भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२०

विकिस्रोतः तः

शुक्रबृहस्पत्यर्घपूजावर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः शृणु भूपाल प्रतिशुक्रप्रशांतये ।।
यात्रारंभे प्रयाणे च तथा शुक्रोदयेष्विह ।। १ ।।
शुक्रपूजा प्रकर्तव्या तां निशामय सारतः ।।
राजते वाऽथ सौवर्णे कांस्यपात्रेऽथ वा पुनः ।। २ ।।
शुक्लपुष्पांबरयुते सिततंडुलपूरिते ।।
निधाय राजतं शुक्रं शुचि मुक्ताफलान्वितम् ।। ३ ।।
सह तेन सवत्साङ्गां ब्राह्मणाय निवेदयेत् ।।
नमस्ते सर्वदेवेश नमस्ते भृगुनन्दन ।।
कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते।।४।।
दत्त्वैवमर्घ्यं कौन्तेय प्रणिपत्य विसर्जयेत् ।।५।।
यावच्छुक्रस्य न कृता पूजा सोहालकैः शुभै. ।।
वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि ।।
तावन्न दानं दातव्यं स्त्रीभिः कामार्थसिद्धये ।।६।।
एवं तस्योदये कुर्वन्यात्रादिषु च भारत ।।
सर्वसस्यागमं चैव सर्वान्कामानवाप्नुयात् ।। ७ ।।
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर ।।
सौवर्णपात्रे सौवर्णममरेशपुरोहितम् ।।
पीतपुष्पांबरयुतं कृत्वा स्नात्वाथ सर्षपैः ।।८।।
पालाशाश्वत्थभंगेन पञ्चगव्यजलेन च।।
पीतांगरागवसनं घृतहोमं तु कारयेत ।। ९ ।।
प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत् ।। 4.120.१० ।।
नमस्तेऽङ्गिरसां नाथ वाक्पतेथ बृहस्पते ।।
क्रूरग्रहैः पीडितानाममृताय भवस्व नः ।। ११ ।।
एवं सुरगुरुं पूज्य प्रणिपत्य क्षमापयेत् ।।
संक्रातावुदये चास्ते सर्वान्कामानवाप्नुयात् ।। १२ ।।
अथ वा मौक्तिकान्येव सुवृत्तानि बृहंति च ।।
भार्गवांगिरसौ चिंत्य तान्येव प्रतिपादयेत् ।। १३ ।।
भक्त्या मौक्तिकदानेन दत्तेन कुरुनन्दन ।।
विरूपता दृशोः पुंसां यात्रास्वभ्युदयेषु च ।।
कुर्वन्बृहस्पतेः पूजां न कदाचित्प्रजायते ।। १४ ।।
ये भार्गवोदयमवाप्य सवस्त्रपुष्पां कुर्वंत्यनन्य मनसोऽङ्गिरसे च पूजाम् ।।
तेषां गृहे प्रविशतां प्रतिशुक्रजातं विघ्नं न संभवति भारत पुण्यभाजाम् ।। १५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुक्रबृहस्पत्यर्घपूजाविधानं नाम विंशत्युत्तरशततमोऽध्यायः ।। १२० ।।