भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११७
विष्टिव्रतवर्णनम्
।। युधिष्ठिर उवाच ।। ।।
कृष्ण केयं जनैः सर्वैर्विष्टिर्भद्रेति चोच्यते ।।
कस्यात्मजेयं किंरूपा पूज्यते च कथं जनैः।।।।।
।। श्रीकृष्ण उवाच ।। ।।
सुता मार्तंडदेवस्य छायया जनिता पुरा ।।
शनैश्चरस्य सोदर्या भगिन्यतिभयंकरी ।। २ ।।
सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे ।।
कृष्णा करालवदना सितदंष्ट्रोर्ध्वमूर्द्धजा ।। ३ ।।
निर्याति यदि कार्येण कश्चित्तस्य पुरः स्थिता ।।
विघ्नं करोति स्वपतो भुञ्जानस्य स्थितस्य वा ।। ४ ।।
यज्ञविघ्नकरी रौद्रा समाजोत्सवनाशिनी ।।
नित्योद्वेगकरी रौद्रा विनाशयति सा जगत् ।। ५ ।।
तां तु दुर्विनयासक्तां दृष्ट्वा देवो दिवाकरः ।।
चिंतयामास कस्यापि यच्छाम्येनां सुमध्यमाम् ।। ६।।
कन्यादुर्विनयाच्चेह पिता दोषेण गृह्यते ।।
युवत्यास्तु ततो भर्ता तस्माद्भर्तृगृहं नयेत् ।।७।।
विचिंत्यैवं सुतां भद्रां यस्ययस्य प्रयच्छति ।।
ते नमंति क्षणेनैव सुरराक्षसकिन्नराः ।। ८ ।।
मण्डपं मण्डपारम्भे भंक्त्वा भीषयते जनम् ।।
विवस्वांश्चिन्तयाविष्टः कस्येयं प्रतिपाद्यताम् ।। ९ ।।
विरूपा दुष्टहृदया स्वेच्छाचारविहारिणी ।।
दत्ताप्येषा न दोषाय भवतीह कथंचन ।।4.117.१ ०।।
वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः ।।
तावत्तया जगत्सर्वं दुष्टया समभिद्रुतम् ।। ११ ।।
अथाजगाम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः ।।
कार्यं निवेदयामास विष्टेर्दौष्ट्यमशेषतः ।। १२ ।।
भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम् ।।
भवान्कर्ता च हर्ता च कस्मादेवं प्रभाषसे ।। १३ ।।
एवमुक्तस्तदा ब्रह्मा भास्करेणामितद्युतिः ।।
उवाच विष्टिमानाय्य शृषु भद्रे मयोदितुम् ।। १४ ।।
करणैः सह वर्तस्व बवबालवकौलवैः ।।
सप्तमेऽर्धदिने प्राप्ते यदभीष्टं कुरुष्व तत् ।। १५ ।।
यात्राप्रवेशमांगल्यकृषिवाणिज्यकारणात् ।।
भक्षयस्वाभिमुखगान्नरानुन्मार्गगामिनः।। ।। १६ ।।
उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम् ।।
पूज्या सुरासुराणां त्वं दिवसार्द्धे भविष्यसि ।। १७ ।।
उल्लंघ्य ये प्रवर्तंते भद्रे त्वां निर्भया नराः ।।
तेषां विनाशयाशु त्वं कार्यमार्ये सुखी भव ।। १८ ।।
एवमुक्त्वा गतो ब्रह्मा भद्रापि भुवनत्रयम् ।।
बभ्रामोद्भ्रांतहृदया भीषयन्ती सुरासुरान् ।। १९ ।।
एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी ।।
निवेदिता ते कौंतेय तस्मात्तां परिवर्जयेत् ।। 4.117.२० ।।
असितजलदवर्णा दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्बद्धजंघा ।।
अनलशतसहस्रं चोद्गिरंती समंतात्पतति भुवनमध्ये कार्यनाशाय विष्टिः ।। २१ ।।
भानोः सुता केतुशताग्रजाता कृष्णा कुमूर्तिः सततं कुचेला ।।
देवैर्नियुक्ता करणार्थसंस्था विष्टिस्तु सर्वत्र विवर्जनीया ।। २२ ।।
मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते ।।
हृदि चैकादश प्रोक्ताश्चतस्रो नाभिमंडले ।। २३ ।।
