भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७३

विकिस्रोतः तः

अग्नीष्टिकादानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।
अग्नीष्टिका कथं देया शिशिरे शीतभीरुभिः ।।
सर्वसत्त्वोपकाराय करुणीकृतमानसैः।।१।।
।। श्रीकृष्ण उवाच ।। ।।
अग्नीष्टिकामहं पार्थ कथयामि निबोध ताम्।
यथा येन विधानेन सर्वसत्वसुखप्रदाम् ।। २ ।।
आदौ मार्गशिरे मासि शोभने दिवसे शुभाम् ।।
अग्नीष्टिकां कारयित्वा सुखासनवतीं शुभाम् ।। ३ ।।
देवांगणे पथे गेहे विस्तीर्णे चत्वरेथ वा ।।
उभयोः संध्ययोः कृत्वा संशुष्कं काष्ठसंचयम् ।। ४ ।।
ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात्।।
अनेन विधिना हुत्वा प्रत्यहं ज्वालयेत्ततः ।। ५ ।।
यदि कश्चित्क्षुधार्थी स्याद्भोज्यं तस्मै प्रकल्पयेत् ।।
सुखासीनो जनस्तत्र विशीतो विज्वरस्तथा ।। ६ ।।
यः करोति कथाः पार्थ न ताः शक्या मयोदितुम् ।।
राजवार्ता जनवार्ता यदि कश्चिन्निजेच्छया ।। ७ ।।
वदेल्लोकः सुखासीनो न केनापि निवार्यते ।।
अनेन विधिना यस्तु दद्यादग्नीष्टिकां नरः ।। ८ ।।
तस्य पुण्यफलं राज न्कथ्यमानं निबोध मे ।।
विमाने चार्कसंकाशे समारूढो महाधने ।। ९ ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।।
हर्षितोऽत्यंतसुखितो ब्रह्मलोके महीयते ।। 4.173.१० ।।
इह लोकेवतीर्णश्च चतुर्वेदो द्विजो भवेत् ।।
नीरुजः सत्रयाजी च अग्निवत्तेजसान्वितः ।। ११ ।।
चैत्ये सुरांगणसभावसथे सुभव्यां येऽग्नीष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः ।।
हेमंतशैशिरऋतौ सुखदा जनानां कायाग्निदीपनमलं पुनराप्नुवंति ।। १२ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अग्नीष्टिकादानविधिवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।।१७३।।