भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६३

विकिस्रोतः तः

अविदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शृणु पार्थ परं दानं सर्वकिल्बिषनाशनम् ।।
यद्दत्त्वा त्रिविधं पापं सद्यो विलयमृच्छति ।। १ ।।
सुवर्णरोमां सौवर्णीं प्रत्यक्षं वा सुशोभनाम् ।।
सुवर्णतिलकोपेतां सर्वालंकारभूषिताम् ।। २ ।।
कौशेयपरिधानां च दिव्यचंदनभूषिताम् ।।
दिव्यपुष्पोपहारां च सर्वधातुरसैर्युताम् ।।
सप्तधान्यसमायुक्तां फलपुष्पवतीं तथा ।। ३ ।।
शतेन कारयेत्तां च सुवर्णस्य प्रयत्नतः ।।
यथा शक्त्याथ वा कुर्याद्वित्तशाठ्यं न कारयेत ।। ४ ।।
अयने विषुवे चैव ग्रहणे शशिसूर्ययोः ।।
दुःस्वप्नदर्शने चैव जन्मर्क्षे पितृसंक्षये ।। ५ ।।
यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम् ।।
तदैव दानकालः स्याद्यतोऽनित्यं हि जीवितम् ।। ६ ।।
दद्यात्तीर्थे गृहे वापि यत्र वा रमते मनः ।। ७ ।।
तत्र संस्थाप्य देवेशमुमया सह शंकरम् ।।
ब्रह्माणं सह गायत्र्या सश्रीकं श्रीधरं तथा ।। ८ ।।
रत्या सह तथानंगं लोकपालान्ग्रहानपि ।।
संपूज्य च विधानेन गंधपुष्पनिवेदनैः ।। ९ ।।
तदग्रे कारयेद्धोमं तिलाज्येन महीपते ।।
अलंकृत्य द्विजं शांतं वासोभिः प्रतिपूज्य च ।। 4.163.१० ।।
तल्लिङ्गमंत्रैर्होमश्च कर्तव्यो ज्वलितेऽनले ।।
ततस्तां तिलकुंभस्थां लवणान्तमुपस्थिताम् ।। ११ ।।
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ।।
रोमत्वङ्मांसमज्जाद्यैः सर्वोपकरणैः सदा।।
जगतः संप्रवृद्धासि त्वामतः प्रार्थये स्थिताम् ।। १२ ।।
वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम्।।
तत्सर्वं विलयं यातु तव दानात्प्रसेवितम् ।। १३ ।।
एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने ।।
नाभिभाषेत तं दत्त्वा मुखं च नावलोकयेत् ।। १४ ।।
दुष्टप्रतिग्रहहतो विप्रो भवति पातकी ।। १५ ।।
नो दद्याद्दक्षिणाहीनां दातव्या सा विधानतः ।।
दक्षिणाविधिना हीना दुःखशोकावहा भवेत् ।। १६ ।।
पुरा दत्तमिदं दानं गौर्या शंकरकाम्यया ।।
तेन शंभुः पतिर्लब्धः सर्वदेवनमस्कृतः ।। १७ ।।
इन्द्राण्या स्वर्णरोमाणां शतं दत्तं विधानतः ।।
सर्वदेवपतिं प्राप्य पतिं साद्यापि मोदते ।। १५ ।।
नलेन दत्तमेतद्धि राज्यं कृत्वा दिवं गतः ।।
रुक्मिण्याहं पतिर्लब्धः सौभाग्यमतुलं तथा ।। १९ ।।
दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः ।।
अपुत्रो लभते पुत्रमधनो लभते धनम्।।4.163.२०।।
दत्त्वा दानं शुभां कांतिं विपुलां च तथा श्रियम् ।।
य इमं शृणुयान्नित्यं दानकल्पमनुत्तमम्।।
अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः ।।२१ ।।
मेषी विशेषकलुषापहरातिशस्ता दाने सदैव रसधातुयुता सधान्या ।।
तामादरेण कुरुनन्दन देहि दत्त्वा येनास्तपापतिमिरः सवितेव भासि ।। २२ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽविदानव्रतविधिवर्णनंनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ।। १६३ ।।