोदभेदमुदरं तनुकृष्णशिराततम्
- आध्मातदृतिवच्छब्दमाहतं प्रकरोति च ७
- वायुश्चात्र सरुक्छब्दो विचरेत्सर्वतो गतिः ८
- पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
- भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ९
- पीतताम्रशिरानद्धं सस्वेदं सोष्म दह्यते
- धूमायते मृदुस्पर्शः क्षिप्रपाकं प्रदूयते १०
- श्लेष्मोदरेऽङ्गसदनं श्वयथुर्गौरवं तथा
- तन्द्रो त्क्लेशोऽरुचिः स्वापः कासः शौक्ल्यं त्वगादिषु ११
- उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
- चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् १२
- स्त्रियोऽन्नपानं नखलोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः
- यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाच्च १३
- तस्याशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
- तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च १४
- स चातुरो मूर्च्छति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च
- दूष्योदरं कीर्त्तितमेतदेव प्लीहोदरं कीर्त्तयता निबोध १५
- वर्द्धते प्लीहवृद्ध्या यद्विद्यात्प्लीहोदरं हि तत्
- हृद्वामे वर्द्धते पार्श्वे निमित्तं तत्र यस्य यत् १६
- प्रवृद्धे प्लीह्नि लिङ्गानि यान्युक्तानि भिषग्वरैः
- प्लीहोदरेपि दृश्यन्ते तानि सर्वाणि देहिनाम्
- प्लीहोदरस्यैव मेदो यकृद्दाल्युदरं तथा १७
- सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव १८
- यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
- सञ्चीयते यस्य मलो नरस्य शनैः शनैः सङ्करवच्च नाड्याम् १९
- निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादतिचाल्पमल्पम्
- हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति २०
- शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
- तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः २१
- नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
- एतत्परिस्राव्युदरं प्रदिष्टं क्षतोदरं कीर्त्तयतो निबोध २२
- यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ वा निरूढः
- पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि २३
- स्नेहोपलिप्तेष्वथ वाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
- स्निग्धं महत्तत्परिवृत्तनाभि समन्ततः पूर्णमिवाम्बुना च
- यथा दृतिः क्षुभ्यति कम्पते च शब्दायते वाऽप्युदकोदरं तत् २४
- जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
- बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् २५
- पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
- प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् २६
- पयः पूर्णा दृतिरिव क्षोभे शब्दकरं मृदु
- अप्रव्यक्तशिराशून्यं नीरार्त्तमुदरं महत् २७
- आलस्यमास्यवैरस्यं मूत्रं बहुशकृद् द्रुतम्
- जातोदकस्य लिङ्गंस्यान्मन्दाग्निः पाण्डुताऽपि च २८
- शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
- बलशोणितमांसाग्निपरिक्षीणञ्च वर्जयेत् २९
- पार्श्वभङ्गान्नविद्वेष शोफातीसारपीडितम्
- विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ३०
- एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा
- निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ३१
- कुष्ठं दन्ती यवक्षारो व्योषं त्रिलवणं वचा ३२
- अजाजी दीप्यकं हिङ्गु स्वर्जिकाचव्यचित्रकम्
- शुण्ठी चोष्णाम्भसा पीता वातोदररुजाऽपहा ३३
- लशुनस्य तुलामेकां जलद्रो णे विपाचयेत्
- त्रिकुटु त्रिफला दन्ती हिङ्गुसैन्धवचित्रकम् ३४
- देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा
- सौवर्चलं विडङ्गानि दीप्यको गजपिप्पली ३५
- एतेषां पलिकान्भागांस्त्रिवृतः षट् पलानि च
- पिष्ट्वा कषायेणानेन तैलं मृद्वग्निना पचेत् ३६
- तत्पिबेत्प्रातरुत्थाय यथाऽग्निबलमात्रया
- निहन्ति सकलान् रोगानुदराणि विशेषतः ३७
- मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन्
- पार्श्वकुक्षिभवं शूलमामशूलमरोचकम् ३८
- यकृदष्ठीलिकानाहान्प्लीहानं चाङ्गवेदनाम्
- मासमात्रेण नश्यन्ति ह्यशीतिर्वातजा गदाः ३९
- पित्तोदरे तु बलिनं पूर्वमेहं विरेचयेत्
- पयसा च त्रिवृत्कल्कै रुबूकस्य शृतेन च ४०
- पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक्
- नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये ४१
- नागरत्रिफलाकल्कै र्दध्यम्बुपरिपेषितैः
- पाचितं तैलमाज्यं वा पिबेत्सर्वोदरेषु च ४२
- शालिषष्टिक गोधूमयवनीवारभोजनम्
- निरूहो रेचनं श्रेष्ठं सर्वेषु जठरेषु च ४३
- आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः
- व्यायामाध्वदिवास्वप्नस्नेहपानानि वर्जयेत् ४४
- तथोग्रलवणोष्णानि विदाहीनि गुरूणि च
- नाद्यादन्नानि जठरे तोयपानञ्च वर्जयेत् ४५
- उदराणां मलाढ्यत्वाद् बहुशः शोधनं हितम्
- क्षीरमेरण्डजं तैलं पिबेन्मूत्रेण वाऽसकृत् ४६
- वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्
- शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ४७
- यवानीहपुषाऽजाजीव्योषयुक्तं कफोदरी
- सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः ४८
- यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका
- कारवी पिप्पलीमूलमजगन्धा शटी वचा ४९
- शताह्वा जीरकं व्योषं स्वर्णक्षीरी च चित्रकम्
- द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ५०
- विडङ्गश्च समांशानि दन्त्या भागत्रयं भवेत्
- त्रिवृद्विशाला द्विगुणा शातला स्याच्चतुर्गुणा ५१
- एष नारायणो नाम्ना चूर्णो रोगगणापहः
- एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ५२
- तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना
- आनद्धवाते सुरया वातरोगे प्रसन्नया ५३
- दधिमण्डेन विड्भेदे दाडिमाम्बुभिरर्शसि
- परिकर्त्तिषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ५४
- भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे
- हृद्रो गे ग्रहणीरोगे कुब्जे मन्देऽनले ज्वरे ५५
- दंष्ट्राविषे मूलविषे सगरे कृत्त्रिमे विषे
- यथाऽह स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ५६
- स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकर्षम्
- घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षमथार्द्धकर्षम् ५७
- पीत्वोष्णमम्भोऽनुपिबेद्विरेके पेयां रसं वा प्रपिबेद्विधिज्ञः
- नाराचमेतज्जठरामयानां युक्त्योपयुक्तं प्रवदन्ति सन्तः ५८
- वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम्
- निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये ५९
- पुनर्नवा दारुनिशा सतिक्ता पटोलपथ्यापिचुमन्दमुस्ताः
- सनागराच्छिन्नरुहेति सर्वैः कृतः कषायो विधिना विधिज्ञैः ६०
- गोमूत्रयुग्गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम्
- सर्वाङ्गशोथोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ६१
- इत्येकचत्त्वारिंशत्तम उदरोगाधिकारः समाप्तः ४१
शोथाधिकारः
[सम्पाद्यताम्]- अथ द्विचत्वारिंशत्तमः शोथाधिकारः ४२
- शुद्ध्य्मायाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
- दध्याममृच्छाकविरोधिपिष्टगरोषसृष्टान्ननिषेवणाच्च १
- अर्शांस्यचेष्टा वपुषो ह्यशुद्धिर्मर्माभिघाती विषमा प्रसूतिः
- मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः २
- रक्तपित्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः
- नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्
- उत्सेधं संहतं शोथं तमाहुर्निचयादतः ३
- सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ शिरातनुत्वम्
- सलोमहर्षञ्च विवर्णतां च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ४
- चरस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्त्तियुतोऽनिमित्ततः
- प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली स्याच्छ्वयथुः समीरणात् ५
- मृदुः सगन्धाऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
- यस्तूष्यते स्पर्शरुगक्षिरागवान्स पित्तशोथो भृशदाहपाकवान् ६
- गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
- सकृच्छ्रजन्मप्रशमो निपीडितो नचोन्नमेद्रा त्रिबली कफात्मकः ७
- निदानाकृतिसंसर्गाज्ज्ञेयः शोथो द्विदोषजः ८
- सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ९
- अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
- हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः १०
- रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
- भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ११
- विषजः सविषप्राणिपरिसर्पणमूत्रणात्
- दंष्ट्रादन्तनखाघातादविषप्राणिनामपि १२
- विण्मूत्रशुक्रोपहतमलवद्वस्तुसङ्करात्
- विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्
- मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः १३
- दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशये स्थिताः
- पित्ताशयस्था मध्ये तु वर्चः स्थानगतास्त्वधः
- कृत्स्नं देहमनुप्राप्य कुर्युः सर्वसरन्तथा १४
- छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च
- सप्तकोऽय सदौर्बल्यः शोथस्यैते उपद्र वाः १५
- श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
- यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् १६
- यो मध्यदेशे श्वयथुः कष्टः सर्वाङ्गगश्च यः
- अर्द्धाङ्गेऽरिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति १७
- अनन्योपद्र वकृतः शोथः पादसमुत्थितः
- पुरुषं हन्ति नारीन्तु मुखजो बस्तिजो द्वयम् १८
- शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम्
- वातिके श्वयथौ शस्तं पानाहारपरिग्रहे १९
- पटोलत्रिफलाऽरिष्टदार्वीक्वाथः सगुग्गुलुः
- तद्वत्पित्तकृतं शोथं हन्ति श्लेष्मोद्भवं तथा २०
- मिश्रे मिश्रक्रमं कुर्यात्सर्वजे सर्वमेव हि
- बिल्वपत्ररसं पूतं सोषणं त्रिभवे पिबेत् २१
- शोथे त्वागन्तुजे कुर्यात्सेकलेपादि शीतलम्
- भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका २२
- महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः
- तिलैर्लिप्तः शमं याति शोथो भल्लातकोत्थितः २३
- यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः
- शोथमारुष्करं हन्ति चूर्णैः शालदलस्य च २४
- महिष्या नवनीतं वा लेपाद् दुग्धतिलान्वितम् २५
- पथ्यानिशाभार्ग्यमृताऽग्निदार्वीपुनर्नवादारुमहौषधानाम्
- क्वाथः प्रसह्योदरपाणिपादमुखाश्रितं हन्त्यचिरेण शोथम् २६
- फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधितम्
- वातश्लेष्मोद्भवं शोथं हन्याद् वृषणसम्भवम् २७
- बृश्चीरदेवद्रुमनागरैर्वा दन्तीत्रिवृत्त्र् यूषणचित्रकैर्वा
- दुग्धं सुसिद्धं विधिना निपीतं गीतं परं शोथहरं भिषग्भिः २८
- सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथहृत्
- गोमूत्रेणापि कुर्वीत सुखोष्णेनावसेचनम् २९
- पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा
- अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहृत् ३०
- गुडार्द्र कं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलद्यं वा
- कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ३१
- शोथप्रतिश्यायगलास्यरोगान्सश्वासकासारुचिपीनसादीन्
- जीर्णज्वरार्शोग्रहणीविकारान्हन्यात्तथान्यान्कफवातरोगान् ३२
- विश्वं गुडेन तुल्यं बृश्चीररसानुपानमभ्यस्तम्
- विनिहन्ति सर्वशोथं घनवृन्दं चण्डवायुरिव ३३
- कणानागरजं चूर्णं सगुडं शोथनाशनम्
- आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ३४
- गुडात्पलत्रयं ग्राह्यं शृङ्गबेरपलत्रयम्
- शृङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम्
- चूर्णमेतत्समुद्दिष्टं सर्वश्वयथुनाशनम् ३५
- माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
- एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ३६
- शुष्कमूलकवर्षा भूदारुरास्नामहौषधैः
- पक्वमभ्यञ्जनं तैलं सशूलं श्वयथुं हरेत् ३७
- इति द्विचत्वारिंशत्तमः शोथाधिकारः समाप्तः ४२
वृद्धिब्रध्नाधिकारः
[सम्पाद्यताम्]- अथ त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः ४३
- दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः
- मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः १
- वृद्धिं करोति कोषस्यफलकोषाभिवाहिनीः
- रुद्ध्वा रुद्धगतिर्वायुर्धमनीर्मुष्कगामिनीः २
- वातपूर्णदृतिस्पर्शो रुक्षो वातादहेतुरुक् ३
- पक्वोदुम्बरसङ्काशःपित्ताद् दाहोष्मपाकवान् ४
- कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ५
- कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ६
- कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः ७
- मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः
- अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ् मृदुः
- मूत्रकृच्छ्रमधः कुर्यात्सञ्चलं फलकोषयोः ८
