भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीकृष्ण उवाच ।। ।।
अनंतव्रतमस्त्यन्यत्सर्वपापहरं शिवम् ।।
सर्वकामप्रदं नृणां स्त्रीणां चैव युधिष्ठिर ।। १ ।।
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे शुभे ।।
तस्यानुष्ठानमात्रेण सर्वपापैः प्रमुच्यते ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
कृष्ण कोऽयं त्वयाख्यातो ह्यनंत इति विश्रुतः ।।
किं शेषनाग आहोस्विदनंतस्तक्षकः स्मृतः ।। ३ ।।
परमात्माथ वानंत उताहो ब्रह्म उच्यते ।।
क एषोऽनंतसंज्ञो वै तथ्यं ब्रूहि केशव ।। ४ ।।
।। श्रीकृष्ण उवाच ।। ।।
अनंत इत्यहं पार्थ मम नाम निबोधय ।।
आदित्यादिषु वारेषु यः काल उपपद्यते ।। ५ ।।
कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरवान् ।।
पक्षमासर्तुवर्षादि युगकल्पव्यवस्थया ।। ६ ।।
योऽयं कालो मयाख्यातस्तव धर्मभृतां वर ।।
सोऽहं कालोऽवतीर्णोऽत्र भुवो भारावतारणात् ।। ७ ।।
दानवानां विनाशाय वसुदेवकुलोद्भवम् ।।
मां विद्ध्यनंतं पार्थ त्वं विष्णुं जिष्णुं हरं शिवम्।। ८ ।।
ब्रह्माणं भास्करं शेषं सर्वव्यापिनमीश्वरम् ।।
विश्वरूपं महात्मानं सृष्टिसंहारकारकम् ।। ९ ।।
प्रत्ययार्थं मयाख्यातं सोऽहं पार्थ न संशयः ।।
।। युधिष्ठिर उवाच ।। ।।
अनन्तव्रतमाहात्म्यविधिं वद विदां वर ।। १० ।।
किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम्।।
केन वादौ पुरा चीर्णं मर्त्ये केन प्रकाशितम् ।। ११ ।।
एवं समस्तं विस्तार्य ब्रूह्यनंतव्रतं हरे ।।
।। श्रीकृष्ण उवाच ।। ।।
आसीत्पुरा कृतयुगे सुमंतो नाम वै द्विजः ।।१२।।
वशिष्ठगोत्रे चोत्पन्नः सुरूपश्च भृगोः सुताम् ।।
दीक्षां नामोपयेमे तां वेदोक्तविधिना ततः ।।१३।।
तस्याः कालेन संजाता दुहितानंतलक्षणा ।।
शीला नाम सुशीला सा वर्धते पितृसद्मनि ।। १४ ।।
माता च तस्याः कालेन हरदाहेन पीडिता ।।
विननाश नदीतीरे मृता स्वर्गपुरं ययौ।।१५।।
सुमंतोपि ततोन्यां वै धर्मपुंसः सुतां पुनः ।।
उपयेमे विधानेन कर्कशां नाम नामतः।।१६।।
दुःशीलां कर्कशां चंडीं नित्यं कलहकारिणीम् ।।
सापि शीला पितुर्गेहे गृहार्चनरता विभो ।। १७ ।।
कुड्यस्तंभतुलाधारदेहलीतोरणादिषु ।।
चातुर्वर्णकरं वैश्यनीलपीतसितासितैः ।।१८।।
स्वस्तिकैः शंखपद्मैश्च अर्चयन्ती पुनःपुनः ।।
पित्रा दृष्टा सुमन्तेन स्त्रीचिह्ना यौवने स्थिता ।।१९।।
कस्मै देया मया शीला विचार्यैवं सुदुःखितः ।।
पिता ददौ मुनीन्द्राय कौंडिन्याय शुभे दिने ।। २० ।।
स्मृत्युक्तशास्त्रविधिना विवाहमकरोत्तदा ।।
