भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८८

विकिस्रोतः तः

मन्दारकनिम्बार्कव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
ब्रूहि मे यदुशार्दूल व्रतं गन्धविनाशनम् ।।
कटुतिक्ताम्लदेहोत्थदौर्भाग्यशमनं तथा।।१।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
इमं प्रश्नं पुरा पार्थ जातूकर्ण्यो महामुनिः ।।
पृष्टो राज्ञ्या विष्णुभक्त्या कालनंदनजातया ।। २ ।।
कथयामास संपृष्टा सूपविष्टा शृणोति सा ।।
देवी कृताञ्जलिपुटा जातूकर्ण्योवदद्व्रतम् ।। ३ ।।
ज्येष्ठे मासि सिते पक्षे त्रयोदश्यां युधिष्ठिर ।।
स्नात्वा पुण्यनदीतोये पूजयेच्छुभदेशजम् ।।४।।
श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ।।
निंबं च सूर्यदेवस्य वल्लभं दुर्लभं तथा ।।५।।
पुष्पैर्नैवेद्यधूपाद्यैर्मंत्रेणानेन पांडव ।।
निरीक्ष्य गगने सूर्यं ध्यात्वा हृदि समुच्चरेत् ।।६।।
सूर्यं श्वेतारमंदारश्वेतार्कास्यसंशयम् ।।
करवीर नमस्तुभ्यं निंबवृक्ष नमोऽस्तु ते ।। ७ ।।
इत्थं योर्कपतेर्भक्त्या वर्षेवर्षे पृथङ् नरः ।।
मूलमंत्रेण नृश्रेष्ठ नारी वा भक्तिसंयुता ।।
तस्याः शरीरदौर्गन्ध्यं दौर्भाग्यं वा अजाविकम् ।।६।।
निंबं नवार्ककरवीरलतां सुपुष्पां याः पूजयंति कुसुमाक्षतधूपदीपैः ।।
ताः सर्वकामसुखभोगसमृद्धिभाजो दौर्भाग्यदोषरहिताः सुभगा भवंति ।।९।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिम्बार्ककरवीरव्रतवर्णनं नामाष्टाशीतितमोऽध्यायः ।। ८८ ।।