भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७७
ब्रह्माण्डदानविधिवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
अगस्त्येन पुरा गीतो दानानां विधिरुत्तमः ।।
शृणु त्वं राजशार्दूल कथ्यमानं मयाधुना ।। १ ।।
येन दत्तेन राजेन्द्र सर्वं पापं व्यपोहति ।।
मानसं वाचिकं वापि कायिकं च सुदुस्तरम् ।। २ ।।
मंगल्यं मंगलं पुण्यं सर्वदानेषु चोत्तमम् ।।
धन्यं यशस्यमायुष्यं परलोकभयापहम् ।।
ब्रह्मांडं कांचनं कृत्वा सर्वलक्षणसंयुतम् ।। ३ ।।
देवासुरमनुष्यैश्च गन्धर्वोरगराक्षसैः ।।
संयुक्तं च नदीभिश्च समुद्रैः पर्वतैस्तथा ।।
विमानशतकोटीभिर्भूषितं चाप्सरोवरैः ।। ४ ।।
दिग्गजाष्टकसंयुक्तं मध्यस्थितचतुर्मुखम् ।।
शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम् ।। ५ ।।
तस्यांगे कल्पयेद्राजन्भुवनानि चतुर्दश ।।
वितस्तेरंगुलशतं यावदायामविस्तरम् ।। ६ ।।
कुर्याद्विंशत्पलादूर्ध्वमासहस्राच्च भक्तितः ।।
शकलद्वयसंयुक्तं पुटाकारं सुसंहितम् ।।७ ।।
शिल्पिना विहितं यस्माद्ब्रह्मांडं सर्वकामदम् ।।
अयने विषुवे चैव चंद्रादित्यग्रहे तथा ।। ८ ।।
अन्येष्वपि तु कालेषु श्रद्धावित्तसमन्वितः ।।
पुष्पमंडपिकां कृत्वा तत्र संस्थापयेद्बुधः ।। ९ ।।
तिलद्रोणोपरिगतं कंकुमक्षोदचर्चितम् ।।
वासो युग्मेन संछाद्य पुष्पगन्धाधिवासितम् ।। 4.177.१० ।।
तस्य दिक्षु च सर्वासु पूर्णकुम्भांश्च विन्यसेत् ।।
अष्टादशैव चान्यानि द्रोणमात्राण्यथाहरेत् ।। ११ ।।
गृहे वा मंडपे वापि स्थापयेत्तद्विचक्षणः ।।
पादुकोपानहच्छत्रभाजनासनदर्पणैः ।। १२ ।।
संयुक्तं कारयेत्तत्र पयस्विन्या तथैव च ।।
कारयेत्कुण्डमेकं तु हस्तमात्रं विधानतः ।। १३ ।।
चतुश्चारणिकास्तत्र होमं कुर्युर्द्विजोत्तमाः ।।
सर्वाभरणसम्पन्ना सुस्नाताहतवाससः ।। १४ ।।
प्रचरेयुर्द्विजास्तत्र उपाध्यायसमन्विताः ।।
तथा पुरोहितश्चैव राज्ञा षष्ठो विधीयते ।। १५ ।।
इतरेषां तु पञ्चैव कुर्युर्यज्ञमतंद्रिताः ।।
ग्रहयज्ञविधानेन ग्रहाणां यज्ञ इष्यते ।। १६ ।।
ब्रह्मविष्णुशिवानां च तन्नाम्ना जुहुयात्तिलान् ।।
अयुतं होमयेत्पश्चान्महाव्याहृतिभिर्नृप ।। १७ ।।
रुद्रजापस्तु कर्तव्यस्तस्यैवानंतरं द्विजैः ।।
ततः सर्वसमाप्तौ तु स्नात्वा शुक्लांबरः शुचिः ।। १८ ।।
ब्रह्मांडं पूजयेद्भक्त्या गृहीतकुसुमांजलिः ।।
नमो जगत्प्रतिष्ठाय विश्वधाम्ने नमोऽस्तु ते ।। १९ ।।
वाङ्मयांत निमग्नाय ब्रह्मांड शुभकृद्भव ।।
ब्रह्मांडोदरवर्तीनि यानि सत्त्वानि कानिचित् ।। 4.177.२० ।।
तानि सर्वाणि मे तुष्टिं प्रयच्छत्वतुलां सदा ।।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपालास्तथा ग्रहाः ।। २१ ।।
नक्षत्राणि तथा नागा ऋषयो मरुतस्तथा ।।
सर्वे भवंतु संतुष्टाः सप्तजन्मांतराणि मे ।। २२ ।।
इत्युच्चार्य ततो दद्याद्ब्रह्मांडं सर्वकामदम् ।।
सदक्षिणं च तं कृत्वा वसु संपादयेद्द्विजान् ।।२३।।