निवर्त्योद्वाहिकं सर्वं प्रोक्तवान्कर्कशां द्विजः ।। २१ ।।
किञ्चिदायादिकं देयं जामातुः पारितोषिकम् ।।
तच्छ्रुत्वा कर्कशा क्रुद्धा प्रोद्धृत्य गृहमण्डपम्।।२२।।
कपाटे सुस्थिरं कृत्वा गम्यतामित्युवाच ह ।।
भोज्यावशिष्टचूर्णेन पाथेयं च चकार सा ।।२३।।
कौंडिन्योपि विवाह्यैनां पथि गच्छञ्छनैःशनैः।।
शीलां सुशीलामादाय नवोढां गोरथेन हि ।। २४ ।।
मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे ।।
ददर्श शीला सा स्त्रीणां समूहं रक्तवाससाम्।। ।। २५ ।।
चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक्पृथक् ।।
उपगम्य शनैः शीला पप्रच्छ स्त्रीकदंबकम्।। २६ ।।
नार्यः किमेतन्मे ब्रूत किंनाम व्रतमीदृशम् ।।
ता ऊचुर्योषितः सर्वा अनन्तो नाम विश्रुतः ।। २७ ।।
साब्रवीदहमप्येवं करिष्ये व्रतमुत्तमम् ।।
विधानं कीदृशं तत्र किं दानं कस्य पूजनम् ।। २८ ।।
।। स्त्रिय ऊचुः ।। ।।
शीले पक्वान्नप्रस्थस्य पुन्नाम्नः सुकृतस्य तु ।।
अर्द्धं विप्राय दातव्यमर्द्धमात्मनि भोजनम् ।। २९ ।।
कर्तव्यं तु सरित्तीरे कथां श्रुत्वा हरेरिमाम् ।।
अनंतानंतमभ्यर्च्य मंडले गंधदीपकैः ।। ३० ।।
धूपैः पुष्पैः सनैवेद्यैः पीतालक्तैश्चतुःशतैः ।।
तस्याग्रतो दृढं सूत्रं कुंकुमाक्तं सुदोरकम् ।। ३१ ।।
चतुर्दशग्रंथियुतं वामे स्त्री दक्षिणे पुमान् ।।
मंत्रेणानेन राजेन्द्र यावद्वर्षं समाप्यते ।। ३२ ।।
अनंत संसारमहासमुद्रे मग्नान्समभ्युद्धर वासुदेव ।।
अनंतरूपे विनियोजितात्मा ह्यनंतरूपाय नमोनमस्ते ।। ३३ ।।
अनेन दोरकं बद्ध्वा भोक्तव्यं स्वस्थमानसैः ।।
ध्यात्वा नारायणं देवमनंतं विश्वरूपिणम् ।। ३४ ।।
भुक्त्वा चांते व्रजेद्वेश्म हीदं प्रोक्तं व्रतं तव ।।
सापि श्रुत्वा व्रतं चक्रे शीला बद्ध्वा सुदोरकम् ।। ३५ ।।
भर्ता तस्याः समागत्य तां ददर्श महाधनाम् ।।
पाथेयशेषं विप्राय दत्त्वा भुक्त्वा तथैव च ।। ३६ ।।
पुनर्जगाम सा हृष्टा गोरथेन स्वमाश्रमम् ।।
भर्त्रा सहैव शनकैः प्रत्यक्षं तत्क्षणादभूत् ।।
तेनानंतप्रभावेण शुभगोधनसंकुलः ।। ३७ ।।
गृहाश्रमः श्रिया युक्तो धनधान्यसमायुतः ।।
आकुलो व्याकुलो रम्यः सर्वत्रातिथिपूजनः ।। ३८ ।।
सापि माणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता ।।
दिव्यांगवस्त्रसंछन्ना सावित्रीप्रतिमाभवत् ।। ३९ ।।
कदाचिदुपविष्टेन दृष्टं बद्धं सुदोरकम् ।।
शीलाया हस्तमूले तु साक्षेपं त्रोटितं रुषा ।। ४० ।।
तेन कर्मविपाकेण तस्य सा श्रीः क्षयं गता ।।
गोधनं तस्करैर्नीतं गृहं चाग्निविदाहितम् ।। ४१ ।।
यद्यदेवागतं गेहे तत्र तत्रैव नश्यति ।।
