भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४१

विकिस्रोतः तः
Jump to navigation Jump to search

नवग्रहलक्षहोमविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
कथयस्व महाभाग सर्वज्ञो ह्यसि यादव ।।
सर्वकामाप्तये कृत्यं कथं शांतिकपौष्टिकम् ।।१।।
।। श्रीकृष्ण उवाच।। ।।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।।
दृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः ।। २ ।।
सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ।।
ग्रहशांतिं प्रवक्ष्यामि पुराणश्रुतिभाषिताम् ।।३।।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ।।
ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ।। ४ ।।
ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।।
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ।। ५ ।।
तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः ।।
अयुतेनाहुतीनां च नवग्रहमखः स्मृतः ।।६।।
तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ।।
गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।। ७ ।।
कुर्याद्विधानतो वेदिं वितस्त्युच्छ्रयसंयुताम् ।।
संस्थापनाय देवानां चतुरस्रामुदक्प्लवाम् ।। ८ ।।
अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् ।।
देवानां तत्र संस्थाप्या विंशतिर्द्वादशाधिका ।। ९ ।।
सूर्यः सोमो महीपुत्रो बुधो जीवः सितोर्कजः ।।
राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः ।। 4.141.१० ।।
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णजावुभौ ।।
रजतादायसाच्चैव ग्रहाः कार्याः क्रमादमी ।। ११ ।।
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।।
उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ।। १२ ।।
पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके ।।
पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतंडुलैः ।। १३ ।।
राजामात्यान्महाराज तंडुलैः स्थापयेदथ ।।
भास्करस्येश्वरं विद्यादुमां च शशिनस्तथा ।। १४ ।।
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ।।
ब्रह्माणं च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् ।। ।। १५ ।।
शनैश्चरस्य तु यमं राहोः कालं तथैव च ।।
केतोस्तु चित्रगुप्तं तु सर्वेषामेव देवताः ।। १६ ।।
अग्निरापः क्षितिर्विष्णुरिन्द्रः सौवर्णदेवताः ।।
प्रजापतिश्च सूर्यश्च ब्रह्मा प्रत्यधिदेवताः ।।१७।।
विनायकं तथा दुर्गां वायुमाकाशमेव च ।।
सावित्रीं च तथा लक्ष्मीमुमां च सहभर्तृकाम् ।। ।। १८ ।।
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ।।
संस्मरेद्रक्तमादित्यमंगारकसमन्वितम् ।। १९ ।।
सोमशुक्रौ यथाश्वेतौ बुधजीवौ च पिङ्ग लौ ।।
मंदराहू तथा कृष्णौ धूम्रं केतुगुणं विदुः ।। 4.141.२० ।।
ग्रहवर्णानि देयानि वासांसि कुसुमानि च ।।
गंधाश्च बलयश्चैव धूपा गुग्गुलपूर्वकाः ।। ।। २१ ।।
गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम् ।।
अंगारकाय संयावं बुधाय क्षीरषष्टिकम् ।। २२ ।।
दध्यन्नं गुरवे दद्याच्छक्राय तु घृतौदनम् ।।
शनैश्चराय कृशरं मेषमांसं तु राहवे ।। २३ ।।
चित्रौदनं केतवे च सर्वान्भक्ष्यैरथार्चयेत् ।।
प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् ।। २४ ।।
चूत पल्लवसंपन्नं फलवस्त्रयुगान्वितम् ।।
पञ्चरत्नसमायुक्तं पञ्चभंगयुतं तथा ।। २५ ।।
स्थापयेदव्रणं कुंभं वरुणं तत्र विन्यसेत् ।।
गंगायाः सरितः सर्वाः समुद्राश्च सरांसि च ।। २६ ।।
गजाश्वरथ्यावल्मीकात्संगमाद्धृदगोकुलात् ।।
मृदमानीय राजेन्द्र सर्वौषधिजलान्विताम् ।। २७ ।।
स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित् ।।
सर्वे समुद्राः सरितः सरः प्रस्रवणानि च ।। २८ ।।
आयांतु यजमानस्य दुरितक्षयकारकाः ।।
एवमावाहयित्वा तान्सर्वान्नृपतिसत्तम ।। २९ ।।