- वातकोपिभिराहारैः शीततोयावगाहनैः
- धारणेरणभाराध्व विषमाङ्गप्रवर्त्तनैः
- क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा
- पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्
- कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ९
- उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
- प्रपीडितोऽन्त स्वनवान्प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः १०
- यस्यान्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात्
- अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः ११
- अत्यभिष्यन्दिगुर्वन्न शुष्कपूत्यामिषाशनात्
- करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु
- ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत् १२
- वृद्धावत्यशनं मार्गमुपवासं गुरूणि च
- वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत् १३
- वातवृद्धौ पिबेत् स्निग्धं यथाप्राप्तं विरेचनम्
- सक्षीरञ्च पिबेत्तैलं मासमेरण्डसम्भवम् १४
- गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः
- वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीम् १५
- पित्तग्रन्थिक्रमेणैव पित्तवृद्धिमुपाचरेत्
- जलौकाभिर्हरेद्र क्तं वृद्धौ पित्तसमुद्भवे १६
- चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्
- क्षीरपिष्टं प्रलेपेन दाहशोथरुजाऽपहम् १७
- त्रिकटुत्रिफलाक्वाथं सक्षारलवणं पिबेत्
- विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनम् १८
- लेपनाः कटुतीक्ष्णोष्णाः स्वेदनं रूक्षमेव च
- परिषेकोपनाहौ च सर्वमुष्णमिहेष्यते १९
- मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत्
- पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम् २०
- शीतमालेपनं शस्तं सर्वपित्तहरं तथा
- पित्तवृद्धिक्रमं कुर्यादामे पक्वे च रक्तजे २१
- स्विन्नं मेदः समुत्थन्तु लेपयेत्सुरसाऽदिना
- शिरोविरेचनद्र व्यैः सुखोष्णैर्मूत्रसंयुतैः २२
- संस्वेद्य मूत्रप्रभवं वस्त्रपटटेन वेष्टयेत्
- सीवन्याः पार्श्वतोऽधस्ताद्विध्येद् ब्रीहिमुखेन वै २३
- मुष्ककोषमगच्छन्त्या मन्त्रवृद्धौ विचक्षणः
- वातवृद्धिक्रमं कुर्यात्स्वेदं तत्राग्निना हितम् २४
- तैलमेरण्डजं पीत्वा बलासिद्धं यथोचितम्
- आध्मानशूलोपचितामन्त्रवृद्धिं जयन्नेरः २५
- रास्नायष्ट्यमृतैरण्डबलाऽरग्वधगोक्षुरैः
- पटोलेन वृषेणापि विधिना विहितं शृतम्
- रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति २६
- गन्धर्वहस्त तैलेन क्षीरेण विहितं शृतम्
- विशालामूलजं चूर्णं वृद्धिं हन्ति न संशयः २७
- वचासर्षपकल्केन प्रलेपः शोथनाशनः
- शिग्रुत्वक्सर्षपैर्लेपः शोथश्लेष्मानिलापहः २८
- शुद्धसूतं तथा गन्धं मृतान्येतानियोजयेत्
- लोहं वङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितम् २९
- तालकं तुत्थकञ्चापि तथा शङ्खवराटकम्
- त्रिकटु त्रिफलां चव्यं विडङ्गं वृद्धदारकम् ३०
- कर्चूरं मागधीमूलं पाठां सहवुषां वचाम्
- एलाबीजं देवकाष्ठं तथा लवणपञ्चकम् ३१
- एतानि समभागानि चूर्णयेदथ कारयेत्
- कषायेण हरीतक्या वटिकां टङ्कसम्मिताम् ३२
- एकां तां वटिकां यस्तु निगिलेद्वारिणा सह
- अण्डवृद्धिरसाध्याऽपि तथ्यं नश्यति सत्वरम् ३३
- भृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवः
- कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ३४
- अजाजी हवुषा कुष्ठं गोमेदं बदरान्वितम्
- काञ्जिकेन तु सम्पिष्टं तल्लेपो ब्रध्नजित्परः ३५
- इति त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः समाप्तः ४३
गलगण्डगण्डमाला ग्रन्थ्यर्बुदाधिकारः
[सम्पाद्यताम्]- अथ चतुश्चत्वारिंशत्तमो गलगण्डगण्डमाला ग्रन्थ्यर्बुदाधिकारः ४४
- निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
- महान्वा यदिवा ह्रस्वो गलगण्डं तमादिशेत् १
- वातः कफश्चापि गले प्रदुष्टौ मन्ये तु संश्रित्य तथैव मेदः
- कुर्वन्ति गण्डं क्रमतः स्वलिङ्गैः समाचितं तं गलगण्डमाहुः २
- तोदान्वितः कृष्णशिराऽवनद्धः श्यावारुणो वा पवनात्मकस्तु
- पारुष्ययुक्तश्चिरवृद्ध्य्पाको यदृच्छया पाकमियात्कदाचित्
- वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ३
- स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
- चिराच्च वृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् ४
- माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ५
- स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतोऽरुजश्च
- प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
- स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽणुशब्दं कुरुते च नित्यम् ६
- कृच्छ्राच्छ्वसन्तं मृदु सर्वगात्रं संवत्सरातीतमरोचकार्त्तम्
- क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ७
- कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु
- मेदः कफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डः ८
- ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
- कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् ९
- साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता त्वसाध्या १०
- वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च
- वृत्तोन्नतं विग्रथितन्तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ११
- आयम्यते वृश्च्यति तुद्यते च प्रभ्रश्यते मथ्यति भिद्यते च
- कृष्णो मृदुर्वस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् १२
- दन्दह्मते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
- रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नःस्रवेद् दुष्टमतीव चास्रम् १३
- शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः
- चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् १४
- शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
- मेदः कृतो गच्छति चात्र भिन्नो पिण्याकसर्पिःप्रतिमन्तु मेदः १५
- व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुश्च शिराप्रतानम्
- सङ्कोच्य सम्पीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् १६
- ग्रन्थिः शिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च
- अरुक्स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः १७
- गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमसृक्प्रदूष्य
- वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम्
- कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति १८
- वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च
- तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति १९
- दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कोच्य सम्पीड्य ततस्त्वपाकम्
- सास्रावमुन्नह्यति मांसपिण्डं मासाङ्कुरैरावृतमाशु वृद्धिम् २०
- स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं तु
- रक्तक्षयोपद्र वपीडितत्वात्पाण्डुर्भवेदर्बुदपीडितस्तु २१
- मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं समुपैति शोथम्
- अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् २२
- प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य २३
- यज्जायतेऽन्यात्खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
- यद् द्वन्द्वजातं युगपत्क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २४
- मांसार्बुदं त्वेतदसाध्यमाहुः साध्येष्वपीमानि विवर्जयेच्च
- सम्प्रस्रुतं मर्मसु यच्च जातं स्रोतःसु वा यत्तु भवेदचाल्यम् २५
- न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
- दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु २६
- सर्षपाञ्छिग्रुबीजानि शणबीजातसीयवान्
- मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् २७
- गलगण्डगण्डमालाग्रन्थयश्चैव दारुणाः
- प्रलेपादेव नश्यन्ति विलयं यान्ति सत्वरम् २८
- रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना
- लेपनं गलगण्डस्य चिरोत्थस्यापि शस्यते २९
- श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः
- सर्पिषा नियताहारो गलगण्डप्रशान्तये ३०
- तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम्
- सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यान्नसेविनाम् ३१
- तैलं पिबेद्वाऽमृतवल्लिनिम्बहिंस्राऽभयावृक्षकपिप्पलीभिः
- सिद्धं बलाभ्यां सह देवदारुणा हिताय नित्यं गलगण्डरोगी ३२
- यवमुद्गपटोलादिकटु रूक्षान्नभोजनम्
- वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ३३
- दापयेत्प्रच्छनान्यत्र गण्डगोपालिकोद्भवः
- प्रलेपस्त्वनुभूतोऽय बहुधा बहुभिर्जनैः ३४
- लवणं जलकुम्भीञ्च कणाचूर्णेन संयुतम्
- प्रभाते नित्यमश्नीयाद्गलगण्डप्रशान्तये ३५
- काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः
- माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ३६
- गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ३७
- पलमर्द्धपलञ्चापि पिष्टां तण्डुलवारिणा
- काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ३८
- काञ्चनारस्य गृह्णीयात्त्वचं पञ्चपलोन्मिताम्
- नागरस्य कणायाश्च मरिचस्य पलं पलम् ३९
- पथ्याबिभीतधात्रीणां पलमर्द्धं पृथक्पृथक्
- वरुणस्याक्षमेकं च पत्रकैलात्वचां पुनः ४०
- टङ्कं टङ्कं समादाय सर्वाण्येकत्र चूर्णयेत्
- यावच्चूर्णमिदं सर्वं तावानेवात्र गुग्गुलुः ४१
- संकुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत्
- गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ४२
- गलगण्डं जयत्युग्रमपचीमर्बुदानि च
- ग्रन्थीन्व्रणानि गुल्मांश्च कुष्ठानि च भगन्दरम् ४३
- प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः
- क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ४४
- चक्रमर्दकमूलस्य पलकल्के विपाचयेत्
- केशरागरसे तैलं कटुकं मृदुनाऽग्निना ४५
- पादांशिकं विनिक्षिप्य सिन्दूरमवतारयेत्
- एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ४६
- गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा
- हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ४७
- चन्दनं साभया लाक्षा वचा कटुकरोहिणी
- एतैस्तैलं शृतं पीत्वा समूलामपचीं हरेत् ४८
- व्योषं बिडङ्गं मधुकं सैन्धवं देवदारु च
- तैलमेभिः शृतं नस्यात्सकृच्छ्रामपचीं हरेत् ४९
- स्वर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः
- एतेन विहितो लेपो हन्ति ग्रन्थिं तथाऽबुदम् ५०
- ग्रन्थिर्न यो नश्यति भेषजेन निष्काश्य तं शस्त्रचिकित्सकेन
- जात्यादिपक्वेन घृतेन वैद्यो व्रणेन चान्येन च सञ्चिकित्सेत् ५१
- ग्रन्थिमुद्धृत्य तत्रापि व्रणोक्तं क्रममाचरेत्
- शिराग्रन्थिं विहायान्ये शेषे शस्त्रं प्रयुज्यते ५२
- ग्रन्थ्यर्बुदानां न यतो विशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः
- अतश्चिकित्सेद्भिषगर्बुदानि विधानविद् ग्रन्थिचिकित्सितेन ५३
- हरिद्रा लोध्रपत्राङ्गगृह धूममनःशिलाः
- मधुप्रगाढो लेपोऽय मेदोऽबुदहरः परः ५४
- मूलकस्य कृतः क्षारो हरिद्रा यास्तथैव च
- शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽबुदापहः ५५
- वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण
- अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्बुदं गच्छेत् ५६
- शिग्रुमूलकयोर्बीजं रक्षोघ्नं सुरसा यवम्
- तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्बुदशान्तये ५७
- इति चतुश्चत्वारिंशत्तमो गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः समाप्तः ४४
श्लीपदाधिकारः
[सम्पाद्यताम्]- अथ पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः ४५
- पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
- ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः १
- यः सज्वरो बङ्क्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण
- तच्छ्लीपदं स्यात्करकर्णनेत्रशिश्नौष्टनासास्वपि केचिदाहुः २
- वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम्
- अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ३
- पित्तजं पीतसंकाशं दाहज्वरयुतं भृशम्
- श्लैष्मिकन्तुभवेत्स्निग्धं श्वेतं पाण्डु गुरु स्थिरम् ४
- त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
- गुरुत्वञ्च महत्वञ्च यस्मान्नास्ति विना कफात् ५
- वल्मीकमिव सञ्जातं कण्टकैरुपचीयते
- अब्दात्मकं महत्तत्तु वर्जनीयं विशेषतः ६
- यच्छ्लैष्मिकाहारविहारजातैर्जातं तथा भूरिकफस्य पुंसः
- सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुकं चापि विवर्जनीयम् ७
- लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः
- प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ८
- सिद्धार्थशोभाञ्जनदेवदारुविश्वौषधैर्मूत्रयुतैः प्रलिम्पेत्
- पुनर्नवानागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ९
- धत्तूरैरण्डनिर्गुण्डी वर्षाभूशिग्रुसर्षपैः
