भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search

अन्नदानमाहात्म्यवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अन्नदानस्य माहात्म्यं कथयामि तवानघ ।।
यत्प्रोक्तमृषिभिः पूर्वं तदिहैकमनाः शृणु ।। १ ।।
ददस्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर ।।
सद्यस्तुष्टिकरं लोके किं दत्तेन परेण ते ।।२।।
रामेण दशरथिना वनस्थेन निजानुजः ।।
निर्वेदाद्यत्पुरा प्रोक्तस्तदहं प्रब्रवीमि ते ।। ३ ।।
पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः ।।
सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ।। ४ ।।
यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः ।।
प्राप्यते लक्ष्मणास्माभिर्नान्नं विप्रमुखे हुतम् ।। ५ ।।
यत्र प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा ।।
सत्यो लोकप्रवादोऽयं नादत्तमुपतिष्ठति ।। ६ ।।
भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम् ।। ७ ।।
प्रकारांतरभोज्यानि दानान्यन्यानि भारत ।।
अन्नमेव परं दानं सत्यवाक्यं परं पदम् ।। ८ ।।
बुद्धिश्चार्थात्परो लोभः सन्तोषः परमं सुखम् ।।
स्नातानामनुलिप्तानां भूषितानां च भूषणैः ।। ९ ।।
न सुखं न च सन्तोषो भवेदन्नादृते नृणाम् ।।
श्वेतो नाम महीपालः सार्वभौमोऽभवत्पुरा ।। 4.169.१० ।।
तेनेष्टं बहुभिर्यज्ञैः संग्रामा बहवो जिताः ।।
दानानि च प्रदत्तानि धर्मतः पालिता मही ।। ११ ।।
भुक्ता भोगाः सुविपुला शत्रूणां मूर्धनि स्थितम् ।।
वानप्रस्थेन विधिना त्यक्त्वा राजश्रियं नृप ।। १२ ।।
स्वर्गं जगाम भुक्त्वा तु पूज्यमानो मरुद्गणैः ।।
विमानमर्कप्रतिमं प्रतिपेदे मुदा युतः ।। १३ ।।
तत्रास्ते रममाणोऽसौ साकं विद्याधरैः सुखम् ।।
प्रसिद्धैः स्तूयते सिद्धैः सेव्यतेऽप्सरसां गणैः ।। १४ ।।
गंधर्वैर्गीयते हृष्टैः शक्रेणाप्यनुगम्यते ।।
दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ।। १५ ।।
स च नित्यं वितानाग्र्यादवतीर्य महीतलम् ।।
स्वमांसान्यत्ति कौंतेय पूर्वं त्यक्त्वा कलेवरम् ।। १६ ।।
तच्छरीरं तथैवास्ते रक्षितं पूर्वकर्मभिः ।।
स कदाचित्सुरेशानं ब्रह्माणं समुपस्थितः ।। १७ ।।
प्रणम्य प्रांजलिर्भूत्वा निर्वेदादिदमब्रवीत् ।।
भगवंस्त्वत्प्रसादेन प्राप्तं स्वर्गसुखं मया ।। १८ ।।
सर्वेषामपि संपूज्यः सुराणां सुरपुंगव ।।
किं तु क्षुद्बाधतेऽत्यर्थं स्वर्गस्थस्यापि मे प्रभो ।। १९ ।।
यया मांसान्यहं स्वस्य भक्ष्ययाम्यशनं विना ।।
।। ब्रह्मोवाच ।। ।।
श्वेताभिजनसंपन्न श्वेत शृणु वचो मम ।। 4.169.२० ।।
त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः ।।
नाशनं भवता दत्तं यद्द्विजेभ्यो नराधिप ।। २१ ।।
अनन्नदानस्य फलं त्वयेदमुपभुज्यते ।।
तर्ह्यन्नदानतो नान्यच्छरीरारोग्यकारकम् ।। ।। २२ ।।
नान्यदन्नादृते पुंसां किञ्चित्सञ्जीवनौषधम् ।।
महीं गत्वा महाराज कुरुष्व वचनं मम ।। २३ ।।
तपः स्वाध्यायसंपन्ने शास्त्रज्ञे संजितेन्द्रिये ।।
येन संपद्यते तृप्तिरक्षया क्ष्मांपते तव ।। २४ ।।
