भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४४

विकिस्रोतः तः
Jump to navigation Jump to search

गणनाथशान्तिवर्णनम्

।। ।। युधिष्ठिर उवाच ।। ।।
शांतिं कथय देवेश गणनाथस्य मे विभो ।।
यां कृत्वा सर्वदुर्गाणि तरते मानवोऽखिलः ।। १ ।। ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
शांतिं वक्ष्यामि राजेन्द्र गणनाथप्रियां पराम् ।।
यस्या आचरणेनैव सर्वारिष्टक्षयो भवेत् ।। २ ।।
विनायकं कर्माविघ्नसिद्ध्यर्थं विनिबोधत ।।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुंडांश्च पश्यति ।। ३ ।।
काषायवाससश्चैव क्रव्यादानधिरोहति ।।
अपमूर्धैः शवे रुद्रैः सहैकत्र च तिष्ठति ।। ४ ।।
व्रजन्नपि तथात्मानं मन्यतेनुगतं परैः ।।
विमना विफलारंभः संसीदत्यनिमित्ततः ।। ५ ।।
तेनोपसृष्टो लभते न राज्यं राजनंदनः ।।
कुमारी न च भर्तारमपत्यं गर्भिणी तथा ।। ६ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्यापनं तथा ।।
वणिग्लाभं न चाप्नोति न कृषिं च कृषीवलः ।। ७ ।।
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।।
गौरसर्षपकल्केन साज्येनोत्सादितस्य तु ।। ८ ।।
सुगन्धकुंकुमालिप्तशरीरशिरसस्तथा ।।
भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ्छुभान् ।। ९ ।।
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् ।।
मृत्तिकां रोचनां गंधान्गुग्गुलं चाप्सु निक्षिपेत् ।। 4.144.१० ।।
यदा हृता ह्येकवणैर्मनुभिः कलशैर्ह्रदात् ।।
चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ।। ।।१ १।।
सहस्राक्षं शतधारमृषिणा वचनं कृतम् ।।
तेन त्वामभिषिंचामि पावमान्यः पुनंतु ते ।।१२।।
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। १३ ।।
यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि ।।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु ते सदा ।। १४ ।।
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण च ।।
जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ।। १५ ।।
मितश्च समितश्चैव तथा सालकटंकटौ ।।
कूष्मांडो राजपुत्रश्च अंते स्वाहासमन्वितैः ।। १६ ।।
नामभिर्बलिमंत्रैश्च नमस्कारसमन्वितैः ।।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वशः ।। १७ ।।
कृता कृतांस्तंडुलांश्च पललौदनमेव च ।।
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु ।। १८ ।।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।।
मूलकं पूरि कापूपं तथैवोंडेरकस्रजम् ।। १९ ।।
दूर्वां सर्वप्रपुष्पाणां दत्त्वार्घ्यं पूर्णमडलाम् ।।
विनायकस्य जननीमुपतिष्ठेत्ततोंऽबिकाम् ।। 4.144.२० ।।
रूपं देहि यशो देहि भगं भवति देहि मे ।।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २१ ।।
ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः ।।
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।। २२ ।।
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।।
कर्मणां फलमाप्नोति श्रियमाप्नोति चोत्तमाम् ।। २३ ।।
आदित्यस्य तथा पूजां तिलकं स्वामिनस्तथा ।।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २४ ।।
श्वेतार्कस्य तु यो मूले महागणपतिः कृतः ।।
सर्वलक्षणसंपूर्णः सोऽपि सिद्धिकरः स्मृतः ।। २५ ।।
संजप्यते शुचौ देशे विघ्नं नात्र हि देहिनः ।।
परमं पूजयेन्नित्यं गन्धमाल्यस्रगादिभिः ।। २६ ।।
क्षीणभाग्योऽपि पुरुषः पूजितश्च नरेश्वरः ।।
सर्वसिद्धिमवाप्नोति जयी भवति सर्वदा ।। .२७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे गणनाथशांतिवर्णनं नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४४ ।।