कट्यां पञ्चैव विज्ञेयास्तिस्रः पुच्छे जयावहाः ।।
मुखे कार्यविनाशाय ग्रीवायां धननाशिनी।। २४ ।।
हदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा ।।
कट्यामर्थपरिभ्रंशो विष्टिपुच्छे ध्रुवो जयः ।।२५।।
पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च ।।
तानि सर्वाणि सिद्ध्यंति विष्टिपुच्छे न संशयः ।।२६ ।।
धन्या दधिमुखी भद्रा महामारी खरानना ।।
कालरात्रिर्महारुद्रा विष्टिश्च कुलपुत्रिका ।। २७ ।।
भैरवी च महाकाली असुराणां क्षयंकरी ।।
द्वादशैव तु नामानि प्रातरुत्थाय यः पठेत ।। २८ ।।
न च व्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते ।।
ग्रहाः सर्वेऽनुकूलाः स्युर्न च विघ्नादि जायते ।। २९ ।।
रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ।।4.117.३० ।।
यश्च पूजयते नित्यं शास्त्रोक्तविधिना नरः ।।
तस्य सर्वार्थसिद्धिस्तु भवतीह न संशयः ।। ३१ ।।
येनोपवासविधिना व्रतेन च यशस्विनी ।।
पूजिता तुष्टिमभ्येति तदेव कथयामि ते ।। ३२।।
यस्मिन्दिने भवेद्भद्रा तस्मिन्नहनि भारत ।।
उपवासस्य नियमं कुर्या न्नारी नरोऽथ वा ।। ३।।
यदि रात्रौ भवेद्विष्टिरेकभुक्तं दिनद्वयम् ।।
कार्यं तेनोपवासः स्यादिति पौराणिकी श्रुतिः ।। ३४ ।।
प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम् ।।
तत्रोपवासः कर्तव्य एकभुक्तमतोन्यथा।। ३५ ।।
सर्वौषध्युदकस्नानं सुगंधामलकैरथ ।।
नद्यां तडागेऽथ गृहे स्नानं सर्वत्र शस्यते ।। ३६ ।।
देवान्पितॄन्प्रीणयित्वा ततो दर्भमयीं शुभाम् ।।
विष्टिं कृत्वा पुष्पधूपैर्नैवेद्येन च पूजयेत् ।। ३७ ।।
होमं कृत्वा विष्टिनामैरष्टोत्तरशतं ततः ।।
भुञ्जीत दत्त्वा विप्राय तिलान्पायसमेव च ।।
सतिलां कृशरां भुक्त्वा पश्चाद्भुञ्जीत कामतः।। ३८।।
छायासूर्यसुते देवि विष्टिरिष्टार्थदायिनि ।।
पूजिताऽसि यथाशक्त्या भद्रे भद्रप्रदा भव ।। ३९ ।।
उपोष्प विधिनानेन दश सप्त यथाक्रमम् ।।
उद्यापनं ततः कुर्यात्पूर्वव त्पूज्य भामिनीम् ।। 4.117.४० ।।
स्थापयित्वायसे पीठे कृशरान्नं निवेद्य च ।।
परिधाप्य कृष्णयुगं स्तुत्वा मंत्रेण तां पुनः ।। ४१ ।।
ब्राह्मणाय पुनर्दद्याल्लोहं तैलं तिलांस्तथा ।।
कृष्णां सवत्सां गामेकां तथैकं कालकंबलम् ।।
दक्षिणां च यथाशक्त्या दत्त्वा भद्रां विसर्जयेत् ।। ४२ ।।
य एवं कुरुते पार्थ सम्यग्भद्राव्रतं नरः ।।
विघ्नो न जायते तस्य कार्यारंभे कदाचन ।। ४३ ।।
राक्षसाश्च पिशाचा वा पूतनाशाकिनीग्रहाः ।।
न पीडयन्ति तं मर्त्यं यो भद्राव्रतमाचरेत् ।। ४४ ।।
न चैवेष्टवियोगः स्यान्न हानिस्तस्य जायते ।।
देहांते याति सदनं भास्करस्य न संशयः ।। ४५ ।।
सूर्यात्मजातिदयिता भगिनी शनेर्या मर्त्ये भ्रमत्यतिरथा करणक्रमेण ।।
तां कृष्णभासुरमुखीं समुपोष्य विष्टिमिष्टार्थसिद्धिमबुधोऽपि पुमानुपैति।। ४६।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विष्टिव्रतवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ।। ११७ ।।