होमं समारभेत्सर्पिर्यवव्रीहितिलादिना ।।
अर्कः पलाशखदिरौ ह्यपामार्गोऽथ पिप्पलः ।। 4.141.३० ।।
उदुंबर शमीदूर्वाकुशाश्च समिधः क्रमात् ।।
एकैकस्य चाष्टशतमष्टाविंशति वा पुनः ।। ३१ ।।
होतव्या मधुसर्पिभ्यां दध्ना वा पायसेन वा ।।
प्रादेशमात्रा ऋजवो विशाखा विफलाः शुभाः ।। ३२ ।।
कल्प्यंते समिधः प्राज्ञैः सर्वकर्मसु सर्वदा ।।
देवानामपि सर्वेषामुपांशु परमार्थवित् ।। ३३ ।।ऽ
स्वेन स्वेनैव मंत्रेण होतव्याः समिधः पृथक् ।।
आकृष्णेन इमं देवा अग्निर्मूर्द्धा दिवः क्रमात् ।। ३४ ।।
उद्बुध्यस्वेति बोध्यश्च यथासंख्यमुदाहृताः ।।
बृहस्पते अतियदस्तथैवान्नात्परिसुतः ।। ३५ ।।
शन्नोदेवीति च कया केतुं कृण्वन्नितीति च ।।
होतव्यं यद्वदाज्यं चरुं भक्ष्याणि वा पुनः ।। ३६ ।।
मंत्रैर्दशाहुतीर्दत्त्वा होमो व्याहृतिभिस्ततः ।।
उदङ्मुखाः प्राङ्मुखाश्च कुर्युर्ब्राह्मणपुंगवाः ।। ३७ ।।
मंत्रवंतस्तु कर्तव्याश्चरवः प्रतिदैवतम् ।।
अपो राजेति रुद्रस्य बलिहोमं समारभेत् ।। ३८ ।।
आपो हिष्टेत्युमायास्तु श्येनेति स्वामिनस्तथा ।।
विष्णोरिदं विष्णुरिति स्वमिच्छेति स्वयंभुवः ।। ।। ३९ ।।
इन्द्रादिदेवतानां तु इन्द्राय जुहुयात्पुनः ।।
नवा यमस्यायं गौश्चेत्येवं होमः प्रकीर्तितः ।। 4.141.४० ।।
कालस्य ब्रह्मजज्ञानमिति मंत्रः प्रशस्यते ।।
चित्रगुप्तस्य वा जात पौराणिका विदुर्बुधाः ।। ४१ ।।
अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः ।।
इंद्रं यमं वरुणमित्ययं मंत्रः प्रकीर्तितः ।। ।। ४२ ।।
भूमेः पृथिव्यंतरिक्षमिति वेदेषु पठ्यते ।।
सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः ।। ४३ ।।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।।
ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा ।। ४४ ।।
कीर्तिर्लक्ष्मीर्धृतिर्मेधाः पुष्टिः श्रद्धा क्रिया मतिः ।।
बुद्धिर्लज्जा शांतिपुष्टी कांतिस्तुष्टिश्च मातरः ।।४५।।
एतास्त्वामभिषिंचंतु धर्मपत्न्यः समागताः ।।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।।४६।।
ग्रहास्त्वामभिषिंचंतु राहुः केतुश्च तर्पिताः ।।
देवदानवगंधर्वा यक्षराक्षसपन्नगाः ।। ४७ ।।
ऋषयो मनवो गावो देवमातर एव च ।।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ।। ।। ४८ ।।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।।
औषधानि च रत्नानि कालस्यावयवाश्च ये ।। ४९ ।।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।।
एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये ।। 4.141.५० ।।
ततः शुक्लांबरधरः शुक्लगन्धानुलेपनः ।।
सर्वगन्धसमायुक्तः स्नातः श्रद्धासमन्वितः ।।५१।।
यजमानः सपत्नीकान्सिद्धिदांस्तान्समाहितान् ।।
दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ।। ५२ ।।
सूर्याय कपिलां धेनुं दद्याच्छंखं तथेन्दवे ।।
रक्तं धुरंधरं दद्याद्भौमाय ककुदाधिकम् ।। ५३ ।।
बुधाय जातरूपं च गुरवे पीतवाससी ।।
श्वेताश्वं दैत्यगुरवे कृष्णांगामर्कसूनवे ।। ५४ ।।
आयसं राहवे दद्यात्केतवे च्छागमुत्तमम् ।।
सुवर्णेन समा कार्या यजमानेन दक्षिणा ।। ५५।।
सर्वेषामथवा दद्याद्गुरुर्वा येन तुष्यति ।।
सुमंत्रेण प्रदातव्याः सर्वाः सर्वार्थदक्षिणाः ।। ५६ ।।
कपिले सर्वदेवानां पूजनीयासि रोहिणी ।।
तीर्थदेवमयी यस्मादतः शांतिं प्रयच्छ मे ।। ५७ ।।
पुण्यस्त्वं शंख पुण्यानां मङ्गलानां च मंगलम् ।।
विष्णुना विधृतो नित्यमतः शांतिं प्रयच्छ मे ।। ५८ ।।
धर्म त्वं वृषरूपेण जगदानन्दकारकः ।।
अष्टमूर्तेरधिष्ठानमतः शांतिं प्रयच्छ मे ।। ५९ ।।
हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।।
अनन्तपुण्यफलदमतः शांतिं प्रयच्छ मे ।। 4.141.६० ।।
पीतवस्त्रयुगं दद्याद्वासुदेवस्य वल्लभम् ।।
प्रदानात्तस्य मे विष्णुरतः शांतिं प्रयच्छतु ।। ६१ ।।
कपिलस्त्वश्वरूपेण यस्मादमृतसम्भवः ।।