- प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् १०
- असाध्यमपि यात्यस्तं श्लीपदं चिरकालजम्
- मूलेन सहदेवायास्तालमिश्रेण लेपनात् ११
- सप्तताम्बूलपत्राणां कल्कं तप्तेन वारिणा
- संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् १२
- शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत्
- श्लीपदानां विनाशाय मेदोदोषनिवृत्तये १३
- रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः
- वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम्
- सक्षौद्रं श्लीपदे लिह्याच्चिरोत्थं श्लीपदं जयेत्
- गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबेन्नित्यम्
- श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण १५
- इति पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः समाप्तः ४५
विद्रध्यधिकारः
[सम्पाद्यताम्]- अथ षट्चत्वारिंशत्तमो विद्रध्यधिकारः ४६
- त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः
- दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् १
- महामूलं रुजावन्तं वृत्तं वाऽप्यथ वाऽयतम्
- स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः २
- विद्र धिषड्विधत्वं विवृणोति
- पृथग् दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
- षण्णामपि हि तेषां तु लक्षणं सम्प्रचक्ष्यते ३
- कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः
- चिरोत्थानप्रपाकश्च विद्र धिर्वातसम्भवः ४
- पक्वोदुम्बरसंकाशःश्यावो वा ज्वरदाहवान्
- क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसम्भवः ५
- शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः
- चिरोत्थानप्रपाकश्च विद्र धिः कफसम्भवः
- तनुपीतसिताश्चैषामास्रावाः क्रमतो मताः ६
- नानावर्णरुजास्रावी घाटालो विषमो महान्
- विषमं पच्यते वाऽपि विद्र धिः सान्निपातिकः ७
- तैस्तैर्भावैरभिहते क्षतेवाऽपथ्यकारिणाम्
- क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ८
- ज्वरस्तृषा च दाहश्च जायते तस्य देहिनः
- आगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः ९
- कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः
- पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते १०
- आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षते
- गुर्वसात्म्यविरुद्धान्नशुष्कशाकाम्लभोजनैः ११
- अतिव्यवायव्यायामवेगाघातविदाहिभिः
- पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् १२
- वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
- गुदे वस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १३
- वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि चाप्यथ
- एषां लिङ्गानि जानीयाद् बाह्यविद्र धिलक्षणैः १४
- गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता
- नाभ्यां हिक्काजृम्भणं च कुक्षौ मारुतकोपनम् १५
- कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ
- वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् १६
- सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते
- श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः १७
- नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः १८
- अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति
- हृन्नाभिवस्तिवर्ज्येषु तेषु भिन्नेषु वाह्यतः
- जीवेत् कदाचित्पुरुषो नेतरेषु कदाचन १९
- साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकः
- आमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत् २०
- जलौकापातनं शस्तं सर्वस्मिन्नेव विद्र धौ
- रेको मृदुर्लङ्घनञ्च स्वेदः पित्तोत्तरं विना २१
- अपक्वे विद्र धौ युञ्ज्याद् व्रणशोथवदौषधम्
- वातघ्नमूलकल्कैस्तु वसातैलघृतान्वितैः २२
- सुखोष्णैर्बहुलैर्लेपः प्रयोज्यो वातविद्र धौ
- यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् २३
- विलीयते क्षणेनैव ह्यविपक्वस्तु विद्र धिः २४
- पैत्तिकं विद्र धिं वैद्यः प्रदिह्यात्सर्पिषा युतैः
- पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः २५
- पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत्
- पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् २६
- इष्टिका सिकता लोहकिट्टं गोशकृता सह
- मूत्रैः सुखोष्णैर्लेपेन स्वेदयेच्छ्लेष्मविद्र धिम् २७
- दशमूलीकषायेण सस्नेहेन रसेन वा
- शोथव्रणं वा कोष्णेन सशूलं परिषेचयेत् २८
- पित्तविद्र धिवत्सर्वाः क्रिया निरवशेषतः
- विद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः २९
- रक्तचन्दन मञ्जिष्ठानिशा मधुकगैरिकैः
- क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तके ३०
- पीता ह्येते निहन्त्याशु विद्र धिं कोष्ठसम्भवम्
- कृष्णाऽजाजी विशाला च धामार्गवफलं तथा ३१
- श्वेतवर्षाभुवो मूलं मूलं वा वरुणस्य च
- जलेन क्वथितं पीतमन्तर्विद्र धिहृत्परम् ३२
- गायत्रीत्रिफलानिम्बकटुकामधुकं समम्
- त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ३३
- मसूरान्निस्तुषान्दद्यादेष क्वाथो व्रणाञ्चयेत्
- गुल्मविद्र धिबीसर्पदाह मोहज्वरापहः ३४
- तृण्मूर्च्छाच्छर्दिहृद्रो गपित्तासृक्कुष्ठकामलाः
- शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत्
- तद्र सं मधुना पीत्वा हन्त्यन्तर्विद्र धिं नरः ३५
- शोभाञ्जनकनिर्यूहोहिङ्गुसैन्धवसंयुतः
- हन्त्यन्तर्विद्र धिं शीघ्रं प्रातः प्रातर्विशेषतः ३६
- इति षट्चत्वारिंशत्तमो विद्रध्यधिकारः समाप्तः ४६
व्रणशोथाधिकारः
[सम्पाद्यताम्]- अथ सप्तचत्वारिंशत्तमो व्रणशोथाधिकारः ४७
- पृथक्समस्तदोषोत्था रक्तजागन्तुजौ तथा
- व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः १
- विषमं पच्यते वातात्पित्तोत्थश्चाचिराच्चिरम्
- कफजः पित्तवच्छोथौ रक्तागन्तुसमुद्भवौ २
- मन्दोष्णताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
- मन्दवेदनता चापि शोथस्यामस्य लक्षणम् ३
- दह्यते दहनेनेव क्षारेणेव प्रपच्यते
- पिपीलिकागणेनेव दश्यते छिद्यते तथा ४
- भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
- पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ५
- सोषचोषो विवर्णः स्यादङ्गुल्येवावपीड्यते
- आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ६
- न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत्
- ज्वरस्तृष्णाऽरुचिश्चैतत्पच्यमानस्य लक्षणम् ७
- वेदनोपशमः शोथो लोहितोऽल्पो न चोन्नतः
