सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२१

विकिस्रोतः तः

व्रतपञ्चाशीतिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शृणु भारत वक्ष्यामि पञ्चाशीतिव्रतानि च ।।
नोक्तानि यानि कस्यापि मुनिभिर्धर्मदर्शिभिः ।। १ ।।
भविष्यमत्स्यमार्तंडपुराणेषु च वर्णितम् ।।
वाराहं चैव संगृह्य कथ्यंते तानि पांडव ।। २ ।।
यदभीष्टं सुमित्राय शिष्याय च सुताय च ।।
न कथ्यते धर्मजातं किं तेनोदरवर्तिना ।। ३ ।।
श्रुतिस्मृतिपुराणेभ्यो यन्मया ह्यवधारितम् ।।
तत्ते वच्मि कुरुश्रेष्ठ कस्यान्यस्योपदिश्यते ।। ४ ।।
स्नात्वा प्रभातसंध्यायामुपगृह्य च पिप्पलम् ।।
तिलपात्राणि यो दद्यान्न स शोचेत तत्कृते ।। ५ ।।
व्रतानामुत्तमं ह्येतत्सर्वपापप्रणाशनम् ।।
पात्रव्रतमिति ख्यातं नाख्यातं कस्यचिन्मया ।। ६ ।।
सुशुद्धस्य सुवर्णस्य सुवर्णं यः प्रयच्छति ।।
पुण्येऽह्नि विप्रकथिते प्रीत्या पीतयुगान्वितम् ।। ७ ।।
व्रतं वाचस्पतेरेतद्बलबुद्धिप्रदायकम् ।।
वृत्रघ्नस्य पुराख्यातं गुरुणा सर्वकामदम् ।। ८ ।।
लवणं कटुतिक्तं च जीरकं मरिचानि च ।।
हिंगुशुंठिसमायुक्तं सर्वं परिचयं तथा ।। ९ ।।
चतुर्थ्या मेकभक्ताशी सकृद्दत्त्वा कुटुंबिने ।।
गृहेषु सप्तसु सदा शिलायुक्तानि भारत ।। 4.121.१० ।।
एतच्छिलाव्रतं नाम लक्ष्मीलोकप्रदायकम् ।।
कर्तव्यमिह यत्नेन मुखपाटवकारकम् ।। ११ ।।
नक्तमन्नं चरित्वा तु गवा सार्द्धं कुटुंबिने ।।
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी।। १२ ।।
प्रणम्य भक्त्या देवेशौ प्रीयेतां शिवकेशवौ ।।
एतदेवव्रतं नाम महापातकनाशनम् ।।१३।।
कृत्वैकभुक्तं वर्षांते शक्त्या हैमवृषान्विताम् ।।
धेनुं तिलमयीं दद्यात्सर्वो पस्करणैर्युताम् ।। १४ ।।
एतद्रुद्रव्रतं नाम पापशोकप्रणाशनम् ।।
यः करोति पुमान्राजन्स पदं याति शांकरम् ।। १५ ।।
सर्वौषध्युदकस्नातः पञ्चम्यां पूज्य पंचकम् ।।
सप्तोपस्करदानं च यः करोति गृहाश्रमी ।। १६ ।।
गृहाद्युलूखलं शूर्पः शिला स्थाली च पञ्चमी ।।
उदकुंभश्च चुल्ली च एतेषामनुकिञ्चन।। १७ ।।
एतानि गृहिणां गेहे प्रस्थाप्य पुरुषोत्तमम् ।।
उपस्करोति या नारी न सीदति कदाचन ।। १८ ।।
एतद्गृहव्रतं नाम सर्व सौख्यप्रदायकम्।।
अत्रिणा ह्यनसूयायाः कथितं पाण्डुनन्दन ।। १९ ।।
यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ।।
ददाति श्रद्धयोपेतो ब्राह्मणाय कुटुंबिने ।। 4.121.२० ।।
स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ।।
आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः ।। २१ ।।
पारिते च पुनर्दद्यात्तिलतैलघटं नवम् ।।
भोजनं पायसाज्यं च स याति भवनं हरेः ।।२२।।
लोकप्रीतिकरं चैतत्प्रीतिव्रतमिहोच्यते ।।
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् ।। ।। २३ ।।
दद्याद्वस्त्रयुगं सूक्ष्मं रसपात्रैश्च संयुतम् ।।
संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति ।। २४ ।।
एतद्गौरीव्रतं नाम भवानीलोक दायकम् ।।
पुरुषो यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः ।। २५ ।।
संवत्सरांते तस्मिन्वा दिवसे विघ्नवर्जितम् ।।
अशोककांचनं दद्यात्सद्वस्त्रयुगसंश्रितम् ।। २६ ।।
विप्राय वसुसंयुक्तं प्रद्युम्नः प्रीयतामिति ।।
कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नृप ।। २७ ।।
एतत्कामव्रतंनाम सर्वशोकविनाशनम् ।।
आषाढादिचतुर्मासं वर्जयेन्नखकर्तनम् ।। २८ ।।
वृंताकभक्षणं चैव मधुसर्पिर्घटान्वितम् ।।
कार्तिक्यां तु पुनर्हैमं ब्राह्मणाय निवेदयेत् ।। २९ ।।
रुद्रलोकमवाप्नोति शिवव्रतमिदं स्मृतम् ।।
एवं पञ्चदशीं स्मृत्वा एकभक्तेन मानवः ।। 4.121.३० ।।
संपूज्य पूर्णिमां देवीं लिखित्वा चन्दनादिना ।।
ततः पञ्चघटान्पूर्णान्पयोदधिघृतेन च ।।
मधुना सितखण्डेन ब्राह्मणायोपपादयेत् ।। ३१ ।।
मनोरथान्पूरयस्व संपूर्णान्पूर्णिमा ह्यसि ।।
पञ्चकुम्भप्रदानेन भूतानां तुष्टिरस्तु मे ।।
द्विजानेवं नमस्कृत्य सर्वान्कामानवाप्नुयात् ।। ३२ ।।
एतत्पंचघटं नाम व्रतं पुष्टिप्रदायकम्।।।
वर्जयेद्यस्तु पुष्पाणि हेमंतशिशिराव्रतम् ।। ३३ ।।
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्याथ काञ्चनम् ।।
दद्याद्वै कालवेलायां प्रीयेतां शिवकेशवौ ।। ।। ३४ ।।
शिरःसौगन्धजननं सदानन्दकरं नृणाम् ।।
कृत्वा परपदं याति सौगन्ध्यव्रतमुत्तमम् ।। ३५ ।।
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ।।
समाप्ते शयनं दयाद्गृहे चोपस्करान्वितम् ।। ३६ ।।
संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ।।
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुत्त मम् ।। ३७ ।।
संध्यामौनं नरः कृत्वा समाप्ते घृतकुंभदः ।।
वस्त्रयुग्मं च घंटां च ब्राह्मणाय निवेदयेत् ।। ३८ ।।
सारस्वतं पदं याति पुनरावृत्ति दुर्लभम्।।
एतत्सारस्वतं नाम रूपविद्याप्रदायकम् ।। ३९ ।।
लक्ष्मीमध्येऽथ पञ्चम्यामुपवासी भवेन्नरः ।।
समाप्ते हेमकमलं दद्याद्धेनुसमन्वितम् ।। ।। 4.121.४० ।।
स वैष्णवं पदं याति लक्ष्मीः स्याज्जन्मजन्मनि ।।
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम् ।।४१।।
या तु नारी पिबेत्तोयं जलधारां प्रपातयेत् ।।
समाप्तघृतसंपूर्णां दद्याद्वद्वंतिकां? नवाम् ।।४२ ।।
एतद्धाराव्रतं नाम सर्वरोगहरं परम्।।
कांतिसौभाग्यजननं सपत्नीदर्पनाशनम्।।४३।।
गौरीसमन्वितं रुद्रं लक्ष्म्या सह जनार्दनम् ।।
राज्ञीसमन्वितं सूर्यं प्रतिष्ठाप्य यथाविधि ।। ४४ ।।
धूपाक्षेपेणसहितां सुघंटां पात्रसंयुताम् ।।
यो ददाति द्विजेन्द्राणां पुष्पैरभ्यर्च्य पांडुरैः ।। ४५ ।।
दक्षिणासहितां कृत्वा प्रणम्य च विसर्जयेत् ।।
एतद्देवव्रतं नाम दिव्यदेहप्रदायकम् ।। ४६ ।।
