भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६७

विकिस्रोतः तः

आपाकदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
तन्मे कथय देवेश येन दत्तेन मानवः ।।
बहुपुत्रो बहुधनो बहुभृत्यश्च जायते ।।१।।
।। श्रीकृष्ण उवाच ।। ।।
पुरा भारत वंशेस्मिन्राजासीद्धव्यवाहनः।। (हव्यवाहनः)
पितृपैतामहं तेन प्राप्तं राज्य मकंटकम् ।।२।।
न तस्य राज्ये विध्वंसो न वैरिजनितं भयम् ।।
शरीरोत्थमहाव्याधिर्न चैवांतरदायकः ।।३।।
तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभात् ।।
नास्ति भृत्यो भारसहः सर्वराज्यधुरंधरः ।।४।।
न पुत्रः प्रियकृत्कश्चिन्न मंत्री मधुराक्षरः ।।
न मित्रं कार्यकरणे समर्थो न सुहृत्तथा।। ५ ।।
न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम् ।।
न पूगफलसंयुक्तं तांबूलं वसनं न च ।। ६ ।।
न धनं जनसंबन्धकारको रत्नसंचयः ।।
तस्यैवं कुर्वतो राज्यमव्याहतमचेष्टितम् ।। ७ ।।
अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः ।।
आजगाम महायोगी राज्ञः पार्श्वं महाद्युतिः ।। ८ ।।
तमागतं मुनिं दृष्ट्वा राजपत्नी शुभावती ।।
पाद्यार्घ्यासनदानेन सर्वथा तमपूजयत् ।। ९ ।।
ततः कथांते कस्मिंश्चित्तमुवाच शुभावती ।।
भगवन्राज्यमेतन्नः सर्वबाधाविवर्जितम् ।। 4.167.१० ।।
कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज ।।
भोगावाप्तिर्न च तथा सर्वलोकातिशायिनी ।। ११ ।।
।। पिप्पलाद उवाच ।। ।।
यद्येन पूर्वविहितं तदसौ प्राकृते फलम् ।।
कर्मभूमिरियं राज्ञि नातः शोचितुमर्हसि ।। १२ ।।
न तत्कुर्वंति राजानो न दायादा न शत्रवः ।।
न बांधवा न मित्राणि यद्येन न पुरा कृतम् ।। १३ ।।
तस्माद्भवद्भियर्द्दत्तं प्राप्तं तद्राज्यमुत्तमम् ।।
भृत्यमित्रादिसंबंधो न दत्तः प्राप्यते कुतः ।। १४ ।।
।। शुभावत्युवाच ।। ।।
इदानीमेव विप्रर्षे कस्मात्तन्नोपदिश्यते ।।
येन मे बहवः पुत्रा धनं भृत्या भवंति वै ।। १५ ।।
मंत्रो वा सिद्धयोगो वा व्रतं दानमुपोषितम् ।।
कथयस्वामलमते येन संपद्यते सुखम् ।। १६ ।।
ततः स कथयामास पिप्पलादो द्विजोत्तमः ।।
आपाकाख्यं महादानं सर्वसंपत्प्रदायकम् ।। १७ ।।
श्रद्धया कुरुशार्दूल नारी वाप्यथ वा पुमान् ।।
येन दत्तेन भाग्यानां बहूनां भाजनं भवेत् ।। १८ ।।
तच्छ्रुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम् ।।
लेभे पुत्रान्पशून्भृत्यान्मंत्रिमित्रसुहृज्जनान्।। १९ ।।
।। श्रीकृष्ण उवाच ।। ।।
आपाकाख्यं महादानं कथयामि युधिष्ठिर ।।
दत्तेन येन कामानां पुमान्भवति भाजनम् ।। 4.167.२० ।।
ग्रहताराबलं लब्ध्वा भार्गवं पूजयेच्छुभम् ।।
वासोभिर्भूषणैश्चैव पुष्पैरगरुचंदनैः ।। २१ ।।
कुर्यात्तथैव सम्मानं यथा तुष्टोऽभिजायते ।।
कुरुष्व त्वं मे भांडानि गुरूणि च लघूनि च ।। २२ ।।
मणिकादीनि शुभ्राणि स्थाल्यश्च सुमनोहराः ।।
घटकाः करकाश्चैव गलंत्यः कुंडलानि च ।। २३ ।।
शरावादीनि पात्राणि भांडमुच्चावचं बहु ।।
संपादय महाभाग विश्वकर्मा त्वमेव हि ।। २४ ।।
भार्गवोऽपि प्रयत्नेन नाना भांडान्वितं शुभम् ।।
आपाकं कल्पयेद्दिव्यं विधिदृष्टेन कर्मणा ।।२९।।
सहस्रमेकं भांडानां स्थापयित्वा विचक्षणः ।।
संध्याकाले ज्वलित्वा तु दद्याच्चापि हुताशनम् ।। २६ ।।
रात्रौ जागरणं कुर्याद्गीतमङ्गलनिस्वनैः ।।
ततः प्रभाते विमले ज्ञात्वा निर्वापितं शनैः ।। २७ ।।
रक्तवस्त्रैः समाच्छाद्य पुष्पमालाभिरर्चयेत् ।।
यजमानस्ततः स्नात्वा शुक्लांबरधरः शुचिः ।। ।। २८ ।।
हेमरौप्याणि भांडानि ताम्रलोहमयानि च ।।
परितः स्थापयित्वा च स्वशक्त्या तानि षोडश ।। २९ ।।
पूजयित्वा प्रयत्नेन कृत्वा चारु प्रदक्षिणाम् ।।
ब्राह्मणान्पूजयित्वा च भार्गवं पूज्य यत्नतः ।। 4.167.३० ।।
नार्यश्चाविधवास्तत्र समानीय प्रपूज्य च ।।
प्रदक्षिणं ततः कृत्वा मंत्रेणानेन पूजयेत् ।। ३१ ।।
आपाकब्रह्मरूपोसि भांडानीमानि जंतवः ।।
प्रदानात्ते प्रजापुष्टिः स्वर्गश्चास्तु ममाक्षयः ।। ३२ ।।
भांडरूपाणि यान्यत्र कल्पितानि मया किल ।।
भूत्वा सत्पात्ररूपाणि उपतिष्ठंतु तानि मे ।। ३३ ।। इति दानमंत्रः ।।
या च यद्भांडमादत्ते तस्यैतद्दापयेत्ततः ।।
स्वेच्छया चैव गृह्णातु न निवार्यास्तु काश्चन ।। ३४ ।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।
विश्वकर्मा भवेत्तुष्टस्तस्य जन्मत्रयं नृप ।। ३५ ।।
नारी च दत्त्वा सौभाग्यमतुलं प्रतिपद्यते ।।
गृहं सर्वगुणोपेतं भृत्यमित्रजनैर्वृतम् ।। ३६ ।।
अवियोगं सदा भर्त्रा रूपं चानुत्तमं लभेत् ।।
भूदानमेतन्निर्दिष्टं प्रकारेण तवानघ ।।
भिद्यते बहुभिर्भेदैर्भूमिरेषा नरेश्वर ।। ३७ ।।
निष्पाद्य भांडनिचयोच्चतरं प्रयत्नादापाकदानमिह या कुरुते वरस्त्री ।।
सा पुत्रपौत्रपशुवृद्धिमुखानि भुक्त्वा प्रेत्य स्वभर्तृसहिता सुखिनी सदास्ते ।। ३८ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आपाकदानविधिवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ।। १६७ ।।