- प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः ८
- उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
- वस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङगुलिपीडिते ९
- पूयश्च पीडयेदेकमन्तमन्ते च पीडिते
- बुभुक्षा व्रणशोथस्य भवेत्पक्वस्य लक्षणम् १०
- ॠतेऽनिलाद्रुङ् न विना न पित्तं पाकः कफञ्चापिविना न पूयः
- तस्माद्धि सर्वं परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः ११
- कालान्तरेणाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य
- पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः १२
- कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्
- पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता
- त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् १३
- कक्षं समासाद्य यथैव वह्निर्वातेरितः संदहति प्रसह्य
- तथैव पूयो ह्यविनिःसृतस्तु मांसं शिराः स्नायुमपीह खादेत् १४
- आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो भिषक्
- जानीयात्स भवेद्वैद्यः शेषास्तस्करवृत्तयः १५
- यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते
- श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ १६
- आदौ शोथहरोलेपस्ततस्तु परिषेचनम्
- विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् १७
- पाचनं भेदनं पश्चात्पीडनं शोधनं तथा
- रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः १८
- यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
- क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः १९
- बीजपूरजटाहिंस्रा देवदारु महौषधम्
- रास्नाऽग्निमन्थौ लेपोऽय वातशोथविनाशनः २०
- कल्कः काञ्जिकसम्पिष्टः स्निग्धो मधुकचन्दनैः
- दूर्वा च नलमूलञ्च पद्मकाष्ठञ्च केशरम्
- उशीरं बालकं पद्मं लेपोऽय पित्तशोथहा २१
- न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसकल्कलैः
- ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे २२
- आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः २३
- अजगन्धाऽजशृंगी च मञ्जिष्ठा सरलस्तथा
- एकैषिकाऽश्वगन्धा च लेपोऽयश्लेष्मशोथहा २४
- कृष्णापुराणपिण्याकं शिग्रुत्वक् सिकता शिवा
- मूत्रपिष्टः सुखोष्णोऽय प्रलेपः श्लेष्मशोथहा २५
- न रात्रौ लेपनं दद्याद्दत्तञ्च पतितं तथा
- न च पर्युषितं शुष्यमाणं तन्नैव धारयेत् २६
- तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः
- विना लेपेन निर्याति रात्रौ नालेपयेदतः २७
- रात्रावपि प्रलेपस्तुविधातव्योविचक्षणैः
- अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे २८
- यथाऽम्बुभिः सिच्यमानःशान्तिमग्निर्हि गच्छति
- दोषाग्निरेवं सहसा परिषेकेण शाम्यति २९
- वातघ्नौषधनिष्क्वाथै स्तैलैर्मांसरसैर्घृतैः
- उष्णैः संसेचयेच्छोथं वातिकं काञ्जिकेन च ३०
- पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्सुशीतलैः
- क्षीराज्यमधुखण्डेक्षुरसैःपित्तहरैःशृतैः ३१
- कफघ्नौषधनिष्क्वाथैः शीतैस्तु परिषेचयेत्
- तैलक्षाराम्बुमूत्रैश्च शोथं श्लेष्मसमुद्भवम् ३२
- जातस्य कठिनस्यास्य कार्यं विम्लापनं शनैः ३३
- अभ्यज्य स्वेदयित्वा तु वेणुनाढ्या शनैः शनैः
- विमर्दयेद्भिषङ् मन्दं तलेनाङ्गुष्ठकेन वा ३४
- वेदनोपशमार्थाय तथा पाकशमाय च
- अचिरोत्पतिते शोथे शोणितस्रावणं चरेत् ३५
- एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः
- रक्तं हि वेदनामूलं तच्चेन्नास्ति न चास्ति रुक् ३६
- विवर्णःकठिनः श्यावो व्रणोयश्चाल्पवेदनः
- विषाणैश्च विशेषेण जलौकाभिः पदैरपि ३७
- रुजावतां दारुणानां कठिनानां तथैव च
- शोथानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ३८
- शोथयोरुपनाहञ्च दद्यादामविदग्धयोः
- प्रशाम्यत्यविदग्धस्तु विदग्धः पक्वतां व्रजेत् ३९
- दशमूली बला रास्ना वाजिगन्धा प्रसारिणी
- मूलं वातरिपोः सिन्धुर्वारिपूर्णे घटे क्षिपेत् ४०
- शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम्
- शणकार्पासयोर्बीजमतसी च कुलत्थिका ४१
- तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः
- यथाप्राप्तैरमीभिश्च द्र व्यैरम्लेन संयुतैः ४२
- कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्विधिवच्छनैः
- अनेन प्रशमं याति वातशोथो न संशयः ४३
- पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च
- अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहा ४४
- न प्रशाम्यति यः शोथः प्रलेपादिविधानतः
- द्र व्याणि पाचनीयानि दद्यात्तत्रोपनाहने ४५
- शणमूलकशिग्रुणां फलानि तिलसर्षपाः
- अतसी शक्तवः किण्वमुष्णद्र व्यञ्च पाचनम् ४६
- अन्तः पूयेष्ववक्त्रेषु तथा चोत्सङ्गवत्स्वपि
- गतिमत्सु च रोगेषु भेदनं सम्प्रयुज्यते ४७
- रोगे व्यधेन साध्येतु यथादेशं प्रमाणतः
- शस्त्रं विधाय दोषांस्तु स्रावयेत्कथितं यथा ४८
- बालवृद्धासहक्षीणभीरूणां योषितामपि
- व्रणेषु मर्मजातेषु भेदनं द्र व्यलेपनम् ४९
- चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
- कपोतकाकगृध्राणां मललेपेन भेदनम् ५०
- क्षारद्र व्यं तथा क्षारो दारणः परिकीर्तितः
- हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः
- अत्यर्थं कठिने शोथे कथितो भेदनः परः ५१
- द्र व्याणां पिच्छिलानान्तु त्वङ्मूलातिप्रपीडनम्
- यवगोधूममाषाणां चूर्णानि च समासतः ५२
- शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति
- न चापिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ५३
- व्रणस्य तु विशुद्धस्य क्वाथः शुद्धिकरः परः
- पटोलनिम्बपत्रोत्थः सर्वत्रैव प्रयुज्यते ५४
- वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे
- आरग्वधादेः कफजे कषायः शोधने हितः ५५
- अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
- व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् ५६
- तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
- त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ५७
- एकं वा सारिवामूलं सर्वव्रणविशोधनम् ५८
- निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
- दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ५९
- लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
- भक्षणाच्छर्दिमन्दाग्निपित्तश्लेष्मकृमीन्हरेत्
- व्रणान्विशोधयेद्वत्तर्या सूक्ष्मान् हि सन्धिमर्मजान् ६०
- अभयात्रिवृतादन्ती लाङ्गलीमधुसैन्धवैः ६१