कृत्वोपलेपनं शंभोरग्रतः केशवस्य च ।।
यावद्व्रतं समाप्यैतद्धेनुं च सजलान्विताम् ।। ४७ ।।
जन्मायुतं स राजा स्यात्ततः शिवपुरं वसेत् ।।
एतच्छ्रुत्वा व्रतं नाम बहुकल्याणकारकम् ।। ४८ ।।
अश्वत्थं भास्करं गंगां प्रणम्यैव च वाग्यतः ।।
एकभुक्तं नरः कुर्यादष्ट चैकं विमत्सरः ।। ४९ ।।।
व्रतांते विप्रमिथुनं पूज्य धेनुत्रयान्वितम् ।।
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत् ।। 4.121.५० ।।
दिवि दिव्यविमानस्थः सेव्यतेऽप्सरसां गणैः।।।
एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ।।५१।।
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य च ।।
ब्राह्मणो भास्करस्यापि गौर्या लंबोदरस्य वा।। ५२।।
अक्षतैस्तु समं कुर्यात्पद्मं गोमयमण्डले ।।
समाप्य हेमकमलं तिलधेनुसमन्वितम् ।। ५३ ।।
शुद्धमष्टाङ्गुलं दयाच्छिवलोके महीयते ।।
सामगायनतश्चैतत्सामव्रतमिहोच्यते ।। ५४ ।।
नवम्यामेकभुक्तं तु कृत्वा कन्याश्च शक्तितः ।।
भोजयित्वा समादद्याद्धैमकंचुकवाससी ।। ५५ ।।
हैमं च सिंहं विप्राय दत्त्वा शिवपुरं व्रजेत् ।।
भवार्बुदं सुरूपश्च शत्रुभिश्चापराजितः ।। ५६ ।।
एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ।।
यावत्समारभेद्यस्तु पञ्चदश्यां पयोव्रतः ।। ५७ ।।
समाप्ते श्रद्धया दयद्गाश्च पञ्च पयस्विनीः ।।
वासांसि च पिशंगानि जलकुंभयुतानि च ।। ५८ ।।
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्।।
कल्पांते राजराजः स्यात्पितृव्रतमिदं स्मृतम् ।। ५९ ।।
तांबूलं समये नित्यं गौरीपुत्रं ददाति या।।
पूगचूर्णसमायुक्तं नारी वा पुरुषोऽपि वा ।। 4.121.६० ।।
वर्षस्यांते तु सौवर्णं कारयित्वा फलान्वितम् ।।
मुक्ताफलमयं चूर्णत्रितयं या प्रयच्छति ।। ६१ ।।
न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यं मुखस्य च ।।
एतत्पत्रव्रतं नाम सौगन्ध्यजननं परम् ।। ६२ ।।
चैत्रादिचतुरो मासाञ्जलं कुर्यादयाचितम् ।।
ज्येष्ठाषाढे च वा मासं पक्षं वा पांडुनंदन ।। ६३ ।।
व्रतांते मणिकं दद्यादन्नवस्त्रसमन्वितम् ।।
घृतेन सहितं तद्वत्सप्तधान्यसमन्वितम् ।। ६४ ।।
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते ।।
कल्पांते राजराजः स्याद्वारिव्रतमिहोच्यते ।। ६५ ।।
पञ्चामृतेन स्नपनं कृत्वा विष्णोः शिवस्य च ।।
वत्सरांते पुनर्दद्याद्धेनुं पञ्चामृतैर्युताम् ।। ६६ ।।
विप्राय कनकं शंखं स पदं याति शांकरम् ।।
राजा भवति कल्पांते वृत्तिव्रतमिहोच्यते ।। ६७ ।।
यो हिंसां वर्जयित्वा तु मासं संवत्सरं तथा ।।
व्रतांते हेमहरिणं कृत्वा शक्त्या विचक्षणः ।। ६८ ।।
तद्वत्सवत्सां गां दद्यात्सोऽश्वमेधफलं लभेत् ।।
अहिंसाव्रतमित्येतत्सर्वशांतिप्रदं नृणाम् ।। ६९ ।।
माघमास्युषसि स्नानं कृत्वा दांपत्यमर्चयेत् ।।
भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणैः ।। 4.121.७० ।।