विरिंचेर्वचनाद्गत्वा त्वरायुक्तो महीतलम् ।।
अगस्त्यं भोजयामास भक्त्या भरतसत्तम ।। ।। २५ ।।
भोजयित्वा ततः प्रादाद्दक्षिणां क्षीणकल्मषः ।।
एकावलिं स्वकात्कण्ठात्समुत्तार्य समुज्ज्वलाम् ।। २६ ।।
ततो दुन्दुभिघोषेण पूजितः सुरसत्तमैः ।।
श्वेतस्तृप्तो गतः स्वर्गं दत्त्वान्नं दक्षिणायुतम् ।। २७ ।।
पौलस्त्ये निहते पश्चाद्देवदानवसंकटे ।।
रामायैकावलिं प्रादादगस्त्यः परया मुदा ।। २८ ।।
एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते ।।
न चान्नादपरं किञ्चित्सत्यं तव मयोदितम् ।। २९ ।।
अन्नं वै प्राणिनां प्राणा अन्नमोजो बलं सुखम् ।।
एतस्मात्कारणात्सद्भिरन्नदः प्राणदः स्मृतः ।। 4.169.३० ।।
सुदूरादाशया यस्य गृहं प्राप्ता बुभुक्षिताः ।।
तृप्ताः प्रतिनिवर्तंते कोऽन्यस्तत्सदृशः पुमान् ।।३१।।
दीक्षितः कपिला सत्री राजा भिक्षुर्महोदधिः ।।
दृष्टमात्रा पुनंत्येते तस्मात्पश्यंति नित्यशः ।। ३२ ।।
एकस्याप्यतिथेरन्नं यः प्रदातुमशक्तिमान्।।
तस्याऽऽरम्भैः परिक्लेशैर्वसतः किं फलं गृहे ।। ३३ ।।
शक्यते दुष्करेऽप्यर्थे चिररात्राय जीवितुम् ।।
न त्वाहारविहीनेन शक्यं वर्तयितुं चिरम् ।। ३४ ।।
भुक्त्वा गृहे गृहस्थस्य मैथुनं यश्च सेवते ।।
यस्यान्नं तस्य ते पुत्रा इति प्राहुर्मनीषिणः ।। ३५ ।।
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।।
यो यस्यान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ।। ३६ ।।
वनस्पतिगते सोमे परान्नं यस्तु भुंजति ।।
तस्य मासकृतं पुण्यं दातारमुपगच्छति ।। ३७ ।।
कस्मान्न दीयते नित्यं कस्मादन्नं न दीयते ।।
यस्येदृशी फलावाप्तिः कथिता पूर्वसूरिभिः ।। ३८ ।।
भिक्षां वा पुष्कलां वापि हंतकारं द्विजातये ।।
भोजनं वा यथालाभमदत्त्वाश्नाति किल्बिषम् ।। ३९ ।।
येनायुतं सहस्रं वा भोजितं स्याद्द्विजन्मनाम् ।।
तेन ब्रह्मगृहासन्नं नूनं बद्धं कुटीरकम् ।। 4.169.४० ।।
वाराणस्यां पुरा पार्थ वणिगापणजीवनः ।।
धनेश्वर इति ख्यातो देवब्राह्मणपूजकः।। ४१ ।।
तस्यापणैकदेशे तु मुक्त्वांडं पांडुरच्छवि ।।
ससर्प सर्पस्तद्देशाद्वणिग्दृष्ट्वा विशंकितः ।। ४२ ।।
तदंडं वणिजा तेन दृष्टं कारुण्यबुद्धिना ।।
ततः प्रभृत्यनुदिनं ररक्ष च पुषोष च ।। ४३ ।।
निर्जगाम दिनैः कैश्चिद्भित्वांडं सर्पपोतकः ।।
तं वणिक्क्षीरपानाद्यैरुपचारैरवर्धयत् ।। ४४ ।।
लिलिहे घृतभांडानि जिघ्रे च गंधसंचयान् ।।
लुलोठ पांसुप्रकरे चचार वारिमध्यगः ।। ४५ ।।
वणिजा रक्ष्यमाणः स स्नेहाच्चाहरहः पुनः ।।
जगाम सुमहान्कालोऽभवदेष भयंकरः ।। ४६ ।।
अथैकस्मिन्दिने गंगां गतः स्नातुं त्रिलोकगाम् ।।
वणिगापणे पण्यविदं स्थापयित्वा सुतं मतम् ।। ४७ ।।
व्यवहर्तुं समारब्धं वणिक्पुत्रेण धीमता ।।
ददाति प्रतिगृह्णाति घृततैलयवैक्षवम्।। ४८ ।।
व्यवहाराकुलतया पादयोरंतरेण सः ।।
सर्पश्चचाल चापल्याद्वणिग्विक्षेपमभ्यगात् ।। ४९ ।।
जानन्नपि तद्वृत्तांतं निदाने नियतेर्वशात् ।।
त्रासात्संतर्जयामास बलेन पदचारिणम् ।। ।। 4.169.५० ।।