स्वजनैः कलहो मित्रैर्वचनं न जनैस्तथा ।। ४२ ।।
अनंताक्षेपदोषेण दारिद्र्यं पतितं गृहे ।।
न कश्चिद्वदते लोकस्तेन सार्द्धं युधिष्ठिर ।। ४३ ।।
ततो जगाम कौंडिन्यो निर्वेदाद्वनगह्वरम् ।।
मनसा ध्यायतेनंतं कदा द्रक्ष्यामि केशवम् ।। ४४ ।।
व्रतं निरशनं गृह्य ब्रह्मचर्यं जपन्हरिम् ।।
विह्वलः प्रययौ पार्थ अरण्यं जनवर्जितम्।।४५।।
तत्रापश्यन्महावृक्षं फलितं पुष्पितं तथा ।।
तमपृच्छत्त्वयानंतः कच्चिदृष्टो महाद्रुम ।।
तद्ब्रूहि सोप्युवाचेदं नानंतं वेद्म्यहं द्विज ।। ४६ ।।
एवं निरीक्षितस्तेन गां ददर्श सवत्सकाम् ।।
तृणमध्ये प्रधावन्तीमितश्चेतश्च पांडव ।।४७।।
सोब्रवीद्धेनुके ब्रूहि यद्यनंतस्त्वयेक्षितः ।।
गौरुवाचाथ कौंडिन्य नानंतं वेद्म्यहं विभो ।। ४८ ।।
ततो जगामाथ वने गोवृषं शाद्वले स्थितम् ।।
दृष्ट्वा पप्रच्छ गोस्वामिन्ननंतो लक्षितस्त्वया ।। ४९ ।।
गोवृषस्तमुवाचाथ नानन्तो वीक्षितो मया ।।
ततो व्रजन्ददर्शाग्रे रम्यं पुष्करिणीद्वयम् ।। ५० ।।
अन्योन्यजलकल्लोलवीचिभिः परिशोभितम् ।।
छन्नं कुमुदकह्लारैः कुमुदोत्पलमंडितम् ।। ५१ ।।
सेवितं भ्रमरैर्हंसैश्चक्रैः कारंडवैर्बकैः ।।
ते अपृच्छं द्विजोनन्तो भवद्भ्यां नोपलक्षितः ।। ५२ ।।
ऊचतुः पुष्करिण्यौ तं नानंतं विद्वहे द्विज ।।
ततो ब्रह्मन्ददर्शाग्रे गर्दभं कुञ्जरं तथा ।। ५३ ।।
तावप्युक्तौ सुमंतेन तस्यापि विनिवेदितम् ।।
नावाभ्यां वीक्षितोनंतस्तच्छ्रुत्वा निषसाद ह ।। ५४ ।।
तस्मिन्क्षणे मुनिवरे कौंडिन्ये ब्राह्मणोत्तमे ।।
कृपयानंतदेवोपि प्रत्यक्षः समजायत ।। ।। ५५ ।।
वृद्धब्राह्मणरूपेण इत एहीत्युवाच तम् ।।
प्रवेशयित्वा स्वगृहं गृहीत्वा दक्षिणे करे ।। ५६ ।।
तां पुरीं दर्शयामास दिव्यनारीनरैर्युताम् ।।
तस्यां निविष्टमात्मानं वरसिंहासने नृप ।। ५७ ।।
पार्श्वस्थशंखचक्रासिगदागरुडशोभितम् ।।
दर्शयामास विप्राय पूर्वोक्तं विश्वरूपिणम्।। ५८ ।।
विभूतिभेदैश्चानन्तमनन्तं परमेश्वरम् ।।
तं दृष्ट्वा तु द्विजोनन्तमुवाच परया मुदा ।। ५९ ।।
पापोहं पापकर्माहं पापात्मा पापसम्भवः ।।
पाहि मां पुण्डरीकाक्ष सर्वपापहरो भव ।।६०।।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।।
चूतवृक्षो वृषः कस्तु का गौः पुष्करिणीद्वयम् ।।
गर्दभं कुञ्जरं चैव देव मे ब्रूहि तत्त्वतः ।। ६१ ।।
।। अनंत उवाच ।। ।।
चूतवृक्षो हि विप्रोसौ विद्वान्यो वेदगर्वितः ।।
विद्यादानं नोपकुर्वञ्छिष्येभ्यस्तरुतां गतः ।। ६२ ।।
सा गौर्वसुन्धरा दृष्टा निष्फला या त्वयेक्षिता ।।
स हर्षो वृषभो दृष्टो लाभार्थं यस्त्वया वृतः ।। ६३ ।।