- निम्बपत्रघृत क्षौद्र दार्वीमधुकसंयुतैः
- वर्त्तिस्तिलानां कल्को वा शोधयेद्रो पयेद् व्रणम् ६२
- अपेतपूतिमांसानां मांसस्थानामरोहताम्
- कल्कस्तु रोपणोदेयस्तिलजो मधुसंयुतः ६३
- अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका
- समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ६४
- मधुयुक्ता सुरा पुंसां कथिता व्रणरोपणी
- सुषवीपत्रधत्तूर बलामोटाकुठेरकाः
- पृथगेतैः प्रलेपेन गम्भीरव्रणरोपणम् ६५
- ककुभोदुम्बराश्वत्थजम्बू कफललोध्रजैः
- त्वक्चूर्णैर्धूलिताः क्षिप्रं संरोहन्ति व्रणा ध्रुवम् ६६
- प्रियङ्गुधातकीपुष्पं यष्टीमधुजतूनि च
- सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूलनात् ६७
- यवचूर्णं समधुकं सतैलं सह सर्पिषा
- दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ६८
- करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
- लशुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ६९
- निम्बपत्रवचाहिङ्गुसर्पिर्लवणसर्षपैः
- धूपनं स्याद् व्रणे रुक्षकृमिकण्डूरुजाऽपहम् ७०
- ये क्लेदपाकस्रुतिगन्धवन्तो व्रणाश्चिरोत्थाः सतताश्च शोथाः
- प्रयान्ति ये गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलाशृतेन ७१
- पटोलनिम्बासनसार धात्रीपथ्याऽक्षनिर्यूहमहर्मुखेषु
- पिबेद्युतं गुग्गुलुना विसर्पविस्फोट दुष्टव्रणशान्तिमिच्छन् ७२
- मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम्
- प्रलेपः सघृतक्षौद्र स्त्वचः सावर्ण्यकृत्स्मृतः ७३
- जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वान्तरम्
- भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ७४
- तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः
- बालमूलकवार्त्ताकुपटोलैः कारवेल्लकैः ७५
- सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
- अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ७६
- अम्लं दधि च शाकञ्च मांसमानूपमौदकम्
- क्षीरं गुरूणि चान्नानि व्रणे च परिवर्जयेत् ७७
- व्रणे श्वयथुरायासात्स च रागश्च जागरात्
- तौ च रुक्च दिवास्वापात्ते च मृत्युश्च मैथुनात् ७८
- क्रुद्धे सद्योव्रणे कुर्यादूर्ध्वं चाधश्च शोधनम्
- क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ७९
- लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम्
- घृष्टे विदलिते चैव सुतरामिष्यते विधिः ८०
- छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत्
- रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ८१
- परिषेकं स्नेहपानं लेपं तत्रोपनाहनम्
- कुर्वन्ति स्नेहवस्तिञ्च रुजाघ्नं चौषधं पृथक् ८२
- खड्गादिच्छिन्नगात्रस्य तत्काले पूरितो व्रणः
- गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ८३
- कषाया मधुराः शीताः क्रियाः सर्वाः प्रयोजयेत्
- सद्योव्रणानां सप्ताहात्पश्चात्पूर्वोक्तमाचरेत् ८४
- आमाशयस्थे रुधिरे विदध्याद्वमनं नरः
- तस्मिन्पक्वाशयस्थे तु प्रकुर्वीत विरेचनम् ८५
- क्वाथो वंशत्वगैरण्डश्वदंष्ट्राऽश्मभिदा कृतः
- हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ८६
- यवकोलकुलत्थानां निःस्नेहेन रसेन च
- भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ८७
- जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा
- मञ्जिष्ठाऽभयसिक्थ तुत्थमधुकैर्नक्ताह्वबीजं समैः
- सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
- गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ८८
- वृद्धवैद्योपदेशेन पारम्पर्योपदेशतः
- जातीवृते तु संसिद्धं क्षेप्तव्यं सिक्थकं बुधैः ८९
- जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
- सिक्थकं मधुकं कुष्ठं द्वे निशे कटुरोहिणी ९०
- मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वङ्नीलमुत्पलम्
- सारिवा तुत्थकञ्चापि नक्तमालफलं तथा
- एतानि समभागानि कल्कीकृत्य प्रयत्नतः
- तिलतैलं पचेत्सम्यग्वैद्यः पाकविचक्षणः ९२
- विषव्रणे समुत्पन्ने स्फोटके कुष्ठरोगिणी
- दद्रुवीसर्परोगेषुकीटदष्टेषु सर्वथा ९३
- सद्यः शस्त्रप्रहारेण दग्धविद्धेषु चैव हि
- नखदन्तक्षते देहे दुष्टमांसापकर्षणे ९४
- म्रक्षणेन हितं तैलमिदं शोधनरोपणम्
- तैलं जात्यादिनाम्नैतत्प्रसिद्धं भिषगादृतम् ९५
- चित्रकरसोनरामठशरपुङ्खालाङ्गलीकसिन्दूरैः
- सविषैस्तथा सकुष्ठैः कटुतैलं साधु सम्पक्वम् ९६
- विपरीतमल्लसंज्ञं तैलं दुष्टव्रणं तथा नाडीम्
- बहुभेषजैरसाध्यामपथ्यभोक्तुश्च निस्तुदति ९७
- अमृतापटोलमूलत्रिफलात्रिकटुककृमिघ्नानाम्
- समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ९८
- प्रतिवासरमेकैकां गुटिकां खादेदिहापि परिमाणम्
- जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ९९
- प्लुष्टस्याग्निषु तपनं कार्यमुष्णं तथौषधम्
- सम्यक् स्विन्ने शरीरे तु स्विन्नं भवति शोभनम् १००
- प्रकृत्या सलिलं शीतं स्कन्दयत्यतिशोणितम्
- तस्मात्सुखयति ह्युष्णं न तु शीतं कदाचन १०१
- शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्यात्ततः पुनः
- घृतलेपप्रदेहांश्च शीतानेवास्य कारयेत् १०२
- सम्यदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
- सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्
- ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपयेत् १०३
- अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
- क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः १०४
- तिन्दुक्याश्च कषायैर्वा घृतमिश्रैर्प्रलेपयेत्
- सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् १०५
- सिक्थककर्दमजीरकमधुपथ्यासर्वमिश्रितं लेपात्
- गव्यं घृतमपहरति विपाकजनितं व्रणं सद्यः १०६
- सिद्धं कषायकल्काभ्यां पटोल्याः कटुतैलकम्
- दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् १०७
- वातास्रमस्रतं दुष्टं सशोथं ग्रथितं व्रणम्
- कुर्यात्सदाहंकण्ड्वाद्यं व्रणग्रन्थिस्तु स स्मृतः १०८
- कम्पिल्लकं विडङ्गानि त्वचं दार्व्यास्तथैव च
- पिष्ट्वा तैलं पचेत्तत्तु व्रणग्रन्थिहरं परम् १०९
- इति सप्तचत्वारिंशत्तमो व्रणशोथाधिकारो वा व्रणशोथा
- गन्तुव्रणाग्निदग्धव्रणाधिकारः समाप्तः ४७
भग्नाधिकारः
[सम्पाद्यताम्]- अथाष्टचत्वारिंशत्तमो भग्नाधिकारः ४८
- भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धावपि तत्र सन्धौ
- उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्यग्गतं क्षिप्तमधश्च भग्नम् १
- प्रसारणाकुञ्चनवर्त्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