स महीतः समुत्थाय मूर्द्धानमवरुह्य च ।।
उवाच दारुणतरं वचनं पन्नगाधमः ।। ५१ ।।
शरणागतं पोषितं च तव पित्रा प्रियंकरम् ।।
कस्मान्मां हंसि दुष्टात्मन्कथं जीवन्विमोक्ष्यसे ।। ५२ ।।
अनंतरं कलकलः संजातो रोदतां नृणाम् ।।
धनेश्वरसुतो दष्टः सर्पेणापि भृशाकुलः ।। ।। ५३ ।।
अच्युतानंत गोविंद कृष्णकृष्णेत्युदीरयन्।।
धनेश्वरोप्यनुप्राप्तः प्रोवाचाकुलया गिरा ।। ५४ ।।
किं कृतं मम पुत्रेण तव पव्रग विप्रियम् ।।
यदयं भवता मूर्ध्नि स्वभोगेनाभिवेष्टितः ।। ५५ ।।
मूर्ख मित्रं सुसंबंधं हीनजातिजनो हि यः ।।
यः करोत्यबुथोंगारान्स स्वहस्तेन कर्षति ।। ।। ५६ ।।
तमुवाच च सर्पोऽसौ वाष्पगद्गदया गिरा ।।
निरपराधो भवतः पुत्रेणाहं समाहतः ।। ५७ ।।
तदहं पश्यतस्तेऽद्य दशाम्येनं नराधिप ।।
यथा न भूयो भूतानां भवेदस्मात्क्वचिद्भयम् ।। ५८ ।।
।। धनेश्वर उवाच ।। ।।
उपकारं व्रतं भक्त्या स्नेहपारो न यस्य च ।।
सतां मार्गमपाक्रम्य प्रयातः केन वार्यते ।। ५९ ।।
क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम ।।
और्ध्वदेहिककर्माणि करोति स्वयमात्मनः ।। 4.169.६० ।।
एवमुक्ता गृहं गत्वा यतीनां ब्रह्मचारिणाम् ।।
सहस्रं भोजयामास घृतपायसभोजनैः ।।६१ ।।
समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः ।।
वणिक्पुत्रस्योत्तमांगे चिक्षिपुः कुसुमाक्षतान् ।। ६२ ।।
वणिक्पुत्र चिरं जीव नश्यंतु तव शत्रवः ।।
अभीष्टफलसंसिद्धिरस्तु ते ब्राह्मणाज्ञया ।। ६३ ।।
ततः स दुष्टप्रकृतिर्विप्र वाग्वज्रताडितः ।।
पन्नगो नगसंकाशः पपात च ममार च ।। ६४ ।।
विपन्नं पन्नगं दृष्ट्वा त्रस्तचक्षुर्धनेश्वरः ।।
आः किमेतदिति प्रोच्य विषादमगमत्परम् ।। ६५ ।।
पोषितोऽयं मया बालः पालितो लालितस्तथा ।।
ममापचारात्पंचत्वमापन्नः पवनाशनः ।। ६६ ।।
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।।
अपकारिषु यः साधुः स साधुः सद्भिरिष्यते ।। ६७ ।।
इत्येवमवधार्यासौ दुःखसंतप्तमानसः ।।
बुभुजे नाकुलतया न च सुष्वाप तां निशाम् ।। ६८ ।।
ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः ।।
सहस्रं भोजयामास पुनरेव द्विजन्मनाम् ।। ६९ ।।
तैर्भुक्तैरिष्टसंसिद्धैर्ब्राह्मणै रनुमोदितः।।
वणिक्प्राह ममाभीष्टं संजीवत्वेष पन्नगः ।। 4.169.७० ।।
ततो द्विजवरोन्मुक्तैरंबुभिः परिषिंचितः ।।
उदतिष्ठदहीनांगः सहसा हि महाकुलः ।। ।। ७१ ।।
प्रहर्षमतुलं लेभे दृष्ट्वा तं पुरतः स्थितम् ।।
प्रत्यग्रावयवं दृष्ट्वा सृक्किणीपरिलेलिहम् ।। ७२ ।।
साधुवादो महाञ्जातः प्रशशंसुर्धनेश्वरम् ।।
पुरीनिवासिनः सर्वे विस्मयोत्फुल्ललोचनाः ।।७३।।
सहस्रभोज्यमाहात्म्यं कथितं ते युधिष्ठिर ।।
सम्यक्छ्रद्धाप्रयुक्तस्य किमन्यत्कथयामि ते ।।७५।।
यच्छंति येऽनुदिवसं द्विजपुंगवानामन्नं विशुद्धमनसो भृशमागतानाम् ।।
मर्त्ये विहृत्य सुचिरं ससुहृज्जनास्ते प्रेत्य प्रयांति भवनं मुदिता मुरारेः।।७७।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अन्नदानमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ।। १६९ ।।