धर्माधर्मव्यवस्थानं तच्च पुष्करिणीद्वयम् ।।
खरः क्रोधस्त्वया दृष्टः कुंजरो धर्मदूषकः ।।
ब्राह्मणोसावनंतोहं गुहासंसारगह्वरे ।। ६४ ।।
इत्युक्तं ते मया सर्वं विप्र गच्छ पुनर्गृहम् ।। ६५ ।।
चरानंतव्रतं तत्त्वं नव वर्षाणि पंच च ।।
ततस्तुष्टः प्रदास्यामि नक्षत्रस्थानमुत्तमम् ।। ६६ ।।
भुक्त्वा च विपुलान्भोगान्सर्वान्कामान्यथेप्सितान् ।।
पुत्रपौत्रैः परिवृतस्ततो मोक्षमवाप्स्यसि।।६७।।
इति दत्त्वा वरं देवस्तत्रैवांतर्हितोऽभवत्।।
कौंडिन्योप्यागतो गेहं चचारानंतसद्व्रतम् ।। ६८ ।।
 शीलया सह धर्मात्मा भुक्त्वा भोगान्मनोरमान्।।
अंते जगाम च स्वर्गं नक्षत्रं च पुनर्वसुम् ।।
कल्पस्थानी च संभूतो दृश्यतेद्यापि स ज्वलन्। ।।
अनंतव्रतधर्मेण सम्यक्चीणेंन कौरव ।। ७० ।।
एतत्ते कथितं पार्थ व्रतानामुत्तमं व्रतम् ।।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ७१ ।।
ये च शृण्वंति सततं वाच्यमानं नरोत्तम ।।
ते सर्वे पापनिर्मुक्ता यास्यंति परमां गतिम् ।। ७२ ।।
संसारसागरगुहां सुसुखं विहर्तुं वांछंति ये कुरुकुलोद्भव शुद्धसत्त्वाः ।।
संपूज्य ते त्रिभुवनेशमनंतदेवं बध्नंति दक्षिणकरे वरदोरकं मे ।। ७३ ।।
इति श्रीभविष्ये महाऽपुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽअनंतचतुर्दशीव्रतवर्णनं नाम चतुर्नवतितमोऽध्यायः ।। ९४ ।। छ ।।
शब्दकल्पद्रुम ---
अरण्यवासमुषितो युधिष्ठिरनृपो वशी ।
प्राप्तस्त्रैलोक्यनाथेन कृष्णेन परमात्मना ।।
कथोपकथनं जातं तयोस्तत्र प्रियाप्रियं ।
विशेषेण च गोविन्दं पप्रच्छ च युधिष्ठिरः ।।
युधिष्ठिर उवाच ।
केन व्रतेन देवेश वाञ्छितं प्राप्यते फलं ।
निष्पापाः सकला लोकाः भवन्ति जन्मजन्मनि ।।
श्रीकृष्ण उवाच ।
अस्ति व्रतमनन्ताख्यं यत्कृतं सुरसद्मनि ।
इन्द्राद्यैर्लोकपालैश्च तन्म कथयतः शृणु ।
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे तथा ।
तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति ।।
।। युधिष्ठिर उवाच ।
कृष्ण कोऽयं त्वयाख्यातो योऽनन्त इति संज्ञितः
कोऽयं शेषश्च नागश्च अनन्तस्तक्षकः स्मृतः ।।
परमञ्चोत्तमं वापि उताहो ब्रह्म उच्यते ।
क एषोऽनन्तसंज्ञो वै तन्मे ब्रूहि जनार्द्दन ।।
श्रीकृष्ण उवाच ।
अनन्त इत्यहं पार्थ मम रूपं निबोध तत् ।
आदित्यगतिरूपेश यः काल उपपद्यते ।।
कलाकाष्ठामुहूर्त्तादि दिनरात्रिव्यवस्थया ।
पक्षो मास ऋतुर्व्वर्षं युगकल्पव्यवस्थया ।।
 
सोऽहं कालोऽवतीर्णोऽस्मि भुवो भारावतारणात् ।
दानवानां विनाशाय वसुदेवतनूद्भवं ।!
