भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४३

विकिस्रोतः तः

महाशान्तिविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
महाशांतिं प्रवक्ष्यामि महादेवेन भाषिताम्।।
पार्थिवानां हितार्थाय महादुस्तरतारिणीम्।। १ ।।
नृपाभिषेके सा कार्या यात्राकाले नृपस्य तु ।।
दुःस्वप्ने दुर्निमित्ते च ग्रहवैगुण्यसंभवे ।। ।। २ ।।
विद्युदुल्कानिपाते च जन्मर्क्षे ग्रहदैवते ।।
केतूदयेऽथ संजाते निर्घाते क्षितिकम्पने ।। ३ ।।
प्रसूतौ मूलगण्डान्ते यमलस्य तु संभवे ।।
छत्राणां च ध्वजानां च स्वस्थानात्पतने भुवि ।।
काकोलूककपोतानां प्रवेशे वेश्मनस्तथा ।। ४ ।।
क्रूरग्रहाणां वक्रत्वे जन्मादिषु विशेषतः ।।
जन्मनि द्वादशे चैव चतुर्थे वाष्टमे तथा ।। ५ ।।
यदा स्युर्गुरुमन्दाऽऽराः सूर्यश्चैव विशेषतः ।।
युद्धे ग्रहाणां सर्वेषां सूर्यशीतांशुकीलके ।। ६ ।।
वस्त्रायुधगवाश्वेषु मणिकेशविनाशने ।।
यद्यग्रे परिदृश्येत रात्राविंद्रधनुस्तथा ।। ७ ।।
वेश्मनश्च तुलाभंगे गर्भेष्वश्वतरीषु च।।
रवीन्द्वोरुपरागेषु महाशांतिः प्रशस्यते ।। ८ ।।
सर्वाणि दुर्निमित्तानि प्रशमं यान्ति सर्वथा ।।
तां कुर्युर्ब्राह्मणाः पंच कुलशीलसमन्विताः ।। ९ ।।
चतुर्वेदास्त्रिवेदाश्च द्विवेदाश्चापि पांडव ।।
आथर्वणा विशेषेण बह्वृचा यजुसंयुताः ।। 4.143.१० ।।
शुचयः श्रुतसंपन्ना जपहोमपरायणाः ।।
कृच्छ्रपाराकनक्ताद्यैः कृतकाय विशोधनाः ।। ११ ।।
पूर्वमाराध्य मंत्रैस्तु प्रारभेत क्रियां ततः ।।
दशद्वादशहस्तं वा मंडपं कारयेच्छुभम् ।। १२ ।।
तन्मध्ये वेदिकां कुर्याच्चतुर्हस्त प्रमाणतः ।।
आग्नेय्यां कारयेत्कुंडं हस्तमात्रं सुशोभनम् ।। १३ ।।
मेखलात्रयसंयुक्तं योन्या चापि विभूषितम् ।।
बद्धचन्दनमालं च तोरणालंकृतं तथा ।। १४ ।।
गोमयेनोपलिप्ते च मंडपे तु द्विजातयः ।।
शुक्लाम्बरधरः स्नाताः शुक्लमाल्यानुलेपनाः ।। १५ ।।
ततश्च पञ्च कलशांस्तस्यां वेद्यां नियोजयेत् ।।
आग्नेयादिषु कोणेषु पञ्चमं मध्यतस्तथा ।। १६ ।।
अष्टास्रालंकृते पद्मे चूतपल्लवशोभिते ।।
ब्रह्मकूर्चविधानेन पंचगव्यं तु कारयेत् ।। १७ ।।
औषधीः पञ्चरत्नानि रोचनां चन्दनं तथा ।।
सिद्धार्थकाञ्छमीदूर्वाः कुशान्व्रीहिर्यवांस्तथा ।। १८ ।।
अपामार्गं फलवतीं न्यग्रोधोदुंबरौ तथा ।।
प्लक्षाश्वत्थकपित्थांश्च प्रियंगुचूतपल्लवान् ।। १९ ।।
हस्तिदंतमृदं चैव कोणकुम्भेषु निक्षिपेत् ।।
पुण्यतीर्थोदकान्नं च धान्यं गव्यं च मध्यमे ।। 4.143.२० ।।
कूर्चं वाचमितीदं च वह्निकुम्भाभिमन्त्रणम् ।।
आशुः शिशानो मन्त्रेण मन्त्रणं वायुगोचरे।। ।। २१ ।।
ईशावास्यं चतुर्थस्य कुम्भस्य चाभिमंत्रणम् ।।
मध्यमे जपितव्यास्तु रुद्रकुम्भे भवोद्भवाः ।।२२।।
गंधपुष्पाक्षतैर्वस्त्रैर्नैवैद्यैर्घृतपाचितैः।।
फलैश्च नारिकेलाद्यैर्दीपकैः कुंभपूजनम् ।। २३ ।।
