भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

भूमिदानवर्णनम्

।। श्रीकृष्ण उवाच।। ।।
भूमिदानमतो वक्ष्ये सर्वपापप्रणाशनम् ।।
ये प्रयच्छंति विप्रेभ्यो भूमिदानं सदक्षिणम् ।। १ ।।
श्रोत्रियाय दरिद्राय अग्निहोत्ररताय च ।।
स सर्वकामतृप्तात्मा सर्वरत्नैर्विभूषितः ।। २ ।।
सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा ।।
बालसूर्यप्रभाभासैर्वादित्रध्वजशोभितैः ।।३।।
विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकं स गच्छति ।। ४ ।।
तत्र दिव्यांगनाभिश्च सेव्यमानो यथासुखम् ।।
कामगः कामरूपी च क्रीडत्यानंदमक्षयम् ।। ५ ।।
यावद्धारयते लोकान्भूरंकुरसमुद्भवा ।।
तावद्भूमिप्रदः कामं विष्णुलोके महीयते ।। ६ ।।
नहि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते ।।
दिशो दशानुगृह्णाति हर्ता ता दश हंति च ।। ७ ।।
दानान्यन्यानि क्षीयंते कालेन पुरुषर्षभ ।।
भूमिप्रदानपुण्यस्य क्षयो नैवोपपद्यते ।। ८ ।।
सर्वपापानि क्षीयंते कालयोगक्रमेण तु ।।
भूमिहर्तुश्च राजेंद्र दुःखस्यांतो न विद्यते ।। ९ ।।
ब्राह्मणाय सुशीलाय भूमिं दत्त्वा तु यो नरः ।।
न हि तामुपजीवेद्यः स महत्पुण्यमाप्नुयात् ।। 4.164.१० ।।
हलकृष्टां महीं कृत्वा सबीजां सस्यमालिनीम्।।
यावत्सूर्यकृता लोकस्तावत्स्वर्गे महीयते ।। ११ ।।
धनं धान्यं हिरण्यं च रत्नान्याभरणानि च ।।
सर्वदानानि राजेंद्र ददाति वसुधां ददत् ।। १२ ।।
सागरान्सरितः शैलान्समानि विषमाणि च ।।
सर्वगंधरसान्स्नेहान्ददाति वसुधां ददत् ।। १३ ।।
ओषधीः क्षीरसंपन्ना नानापुष्पफलोपगाः ।।
कमलोत्पलखंडांश्च ददाति वसुधां ददत् ।। १४ ।।
अग्निष्टोमादिभिर्यज्ञैर्ये यजंति सदक्षिणैः ।।
प्राप्नुवंति च तत्पुण्यं भूमिदानाद्यदाप्यते ।। १५ ।।
श्रोत्रियाय महीं दत्त्वा ये हरंति न मानवाः ।।
तावत्तेषां भवेत्स्वर्गो यावल्लोका प्रतिष्ठिताः ।। १६।।
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति ।।
पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ।। १७ ।।
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ।। १८ ।।
सुवर्णानां सहस्रेण यत्पुण्यं समुदाहृतम्।।
भूमि गोचर्ममात्रेण तत्फलं प्राप्नुयान्नरः ।। १९ ।।
कपिलानां सहस्रेभ्यो यद्दत्तेऽन्नं नरोत्तम ।।
भूमिगोचर्ममात्रेण तत्फलं लभते नरः ।। 4.164.२० ।।
मध्यमस्य मनुष्यस्य व्यासेन परिसंख्यया।।
त्रिंशद्दंडांश्च गोचर्म दत्त्वा स्वर्गे महीयते ।। २१ ।।
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।।
यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् ।। २२ ।।
किंकरा मृत्युदंडाश्च असिपत्रवनादयः ।।
घोराश्च वारुणाः पाशा नोपसर्पंति भूमिदम्।। २३ ।।
निरया रौरवाद्याश्च कुंभीपाकः सुदुःसहः ।।
तथा च यातनाः कष्टा नोपसर्पंति भूमिदम् ।। २४ ।।
चित्रगुप्तश्च कालश्च कृतांतो मृत्युरेव च ।।
यमश्चापि स्वयं राजा संपूजयति भूमिदम् ।। २५ ।।
रुद्रः प्रजापतिः शक्रो देवासुरगणास्तथा ।।
अहं च परमप्रीत्या पूजयामीह भूमिदम्।। २६ ।।
षट्कर्मकृत्सुवृत्ताय कृशाय च प्रियार्थिने ।।
भूमिर्देया नरव्याघ्र सन्निधिश्चाक्षयो भवेत् ।। २७ ।।
सीदमानकुटुंबाय श्रोत्रियायाहिताग्नये ।।
वृत्तस्थाय दरिद्राय भूमिर्देया नरेश्वर ।। २८ ।।
यथा जनित्री क्षीरेण पुत्रं संवर्द्धयेत्सदा ।।
तथा भूमिप्रदं भूमिः सर्वकामैस्तु तर्पति ।। २९ ।।
यथा गौर्भरते वत्स क्षीरेण क्षीरमुत्सृजेत् ।।
तथा सर्वरसोपेता भूमिर्भरति भूमिदम् ।। 4.164.३० ।।
यथा बीजानि रोहंति जलसिक्तानि भूतले ।।
तथा कामाः प्ररोहंति भूमिदस्य दिनेदिने ।। ३१ ।।
यथोदयन्सहस्रांशुस्तमः सर्वं व्यपोहति ।।
तथा भूमिप्रदानं तु सर्वपापं व्यपोहति ।। ३२ ।।
पर दत्तां तु यो भूमिमुपहिंसेत्कदाचन ।।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ।। ३३ ।।
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।।
स नरो नरके घोरे क्लिश्यत्याप्रलयांतिकम् ।। ३४ ।।
रुदतां वृत्तिनाशेन ये पतंत्यश्रुबिंदवः ।।
ताद्वर्षसहस्राणि नरके पच्यते तु सः ।। ३५ ।।
ब्राह्मणानां हृते क्षेत्रे हर्तुस्त्रिपुरुषं कुलम् ।।
दत्त्वा भूमिं तु विप्राय उपहिंसेद्यदा पुनः ।।
अधोमुखश्च दुष्टात्मा कुंभीपाके स पच्यते ।।३६।।
दिव्यवर्षसहस्रांते कुंभीपाकाद्विनिःसृतः ।।
इह लोके भवेच्छा वै सप्त जन्मानि पार्थिव।।३७।।
स्वदत्तां परदत्तां वा यत्नाद्रक्षेद्युधिष्ठिर ।।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोनुपालनम्।। ३८ ।।
तोयहीनेष्वरण्येषु शुष्ककोटरवासिनः ।।
कृष्णाह्वयोभिजायंते नरा ब्रह्मस्वहारिणः ।।३९।।
एवं दत्त्वा महीं राजन्प्रहृष्टेनांतरात्मना ।।
सर्वान्कामानवाप्नोति मनसा चिंतितान्नरः ।। 4.164.४० ।।
भूमिदानात्परं नास्ति सुखं वामुष्मिकं महत् ।।
न चापि भूमिहरणादन्यत्पातकमुच्यते ।। ४१ ।।
यच्छंति ये द्विजवराय महीं सुकृष्टां ते यांति शक्रसदनं सुविशुद्धदेहाः ।।
ये लोपयंत्यतिबलादथ कामलोभात्ते रौरवातिगहनान्न समुत्तरंति ।। ४२ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूमिदानमाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरशततमोऽध्यायः ।। १६४ ।।