भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

आग्नेयीचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
चतुर्दशी महाराज हुतभुग्दयिता शुभा ।।
नष्टस्तदा हव्यवाहः पुनरस्तित्वमाप्तवान् ।। १ ।।
।। युधिष्ठिर उवाच ।। ।।
कथमग्निः पुरा नष्टो देवकार्येप्युपस्थितः ।।
केनाग्नित्वं कृतं तत्र कथं हि विदितोऽनलः ।।
एतद्वदस्व देवेश सर्वं हि विदितं तव ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
पुरा सुरा महाराज तारकेण पराजिताः ।।
अपृच्छन्विश्वकर्तारं तारकं को वधिष्यति ।। ३ ।।
उवाचासौ चिरं ध्यात्वा रुद्रोमाशुक्रसम्भवः ।।
गंगास्वाहाग्नितेजोजः शिशुर्दैत्यं वधिष्यति ।। ।। ४ ।।
एवं श्रुत्वा गता देवा यत्र शम्भुः सहोमया ।।
प्रणम्य ते तमूचुर्हि यदुक्तं ब्रह्मणा तदा ।। ५ ।।
प्रतिपन्नं च रुद्रेण उमया सहितेन तत् ।।
प्रयत्नमकरोत्तं च य उक्तोमरसत्तमैः ।। ६ ।।
दिव्यं वर्षशतं साग्रं गतः कालोऽथ मैथुने ।।
न चाप्युपरमस्तत्र तयोरासीत्कथञ्चन ।।
भयं च सुमहत्तेषां देवानां समजायत ।। ७ ।।
स रुद्रसम्भवो यो वै भविष्यति महाबलः ।।
स दैत्यान्दानवगणान्वधिष्यति न संशयः ।। ८ ।।
केन कालेन भवति रतेर्विरतिरेतयोः ।।
एतद्विचिन्त्य प्रहितौ देवैस्तत्रानिलानलौ ।। ९ ।।
गतौ तौ चोमया दृष्टौ समस्थौ विषमस्थया ।।
शशाप च रुषा देवी देवान्गर्भविवर्जिता ।। 4.93.१० ।।
यस्मात्तैर्जनितो विघ्नो मेऽपत्यार्थे दिवौकसाम् ।।
तस्मात्ते स्वेषु दारेषु जनयिष्यन्ति न प्रजाः ।।११।।
अथोवाच तदा देवो देवान्सर्वगणाञ्छनैः।।
अग्निर्गृह्णातु वीर्यं मे संभृतं सुचिरं हि यत् ।।१२।।
एवमुक्तोऽथ रुद्रेण नष्टोऽग्निर्देवसंकुलात् ।।
न स्वस्थो न भुविस्थो वा न सूर्यस्थो न भूतले ।।१३।।
देवा अन्वेषणे यत्नमकुर्वन्नग्निदर्शने ।।
कृमिकीटपतंगाश्च अष्टौ च त्रिदिवौकसः ।। १४ ।।
हंसाः केकाः शुका वह्निः शीघ्रं शरवणं गताः ।।
शशापाग्निर्गजा जिह्वा द्विगुणो वा भविष्यति ।। १५ ।।
दृष्ट्वाथ विबुधाः सर्वे पक्षिणं पक्षिणां वरम्।।
जीवं जीवकनामानं भोभोः सत्यं वदस्व नः।।१६।।
कच्चिदृष्टस्त्वया वह्निर्वनेऽस्मिन्नटता सदा।।
नाभद्रं नापि भद्रं वा किञ्चिदेव वचोऽब्रवीत् ।।१७।।
भूयोभूयस्तु पृष्टोऽपि न गामुच्चारयेच्चिरम्।।
तुष्टस्तस्याब्रवीद्वह्निर्जीवं जीव वदामि ते ।।१८।।
यस्मान्न किञ्चिदुक्तं ते तस्माच्चित्र तनूरुहाः ।।
जीव जीव पुनर्जीव यावदिच्छा तथायुषः ।। १९ ।।
