भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७६

विकिस्रोतः तः

विजयश्रवणद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
द्वादश्यास्ते विधिः प्रोक्तः श्रावणे यो युधिष्ठिर ।।
सर्वपापप्रशमनः सर्वसौख्यप्रदायकः ।। १ ।।
एकादशी यदा सा स्याच्छ्रवणेन समन्विता ।।
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ।। २ ।।
बलवानजितो दैत्यो बलिर्नामा महाबलः ।।
तेन देवगणाः सर्वे त्याजिताः सुरमंदिरम् ।।
ततो देवा महाविष्णुं गत्वा वचनमूचिरे ।।
त्वं गतिः सर्वदेवानां शीघ्रं कष्टात्समुद्धर ।। ४ ।।
जहि दैत्यं महाबाहो बलिं बलनिषूदन ।।
श्रुत्वा विष्णुस्तदा वाक्यं देवानां करुणोदयम् ।। ५ ।।
उवाच वाक्यं कालज्ञो देवानां हितकाम्यया ।।
जाने वैरोचनिं दैत्यं बलिं त्रैलोक्यकण्टकम् ।। ६ ।।
तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् ।।
मद्भक्तं मद्गतप्राणं सत्यसन्धं महाबलम् ।।
तपसोन्तः सुबहुना काले नास्य भविष्यति ।। ७ ।।
यदा विनयसम्पन्नं ज्ञास्ये कालेन केनचित् ।।
समाहृत्य प्रियं तस्य तदा दास्ये दिवौकसाम् ।। ८ ।।
अदितिर्मां प्रपन्ना वै पुत्रार्थे पुत्रलोभिनी ।।
तस्यामतिहितं देवाः करिष्ये नात्र संशयः ।। ९ ।।
तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् ।।
तद्गच्छध्वं निरुद्विग्नाः कालः कश्चित्प्रतीक्ष्यताम् ।। 4.76.१० ।।
एवमुक्ता गता देवाः कार्यं विष्णुरचिंतयत् ।।
सा चिन्तयित्वा सुचिरं देव्या गर्भावतारणम् ।।
अदितिर्वरयामास वांछितं मे भविष्यति ।। ११ ।।
अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत् ।।
सुषुवे नवमे मासि पुत्रं सा वामनं हरिम् ।। १२ ।।
ह्रस्वपादं ह्रस्वकायं महच्छिरसमर्भकम् ।।
पाणिपादोदरकृशं स्वयं नारायणं हरिम् ।। १३ ।।
दृष्ट्वा तु वामनं जातं यदि सा वक्तुमुद्यता ।।
निरुद्धवाक्या ह्यभवद्वक्तुं किंचिन्न पारितम् ।। १४ ।।
एकादश्यां भाद्रपदे श्रवणेन नरोत्तम ।।
संचचाल मही जाते वामने तु त्रिविक्रमे ।। १५ ।।
भयं बभूव दैत्यानां देवानां तोष आभवत् ।।
जातकर्मादिकांस्तस्य संस्कारान्स्वयमेव हि ।। १६ ।।
चकार कश्यपो धीमान्प्रजापतिरनुद्यतः ।।
आबद्धमेखलो दंडी धृत्वा यज्ञोपवीतकम् ।। १७ ।।
कुशस्वच्छोदकधरः कमंडलुविभूषितः ।।
बलेर्बलवतो यज्ञं जगाम बहुविस्तरम् ।। १८ ।।
दृष्ट्वा बलिमथोवाच वामनोऽभ्येत्य तत्क्षणम् ।।
अथ चाह यज्ञपते दीयतां मम मेदिनी ।। १९ ।।
पादत्रयप्रमाणेन पठनार्थे स्थितो ह्यसि ।।
दत्तादत्ता तव मया बलिः प्राह द्विजोत्तमम् ।। 4.76.२० ।।
ततो वर्द्धितुमारब्धो वामनोऽनंतविक्रमः ।।
पादौ भूमौ प्रतिष्ठाप्य शिरसावृत्य रोदसी ।। २१ ।।
ताभ्यामिंद्रादिकाँल्लोकाँल्ललाटे ब्रह्मणः पदम् ।।
न तृतीय पदं लेभे ततो नेदुर्दिवौकसः ।। २२ ।।
तद्दृष्ट्वा महदाश्चर्यं सिद्धा देवर्षयस्तथा ।।
साधुसाध्विति देवेशं प्रशशंसुर्मुदान्विताः ।।२३।।
ततो दैत्यगणान्सर्वाञ्जित्वा त्रिभुवनं वशी ।।
बलिमाह ततो गच्छ सुतलं स्वबलानुगः ।। २४ ।।
