भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०२

विकिस्रोतः तः

वटसावित्रीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
स्मरयामि हृषीकेश यन्नोक्तं भवता क्वचित् ।।
तत्सावित्रीव्रतं ब्रूहि ममोपरि दयां कुरु ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
कथयामि कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।।
यथा चीर्णं व्रतवरं सावित्र्या राजकन्यया ।। २ ।।
आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ।।
पार्थिवोश्वपतिर्नाम पौरजानपदप्रियः ।। ३ ।।
क्षमावांश्च क्षितिपतिः सत्यवांश्च जितेन्द्रियः ।।
स सभार्यो व्रतमिदं चचार नृपतिः स्वयम् ।। ४ ।।
सावित्रीव्रतसिद्धं तत्सर्वकामप्रदायकम् ।।
तस्य तुष्टाभवद्राजन्सावित्री ब्रह्मणः प्रिया ।। ५ ।।
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता ।।
कमंडलुधरा देवी प्रसन्नवदनेक्षणा ।। ६ ।।
उवाच दुहिता ह्येका तव राजन्भविष्यति ।।
इत्येवमुक्त्वा सावित्री जगामादर्शनं पुनः ।। ७ ।।
कालेन सा तथा राजन्दुहिता देवरूपिणी ।।
सावित्र्या प्रीतया दत्ता सावित्र्या जप्तया तदा ।।८।।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ।।
सा गृहवती सश्रीर्व्यवर्द्धत नृपात्मजा ।।
सावित्री सुकुमाराङ्गी यौवनस्था बभूव ह ।। ९ ।।
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।।
प्राप्तेव देवकन्येति दृष्ट्वा तामितरे जनाः ।। 4.102.१० ।।
सा तु पद्मपलाशाक्षी प्रज्वलंतीव तेजसा ।।
चचार सा च सावित्रीव्रतं यद्भृगुणोदितम् ।। ११ ।।
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा ।।
हुत्वाग्निं विधिवद्विप्रान्वाचयित्वेंदुपर्वणि ।। १२ ।।
तेभ्यः सुमनसः शेषाः प्रतिगृह्य नृपात्मजा ।।
साध्वी पतिव्रताभ्येत्य देवश्रीरिव रूपिणी ।। १३ ।।
सोभिवाद्य पितुः पादौ शेषान्पूर्वं निवेद्य च ।।
कृतांजलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ।। १४ ।।
तां दृष्ट्वा यौवनं प्राप्तां स्वच्छां तां देवरूपिणीम् ।।
उवाच राजा संमंत्र्य स्मृत्यर्थं सह मंत्रिभिः ।।१५।।
युक्तः प्रदानकालोऽस्यास्तेन कश्चिद्वृणोत्विमाम्।।
विचारयित्वा पश्यामि वरं तुल्यं महात्मनः।।१६।।
देवादीनां यथा वाच्यो न लब्धेयं तथा कुरु ।।
बोद्धयमाना मया पुत्रि धर्मशास्त्रेषु गच्छ तम् ।। १७ ।।
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।।
ब्रह्महत्या पितुस्तत्र सा कन्या वृषली स्मृता ।। १८ ।।
अतोर्थं प्रेषयामीति कुरु पुत्रि स्वयंवरम् ।।
वृद्धैरमात्यैः सहिता शीघ्रं गच्छ विधारय ।। १९ ।।
एवमस्त्विति सावित्री प्रोक्ता तस्माद्विनिर्ययौ ।।
तपोवनानि रम्याणि राजर्षीणां जगाम सा ।। 4.102.२० ।।
मान्यानामत्र वृद्धानां कृत्वा पादाभिषेचनम् ।।
ततोभिगम्य तीर्थानि सर्वाण्येवाश्रयाणि च ।।२१।।
आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः।।
तत्रापश्यच्च देवर्षिं नारदं पुरतः पितुः ।।२२।।
आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ।।
कथयामास तत्सर्वं यथा वृतं वनेऽभवत् ।। २३ ।।
।। सावित्र्युवाच ।। ।।
आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।।
