भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११०

विकिस्रोतः तः

सम्पूर्णव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यदि कर्तुं न शक्नोति व्रतं नक्षत्रपौरुषम् ।।
गृहीतं रभसा कृष्ण ह्यन्यद्वा व्रतमुत्तमम् ।। १ ।।
संपूर्णं जायते येन यदचीर्णं पुरा स्थितम् ।।
कुरु प्रसादं गुह्यार्थमेतन्मे वक्तुमर्हसि ।। । २ ।।
।। श्रीकृष्ण उवाच ।। ।।
साधुसाधु महाबाहो कुरुराज युधिष्ठिर ।।
रहस्यानां रहस्यं ते कथयामि व्रतोत्तमम् ।। ३ ।।
सम्पूर्णं नाम तच्चापि व्रतं सम्यक्फलप्रदम् ।।
यच्चीर्णं नरनारीभिर्भवेत्संपूर्णकारकम् ।। ४ ।।
अवश्यं तच्च कर्तव्यमक्षीणफलकांक्षिभिः ।।
किञ्चिद्भग्नं प्रमादेन यद्गतं व्रतिनां स्थितम् ।।
तत्संपूर्णं भवेत्सर्वं व्रतेनानेन पाण्डव ।। ५ ।।
उपद्रवैर्बहुविधैर्मदान्मोहाच्च पार्थिव ।।
यद्भग्नं किञ्चिदेव स्याद्व्रतं विप्रविनायकैः ।।
तत्संपूर्णं भवेत्पार्थ सत्यंसत्यं न संशयः ।। ६ ।।
कांचनं रौप्यकं रूपं शिल्पिना तद्धटापयेत् ।।
भग्नव्रते तु यो देवस्तत्स्वरूपं सुनिर्मितम् ।। ७ ।।
रूपं स्त्रीपुंसयोर्वापि प्रारब्धं यद्व्रते किल ।।
नवनिष्पादितं किञ्चिद्दैवात्सर्वं तथोत्थितम् ।। ८ ।।
द्विभुजं पङ्कजारूढं सौम्यप्रहसिताननम् ।।
निष्पादितं शिल्पभावात्तस्मिन्नेव दिनेदिने ।। ९ ।।
तन्मासे च पुनः प्राप्ते ब्राह्मणो विधिना गृहे ।।
स्नापयेत्पयसा दध्ना घृतक्षीररसांबुभिः ।। 4.110.१० ।।
गंधचंदनपुष्पैश्च चर्चयेत्कुंकुमादिना ।।
तोयपूर्णस्य कुम्भस्य पृथ्व्यां विन्यस्य चंदनैः ।। ११ ।।
धूपदीपाक्षतैर्वस्त्रै रत्नैरप्युपहारकैः ।।
अर्घ्यं दद्याच्च तन्नाम्ना मंत्रेणानेन पांडव ।। १२ ।।
उपसन्नस्य दीनस्य प्रायश्चित्तकृताञ्जलेः ।।
शरणं च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ।। १३ ।।
परत्र भयभीतस्य भग्नखण्डव्रतस्य च ।।
कुरु प्रसादं संपूर्णं व्रतं संपूर्णमस्तु मे ।। १४ ।।
तपश्छिद्रं व्रतच्छिद्रं यच्छिद्रं भग्नके व्रते ।।
तव प्रसादाद्देवेश सर्वमच्छिद्रमस्तु नः ।। स्वाहा ।। १५ ।। (अमुकदेवाय नमः ।।)
पूर्वतो दक्षिणतः पश्चिमत उत्तरतः ।।
विदिक्षु चोपर्य्यधस्ताद्दिक्पालेभ्यो नमोनमः ।। १६ ।।
इदमर्घ्यमिदं पाद्यं नैवेद्यं ते नमोनमः ।।
एवं प्रोच्य ततः पादौ जानुनी कटिशीर्षके ।। १७ ।।
वक्षःकुक्षिदृष्टिपृष्ठबाह्वंसांकशिरोरुहान् ।।