तत्र त्वमीप्सितान्भोगान्भुक्त्वा मद्बाहुपालितः ।।
अस्येंद्रस्यावसाने तु त्वमेवेन्द्रो भविष्यसि ।। २५ ।।।।।
एवमुक्तो बलिः प्रायान्नमस्कृत्य नरोत्तमम् ।।
विसृज्येमं बलिं देवान्सकलान्स उवाच ह ।। २६ ।।
स्वानि धिष्ण्यानि गच्छध्वं तिष्ठध्वं विगत ज्वराः ।।
देवेनोक्ता गता देवा हृष्टाः संपूज्य वामनम् ।। २७ ।।
देवः कृत्वा जगत्कार्यं तत्रैवांतर्द्धिमागमत् ।।
एतत्सर्वं समभवदेकादश्यां नराधिप।।।
तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः ।। २८ ।।
एषा वै फाल्गुने मासि पुष्येण सहिता नृप ।।
विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा ।।२९।।
एकादश्यां सोपवासो रात्रौ संपूजयेद्धरिम् ।।
रौप्ये सौवर्णपात्रे वा दारुवंशमयेऽपि वा ।। 4.76.३० ।।
कुंडिकां स्थापयेत्पार्श्वे छत्रं वै पादुके तथा ।।
शुभां च वैष्णवीं यष्टिं तथा सूत्रकमडलू ।। ३१ ।।
आच्छाद्य पात्रं वासोभिः फलैश्चापि सुशोभनैः ।।
मार्गचार्मणगन्धैश्च भक्त्या वा मृगचर्मणा ।। ३२ ।।
तिलाढकेन वित्ताढ्यः प्रस्थेन कुडवेन वा ।।
व्रीहिभिर्वाथ गोधूमैः फलैः शुक्लतिलैर्भवेत् ।। ३३ ।।
पुष्पैर्गंधैर्धूपदीपैः पक्वान्नै रर्चयेद्धरिम् ।।
नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडौदनैः ।। ३४ ।।
स्वस्ववित्तानुसारेण सहिरण्यं च कारयेत् ।।
मंत्रैः शतगुणं चैव भक्त्या लक्ष गुणोत्तरम् ।।
भक्तिमांश्च गुणोपेतं कोटिकोटिगुणोत्तरम् ।। ३५ ।।
एभिर्मंत्रपदैस्तत्र पूजयेद्गरुडध्वजम् ।।
उपहारैर्नरश्रेष्ठ शुचिर्भूत्वा समाहितः ।। ।। ३६ ।।
ॐ जलजोपमदेहाय जलजास्याय शंखिने ।।
जलराशिस्वरूपाय नमस्ते पुरुषोत्तम ।। ३७ ।।
नमः कमलनाभाय नमस्ते जल शायिने ।।
नमस्ते केशवानंत वासुदेव नमोऽस्तु ते ।। ३८ ।। इति स्नानमंत्रः ।।
मलयेषु समुत्पन्नं गन्धाढयं सुमनोहरम् ।।
मया निवेदितं तुभ्यं गृहाण परमेश्वर ।। ३९ ।। इति चन्दनमंत्रः ।।
वनस्पतिसमुत्पन्नं गन्धाढ्यं सुमनोहरम् ।।
मया निवेदितं पुष्पं गृहाण पुरुषोत्तम ।। 4.76.४० ।। इति पुष्पमन्त्रः ।।
नमः कमलकिंजल्कपीतनिर्मलवाससे ।।
मनोहरवपुःस्कन्धधृतचक्राय शार्ङ्गिणे ।। ४१ ।। इति पूजामंत्रः ।।
मत्स्यः कूर्मो वरा हश्च नारसिंहश्च वामनः ।।
रामो रामश्च कृष्णश्च नामभिर्वामनाय ते ।।
पादाद्यैकैकांगस्य पूजनं शीर्षगं ततः ।। ४२ ।। इति सर्वांगपूजा ।।
धूपोऽयं देवदेवेश शंखचक्रगदाधर ।।
अच्युतानंत गोविन्द वासुदेव नमोऽस्तु ते ।। ४३ ।। इति धूपमंत्रः ।।
त्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च ।।
त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।। ४४ ।। इति दीपमंत्रः ।।
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।।
भक्ष्यभोज्यसमायुक्तं प्रसीद परमेश्वर ।। ४५ ।।
अन्नं प्रजापतिर्विष्णू रुद्रेंद्रशशिभास्कराः ।।
अन्नं त्वष्टा यमोऽग्निश्च पापं हरतु मेऽव्ययः ।। ४६ ।। इति नैवेद्यमंत्रः ।।
जगदादिर्जगदूपमनादिर्जगदंतकृत् ।।