चन्द्रार्कवाहनो नित्यमतः शांतिं प्रयच्छ मे ।। ६२ ।।
यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंज्ञिता ।।
सर्वपापहरा नित्यमतः शांतिं प्रयच्छ मे ।। ६३ ।।
यस्मादायस कर्माणि तवाधीनानि सर्वदा ।।
लांगलान्यायुधादीनि तस्माच्छांतिं प्रयच्छ मे ।। ६४ ।।
यस्मात्त्वं छाग यज्ञानामंगत्वेन व्यवस्थितः ।।
योनिर्विभावसोर्नित्यमतः शांतिं प्रयच्छ मे ।। ६५ ।।
गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ।।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ।। ।। ६६ ।।
यस्मादशून्यं शयनं केशवस्य शिवस्य च ।।
शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ।। ६७ ।।
यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः ।।
तथा शांतिं प्रयच्छंतु रत्नदानेन मे सुराः ।। ६८ ।।
यथा भूमिप्रदानस्य कलां नार्हंति षोडशीम् ।।
दानान्यन्यानि मे शांतिं भूमि दानाद्भवत्यपि ।। ६९ ।।
एवं संपूजयेद्भक्त्या वित्तशाठ्यविवर्जितः ।।
वस्त्रकाञ्चनरत्नौघैर्माल्यगंधानुलेपनैः ।। 4.141.७० ।।
ग्रहस्वरूपमतुलं कथ्यमानं निबोध मे ।।
भक्तिभावप्रपन्नस्य कथ्यमानं विराजते ।।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ।। ।। ७१ ।।
श्वेतः श्वेतांबरधरो दशाश्वः श्वेतभूषणः ।।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ।। ७२ ।।
रक्तमाल्यांबरधरः कर्णिकारसमंद्युतिः ।।
खड्गचर्मगदापाणिर्विधेयो भूमिनंदनः ।। ७३ ।।
पीतमाल्यांबरधरः पीतगंधानुलेपनः ।।
कांचने च रथे दिव्ये शोभमानो बुधः सदा ।। ७४ ।।
देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ ।।
दंडिनौ वरदौ कार्यौ साक्षसूत्रकमडलू ।। ७५ ।।
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।।
बाणबाणासनधरः कर्तव्योऽर्कसुतः सदा ।। ७६ ।।
शार्दूलवदनः खड्गी वर्मी शूली वरप्रदः ।।
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ।। ७७ ।।
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।।
गृध्रासनरता नित्यं केतवः स्युर्वरप्रदाः ।। ७८ ।।
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।।
स्वांगुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं तदा ।। ७९ ।।
ग्रहस्वरूपमेतत्ते व्याख्यातं पांडुनन्दन ।।
एतज्ज्ञात्वा प्रयत्नेन पूजा कार्या विचक्षणैः ।। 4.141.८० ।।
विधिना ग्रहपूजां योनेन त्वारभते नरः ।।
सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।। ८१ ।।
यस्तु पीडाकरो नित्यं माल्यवित्तस्य वा ग्रहः ।।
तं तु यत्नेन संपूज्य शेषानप्यर्चयेद्बुधः ।। ८२ ।।
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः ।।
पूजिताः पूजयंत्येते निर्दहंत्यवमानिताः ।। ८३ ।।
तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता ।।
संपूर्णायां दक्षिणायां यस्मादेकोऽपि तुष्यति ।। ८४ ।।
सदैवाऽयुतहोमोऽयं नवग्रहमखः स्मृतः ।। ८५ ।।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ।।
निर्विघ्नार्थं महाराज तथोद्वेगाद्भुतेषु च ।। ८६ ।।
कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु ।।
सर्वकामाप्तये यस्माल्लक्ष होमं विदुर्बुधाः ।। ८७ ।।
पितॄणां वल्लभो यस्माद्भुक्तिमुक्तिफलप्रदः ।।
ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।। ८८ ।।
गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ।।
रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् ।। ८९ ।।
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ।।
प्रागुदक्प्रवणां भूमिं कारयेद्यत्नतो नरः ।। 4.141.९० ।।
प्रागुत्तरं समासाद्य प्रदेशं मंडपस्य तु ।।
शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् ।। ९१ ।।
मानहीनं चाप्रशस्तमनेकभयदं भवेत् ।।
यस्मात्तस्मात्सुसंपूर्णं शांतिकुंडं विधीयते ।। ९२ ।।
अस्माद्दशगुणः प्रोक्तो लक्षहोमे स्वयंभुवा ।।