सौभाग्यं महदाप्नोति शरीरारोग्यमुत्तमम्।।
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ।।७१।।
आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः ।।
विप्राय भोजनं दद्यात्कार्तिक्यां गोप्रदो भवेत् ।। ७२ ।।
घृतकुंभं ततो दत्त्वा सर्वान्कामानवाप्नुयात् ।।
वैष्णवव्रतमित्युक्तं विष्णुलोकमवाप्नुयात् ।। ७३ ।।
अयनादयनं यावद्वर्जयेन्मधुसर्पिषी ।।
तदंते पुण्यदानानि घृतधेन्वा सहैव तु ।। ७४ ।।
दत्त्वा शिवपदं याति दत्त्वा तु घृतपायसम् ।।
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ।। ७५ ।।
संध्यादीपप्रदो यस्तु मांसं तैलं विवर्जयेत् ।।
समाप्ते दीपकं दद्याच्चक्रशूले च काञ्चने ।। ७६ ।।
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेद्दृढम् ।।
एतद्दीपव्रतं नाम सदा कांतिप्रदायकम् ।। ७७ ।।
एकभक्तेन सप्ताहं गौरीं वा यस्तु पूजयेत् ।।
संपूज्य पार्वतीं भक्त्या गन्धपुष्पविलेपनैः ।। ७८ ।।
ततः सुवासिनीभ्यां तु कुंकुमेन विलेपयेत् ।।
पुष्पैर्विलेपयेच्चैनां कर्पूरागरुचन्दनैः ।। ७९ ।।
तांबूलं शोभनं दत्त्वा नारिकेलफलं तथा ।।
प्रीयतां कुमुदा देवी प्रणिपत्य विसर्जयेत् ।। 4.121.८० ।।
एकैकां पूजयेद्देवीं सप्ताहं यावदेव तु ।।
पुनस्तु सप्तमे पूर्णे ताः सप्तैव निमंत्रयेत् ।। ८१ ।।
षड्रसं भोजयित्वा तु यथाशक्त्या विभूषणैः ।।
भूषयित्वा माल्यवस्त्रैः कर्णवेष्टांगुलीयकैः ।। ८२ ।।
कुमुदा माधवी गौरी भवानी पार्वती उमा ।।
काली च दर्पणं हस्ते प्रत्येकं विनिवेदयेत् ।। ८३ ।।
ब्राह्मणं पृजयित्वैकं वाच्यः संपमन्नमस्तु ते।।
सप्तसुन्दरकं नाम व्रतं चैतद्युधिष्ठिर ।। ८४ ।।
करोति सुन्दरं देहं सौभाग्यं यच्छते परम् ।।
वर्जयेच्चैव मासे तु यस्तु गन्धानुलेपनम् ।। ८५ ।।
शुक्तिं गंधभृतां दत्त्वा विप्राय सितवाससी ।।
शक्त्या च दक्षिणां दद्यात्सर्वान्कामान्समश्नुते ।। ८६ ।।
वारुणं च पदं याति तदेतद्वरुणव्रतम् ।।
वैशाखमासे लवणं वर्जयित्वा यतव्रतः ।। ८७ ।।
मासांतेऽथ ततो दद्यात्सवत्सां गां द्विजातये ।।
 स्थित्वा विष्णुपदे कल्पं ततो राजा भवेदिह।८८।।
एतत्कांतिव्रतं नाम कांतिकीर्तिप्रदायकम् ।।
ब्रह्माण्डं कांचनं कृत्वा तिलद्रोणोपरि स्थितम् ।। ८९ ।।
त्र्यहं तिलव्रती भूत्वा वह्निं संतर्पयेद्द्विजम् ।।
संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः ।। 4.121.९० ।।
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ।।
पुण्येऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् ।।९१।।
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् ।। ९२ ।।
यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् ।।
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम् ।। ९३ ।।