- सामान्यतः सन्धिगतस्य लिङ्गमुत्पिष्टसन्धेः श्वयथोः समन्तात्
- विशेषतो रात्रिभवा रुजा च विश्लिष्टकेतौ च रुजा च नित्यम् २
- विवर्त्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति
- क्षिप्तेऽतिशूलं विगमं रुजश्च क्षिप्ते त्वधोरुग्विघटश्च सन्धेः ३
- भग्नन्तु काण्डे बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ४
- काण्डे त्वतः कर्कटकाश्वकर्णौ विचूर्णितं पिच्चितमस्थिखल्लितम्
- काण्डेषु भग्नं ह्यतिपातितञ्च मज्जागतं विस्फुटितञ्च वक्रम् ५
- छिन्नं द्विधा द्वादशधाऽपि काण्डे सामान्यमग्रे किल तस्य लिङ्गम् ६
- स्रस्ताङ्गता शोथरुजाऽतिवृद्धिस्तथा व्यथावृद्धिरतीव नित्यम्
- सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
- सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ७
- अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
- उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ८
- भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम्
- जघनं प्रतिपिष्टञ्च वर्जयेत्तु चिकित्सकः ९
- असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत्
- भग्नं स्तने गुदे पृष्ठे शङ्खे मूर्द्धनि वर्जयेत् १०
- सम्यक्संहितमप्यस्थि दुर्न्यासाद् दुष्टबन्धनात्
- सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ११
- तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु
- कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च १२
- पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
- पादयोरपि चास्थीनि वलयानि बभाषिरे १३
- आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना
- पङ्केनालेपनं कार्यं बन्धनञ्च कुशाऽन्वितम् १४
- अवनामितमुन्नह्येदुन्नतं चावपीडयेत्
- आञ्जेदतिक्षिप्तमधो गतं चोपरिवर्त्तयेत् १५
- मधूकोदुम्बराश्वत्थकदम्बनिचुलत्वचः
- वंशसर्जार्जुनानाञ्च कुशार्थमुपसंहरेत् १६
- पटस्योपरि बध्नीयान्न गाढं शिथिलं न च
- सप्तसप्तदिनाच्छीते घर्मे मुञ्चेत्त्र् यहात्त्र् यहात्
- मासान्ते पञ्चपञ्चाहाद्भग्नदोषवशेन वा १७
- आलेपनार्थं मञ्जिष्ठा मधूकं चाम्बुपेषितम्
- शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् १८
- सद्योऽभिघातजनिता आगन्तुश्वयथवः प्रशाम्यन्ति
- पिष्टकलवणालेपादम्लीकाफलरसाभ्यां वा १९
- आम्रातकजटाऽम्लीकाफलं पत्राणि शिग्रुजम् २०
- मूलं पौनर्नवं वर्द्धमानस्यापि च केम्बुकात्
- सर्वं संक्षुद्य तक्रेण काञ्जिकेन तथैव च २१
- पाचयित्वा चरेच्छ्रेष्ठं तेन पीडा प्रणश्यति
- शोथश्चास्थि च शीघ्रेण सन्धानं याति वै ध्रुवम् २२
- न्यग्रोधादिकषायन्तु सुशीतं परिषेचने
- पञ्चमूलीकषायं सक्षीरं दद्यात्सवेदने २३
- सुखोष्णमवचार्यं वा चक्रतैलं विजानता
- अविदाहिभिरन्नैश्च पिष्टकैः समुपाचरेत् २४
- ग्लानिर्हि निहता तस्य सन्धिविश्लेषकारिका
- मांसं मांसरसः क्षीरं सर्पिर्यूषःसतीनजः
- बृहणञ्चान्नपानञ्च देयं भग्नाय जानता २५
- गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्
- शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः २६
- सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम्
- सन्धिमुक्तेऽस्थिसम्भग्ने पिबेत्क्षीरेण वा पुनः २७
- रसोन मधुलाक्षाऽज्यसिताकल्कं समश्नताम्
- छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् २८
- चूर्णं पुरेण संयोज्य घृतेनार्जुनलाक्षयोः
- भग्नःसन्धानमायाति लीढं क्षीरघृताशिना २९
- मूलं शृगालविन्नायाः पीत्वा मांसरसेन तु
- चूर्णीकृत्य त्रिसप्ताहादस्थिभग्नमपोहति ३०
- आभाचूर्णं मधुयुतमस्थिभग्नस्त्र्! यहं पिबेत्
- पीते चास्थि भवेत्सम्यग्वज्रसारनिभं दृढम् ३१
- अम्लीकाफलकल्कैः सौवीरैस्तैलमिश्रितैः स्वेदात्
- भग्नाभिहतरुजाघ्नैरथ वौषधसाधितं श्वयथौ ३२
- आभाफलत्रिकव्योषैः सर्वैरेतैः समांशकैः
- तुल्यं गुग्गुलुना योज्यं भग्नसन्धिप्रसाधनम् ३३
- लाक्षाऽस्थिसंहृत्ककुभोऽश्वगन्धा चूर्णीकृता नागबला पुरश्च
- सम्भग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ३४
- रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले
- दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ३५
- तृतीयं सप्तरात्रन्तु भावयेन्मधुकाम्बुना
- ततः क्षीरं पुनः पीताञ्छुष्कान्सूक्ष्मान्विचूर्णयेत् ३६
- काकोल्यादि सयष्ट्याह्वां मञ्जिष्ठां सारिवां तथा ३७
- कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
- शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ३८
- पीडनार्थं तु कर्त्तव्यं सर्वगन्धैः शृतं पयः
- चतुर्गुणेन पयसा तत्तैलं पाचयेत्पुनः ३९
- यष्टीमंशुमतीम्पत्रं जीवन्तीं तुरगं तथा
- रोध्रं प्रपौण्डरीकञ्च तथा कालानुसारिवाम् ४०
- शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
- पिष्ट्वा शृङ्गाटकञ्चैव प्रागुक्तान्यौषधानि च ४१
- एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्नि
- एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ४२
- आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
- मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ४३
- बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयङ्गताः
- पथ्यं पाने तथाऽभ्यङ्गे नस्ये वस्तिषु भोजने ४४
- ग्रीवास्कन्धोरसां वृद्धिरेतेनैव प्रजायते
- मुखञ्च पद्मप्रतिमं ससुगन्धिसमीरणम् ४५
- राजार्हमेतत्कर्त्तव्यं राज्ञामेव चिकित्सकैः
- तिलचूर्णसमं तत्र मिलितं चूर्णमिष्यते ४६
- पूर्वे वयसि जातं हि भग्नं सुकरमादिशेत्
- अल्पदोषस्य जन्तोश्च काले तु समशीतले ४७
- प्रथमे वयसि त्वेवं मासात्सन्धिः स्थिरो भवेत्
- मध्यमे द्विगुणात्कालादन्तिमे त्रिगुणात्तथा ४८
- नैति पाकं यथा भग्नं तथा यत्नेन रक्षयेत्
- पक्वमांसशिरास्नायु तद्धि कृच्छ्रेण सिध्यति ४९
- पतनादभिघाताद्वा शूनभङ्गं यदक्षतम्
- शीतान्सेकान्प्रदेहांश्च भिषक्तस्यावचारयेत् ५०
- सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः
- प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत्
- वातव्याधिविनिर्दिष्टान्स्नेहांस्तत्रापि योजयेत् ५१
- लवणं कटुकक्षारमम्लमायासमैथुनम्
- व्यायामञ्च न सेवेत भग्नो रुक्षान्नमेव च ५२
- भग्नसन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
- शुभचेष्टाप्रचारञ्च सम्यक्सन्धितमादिशेत् ५३
- इति श्री मिश्रलटकनतनयश्रीमन्मिश्रभावविरचिते भावप्रकाशे
- मध्यखण्डेऽष्टचत्वारिंशत्तमो भग्नाधिकारः समाप्तः ४८
- तृतीयोभागेऽपि समाप्तः