भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०१ भविष्यपुराणम्
अध्यायः २०२
वेदव्यासः
अध्यायः २०३ →

रत्नाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम् ।।
यत्प्रदानान्नरो याति लोकान्सप्तर्षिसेवितान् ।। १ ।।
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ।।
मध्यमः पञ्चशतिकस्त्रिशतेनावरः स्मृतः ।। २ ।।
अल्पवित्तस्तु कुर्वीत मुक्ताफलशतेन च ।।
चतुर्थांशेन विष्कंभपर्वताः स्युः समंततः ।। ३ ।।
पूर्वेणवज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः ।।
पुष्परागयुतः कार्यो विद्वद्भिर्गंधमादनः ।। ४ ।।
वैडूर्यविद्रुमैः पश्चात्सावित्रो विपुलाचलः ।।
पद्मरागं ससौवर्णमुत्तरेणापि विन्यसेत् ।। ५ ।।
धान्यपर्वतवच्छेषमत्रापि परिकल्पयेत् ।।
तद्वदावाहनं कृत्वा वृक्षान्देवांश्च कांचनाम् ।। ६ ।।
पूजयेत्पुष्पनैवेद्यैः प्रभाते तु विसर्जनम् ।।
पूर्ववद्गुरुऋत्विग्भ्यां इमान्मंत्रानुदीरयेत् ।।७।।
यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः ।।
त्वं च रत्नमयो नित्यमतः पाहि महाचल ।। ८ ।।
यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः ।।
पूजारत्नप्रदानेन तस्मान्नः पाहि सर्वदा ।। ९ ।।
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् ।।
स याति वैष्णवं लोकममरेश्वरपूजितम् ।। 4.202.१० ।।
यावत्कल्पशतं साग्रमुषित्वेह नराधिप ।।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।। ।। ११ ।।
ब्रह्महत्यादिकं किंचिदत्र चामुत्र वा कृतम् ।।
तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ।। १२ ।।
मुक्तामयं कनकविद्रुमभक्तिचित्रं चंचन्महामणिमरीचिचयोपपन्नम् ।।
रत्नाचलं द्विजवराय निवेदयित्वा भास्वत्प्रभामभिभवेत्सुरलोकलोके ।। १३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नाचलदानविधिवर्णनं नाम द्वयधिकद्विशततमोऽध्यायः ।। २०२ ।।