अनन्तं विद्धि मां पार्थ कृष्णं विष्णुं हरिं शिवं
ब्रह्माणं भास्करं शेषं सर्व्वव्यापिनमीश्वरं ।
प्रत्ययार्थं मया पार्थ विश्वरूपं निबोथ तत् ।
पूर्वमेव महाबाहो योगिध्येयमनुत्तमं ।। ।।
युधिष्ठिर उवाच ।
अनन्तव्रतमाहात्म्यं विधिं विधिविदां वर ।
किं पुण्यं किं फलं तस्य अनुष्ठानञ्च तस्य किं ।।
केन वा तत्कृतं पूर्व्वं लोके केन प्रकाशितं ।
तत्सर्व्वं बहु' विस्तार्य्य ब्रूहि नारायण प्रभो ।।
।। श्रीकृष्ण उवाच ।
आसीत्पुरा कृतयुगे सुमन्तुर्नाम वै द्विजः ।
वशिष्ठगोत्रजो विद्वान् शीलवान् विजितेन्द्रियः ।।
पत्नी तस्याभवद्दीक्षा सती सत्यव्रते स्थिता ।
चारित्रशीलसम्पन्ना सुरूपा भृगुवंशजा ।।
तस्याः कालेन संजाता दुहिता सर्व्वलक्षणा ।
शीला नाम्ना सुशीला सा वर्द्धते पितृवेश्मनि ।।
माता तस्यास्तु कालेन ज्वरदाहप्रपीडिता ।
समागत्य नदीतोये मृता स्वर्गपुरं ययौ ।।
कृतं सुमन्तुना तस्याः कर्म्म यत् पारलौकिकं ।
ततः सुमन्तुः संत्यज्य दुःखं शोकं क्रमात् पुनः
नापत्नीको गृही धर्म्मं कर्त्तुमर्हति वै क्वचित् ।
इति सञ्चिन्त्य मनसा विवाहोत्सुकमानसः ।।
देवलस्य मुनेः कन्यां कर्कशां परिणीतवान् ।
सा कर्कशातिदुःशीला सदा निष्ठुरभाषिणी ।।
कोपना प्रतिकूला च निर्लज्जा कलहप्रिया ।
अदक्षा गृहृकृत्येषु दक्षा भोजनकर्म्मणि ।।
कलहेन तु सन्तुष्टा रुष्टा बन्धुजनान् प्रति ।
सा तु शीला पितुर्गेहे वर्द्धिता च दिने दिने ।।
करोति सखिभिः सार्द्धं शिशुक्रीडामनुत्तमां ।
गृहान्तरस्थलद्वारदेहलीतोरणादिषु ।
चतुरङ्गकवर्णैश्च रक्तपीतसितासितैः ।
स्वस्तिकं पद्मशङ्खौ च मण्डयन्ती पुनः पुनः ।।
कुर्व्वन्ती प्रत्यहं बाला देवतातिथिपूजनं ।
गृहकृत्ये सदा दक्षा पितुरत्यन्तवल्लभा ।।
कालेन कियता विप्रस्तां दृष्ट्वा यौवनोद्गतां ।
कस्मै देया मया कन्या इति चिन्तान्वितोऽभवत्।।
 
ततो दववशात्तत्र कौण्डिन्यः समुपागतः ।
मुनिश्रेष्ठो महाभागः कुलीनो धर्मतत्परः ।।
मनसा चिन्तयामास सुमन्तुः सुतपाः सुधीः ।
अस्मै भाग्यवशाच्छीला प्रतिपाद्या प्रयत्नतः ।।
इति कृत्वा मतिं विप्रो ददौ कन्यां शुभे दिने ।
कन्यामलङ्कृतां साध्वीं शीलां चन्द्रनिभाननां ।।
ग्टह्योक्तवेदविधिना विवाहमकरोत्तदा ।
ततो होमादिकं कर्म्म समाप्य समये मुनिः ।।
सुमन्तुः कर्कशां प्राह जामात्रे देहि दक्षिणां
सफलं कुरु मे दानं प्रिये मुनिकुलोद्भवे ।
दक्षिणारहितं कर्म्म निष्फलं जायते यतः ।
सा तु तद्वचनं श्रुत्वा कर्कशा कुपिताभवत् ।
सुमन्तुं भर्त्सयामास कर्कशैर्व्वचनैः पतिं ।
अलङ्कारं समानीय स्वकीयञ्चापि बन्धनं ।।
निक्षिप्य निभृते स्थाने कर्कशान्यगृहृं ययौ ।
सुमन्तुश्चातिदीनात्मा लज्जितश्चाभवत्तदा ।।
यत्किञ्चिदर्थयोग्यञ्च द्रव्यमानीय यौतुकं ।
जामात्रे प्रददौ विप्रः परिचार्य्य पुनः पुनः ।।