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम् ।।
पलादूर्ध्वं यथा शक्त्या तंडुलं रूपसंयुतम् ।। ९४ ।।
छादितं वरवासोभिः पुष्पमालाविभूषितम् ।।।।।
दत्त्वा स्वर्गे वसेत्कल्पं कल्पव्रतमिदं स्मृतम् ।। ९५ ।।
यस्तु वत्सतरीं भव्यां कण्ठाभरणभूषिताम् ।।
सुपर्याणां सुखस्पृष्टां खलीनालंकृता ननाम् ।। ९६ ।।
मोदकोदकपात्रेण तांबूलेन समन्विताम् ।।
स्थगितां स्थापयेत्पृष्ठे शृंगाग्रेषु हिमान्विताम् ।। ९७ ।।
ईदृग्विधां व्यतीपाते ग्रहणे चायनद्वये ।।
अयाचितेन च स्थित्वा ततो दद्याद्द्विजातये ।। ९८ ।।
एतद्वारव्रतं नाम मार्गखेदविनाशनम् ।।
परलोकार्द्धगमने क्लांतिश्रमहरं परम् ।। ९९ ।।
नक्ताशी त्वष्टमीषु स्याद्वत्सरांतेऽष्टगोप्रदः ।।
पौरंदरं पदं याति सुगतिव्रतमुच्यते ।। 4.121.१०० ।।
यश्चेन्धनप्रदो राजन्हेमंतशिशिर व्रतम् ।।
घृतधेनुं प्रयच्छेत परं ब्रह्म स गच्छति ।।। १०१।।
शरीरारोग्यजननं द्युतिकांतिप्रदायकम् ।।
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् ।।१०२।।
एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत् ।।
तद्वच्छंखं तु सौवर्णं चैत्रे चित्रासु पांडव ।। १०३ ।।
य एतत्कुरुते भक्त्या स विष्णोः पदमाप्नुयात् ।।
एतद्विष्णुव्रतं नाम कल्पादौ राज्यलाभकृत् ।। १०४ ।।
पयोव्रतस्तु पञ्चम्यां व्रतांते गोयुगप्रदः ।।
लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतम् ।। १०५ ।।
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीम् ।।
सोऽर्कलोकमवाप्नोति भानुव्रतमिहोच्यते ।। १०६ ।।
चतुर्थ्यां नक्तभुग्दद्यादष्ट गा होमचारणम् ।।
व्रतं वैनायकं नाम सर्वविघ्नविनाशनम् ।। १०७ ।।
महाफलानि यस्त्यक्त्वा चातुर्मासं द्विजातये ।।
हैमानि कार्त्तिके दद्याद्गोयुगेन समं नरः ।। १०८ ।।
सितं वस्त्रयुगं नाम संपूर्णाद्यघटानि च ।।
एतत्फलव्रतं नाम फलावाप्तिकरं सदा ।।१ ०९।।
यश्चोपवासी सप्तम्यां समांते हेमपङ्कजम् ।।
धेनूश्च शक्तितो दद्यात्सवत्साः कांस्यदोहनाः ।। 4.121.११० ।।
भक्त्या राजेन्द्र विप्राय वाचकाय निवेदयेत् ।।
एतत्सौरव्रतं नाम सूर्यलोकप्रदायकम् ।। १११ ।।
द्वादश द्वादशीर्यस्तु नाम प्राशनसंयुतः ।।
समुपोष्य समांते तु सवस्त्राः सोदका घटाः ।। ११२ ।।
द्वादशात्र प्रदेयाश्च सर्वकामप्रसिद्धये ।।
गोविन्दव्रतमित्येतद्गोविन्दपददायकम् ।। ११३ ।।
कार्त्तिक्यां यो वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।।
स गोलोकमवाप्नोति वृषव्रतमिदं स्मृतम् ।। ११४ ।।
व्रतांते गौः प्रदातव्या भोजनं शक्तितः परम् ।।
विप्राणामत्र कथितं प्राजापत्यमिदं व्रतम्।। ११५ ।।
चतुर्दश्यां तु नक्ताशी समांते गोयुगप्रदः ।।
शैवं पदमवाप्नोति ज्ञेयं च त्र्यंबकव्रतम् ।। ११६ ।।
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये ।।
ब्रह्मव्रतमिदं प्राहुर्ब्रह्मलोकप्रदायकम् ।। ११७ ।।