पूजयेत्तस्य देवस्य ततः पश्चात्क्षमापयेत् ।। १८ ।।
पूजितस्त्वं यथाशक्त्या नमस्तेऽस्तु सुरोत्तम ।।
ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं दिशस्व मे ।। १९ ।।
एवं क्षमापयित्वा तु देवरूपं विधानतः ।।
ततो द्विजस्य कौन्तेय विधिज्ञस्योपपादयेत् ।। 4.110.२० ।।
स्थित्वा पूर्वमुखो विप्रो गृह्णीयाद्दर्भपाणिना ।।
विप्रस्य हस्ते यच्छेच्च दाता वै चोत्तरामुखः ।।
मंत्रेणानेन कौंतेय सोपवासः प्रयत्नतः २१ ।।
इदं व्रतं मया खंडं कृतमासीत्पुरा द्विज ।।
भगवंस्त्वप्रसादेन संपूर्णं तदिहास्तु मे ।। २२ ।।
ब्राह्मणोऽपि प्रतीच्छेत्तु मंत्रेणानेन तद्व्रतम् ।।
वाक्संपूर्णं मनःपूर्णं पूर्णं कायव्रतेन ते।।
संपूर्णस्य प्रसादेन भव पूर्णमनोरथः ।।२३।।
ब्राह्मणा यत्प्रभाषंते ह्यनुमोदंति देवताः ।।
सर्वदेवमया विप्रा नैतद्वचनमन्यथा ।। २४ ।।
जलधिः क्षारतां नीतः पावकः सर्वभक्षताम् ।।
सहस्रनेत्रः शक्रोऽपि कृतो विप्रैर्महात्मभिः ।। २५ ।।
ब्राह्मणानां तु वचनाद्ब्रह्महत्या प्रणश्यति ।।
अश्वमेधफलं साग्रं प्राप्यते नात्र संशयः ।। २६ ।।
व्यासवाल्मीकिवचनाद्ब्राह्मणवचनाच्च गर्गगौतम पराशरधौम्यांगिरसवाष्ठिनारदादिमुनिवचनात्संपूर्णं भवतु ते व्रतम् ।। २७ ।।
एवंविधविधानेन गृहीत्वा ब्राह्मणो व्रजेत् ।।
तद्दानं प्रेषयेत्स ब्राह्मणस्य गृहे स्वयम् ।।
ततः पंच महायज्ञान्निर्वपेद्भोजनादि च ।। २८ ।।
एवं यः कुरुते भक्त्या व्रतमेतत्सकृत्तथा ।।
तस्य संपूर्णतां याति तद्व्रतं यत्पुरा स्थितम् ।। २९
खंडं संपूर्णतां याति प्रसन्ने व्रतदैवते ।।
संपूर्णं च ततः कृत्वा संपूर्णांगो भवेद्व्रती ।। 4.110.३० ।।
भोगी भव्यो लसत्कीर्तिः स्व संपूर्णमनोरथः ।।
स्थित्वा वर्षशतं मर्त्ये ततः स्वर्गेऽमरो भवेत्।। ३१ ।।
यथेष्टचेष्टाचारी च ब्रह्मविष्ण्विन्द्रपूजितः ।।
स्वर्गलोके चिरं स्थित्वा पुनर्मोक्षमवाप्नुयात् ।। ३२ ।।
प्रायश्चित्तमिदं प्रोक्तं पुरा गर्गेण मे प्रभो ।।
गोकुले गोकुलाकीर्णे मया बाल्येऽप्युपोषितम् ।। ३३ ।।
एवं त्वमपि कौंतेय चर संपूर्णकं व्रतम् ।। ३४ ।।
भग्नानि यानि मदमोहवशाद्गृहीत्वा जन्मान्तरेष्वपि नरेण समत्सरेण ।।
संपूर्णपूजनपरस्य पुरो भवंति सर्वव्रतानि परिपूर्णफलप्रदानि ।। ३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संपूर्णव्रतवर्णनं नाम दशोत्तर शततमोऽध्यायः ।। ११० ।।