ततो विवाहं निर्व्वर्त्य कौण्डिन्योऽपि निजाश्रमं ।
गोयाने तां समारोप्य शीलामादाय वै ययौ
ततः सा पथि गच्छन्ती शीला चन्द्रनिभानना
मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे ।।
ददर्श शीला नारीणां समूहं व्रतचारिणां ।
पुंसां वृन्दञ्च तत्रेव रक्तपीताम्बरासनं ।।
चतुर्द्दश्यामर्चयन्तं भक्त्यानन्तं पृथक् पृथक् ।
दृष्ट्वा समूहं नारीणां सती पप्रच्छ सादरं ।।
विनयावनता साध्वी प्रणिपत्य सुरेश्वरं ।
किमिदं क्रियते कार्य्यं भवतीभिस्तदुच्यतां ।।
स्त्रिय ऊचुः ।
भाद्रे मासि सिते पक्षे उत्थिते वासवध्वजे ।
आराधिते महेन्द्रे च ध्वजाकारासु यष्टिषु ।।
नत्वा सरसि यः स्नात्वा अनन्तार्च्चनमारभेत् ।
कृत्वा दर्भमयं देवं वारिवाजसमन्वितं ।।
अनन्तं देवदेवेशं चतुर्ब्बाहुं किरीटिनं ।
अतसीपुष्पसंकाशं काञ्चनाङ्गदभूषणं ।।
शङ्खचक्रगदाशार्ङ्गं विविधायुधधारिणं ।
एह्येहि भगवन् कृष्ण तव यज्ञः प्रवर्त्तते ।।
वारिधान्यां तथानन्तं भगवन्तं नियोजयेत् ।
मण्डले पुष्पनेवेद्यं धूपवस्त्रानुलेपनं ।।
दत्त्वा च पूजयेद्भक्त्या अनन्तं विश्वरूपिणं ।
पिष्टकार्थं व्रीहिचूर्णं यवगोधूमयोश्च वा ।।
एतेषां प्राप्यते यत्तु तद्ग्राह्यं प्रस्थसंज्ञितं ।
अर्द्धं विप्राय दातव्यमर्द्धमात्मनि योजयेत् ।।
पूजयित्वा तथा देवं गन्धपुष्पैर्यथाक्रमं ।
श्रुत्वा कथां ततस्तस्य कुङ्कमाक्तं सुडोरकं ।।
चतुर्दशग्रन्थियुक्तं नारी वामकरे न्यसेत् ।
पुमांस्तु दक्षिणे बाहौ तदानन्तं प्रपूजयेत् ।।
निर्व्वर्त्त्य पूजां देवस्य पूपं भुक्त्वा यथासुखं ।
विसृज्य दक्षिणां दत्त्वा प्रणम्य च यथासुखं ।।
शीला श्रुत्वा वचस्तासां यथा ताभिरुदाहृतं ।
व्रतं चकार सा बाहौ वद्धा डोरकमुत्तमं ।
पूपप्रस्थञ्च सां कृत्वा भुक्त्वा चैव तथैव च ।
 
पुनर्जगाम तेनैव गोरथेन समन्विता ।।
तेनानन्तप्रसादेन गृहं गोधनसङ्कुलं ।
तदाश्रमं श्रिया युक्तं धनधान्यसमन्वितं ।।
विविधातिथिसम्पूर्णं नानारत्नैर्विभूषितं ।
वराश्वमत्तमातङ्गमहिषैर्गोधनान्वितं ।।
शीला च मणिकाञ्चीभिर्मुक्ताभरणभूषिता ।
दिव्याङ्गी शीलसम्पन्ना सावित्रीप्रतिमा यथा ।।
कदाचिदुपविष्टा सा वह्निकुण्डं समागता ।
कौण्डिन्योऽपि विशेद्रोषात् दृष्ट्वा डोरमनन्तकं ।
शोलायाः करमूले च बद्धमेव प्रयत्नतः ।
पप्रच्छ क्रोधवचसा भृकुटीकुटिलं मुखं ।।
किमिदं डोरकं हस्ते बद्ध्वा भार्य्येऽत्र तिष्ठसि ।
प्रमेयः कस्य देवस्य दुर्ब्बुद्धे ब्रूहि सत्वरं ।५।।
शीलोवाच ।
अनन्तं देवदेवस्य प्रमेयं डोरकं शुभं ।
करे बद्धं विधानेन शृणु मे वचनं प्रभो ।।
प्रसादाद् यस्य देवस्य भुङ्क्ते सुविपुलं धनं ।
न जानासि कथं नाथ तदेवं जगदीश्वरं ।।
शीलावाक्यं ततः श्रुत्वा कौण्डिन्यः कुपितोऽभवत् ।
कोऽसावनन्तसंज्ञो वै न श्रुतोऽपि वरानने ।
इत्युत्वाकृष्य कुपितो भुजाड्डोरमनन्तकं ।