मासांते च स गां दद्याद्धेनुमंते पयस्विनीम् ।।
शक्रलोके वसेत्कल्पं शक्रव्रतमिदं स्मृतम् ।। ११८ ।।।
कार्त्तिकस्य सिते पक्षे चतुर्दश्यां नराधिप ।।
सोपवासः पञ्चगव्यं पिबेद्रात्रौ विचक्षणः ।। ११९ ।।
कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा ।।
सितधेन्वास्तथा क्षीरं रक्तायास्तु तथा दधि ।। 4.121.१२० ।।
गृहीत्वा कर्बुरायास्तु घृतमेकत्र मेलयेत् ।।
वेदोक्तमन्त्रै राजेन्द्र कुशोदकसमन्वितम् ।। ।।१२१।।
ततः प्रभातसमये स्नात्वा संतर्प्य देवताः।।
ब्राह्मणान्वाचयित्वा तु भुञ्जीयाद्वाग्यतः शुचिः।।१२२।।
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपापप्रणाशनम् ।।
यद्बाल्ये यच्च कौमारे वार्धक्ये चापि यत्कृतम् ।।
ब्रह्मकूर्चोपवासेन तत्सर्वं नश्यति क्षणात् ।।१२३।।
अनग्निपक्वमश्नाति तृतीयायां तु यो नरः ।।
गां दत्त्वा शिवमभ्येति पुनरावृत्तिवर्जितम् ।। १२४ ।।
एतद्दृषिव्रतं नाम सर्वमाङ्गल्यकारकम् ।।
हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् ।। १२५।।
तिलप्रस्थोपरि गतं सितमाल्ययुगान्वितम् ।।
दत्त्वा कृतोपवासस्तु दिवि कल्पशतं वसेत्।।
तदंते राजराजः स्यादग्निव्रतमिदं स्मृतम् ।। ।। १२६ ।।
कृत्वा पलद्वयादूर्ध्वं शय्याभ्यां संयुतं नरः ।।
हैमं रथवरं श्रेष्ठं सर्वोपस्करसंयुतम् ।। १२७ ।।
सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः ।।
भवेदुपोषितो दत्त्वा करिव्रतमिदं शुभम् ।। १२८ ।।
मुखवासं परित्यज्य समांते गोप्रदो भवेत् ।।
यक्षाधिपं समाप्नोति सुमुख व्रतमुच्यते ।। १२९ ।।
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् ।।
रुणं लोकमाप्नोति वरुणव्रतमुच्यते ।। 4.121.१३० ।।
चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत् ।।
चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकप्रदायकम् ।। १३१ ।।
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् ।।
अथाष्टमीचतुर्दश्यौ रुद्रव्रतमिदं स्मृतम् ।। १३२ ।।
अनुलेपनं यः कुर्यात्तृतीयायां शिवालये ।।
स स्वर्गं धेनुदो याति भवानी व्रतमुच्यते ।। १३३ ।।
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत ।।
दिवि कल्पं वसित्वेह राजा स्यात्तापनं व्रतम् ।। १३४ ।।
दत्त्वा कृतोपवासस्तु दिवि कल्पशतं वसेत् ।।
तदंते राजराजः स्यादश्वव्रतमिदं स्मृतम् ।।१३५।।
तद्वत्कल्पद्वयादूर्ध्वं करिभ्यां संयुतं नरः ।।
हैमं रथं नरश्रेष्ठ सर्वोपस्करणान्वितम् ।। १३६ ।।
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् ।।
आदित्यलोकमाप्नोति पूजितः स सुरासुरैः ।। १३७ ।।
सुरलोकमवाप्नोति धाम व्रतसमन्वितम् ।।
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः ।। १३८ ।।
पौर्णमास्यामवाप्नोति मोक्षमिन्दुव्रतादिह।।१३९।।