द्वितीयं ते वरं दद्मो जीवजीवक शोभनम् ।।
व्यक्ता ते मानुषी वाचा स्पष्टार्था च भविष्यति ।। 4.93.२० ।।
कश्चिद्यदि तवाधस्थाद्बुधः स्नानं करिष्यति ।।
वंध्या वा षोडशाब्दीया क्षणाद्बालो भविष्यति ।। २१ ।।
मासं यश्च तृतीयं वै भक्षयिष्यत्यनिंदितम् ।।
अजरः सोऽमरश्चैव सर्वकालं भविष्यति ।। २२ ।।
इदं दत्त्वा वरांस्तस्य वह्नित्वमथ आप्तवान् ।।
विबुधा अपि तत्रैव तमदृश्यंत वंशगम् ।। २३ ।।
ऊष्मया जातकल्माषं ज्ञात्वा संहृष्टमानसः ।।
तुष्टा वंशमथोचुस्ते देवास्त्रिभुवनेश्वराः ।। २४ ।।
ऊष्मया कल्मषीभूय ह्यग्निर्गर्भं धरिष्यति ।।
यो गृही वैणवीं यष्टिं ब्रह्मचारी च नैष्ठिकः ।। २५ ।।
पंडाग्निपालने पुण्यं यद्दृष्टं ब्रह्मवादिभिः ।।
वदंतं कल्मषीयष्टिस्तं प्राप्नोति द्विजोत्तमम् ।। २६ ।।
वंशस्यानुग्रहं कृत्वा देव्याहृतिमथाब्रुवन् ।।
गृह्णीत शुक्रं भद्रस्य तव पुत्रो भविष्यति ।। २७ ।।
।। युधिष्ठिर उवाच ।। ।।
यदाग्निर्नष्टो देवानां केनाग्नित्वं तदा कृतम् ।।
भूयोऽपि केन कालेन अग्निरग्नित्वमाप्तवान् ।। २८ ।।
।। कृष्ण उवाच ।। ।।
शृणु राजन्प्रनष्टेऽग्नौ येनाग्नित्वं कदाचन ।।
यस्मिन्काले तिथी यस्या पुनरग्नित्वमाप्तवान् ।। २९ ।।
उतथ्याङ्गिरसोः पूर्वमासीद्व्यतिकरो महान् ।।
अहं विद्यातपोभ्यां वै तव ज्यायाञ्छ्रुतेन च ।।
उतथ्येनैवमुक्तस्तु अङ्गिराः प्राह तं मुनिम् ।।4.93.३०।।
गच्छावो ब्रह्मसदनं मरीचिप्रमुखैर्द्विजैः ।।
उपेतं चान्यमुनिभिर्ब्रह्मराजर्षिसत्तमैः ।।
उतथ्यः प्राह सद्ब्रह्मनृषींस्तान्स्तब्धमानसः ।। ३१ ।।
ज्यायान्वा कतमोस्माकमिति नः कथ्यतां स्फुटम् ।। ३२ ।।
अथोवाच मुनिर्ब्रह्मा तावुभौ कुद्धमानसौ ।।
आनयध्वं द्रुतं गत्वा विबुधान्भुवनेश्वरान् ।।३३।।
ततो विवादं पश्यामि भवतां तैः समेत्य च ।।
ततस्तौ सहितौ नत्वाऽऽनिन्यतुश्च ऋषींस्तदा ।।३४।।
लोकपालान्महेंद्रादीन्सयमान्वारुणानिलान्।।
साध्यान्मरुद्गणान्विष्वानृषीन्भृग्वग्निनारदान् ।। ।। ३५।।
गंधर्वान्वित्तरक्षोघ्नान्राक्षसान्दैत्यदानवान् ।।
नायातस्तत्र तिग्मांशुः सर्वे चान्ये समागताः ।। ३६ ।।
दृष्ट्वा तु विबुधान्सर्वान्ब्रह्मा प्रोवाच तानृषीन् ।।
आनयध्वमितः सूर्यं साम्ना दंडेन वा पुनः ।। ३७ ।।
एवमुक्तो गतस्तावदुतथ्यः सूर्यमंडलम् ।।
स गत्वा प्राह मार्तण्डं शीघ्रमेह्येव संविदम् ।। ३८ ।।
स उतथ्यमथोवाच कथं ब्रह्मन्व्रजाम्यहम् ।।
एवमुक्त्वा गतः सूर्यो भुवने मयि निर्गते ।। ३९ ।।