जलाशयो जगद्योनिः प्रीयतां मे जनार्दनः ।। ४७ ।। इति प्रीणनमंत्रः ।।
अनेककर्मनिर्बंधध्वंसिनं जल शायिनम्।।
नतोऽस्मि मथुरावासं माधवं मधुसूदनम् ।। ४८ ।।
नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम ।।
नमस्ते मणिबन्धाय वासुदेव नमोऽस्तु ते ।। ४९ ।। इति नमस्कारमंत्रः ।।
नमो नमस्ते गोविन्द वामनेश त्रिविक्रम ।। 4.76.५० ।।
अघौघसंक्षयं कृत्वा सर्वकामप्रदो भव ।।५१।। इति प्रार्थनामंत्रः ।।
सर्वगः सर्वदेवेशः श्रीधरः श्रीनिकेतनः ।।
विश्वेश्वरश्च विष्णुश्च श्रीशायी च नमोनमः ।।५२।। इति शयनमंत्रः ।।
एवं संपूज्य यो रात्रावेकादश्यां नृपोत्तम ।।
जागरं तत्र कुर्वीत गीतवादित्रनिस्वनैः ।। ५३ ।।
या च श्रवणसंयुक्ता द्वादशी परमा तिथिः ।।
तस्यां च संगमे स्नात्वा सर्वपापैः प्रमुच्यते ।। ५४ ।।
एवं संपूज्य यत्नेन प्रभाते विमले सति ।।
प्रदेयं शास्त्रविदुषे ब्राह्मणाय च मंत्रतः ।। ५५ ।।
ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णीत मंत्रवत् ।।
वामनोऽस्य प्रतिग्राही वामनाय नमोनमः ।। ५६ ।।
( ॐ गुह्ये । ॐ शिरसि । ॐ पादयोः । ॐ नाभौ ।। ॐ भुजयोः । ॐ सर्वांगे । सर्वात्मने नमः ।।)
पुष्पं फलं च नैवेद्यं सर्वमेतद्यथाविधि ।।
नरो दद्यादुपोष्यैवमेकादश्यां समंत्रकम् ।। ५७ ।।
पूर्वोक्तविधिना प्रातर्भोजनं पृषदाज्यकम् ।।
पूर्वं दत्त्वा ब्राह्मणेभ्यः पश्चाद्भुञ्जीत वाग्यतः ।। ५८ ।।
भूयोभूयोऽपि राजेंद्र सर्वत्रैवं विधिः स्मृतः ।।
समाप्ते तु व्रते राजन्यत्पुण्यं तन्निबोध मे ।। ५९ ।।
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया ।।
प्राप्य विष्णुपुरे राजन्क्रीडते कालमक्षयम् ।। 4.76.६० ।।
इहागत्य भवेद्राजा प्रतिपक्षक्षयंकरः ।।
हस्त्यश्वरथपत्तीनां दाता भोक्ता विमत्सरी ।। ६१ ।।
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ।।
पुत्रैः परिवृतो जीवो जीवेच्च शरदः शतम् ।। ६२ ।।
एतस्याः फलमाख्यातमेकादश्या मया तव ।।
पूर्वमेव समाख्याता द्वादशी श्रवणान्विता ।। ६३ ।।
उपोष्यैकादशीं पश्चाद्द्वादशीमप्युपोषयेत् ।।
न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ।। ६४ ।।
(एकादशीद्वादश्योरन्यतरस्यां श्रवणयुक्तायां श्रवणयुक्तोपवासेनैव बतद्वयसिद्धिः ।।
एकस्मिन्व्रते पूर्वमन्यां तिथिमुपोष्य पश्चादपारयित्वैवान्योपोष्यत इति यो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः) ।।
बुधश्रवणसंयुक्ता द्वादशी संगमोदकम् ।।
दानं दध्योदनं सत्यमुपवासः परो विधिः ।। ६५ ।।
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ।।
एतैश्चान्यैश्च राजेंद्र कृतं वै द्वादशीव्रतम् ।। ६६ ।।
सा द्वादशी बुधयुता श्रवणेन साकं स्याद्वै जयाय कथिता ऋषिभिर्नभस्ये ।।
तामादरेण समुपोष्य नरोऽमरत्वं प्राप्नोति पार्थ अणिमादिगुणोपपन्नम् ।। ६७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयश्रवणद्वादशीव्रतवर्णनं नाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।