द्युमत्सेन इति ख्यातो देवदत्तो बभूव सः ।।२४।।
।। नारद उवाच ।।
अहो बत महत्कष्टं सावित्र्या नृपतेः कृतम् ।।
बाल्यभावाद्यदनया न कृतः सत्यवान्नृपः ।। २५ ।।
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।।
उपेतोऽस्ति गुणैः सर्वैर्द्युमत्सेनसुतो बली ।।२६।।
एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवाक् ।।
संवत्सरेण हीनायुर्देह त्यागं करिष्यति।।२७।।
नारदस्य वचः श्रुत्वा तनयां प्राह पार्थिवः ।।
पुत्रि सावित्रि गच्छ त्वमन्यं वरय सत्पतिम्।।
संवत्सरेण सोल्पायुर्देहत्यागं करिष्यति ।।२८।।
।। सावित्र्युवाच ।। ।।
सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः ।।
सकृत्प्रदीयते कन्या त्रीण्येतानि सकृत्सकृत् ।।२९।।
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा ।।
सकृद्वृतोमया भर्ता न द्वितीयं वृणोम्यहम्।।4.102.३०।।
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते।।
क्रियते कर्मणा पश्चात्प्रमाणं मे मनः सदा।।३१।।
।।नारद उवाच ।। ।।
यद्येतदिष्टं दुहितुस्ततः शीघ्रं विधीयताम् ।।
अविघ्नमग्रे सावित्र्याः प्रदाने दुहितुस्तव।।३२।।
एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः ।।
राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ।।
शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः ।। ३३ ।।
सावित्र्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम् ।।
मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ।।३४।।
एवं तत्राश्रमे तेषां वसतां प्रीतिपूर्वकम् ।।
कालस्तपस्यतां कश्चिदतिचक्राम भारत ।।३५।।
सावित्र्यास्तप्यमानायास्तिष्ठंत्याश्च दिवानिशम्।।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ।।३६।।
ततः काले बहुतिथे व्यतिक्रांते कदाचन।।
सप्राप्तकालो म्रियेत इति संचिंत्य भामिनी।।
प्रोष्ठपदे सिते पक्षे द्वादश्यां रजनीमुखे ।। ३७ ।।
गणयन्ती च सावित्री नारदोक्तं वचो हृदि ।।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं विनाभवत् ।। ३८ ।।
ततस्त्रिरात्रं निर्वर्त्य स्नात्वा संतर्प्य देवताः ।।
चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ।।
श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी ।। ३९ ।।
अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ।।
सावित्र्यपि च भर्तारं गच्छतः पृष्ठतोऽन्वगात् ।। 4.102.४० ।।
ततोऽवदत्स भर्ता तां पृच्छस्व श्वशुरौ निजौ ।।
तथेत्युक्त्वा हि पप्रच्छ नत्वा श्वश्रूपदानि सा ।। ४१ ।।
श्वशुराववदतां च न गंतव्यं त्वयानघे ।।
बाले त्वं परमं भीरुः कथं गच्छसि काननम् ।। ४२।।
भूयो भावेन सा प्रोचे द्रष्टव्यं काननं मया ।।
गच्छेति तां तदोचाते श्वशुरौ चारुहासिनीम् ।। ४३ ।।
ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ।।
यथा शुष्काणि वादाय काष्ठभारमकल्पयत् ।। ४४ ।।
अथ पाटयतः काष्ठं जाता शिरसि वेदना ।।
व्यथा मां बाधते बाले स्वप्तुमिच्छामि सुंदरि ।। ४९ ।।
विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ।।
पश्चादुपगमिष्यामि स्वाश्रमं श्रमनाशनम् ।। ४६ ।।