आहुतिभिः प्रयत्नेन दक्षिणाभिस्तथैव च ।। ९३ ।।
द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः ।।
लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम् ।। ९४ ।।
संस्थापनाय देवानां वप्रत्रयसमावृतम् ।।
द्विरंगुलोच्छ्रितो वप्रः प्रथमः समुदाहृतः ।। ९५ ।।
अंगुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि ।।
द्व्यङ्गुलस्तत्र विस्तारः सर्वेषां कथ्यते बुधैः ।। ९६ ।।
दशांगुलोच्छ्रिता भित्तिः स्थंडिलस्य तथोपरि ।।
तस्मिन्नावाहयेद्देवान्पूर्ववत्पुष्पतण्डुलैः ।। ९७ ।।
आदित्याभिमुखाः सर्वाः स्थाप्याः प्रत्यधिदेवताः ।।
स्थापनीया मुनिश्रेष्ठा नांतरेण पराङ्मुखाः ।। ९८ ।।
गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता ।।
समपीनशरीरस्तु वाहनं परमेष्ठिनः ।।९९।।
विषपापहरो नित्यमतः शांतिं प्रयच्छ मे ।।
पूर्ववत्कुंभमामंत्र्य तद्वद्धोमं समाचरेत् ।।4.141.१ ००।।
सहस्राणां शतं हुत्वा समित्संख्यादिकं पुनः ।।
औदुम्बरीमथार्द्रां च वक्रकोटरवर्जिताम् ।। १०१ ।।
बाहुमात्रां स्रुचं कृत्वा ततः स्तंभद्वयोपरि ।।
घृतधारां तथा सम्यगग्नेरुपरि पातयेत् ।।१ ०२।।
पाठयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैंदवम् ।।
महावैश्वानरं साम ज्येष्ठसाम च पाठयेत् ।।१०३।।
स्नानं तु यजमानस्य पूर्ववन्मन्त्रवाचनम् ।।
दातव्या यजमानेन पूर्ववद्दक्षिणा पृथक् ।। १०४ ।।
कामक्रोधविहीनेन ऋत्विग्भ्यः शांतचेतसः ।।
नवग्रह मखे विप्राश्चत्वारो वेदवेदिनः ।। १०५ ।।
अथ वा ऋत्विजौ शांतौ द्वावेव त्वतिकोविदौ ।।
कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ।। १०६ ।।
तद्वच्च दश चाष्टौ वा लक्षहोमेऽपि ऋत्विजः।।
कर्तव्याः शक्तितस्तद्वच्चत्वारो वा विमत्सराः ।।१ ०७।।
नवग्रहमखे सर्वं लक्षहोमे दशोत्तरम्।।
दद्याच्च पांडवश्रेष्ठ भूषणान्यपि शक्तितः ।। १०८ ।।
शयनानि च वस्त्राणि हैमानि कटकानि च ।।
कर्णांगुलीपवित्राणि भक्तिमान्प्रतिपादयेत् ।।१ ०९।।
न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः ।।
अददल्लोभमोहाभ्यां कुलक्षयमवाप्नुयात् ।। 4.141.११० ।।
अन्नदानं यथा शक्त्या दातव्यं भूतिमिच्छता ।।
अन्नहीनं व्रतं यस्माद्दुर्भिक्षफलदं भवेत् ।। १११ ।।
राष्ट्रं हन्यादंगहीनो मंत्रहीनस्तु ऋत्विजः ।।
अदक्षिणो यजमानं नास्ति यज्ञसमो रिपुः ।। ११२ ।।
न चाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित् ।।
तस्मात्पीडाकरो नित्यं य एव भवति ग्रहः ।। ११३ ।।
तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि ।।
एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेद पारगम् ।।११४ ।।
दक्षिणाभिः प्रयत्नेन बहू्न्वा बहुवित्तवान् ।।
लक्षहोमस्तु कर्तव्यो यदि वित्तं गृहे गृहे ।। ११५ ।।
यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः ।।
पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः ।। ११६ ।।
यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात्।।
सकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि ।।११७।।
स तं काममवाप्नोति पदं चानंत्यमश्नुते।।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।।११८।।
भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम् ।।
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ।। ११९ ।।
यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् ।।
निष्कामः कुरुते यस्तु परं ब्रह्म स गच्छति ।। 4.141.१२० ।।
शांतिं नवग्रहमयीं दुरितोपशांतिं राजन्करोति बहुना विधिवद्द्विजेन्द्रैः ।।
क्षेमं सुभिक्षमतुलं कुलवृद्धिसंपत्तत्रास्ति यत्र कुरुते बत लक्षहोमम् ।।१२१।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयु धिष्ठिरसंवादे नवग्रहलक्षहोमविधिवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ।।१४१।।