क्षिप्तं ज्वालाकुले वह्नौ निर्भर्त्स्य बहुधा प्रियां ।।
ततः सा संभ्रमात् शीला हाहा कृत्वा प्रधाविता
वह्नेः सूत्रं समादाय क्षीरमध्ये ततोऽक्षिपत् ।।
ततस्तया करे वामे पुनर्बद्धं सुडोरकं ।
अनन्ताक्षेपदोषेण दारिद्र्यं पतितं गृहे ।।
न कैश्चित् वर्ण्यते लोकैः सोऽपि विप्रो युधिष्ठिर ।
गात्रे मलिनता प्राप्ता चक्षुर्निद्रां तथैव च ।।
शून्यानि गृहरूपाणि दग्धानि वह्निना क्वचित् ।
निरीक्ष्य स्वपुरं विप्रश्चिन्तयामास चेतसा ।।
अथ शीला विवर्णा सा दुःखिता पतिदोषतः;
विचचार पुरीं सर्व्वां शून्यागारसमन्वितां ।।
अथ कौण्डिन्यविप्रस्य संजाता बुद्धिरुत्तमा ।
ममापि दुष्कृतं कर्म्म कृतं वा मे विगर्हितं ।।
अनन्ताक्षेपदोषेण ममापि गतिरीदृशी ।
अनन्तं यत्र पश्यामि तत्र यास्यामि दुर्मतिः ।।
ततो जगाम कौण्डिन्यो वनं व्याघ्रादिसङ्कुलं ।
व्रतस्यान्वेषणं कर्त्तुं पादौ द्रष्टुं तथा हरेः ।।
विह्वलः स ययौ मार्गे जनजन्तुविवर्ज्जिते ।
तत्रापश्यच्च तं वृक्षं फलपुष्पसमन्वितं ।।
वर्जितं पक्षिसङ्घातैः कीटैश्चैव विशेषतः ।
तमपृच्छत् त्वयानन्तः क्वचिद्दृष्टो महाद्रुम ।।
स चोवाच महावृक्षो नानन्तं वेद्मि भो द्विज
ततो गच्छन् ददर्शाग्रे तृणमध्ये सवत्सिकां ।।
तृणमध्ये प्रधावन्तो न खादति न जिघ्रति ।
हे महाधेनुके ब्रूहि किमनन्तस्त्वयेक्षितः ।।
सवत्सा तमुवाचाथ नानन्तं वेद्मि हे द्विज ।
ततो गच्छन् ददर्शाग्रे वृषश्रेष्ठं वने स्थितं ।।
तमपृच्छदयं विप्रः अनन्तो वीक्षितस्त्वया ।
वृषभस्तमुवाचेदं विषण्णं ब्राह्मणं प्रति ।।
यद्यनन्तमहं जाने तदा मे गतिरीदृशी ।
ततो व्रजन् ददर्शाग्रे गर्दभं कुञ्जरं तथा ।।
 
नानामायाप्रचरन्तं मदगर्ज्जनदर्पितं ।
स तं दृष्ट्वा द्विजोऽरृच्छदनन्तं दृष्टवान् किमु ।
प्रत्युत्तरमुवाचेदं नानन्तं वेद्मि हे द्विज ।
ततो व्रजन् ददर्शाग्रे रम्यं पुष्करिणीद्वयं ।।
अन्योन्यजलसंघातैर्व्वीचिभिरुपशोभितं ।
शुभैः कुमुदकह्लारैः कमलोत्पलशोभितं ।
भ्रमरैश्चक्रवाकैश्च हंसकारण्डवैर्युतं ।
तमपृच्छत् द्विजोऽनन्तो भवतीभ्याञ्च लक्षितः ।।
पुष्करिण्यावूचतुस्त न जानीवो हरिं क्वचित् ।
निपपात ततो विप्रो हाहा कृत्वा रुदन् भुवि ।।
किं करोमि क्व गच्छामि कथं पश्यामि तं विभुं ।
ततः कृपालु हृदयो देवेशो देवपूजितः ।।
तत्क्षणाद्भगवान् विष्णुर्द्विजप्रत्यक्षमागतः ।
वृद्धब्राह्मणरूपेण प्रोवाच वचनं द्विजं ।।
उत्तिष्ठोत्तिष्ठ विप्रेन्द्र त्यज दुःखं सुखी भव ।
अनन्तं दर्शयिष्यामि कृष्णं विष्णुं हरिं शिवं ।।
ब्राह्मणं तं समादाय पातालवर्त्मना पुरीं ।
तां पुरीं दर्शयामास ततश्चान्तर्दधे द्विजः ।
स तां ददर्श कौण्डिन्यः पुरीं त्रैलोक्यदुर्ल्लभां
दिव्यनारीनरैर्युक्तां मणिरत्नविभूषितां ।।
सुवर्णरचितां सर्व्वां वेष्टितां तक्षकादिभिः ।
तत्रापश्यत् स कौण्डिन्यो देवदेवमनन्तकं ।।