दत्त्वा सितद्वितीयायामिंदोर्लवणभोजनम् ।।
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा ।। 4.121.१४० ।।
समांते गोप्रदो याति विप्राय शिवमंदिरम् ।।
कल्पांते राजराजः स्यात्सोमव्रतमिदं स्मृतम् ।। १४१ ।।
प्रतिपद्येकभक्ताशी समांते कपिलाप्रदः ।।
वैश्वानरपुरं याति आग्नेयव्रतमुच्यते ।।१४२।।
एकादश्यां माघमासे चतुर्दश्यष्टमीषु च ।।
एकभक्तेन यो दद्याद्बालकान्यजिनानि च ।। १४३ ।।
उपानहौ कंबलांश्च चैत्रे छत्रादिकं ततः ।।
करपत्रादिकं चापि यथा शक्त्या विचक्षणः ।। १४४ ।।
ब्राह्मणानां महाराज सोऽश्वमेधफलं लभेत् ।।
एतत्सौख्यव्रतं नाम सर्वसौख्यप्रदायकम् ।। ।। १४५ ।।
दशम्यामेकभक्ताशी समांते दशधेनुदः ।।
दिशश्च काञ्चनीर्दद्यान्नारीरूपा युधिष्ठिर ।।१४६।।
तिलद्रोणोपरिगतो ब्रह्मांडाधिपतिर्भवेत्।।
एतद्विश्वव्रतं नाम महापातकनाशनम् ।। १४७ ।।
संपूज्य सितसप्तम्यां भानुधान्यानि सप्त यः ।।
ददाति नक्तभुग्राजँल्लवणेन समं द्विजे ।। १४८ ।।
स तारयति सप्ताष्टौ कुलान्यात्मानमेव च ।।
एतद्धान्यव्रतं नाम धनधान्यप्रदायकम् ।। १४९ ।।
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् ।।
स वैष्णवं पदं याति भीमव्रतमिदं स्मृतम् ।। 4.121.१५० ।।
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम् ।।
स ब्रह्मलोकमाप्नोति पूजितः सुरसत्तमैः ।। ।। १५१ ।।
दद्यात्त्रिंशत्पलादूर्ध्वं महीं कृत्वा तु कांचनीम् ।।
कुलाचलाद्रिसहितां तिलवस्त्रसमन्विताम् ।। १५२ ।।
तिलद्रोणोपरि गतां ब्राह्मणाय कुटुंबिने ।।
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते ।। १५३ ।।
एतन्महीव्रतं प्रोक्तं सप्तकल्पानुवर्तकम् ।।
माघमासेऽथ चैत्रे वा गुडधेनुप्रदो भवेत् ।। ।। १५४ ।।
गुडव्रतस्तृतीयायां सर्वोपस्करणैर्युतः ।।
गौरीलोकमवाप्नोति पूज्यतेऽप्सरसां गणैः ।। १५५ ।।
उमाव्रतमिदं प्रोक्तं सततानन्ददायकम्।।
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुंभदः ।। १५६ ।।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ।।
कार्त्तिकादितृतीयायां प्राश्य गोमूत्रयावकम् ।। ।। १५७ ।।
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह ।।
एतद्रुद्रव्रतं नाम महाकल्याणकारकम् ।। १५८ ।।
चैत्री त्रिरात्रं नक्ताशी नद्यां स्नात्वा ददाति यः ।।
अजाः पयस्विनीः पञ्च ब्राह्मणाय कुटुंबिने ।। १५९ ।।
न जायते पुनरसौ जीवलोके कदाचन ।।
एतद्बस्तव्रतं प्रोक्तं सर्वव्याधिविनाशनम् ।। 4.121.१६० ।।
कन्यादानं तु यः कुर्यादुद्वाहं कारयेच्च यः ।।
एकविंशतिकुलोपेतो ब्रह्मलोकं स गच्छति ।। १६१ ।।
कन्यादानात्परं दानं न चास्त्यभ्यधिकं क्वचित् ।।
ये करिष्यंति नृपते तेषां लोकोऽक्षयो दिवि ।। १६२ ।।
तिलपिष्टमयं कृत्वा गजं हेमविभूषितम् ।।
कुर्यात्कुशमयं तद्वदारोहकसमन्वितम् ।। १६३ ।।