स्वस्तिवाचनकं चैव कारयेत्तदनंतरम् ।।
क्रमेणानेन शनकैरग्निकार्यं प्रयोजयेत्।। २४ ।।
अग्निं दूतमिति ह्यग्निं पूर्वमेव निधापयेत् ।।
हिरण्यगर्भः समिति ब्रह्मासननियोजनम् ।। २५ ।।
कपोतसुप्रणीतेन मंत्रेण विनिशेषयेत् ।।
कृत्वा चावरणं वह्नेराज्यसंस्कारमेव च ।। २६ ।।
अथ चासादयेद्द्रव्यं यथावत्सप्रयोजनम् ।।
ततः पुरुषसूक्तेन पायसश्रपणं भवेत् ।। २७ ।।
अभिघार्याथ संसिद्धं तथा संस्थापयेद्भुवि ।।
अष्टादशप्रमाणेध्मान्दद्यादथ शमीमयान् ।। २८ ।।
पालाशी समिधः सप्त तथा सप्तेति दापयेत् ।।
आघारावाज्यभागौ तु हुत्वा पूर्वक्रमेण तु ।। २९ ।।
जुहुयादाहुतीः सप्त जातवेदस इत्यृचा ।।
स्थालीपाकस्य जुहुयात्पुनर्वै जातवेदसा ।। 4.143.३० ।।
तरत्समंदी सूक्तेन चतस्रो जुहुयात्ततः ।।
यमायेति च सप्तान्याः स्वाहांता जुहुयात्ततः ।। ३१ ।।
इदं विष्णुस्ततः सप्त जुहुयादाहुतीर्नृप ।।
नक्षत्रेभ्यस्ततः स्वाहा सप्तविंशद थाहुतीः ।। ३२ ।।
यत्कर्मणैति जुहुयात्ततः स्विष्टकृतं पुनः ।।
ग्रहहोमस्ततः कार्यस्तिलैराज्यपरिप्लुतैः ।। ३३ ।।
 प्रायश्चित्तं ततो हुत्वा होमकर्म समापयेत् ।।
ततस्तु तूर्यनिर्घोषैः काहलाशंखनिःस्वनैः ।। ३४ ।।
यजमानस्य कर्तव्यो ह्यभिषेको द्विजोत्तमैः ।।
काश्मर्यवृक्षसंभूते भद्रे भद्रासने स्थितम् ।। ३५ ।।
वेदिमध्यगतं कृत्वा दुर्निमित्तप्रशांतये ।।
पंचभिः कलशैः पूर्णैर्मंत्रैरेभिर्यथाक्रमम् ।। ३६ ।।
सहस्राक्षेण प्रथमं ततश्चैव शता युषा ।।
सजोषसा च इन्द्रेति विश्वानीत्यृग्भिरेव च ।। ३७ ।।
ऋतमस्त्विति च ततः स्नापयेयुः समाहिताः ।।
ततो दिशां बलिं दद्याद्विचित्रान्न समायुतम् ।। ३८ ।।
नमोस्तु सर्वभूतेभ्य इति मन्त्रमुदाहरन् ।।
स्नातस्य ब्राह्मणाः सर्वे पठेयुः शांतिमुत्तमाम् ।। ३९ ।।
शांतितोयेन धारां च पातयित्वा संमततः ।।
पुण्याहवाचनं कृत्वा शांतिकर्म समापयेत् ।। 4.143.४० ।।
क्षितिं हिरण्यं वासांसि शयनान्यासनानि च ।।
विप्रेभ्यो दक्षिणां दद्याद्यथा शक्त्या विमत्सरः ।। ४१ ।।
दीनानाथविशिष्टेभ्यः श्रोत्रियेभ्यश्च दापयेत् ।।
भोजनं शोभनं दत्त्वा ततः सर्वं प्रसिद्ध्यति ।। ४२ ।।
आयुश्च लभते दीर्घं शत्रून्विजयते क्षणात् ।।
दुर्गाणि चास्य सिद्यन्ति पुत्रांश्च लभते शुभान् ।। ४३ ।।
यथाशस्त्रप्रहाराणां कवचं वारणं भवेत्।।
तथा दैवोपघातानां शान्तिर्भवति वारणम् ।। ४४ ।।
अहिंसकस्य दांतस्य धर्मार्जितधनस्य च ।।
दयादाक्षिण्ययुक्तस्य सर्वे सानुग्रहा ग्रहाः।। ४५।।
अर्थान्समर्थयति वर्द्धयते च धर्मं कामं प्रसाधयति तस्य पिनष्टि पापम् ।।
यः कारयेत्सकलदोषहरीं समर्थां शांतिं प्रशांतहृदयः पुरुषः सदैव ।। ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाशांतिविधिवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।।१४३।।