यावदुत्संगके कृत्वा शिर आस्ते महीतले ।।
तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम् ।।
किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ।। ४७ ।।
तमुवाचाथ सावित्री प्रणम्य मधुपिंगलम् ।।
कस्त्वं देवोऽथ वा दैत्यो मां धर्षयितुमागतः ।। ।। ४८ ।।
न चाहं केनचिच्छक्या स्वधर्मादवरोपितुम् ।।
स्प्रष्टुं वा पुरुषश्रेष्ठ दीप्ता वह्निशिखा यथा ।।४९।।
।। यम उवाच ।। ।।
यमः संयमनश्चास्मि सर्वलोकभयंकरः ।।
क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते ।।
न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः ।। 4.102.५० ।।
एवमुक्त्वा सत्यवतः शरीरात्पाशसंचयैः ।।
अंगुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ।।
अथ प्रयातुमारेभे पंथानं पितृसेवितम् ।। ५१ ।।
सावित्र्यपि वरारोहा पृष्ठतोऽ नुजगाम ह ।।
पतिव्रतां तथा श्रांतां तामुवाच यमस्तदा ।। ५२ ।।
निवर्त गच्छ सावित्रि स्वगृहे त्वमिहागता ।।
एष मार्गो विशालाक्षि न केनाप्यनुगम्यते ।। ५३ ।।
।। सावित्र्युवाच ।। ।।
न श्रमो न च मे ग्लानिः कदाचिदपि जायते ।।
भर्तारमनुगच्छंति यास्तासां न श्रमादयः ।।५४।।
सतां संतो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ।।
वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ।। ५५ ।।
सर्वेषामेव जंतूनां स्थानमस्ति महीतलम् ।।
भर्तार एव मनुजस्त्रीणां नान्यः समाश्रयः ।। ५६ ।।
एवमन्यैश्च विविधैर्वाक्यैर्द्धर्मार्थसंहितैः ।।
तुतोष सूर्यतनयः सावित्रीं चेद मब्रवीत्।। ५७ ।।
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ।।
सावित्र्यपि वरान्वव्रे विनयावनतानना ।। ५८ ।।
चक्षुःप्राप्तिस्तथा राज्यं श्वसु रस्य महात्मनः ।।
पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः ।। ५९ ।।
जीवितं च तथा भर्तुधर्मसिद्धिश्च शाश्वती ।।
धर्मराजो वरान्दत्त्वा प्रेषयामास तां ततः ।। 4.102.६० ।।
अथ भर्तारमासाद्य सावित्री हृष्टमानसा ।।
जगाम साश्रमपदं सह भर्त्रा निराकुला ।। ६१ ।।
भाद्रस्य पौर्णमास्यां तु यथा चीर्णं व्रतं त्विदम् ।।
माहात्म्यमस्य नृपते कथितं सकलं मया ।। ६२ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं तद्व्रतं देव सावित्र्या यदनुष्ठितम् ।।
तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीदृशम् ।। ६३ ।।
का देवता व्रते तस्मिन्ब्रूहि कामं प्रति प्रभो ।।
सविस्तरं हृषीकेश ब्रूहि धर्मं सनातनम् ।। ६४ ।।
।। श्रीकृष्ण उवाच ।। ।
श्रूयतां पांडवश्रेष्ठ सावित्रीव्रतमादरात् ।।
कथयामि कथं चीर्णं तया सत्या युधिष्ठिर ।। ६५ ।।
त्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम् ।।
त्रिरात्रं नियमः कार्यं उपवासस्य भारत ।। ६६ ।।
अशक्त्या तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ।।
अयाचितं चतुर्दश्यामुपवासेन पूर्णिमाम् ।। ६७ ।।
नित्यं स्नात्वा महानद्यां तडागे चाथ निर्झरे ।।
विशेषः पौर्णमास्यां तु स्नानं सर्षपमृज्जलैः ।। ६८ ।।
गृहीत्वा तिलकान्पात्रे प्रस्थमात्रं युधिष्ठिर ।।
अथ वा धान्यमादाय यवशालितिलादिकम् ।। ६९ ।।