अनेन विधिना दत्त्वा यत्पुण्यं स्यान्नरोत्तम ।।
तत्तेऽहं संप्रवक्ष्यामि शृणुष्व गदतो मम ।। २४ ।।
आसीदादियुगे राजा सुद्युम्नो नाम भारत ।।
नागायुतबलः श्रीमान्बहुभृत्यपरिच्छदः ।। २५ ।।।
त्रिंशद्वर्षसहस्राणि कृत्वा राज्यमकंटकम् ।।
ततः संस्थाप्य तनयं राजा राज्ये वनं ययौ ।। २६ ।।
प्रविश्य च वनं घोरं तपस्तीव्रं चचार ह ।।
अध्यात्मगतितत्त्वज्ञः कर्मकांडं विसृज्य च ।। २७ ।।
कालेन महता राजा दिष्टांतमगमत्पुरा ।।
दिव्यं विमानमारुह्य नाना वाद्यरवाकुलम् ।।२८।।
अतीत्य शक्रलोकादीन्ब्रह्मलोकमितो गतः ।।
तस्यासनं दिदेशाथ ब्रह्मासुरगणैर्वृतः ।। २९ ।।
दिव्यं कनकचित्रांगं रत्नालंकृतविग्रहम् ।।
एवं लोकवरे तस्मिन्रममाणो नृपोत्तम ।। 4.177.३० ।।
आस्ते चानुदिनं सोऽथ दिव्यभोगविवर्जितः ।।
वसतस्तस्य राज्ञस्तु शरीरं परितप्यते ।। ३१ ।।
बुभुक्षया नरश्रेष्ठ तथात्यंतपिपासया ।।
स पीड्यमानो ब्रह्माणं कृतांजलिरभाषत ।। ३२ ।।
भगवन्ब्रह्मलोकोऽयं सर्वदोषविवर्जितः ।।
अत्र स्थितं च मां देव क्षुत्तृष्णा च प्रबाधते ।। ३३ ।।
केन कर्म विपाकेन क्षुधा मे नापसर्पति।।
ब्रह्मलोके गतस्यापि संशयं छेत्तुमर्हसि ।।३४।।
।। ब्रह्मोवाच ।। ।।
त्वया हि कुर्वता राज्यं पुष्टान्यंगानि पार्थिव ।।
नैव दत्तं तु बहुलमात्मवादरतेन वै ।। ३५ ।।
दानं बंधात्मकं मत्वा तस्माद्दत्तं त्वया न हि ।।
ज्ञानाद्ब्रह्मपदं प्राप्तमदानात्क्षुत्प्रबाधते ।। ३६ ।।
।। राजोवाच ।। ।।
भगवंस्तृषापनुत्तिः स्यात्कथं मे परमेश्वर ।।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।। ३७ ।।
।। ब्रह्मोवाच ।। ।।
भूयो गत्वा महीं राजन्ब्रह्मांडं सार्वकामिकम् ।।
प्रयच्छ द्विजमुख्यानां तेन तृप्तिमवाप्स्यसि ।। ३८ ।।
इत्युक्तः सम्यगागत्य मर्त्यलोकं महीपतिः ।।
ब्रह्मांडं तु विधानेन ब्राह्मणेभ्यः प्रदत्तवान् ।। ३९ ।।
स जगाम पुनः स्वर्गं लेभे तृप्तिं च शाश्वतीम्।।
एतत्ते सर्वमाख्यातं महादानस्य यत्फलम् ।। 4.177.४० ।।
ब्रह्मांडं यः प्रयच्छेत तेन दत्तं चराचरम् ।।
सप्तावरान्सप्त परान्सप्त चैव परावरान्।। ४१ ।।
तारयेत्कुलजान्दत्त्वा भविष्यांश्च न संशयः ।।
मन्वंतराणि षट्त्रिशद्ब्रह्मलोके महीयते ।। ४२ ।।
पुनर्मानुष्यमभ्येत्य धार्मिको जायते कुले ।।
न दारिद्यं न च व्याधिं वियोगं नैव पश्यति ।। ४३ ।।
नारी वा पुरुषो वापि दानस्यास्य प्रभावतः ।।
यश्चैतच्छृणुयाद्भक्त्या भक्तानां श्रावयेच्च यः ।। ४४ ।।
सोऽपि सद्गतिमाप्नोति किं पुनर्यः प्रयच्छति ।। ४५ ।।
ब्रह्मांडखंडयुगलं सकुलाचलं च दिग्भागसागरसरोवरसिद्धजुष्टम् ।।
दिक्संख्यया गुणवतां द्विजसत्तमानां दत्त्वा पुमान्पदमुपैति पितामहस्य ।। ४६ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे ब्रह्मांडदानविधिवर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ।। १७७ ।।