नक्षत्रमालासहितं चामरापीडधारिणम् ।।
दशनाप्रबद्धनेत्ररक्तवस्त्रयुगान्वितम् ।। १६४ ।।
ताम्रपात्र्यां कुण्डकं वा कृतं दत्त्वाग्रमोदकम् ।।
 प्रदद्याद्द्विजदांपत्यं पूज्य माल्यविभूषणैः ।। १६५ ।।
कंठप्रमाणमाविश्य जलं मलविवर्जितः ।।
कांतारकारिणा ह्येतत्कथितं तु युधिष्ठिर ।। १६६ ।।
कांतारकारिदुर्गेषु वारयत्यपि दुष्कृतीन्।।
इह लोके परे चैव नात्र कार्या विचारणा ।। १६७ ।।
ये कुर्वंति दिने पुण्ये व्रतं पौरंदरं नराः ।।
तेषां पौरंदरो लोको भवेदाभूतसंप्लवम् ।। १६८ ।।
पयोव्रतस्तु पञ्चम्यां दत्त्वा नागं द्विजातये ।।
सौवर्णं सर्पजनितं भयं तेभ्यो न जायते ।। १६९ ।।
सिताष्टम्यां सोपवासो वृषभं यः प्रयच्छति ।।
सितवस्त्रसमाच्छन्नं घण्टाभरणभूषितम् ।। 4.121.१७० ।।
शिवलोके वसेत्कल्पं ततो राजा भवेदिह ।।
वृषव्रतमिदं प्रोक्तं सर्वधर्मप्रदायकम् ।।१७१।।
उत्तरे त्वयने प्राप्ते घृतप्रस्थेन यो हरिम् ।।
स्नापयित्वा ब्राह्मणाय वडवां यः प्रयच्छति।।१७२।।
स सर्वकामसंयुक्तः पुत्रभ्रातृसमन्वितः।।
सूर्यलोके वसेद्राजन्राज्ञीव्रतमिहोच्यते ।।१७३।।
सकृन्नवम्यां भक्तेन पूजयेद्विन्ध्यवासिनीम्।।
पुष्पर्धूपैस्ततो दद्यात्पञ्जरं शुकशोभितम् ।।१७४।।
 हैमं विप्राय शांताय स वाग्मी जायते नरः ।।
एतदाग्नेयमित्युक्तं व्रतमग्निपदप्रदम् ।। १७५ ।।
द्वादश्यां गुह्यकानां च पललैक्षवसंयुतम् ।।
विप्राय भोजनं दत्त्वा यः स याति हरेः पदम् ।। १७६ ।।
विष्कम्भादिषु योगेषु एकमुक्तरतो नरः ।।
एतदाग्नेयमित्युक्तं व्रतमग्निपदप्रदम् ।। १७७ ।।
यो ददाति क्रमादेषु घृततैलफलैक्षवम् ।।
यवगोधूमचणकान्निष्पावाञ्छालितंडुलान् ।। १७८ ।।
लवणं दधि दुग्धं च वस्त्रं कनकमेव च ।।
कंबलं गां वृषं छत्रमुपानद्युगलं तथा ।। १७९ ।।
कर्पूरं कुंकुमं चैव चंदनं कुसुमानि च ।।
लोहं कनक ताम्रं च रौप्यं चेति युधिष्ठिर ।। 4.121.१८० ।।
स्नातः स्वशक्त्या विधिवत्सर्वपापैः प्रमुच्यते ।।
न वियोगमवाप्नोति योगव्रतमिदं स्मृतम् ।। १८१ ।।
कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषम् ।।
पौषमाघादिमासेषु सौवर्णीः सर्व एव हि।।१८२।।
क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः।।
पौर्णमास्यां पौर्णमास्यां कौंतेय बहुदक्षिणाम् ।। १८३ ।।
एतद्राशिव्रतं नाम सर्वोपद्रवनाशनम् ।।
सर्वाशापूरकं तद्वत्सोमलोकप्रदायकम् ।। १८४ ।।
पञ्चाशीतिर्व्रतानां ते कथिता पांडुनंदन ।।
यां श्रुत्वा ब्रह्महा गोघ्नः पितृहा मातृहा तथा ।। १८५ ।।
मुच्यते तत्क्षणादेव पातकैः सोपपातकैः ।। १८६ ।।
पंचाधिका तव मया कथिता व्रतानां राजन्नशीतिरतिसौख्यधनप्रदानाम्।।
एतां समाचरति यः शृणुयात्पठेद्वा हस्ताग्र लग्न इव तस्य सुरेशलोकः ।। १८७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे व्रतपञ्चाशीतिवर्णनं नामैकविंशत्युत्तरशततमोऽध्यायः ।। १२१ ।।