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत् ।।
सावित्रीप्रतिमां कृत्वा सर्वावयवशोभनाम् ।। 4.102.७० ।।
सौवर्णी मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम् ।।
रक्तवस्त्रयुगं दद्यात्सावित्र्यै ब्रह्मणे तथा ।। ७१ ।।
सावित्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत् ।।
गंधैः सुगंधिपुष्पैश्च धूपनैवेद्यदीपकैः ।। ७२।।
पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः ।।
नालिकेरैश्च खर्जूरैः कपिस्थैर्दाडिमीफलैः ।। ७३ ।।
जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा ।।
जीरकैः कटुखंडैश्च गुडेन लवणेन च ।। ७४ ।।
विरूढैः सप्तधान्यैश्च वंशपात्रे प्रकल्पितैः ।।
राजन्या सूत्रकंटैश्च शुभैः कुंकुमकेशरैः ।। ७५ ।।
अवतारवतीत्येवं सावित्री ब्रह्मणः प्रिया ।।
तामर्चयेत मंत्रेण सावित्रीं ब्राह्मणः स्वयम् ।।
इतरेषां पुराणोक्तमंत्रोऽत्र समुदाहृतः ।। ७६ ।।
ॐकारपूर्वके देवि वीणापुस्तक धारिणि ।।
वेदमातर्नमस्तुभ्यमवैधव्यं प्रयच्छ मे ।। ७७ ।।
एवं संपूज्य विधिवज्जागरं कारयेत्ततः ।।
गीतवादित्रशब्देन ह्यष्टतारीकदंबकैः ।। ७८ ।।
नृत्यहासैर्नयेद्रात्रिं पृष्ठतश्च कथानकैः ।।
सावित्र्याख्यानकं वापि वाचयेद्द्विजसत्तमम् ।।
यावत्प्रभातसमयं गीत्या भावरसैः समम् ।। ७९ ।।
ततः प्रभाते विमल उषःकाले ह्युपस्थिते ।।
ब्राह्मणे वेदविदुषि सावित्रीं विनिवेदयेत् ।। 4.102.८० ।।
यथा सावित्रकल्पज्ञे सावित्र्याख्यानवाचके ।।
दैवज्ञ उंच्छवृत्तौ च दरिद्रे चाग्निहोत्रिणि ।। ८१ ।।
मंत्रेणानेन कौंतेय प्रणम्य विधिपूर्वकम् ।।
दर्भाक्षततिलैर्मिश्रा पूर्वाशाभिमुखास्थिता ।।
सुधी विप्रवरो विप्र ॐकारस्वस्तिपूर्वके ।। ८२ ।।
सावित्रीयं मया दत्ता सहिरण्या महासती ।।
ब्रह्मणः प्रीणनार्थाय ब्राह्मण प्रतिगृह्यताम् ।। ८३ ।।
एवं दत्त्वा द्विजेंद्राय सावित्रीं तां युधिष्ठिर ।।
नैवेद्यादि च तत्सर्वं ब्राह्मणं स्वगृहं नयेत् ।।
स्वयं दशपदं गच्छेत्स्ववेश्म पुनराविशेत् ।। ८४ ।।
तत्र भुक्त्वा हविष्यान्नं ब्राह्मणैर्बांधवैः सह ।।
विसर्जयेत्ततो विप्रान्सावित्री प्रीयतामिति ।। ८५ ।।
पंचदश्यां तथा ज्येष्ठे वटके च महासती ।।
त्रिरात्रोपोषिता नारी विधिनानेन पूजयेत् ।। ८६ ।।
सार्द्धं सत्यवता साध्वी फलनैवेद्यदीपकैः ।।
पट्टावलंबनं कृत्वा काष्ठभारं युधिष्ठिर ।। ८७ ।।
रात्रौ जागरणं कृत्वा नृत्यगीतपुरस्सरैः ।।
प्रभाते विधिना पूर्वं पूर्वोक्तेन नरोत्तमः ।।
तत्सर्वं ब्राह्मणे दद्यात्प्रणिपत्य क्षमापयेत् ।। ८८ ।।
एतत्तु ते व्रतमिदं कथितं विधिवन्मया ।।
याश्चरिष्यंति लोकेस्मिन्पुत्रपौत्रसमन्विताः ।।
भुक्त्वा भोगांश्चिरं भूमौ यास्यंति ब्रह्मणः पदम् ।। ८९ ।।
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।।
जपतां शृण्वतां चैव सावित्रीव्रतमादरात् ।। 4.102.९० ।।
स्मृत्यर्थवेदजननीं सहशंभुजायां संपूजयेदिह त्रिरात्रकृतोपवासा ।।
सावित्रिवत्पितृकुलं च तथा स्वभर्तुरुद्धारयेच्च विभुनक्ति चिरं सुखानि ।। ९१ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वटसावित्रीव्रतवर्णनं नाम द्व्यधिकशततमोऽध्यायः ।। १०२ ।।