विश्वरूपं जगन्नाथं चतुर्ब्बाहुं किरीटिनं ।
शङ्खचक्रगदापद्मधारिणं गरुडध्वजं ।।
दक्षिणे विलसल्लक्ष्मीं वामे क्रीडत्सरस्वतीं ।
सप्तफणासमायुक्तं दिव्यसिंहासनेस्थितं ।
एवं रूपं जगन्नाथं दृष्ट्वा भक्त्या स्तुतिः कृता ।
जगाम भूमौ शिरसा अनन्तस्य समीपतः ।।
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ।।
अज्ञानेन मया देव यत् कृतं पापकर्मणा ।
तत्सर्व्वं कृपया शंस क्षमस्व मधुसूदन ।। ।।
 
अथ कौण्डिन्यविप्रस्य स्तुतिं श्रुत्वा जनार्द्दनः ।
प्रसन्नो भगवान्देवश्चानन्तोऽनन्तरूपधृक् ।।
कथं मे प्रियमाख्यातमिहागच्छेति भूसुर ।।७ ।।
अनन्त उवाच ।
तुष्टोऽहं ब्राह्मणश्रेष्ठ भक्त्या तव विशेषतः ।
वरं गृहाण विप्रेन्द्र तुष्टोऽस्मि त्यज विस्मयं ।।
। कौण्डिन्य उवाच ।
स्वकर्म्मफलभोगेन यां यां योनिं व्रजाम्यहं ।
तस्यां तस्यां हृषीकेश हरिभक्तिर्दृढास्तु मे ।।
अतिप्रमादान्मोहाद्वा यन्मया दुष्कृतं कृतं ।
तदागः क्षम्यतां नाथ प्रणमामि पुनः पुनः ।।
श्रुत्वानन्तस्तु तद्वाक्यं ददौ तस्मै वरत्रयं ।
दारिद्रनाशनं धर्म्मं विष्णुलोकं तथाक्षयं ।०।।
कौण्डिन्य उवाच ।
पूर्णो मनोरथो देव मम चाद्य विशेषतः ।
किचित् पृच्छामि देवेश तन्मे ब्रूहि जगत्पते ।।
कश्चूतः को वृषः का गौः किन्तत् पुष्करिणीद्वयं ।
कः खरः कुञ्जरः को वा को वा वृद्धद्विजोत्तमः ।
कृपया कथयस्वाद्य पथि दृष्टो मया विभो ।
श्रीअनन्त उवाच ।
यश्चाम्रवृक्षो दृष्टो हि विप्रो विद्यासु गर्व्वितः ।
उपस्थिताय शिष्याय विद्यां यस्मान्न दत्तवान् ।
तेन कर्म्मविपाकेन वृक्षत्वं प्राप्य तिष्ठति ।
वृषभो यस्त्वया दृष्टो लोभकर्म्मकृतः पुरा ।।
दत्तं पर्य्युषितं द्रव्यं स्वादु भुक्तं स्वयं यतः ।
वृषभत्वं समासाद्य ततस्तिष्ठति निर्ज्जने ।।
विप्राय वसुधां दत्त्वा निष्फलां शस्यवर्ज्जितां ।
तेनासौ गोत्वमासाद्य तृणमध्ये प्रधावति ।।
धर्म्माधर्म्मौ विजानीयाद्यत्तत् पुष्करिणीद्वयं ।
गर्दभोऽज्ञानसम्पन्नः कुञ्जरो मदगर्वितः ।।
ब्राह्मणोऽसावनन्तोऽहं यस्त्वया दर्शितो मुने ।
एतत्ते कथितं सर्व्वं गच्छ विप्र निजाश्रमं ।।
पुनः समृद्धिस्ते विप्र भविष्यति न संशयः ।
भुक्त्वा भोगांश्च विपुलान् संप्राप्स्यसि महत् पदं ।।
इति दत्त्वा वरं तस्मै तत्रैवान्तरधीयत ।
कौण्डिन्योऽयि गृहं गत्वा करोति व्रतमुत्तमं ।।
अनन्ताख्यं महापुण्यं वर्षाणाञ्च चतुर्दशं ।
शीलया सह धर्म्मात्मा सुखं भुक्त्वा मनोरथान् ।।
विष्णुरोकं समासाद्य रराज शीलया सह ।
अनन्ताख्यव्रतेनेह समाप्तेनैव पार्थिव ।।
सर्व्वपापविनिर्म्मुक्ता यास्यन्ति परमां गतिं ।
एवमेव हि नियमात् स्त्रियोऽनन्तव्रतान्नृप ।।
पु्त्रपौत्रधनैर्युक्ता भुक्त्वा भोगान् मनोरथान् ।
विष्णुलोकमाप्नुवन्ति यावच्चन्द्रदिवाकरौ ।।
इति भविष्यपुराणे अनन्तव्रतं समाप्तं ।