एवमुक्तो मुनिः प्रायात्सर्व देवसमागमम् ।।
आचचक्षे च यत्प्रोक्तं भास्वता तपनं प्रति ।। 4.93.४० ।।
उवाचाङ्गिरसं ब्रह्मा शीघ्रमेनं त्वमानय ।।
स तथोक्तो गतस्तत्र यत्रासौ तपते रविः ।। ४१ ।।
एह्येहि भगवन्सूर्य तप्यते भवतान्वहम् ।।
एवमुक्तो गतः सूर्यो यत्र देवाः समागताः ।। ४२ ।।
स्थित्वा मुहूर्तं प्रोवाच किं वा कार्यमुपस्थितम् ।।
पृच्छन्तमेव मार्तंर्डं ब्रह्मा प्रोवाच सादरम् ।। ४३ ।।
गच्छ शीघ्रं न दहते भुवनं यावदंगिराः ।।
लब्धप्रायं तु गोलोकं वर्तते कृष्णपिंगलम् ।। ४४ ।।
पाटलो हरितः शोणः श्वेतो वर्णः प्रणाशितः ।।
शाकद्वीपं कुशद्वीपं क्रौञ्चद्वीपं सपन्नगम् ।।
दग्धमङ्गिरसा सर्वं भूयोऽपि प्रदहिष्यति ।।४५।।
यावच्च दहते सर्वं भुवनं तपसांगिराः ।।
गच्छ तावदितः शीघ्रं स्वस्थाने तप भास्कर ।। ४६ ।।
एवमुक्तः स विभुना स्वस्थानमधिरूढवान् ।।
विसृष्टवानंगिरसं सकाशममृताशिनाम् ।। ४७ ।।
गत्वाङ्गिरा उवाचेदं गतः किं करवाण्यहम् ।।
देवा अंगिरसं प्राहुस्तपोराशिमकल्मषम् ।। ४८ ।।
संप्रशस्योचुरग्नित्वं कुरु तावन्महीतले ।।
पूर्वं यथाग्निः कृतवांस्तथा त्वमपि सत्तम ।। ४९ ।।
यावदग्निं प्रपश्यामः क्वासौ नष्टः क्व तिष्ठति ।।
एवमुक्तः स देवैस्तु अग्नित्वं कृतवांस्तदा ।। 4.93.५० ।।
देवैर्दृष्टो यथा ह्यग्निस्तत्ते सर्वं निवेदितम् ।।
देवकार्ये कृते तस्मिन्देवा वह्नि मथाब्रुवन् ।। ५१ ।।
अग्नेऽग्नित्वं कुरुष्व त्वमंगिरास्तु यथा पुरा ।।
एवमुक्तः सुरैर्वह्निश्चिन्तयामास दुःखितः ।। ५२ ।।
को मेऽपहृतं तेजः केनाग्नित्वं कृतं त्विह ।।
दृष्ट्वाथाग्निरङ्गिरसं तेजोराशिमकल्मषम् ।। ५३ ।।
उवाच मुञ्च मत्स्थानं वचस्तोषकरं शृणु ।।
अहं ते तनयश्चेष्टो भविष्ये प्रथमे शुभे ।। ५४ ।।
बृहस्पतीति नामा वै तथान्ये बहवः सुताः ।।
एवमुक्तो मुनिस्तुष्टो बहूंश्चाजनयत्सुतान् ।। ५५ ।।
वह्निं संजनयामास पुत्रान्पौत्रांस्तदांगिराः ।।
अवाप पुनरग्नित्वमग्निस्तस्यां तिथौ नृप ।। ५६ ।।
सर्वमेव चतुर्दश्यां संजातं हव्यवाहनम् ।।
हव्यवाहन देवानां भूतानां गुह्यचारितम् ।। ५७ ।।
ततोऽष्टपतिपत्वे च रुद्रेण प्रतिपादितम् ।।
पूजितेयं तिथिर्देवैर्दिविस्थैश्च नृपैरपि ।। ५८ ।।
पैलजाबालिमन्वाद्यैरन्यैश्च नहुषादिभिः ।।
विषशस्त्रहतानां च संग्रामेन्यत्र ते क्वचित् ।। ५९ ।।
अज्ञातावृषपापैश्च व्यालैर्ये व्याप्य हिंसिताः ।।
नदीप्रवाह पतितः समुद्रे पर्वतेऽध्वनि ।। 4.93.६० ।।
