भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२२

विकिस्रोतः तः
Jump to navigation Jump to search

माघस्नानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
कृतं ब्रह्मयुगं प्रोक्तं त्रेता तु क्षत्रियं युगम् ।।
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ।। १ ।।
कलौ राजन्मनुष्याणां शैथिल्यं स्नानकर्मणि ।।
तथापि माघव्याजेन कथयिष्यामि ते शृणु ।। २ ।।
यस्य हस्तौ च पादौ च वाङ्मनस्तु सुसंयतम् ।।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ३ ।।
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।।
हेतुनिष्ठाश्च पञ्चैते न तीर्थफलभागिनः ।।४।।
प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा ।।
यत्र वा तत्र वा स्नायान्माघे नित्यमिति श्रुतिः।।५।।
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः ।।
समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ।।६।।
उषःसमीपे यः स्नानं संध्यायामुदिते रवौ ।।
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।। ७ ।।
प्रातरुत्थाय यो विप्रः प्रातःस्नायी सदा भवेत् ।।
स सर्वपापनिर्मुक्तः परं ब्रह्माधिगच्छति ।। ८ ।।
वृथा चोष्णोदकस्नानं वृथा जाप्यमवैदिकम् ।।
अश्रोत्रिये वृथा श्राद्धं वृथा भुक्तमसाक्षिकम् ।। ९ ।।
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्युधिष्ठिर ।।
वायव्यं वारुणं ब्राह्मं दिव्यं चेति पृथक्शृणु । 4.122.१० ।।।
वायव्यं गोरजः स्नानं वारुणं सागरादिषु।।
ब्राह्मं ब्राह्मणमंत्रोक्तं दिव्यं मेघांबुभास्करम्।।
सर्वेषामेव स्नानां विशिष्टं तत्र वारुणम्।।११।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।।
एते सर्वे प्रशंसंति सर्वदा माघमज्जनम्।।१२।।
बालास्तरुणका वृद्धा नरनारीनपुंसकाः।।
स्नात्वा माघे शुभे तीर्थे प्राप्नुवंतीप्सितं फलम्।।१३।।
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ।।
तूष्णीमेव हि शूद्रस्य स्त्रीणां च कुरुनंदन ।। १४ ।।
माघमासे रटंत्यापः किञ्चिदभ्युदिते रवौ ।।
ब्रह्मघ्रं वा सुरापं वा कंपं तंतं पुनीमहे ।। १५ ।।
प्रासादा यत्र सौवर्णाः स्त्रियश्चाप्सरसोपमाः ।।
दधिकुल्यवहा यत्र नद्यः पायसकर्दमाः ।।
तत्र ते यांति मज्जंति ये माघे भास्करोदये ।।१६।।
यतिवत्पथि गच्छेत मौनी पैशुन्यवर्जितः ।।
यदीच्छेद्विपुलान्भोगांश्चन्द्रसूर्योपमान्गृहान् ।। १ ७।।
पौषफाल्गुनयोर्मध्ये प्रातःस्नायी भवेन्नरः ।।
पौर्णमास्या ह्यमावास्याः प्रारभ्य स्नानमाचरेत् ।। १८ ।।
त्रिंशद्दिनानि पुण्याणि मकरस्थे दिवाकरे ।।
तत्र उत्थाय नियमं गृह्णीयाद्विधिपूर्वकम् ।। १९ ।।
माघमासमिमं पूर्णं स्थाप्येहं देवमाधवम् ।।
तीर्थं शीतजले नित्यमिति संकल्प्य चेतसा ।। 4.122.२० ।।
अप्रावृतशरीरस्तु यः कष्टं स्नानमाचरेत्।।
पदेपदेऽश्वमेधस्य फलं प्राप्तोति मा नवः ।।२१ ।।
तत्र स्नात्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम् ।।
वेदोक्तविधिना राजन्सूर्यस्यार्घं निवेदयेत् ।। २२ ।।
पितॄन्संतर्प्य तत्रस्थो ह्यवतीर्य ततो जलात् ।।
इष्टदेवं नमस्कृत्य पूजयेत्पुरुषोत्तमम् ।।२३ ।।
शङ्खचक्रधरं देवं माधवं नाम पूजयेत् ।।
वह्निं हुत्वा विधानेन ततस्त्वेकाशनो भवेत्।। ।। २४ ।।
भूशय्याब्रह्मचर्येण शक्तः स्नानं समाचरेत् ।।
अशक्तस्य धनाढ्यस्य स्वेच्छा सा तत्र कथ्यते ।। २५ ।।
अवश्यमपि कर्तव्यं माघे स्नानमिति श्रुतिः ।।
ईश्वरेण यथाकामं बलं धर्मोऽनुवर्तते ।। २६ ।।
तिलस्नायी तिलोद्वर्ती तिलभोक्ता तिलोदकी ।।
तिलहोता च दाता च षट्तिलो नावसीदति ।।२७।।
तैलस्यामलकानां च तीर्थे देयानि नित्यशः ।।
तथा प्रज्वालयेद्वह्निं निवातार्थं द्विजन्मनाम् ।।२८।।
एवं स्नानावसाने तु भोज्यं देयमवारितम् ।।
भोजयेद्द्विजदांपत्यं भूषयेद्वस्त्रभूषणैः ।। २९ ।।
कंबलाजिनरत्नानि वासांसि विविधानि च ।।
चोलकानि च दिव्यानि प्रच्छादनपटीस्तथा ।। ।। 4.122.३० ।।
उपानहौ तथा गुप्तं मोदकैः पापमोचकैः ।।
अनेन विधिना दद्यान्माधवः प्रीयतामिति ।। ३१ ।।
अगम्यागमनस्तेयपापेभ्यश्च परिग्रहात् ।।
रहस्याचरिताद्वापि मुच्यते स्नानमाचरेत् ।। ३२ ।।
पितृभिः पितामहैः सार्द्धं तथैव प्रपितामहैः ।।
मातामातामहैः सार्द्धं वृद्धमातामहैस्तथा ।। ३३ ।।
एकविंशकुलैः सार्द्धं भोगान्भुक्त्वा यथेप्सितान् ।।
माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ।। ३४ ।।
यो माघमास्युषसि सूर्य्यकराभिताम्रे स्नानं समाचरति चारुनदीप्रवाहे ।।
उद्धृत्य सप्तपुरुषान्पितृमातृतश्च स्वर्गं प्रयात्यमलदेहधरो नरोऽसौ ।। ३५ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे माघस्नानविधिवर्णनं नाम द्वाविंशत्युत्तरशततमोऽध्यायः ।। १२२ ।।