पतिताः पर्वतेभ्यश्च तोयाग्निदहने मृताः ।।
उदध्या पातिता ये च ये के चात्महनो जनाः ।।
तेषां शस्तं चतुर्दश्यां श्राद्धं स्वर्गसुखप्रदम् ।।६१ ।।
श्राद्धानि चैव दत्तानि दानानि सुलघून्यपि ।।
प्रसूनफलभोज्यानि उपतिष्ठंति तान्नरान् ।। ६२ ।।
एवं तिथिरियं राजन्नाग्नेयी प्रोच्यते जनैः ।।
रौद्रीं च केचिदित्याहू रुद्रोग्निः स च पठ्यते ।। ६३ ।।
यस्यां मनोरथं यंयं समुद्दिश्य ह्युपोषति ।।
ददाति तस्य तद्वह्निः साग्रे संवत्सरे गते ।। ६४ ।।
चतुर्दश्यां निराहारः समभ्यर्च्य त्रिलोचनम् ।।
पुष्पधूपादिनैवेद्यै रात्रौ जागरणान्नरः ।।
पञ्चगव्यं निशि प्राश्य स्वप्याद्भूमौ विमत्सरः ।। ६५ ।।
श्यामाकमथ वा भुक्त्वा तैलक्षारविवर्जितम् ।।
होमः कृष्णतिलैः कार्यः शतमष्टोत्तरं नृप ।। ।। ६६ ।।
अग्नये हव्यवाहनाय सोमायांगिरसे नमः ।।
ततः प्रभाते विमले स्नाप्य पंचामृतैः शिवम् ।। ६७ ।।
पूजयित्वा विधानेन होमं कृत्वा तथैव च ।।
उदीरयेन्मन्त्रमेतं कृत्वा शिरसि चांजलिम् ।। ६८ ।।
नमस्त्रिमूर्तये तुभ्यं नमः सूर्याग्निरूपिणे ।।
पुत्रान्यच्छ सुखं यच्छ मोक्षं यच्छ नमोऽस्तु ते ।। ६९ ।।
नीराजनं ततः कृत्वा पश्चाद्भुंजीत वाग्यतः ।।
एवं संवत्सरस्यांते कृत्वा सर्वं यथोदितम् ।। 4.93.७० ।।
सौवर्णं कारयेद्देवं त्रिनेत्रं शूलपाणिनम् ।।
वृषस्कंधगतं सौम्यं सितवस्त्रयुगान्वितम् ।। ७१ ।।
चन्दनेनानुलिप्ताङ्गं सितमाल्योपशोभितम् ।।
स्थापयित्वा ताम्रपात्रे ब्राह्मणाय निवेदयेत् ।।
सर्वकालिकमेतत्ते कथितं व्रतमुत्तमम् ।। ७२ ।।
संवत्सरं समाप्तं हि व्रतस्य तु यदा भवेत् ।।
काले गते बहुतिथे तीर्थस्य शरणं भवेत् ।।
मृतस्य देहो दिव्यस्थो दिव्यालंकारभूषितः ।।७३।।
दिव्यनारीगणवृतो विमानवरमास्थितः।।
देवदैवैः समः शंभोः क्रीडति त्रिपुरे चिरम् ।। ।। ७४ ।।
इह चागत्य कालांते जातः स च नृपो भवेत् ।।
दाता यज्वा धनी दक्षो ब्राह्मणो ब्राह्मणप्रियः ।। ७५ ।।
श्रीमान्वाग्मी कृती धीमान्पुत्रपौत्रसमन्वितः ।।
पत्नीगणसम्रायुक्तश्चिरं भद्राणि पश्यति ।। ७६।।
ये दुर्ल्लभा भुवि सुरोरगमानवानां कामा ह्यनुत्तमगुणेन युताः सदैव ।।
ताना प्नुवंति सितभूततिथौ सुरेशं संपूज्य सोमतिलकं विधिवन्मनुष्याः ।। ७७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृ्ष्णयुधिष्ठिरसंवादे आग्नेयीचतुर्दशीव्रतवर्णनं नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।