भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७४

विकिस्रोतः तः
Jump to navigation Jump to search

भीमद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
विदर्भाधिपतिः श्रीमानासीत्पूर्वं सुधार्मिकः ।।
दमयंत्याः पिता पूर्वं नलस्य श्वशुरो भुवि ।। १ ।।
सत्यवादनशीलश्च प्रजापालनतत्परः ।।
क्षत्रधर्मरतः श्रीमान्संग्रामेष्वपराजितः ।। २ ।।
तस्यापि कुर्वतो राज्यं शास्त्रदृष्टेन कर्मणा ।।
आजगाम महाभागः पुलस्त्यो ब्रह्मणः सुतः ।। ३ ।।
सर्वज्ञाननिधिः श्रीमांस्तीर्थयात्राप्रसंगतः ।।
तमागतमथो दृष्ट्वा ब्रह्मयोनिमकल्मषम् ।। ४ ।।
उत्थाय प्रददौ राजा स्वमासनमभीप्सितम् ।।
अर्घं पाद्यं च यत्किञ्चित्तत्तस्मै प्रददौ स्वयम् ।। ५ ।।
राज्यं चैवात्मना सार्द्धं निवेद्य स कृतांजलिः ।।
तेन चैवाभ्यनुज्ञातो निषसाद वरासने ।। ६ ।।
पप्रच्छ कुशलप्रश्नं तपस्यध्ययने तथा ।।
तथेति चोक्त्वा स मुनिस्तं राजानमभाषत ।। ७ ।।
।। पुलस्त्य उवाच ।। ।।
कच्चित्ते कुशलं राजन्कोशे जनपदे पुरे ।।
धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते ।। ८ ।।
।। भीम उवाच ।। ।।
सर्वत्र कुशलं ब्रह्मन्येषां कुशलमिच्छसि ।।
तव चागमनेनाहं पावितः संगवारिणा ।। ९ ।।
एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् ।।
रेमाते पूर्ववृत्तांतैः कथाभिरितरेतरम् ।। 4.74.१० ।।
ततः कथांते राजेन्द्र पुलस्त्यं जातविस्मयः ।।
पप्रच्छ सर्वलोकस्य हिताय जगतः पतिः ।। ११ ।।
भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः ।।
दृश्यंते विविधैर्दुःखैः पीड्यमाना दिवानिशम् ।। १२ ।।
नरके गर्भवासे च व्याधिभिर्जन्मना तथा ।।
तथा कष्टवियोगा दिदुःखैर्दौर्गत्यसंभवैः ।।१३।।
लालप्यमाना बहवः परपीडोपजीविनः ।।
एवं विधान्यनेकानि दुःखानि मुनिपुङ्गव ।।१४।।
दृष्ट्वैव तानि तान्येव भृशं मे व्याधितं मनः ।।
तेषां दुःखानि भूतानां प्राणिनां भुवि मानद ।। १५ ।।
उपकारकरं ब्रूहि ममानुग्रहकाम्यया ।।
स्वल्पायासेन भगवञ्जायते सुमहत्फलम् ।। १६ ।।
।। पुलस्त्य उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ।।
यदुपोष्य न दुःखानां भाजनो जायते जनः ।। १७ ।।
माघमासे सिते पक्षे द्वादशी पावनी स्मृता ।।
तस्यां जलार्द्रवसन उपोष्य सुखभाग्भवेत् ।। १८ ।।
।। भीम उवाच ।। ।।
कथं सा मुनिशार्दूल उपोष्या द्वादशी भवेत् ।।
विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्रमम् ।। १९ ।।
।। पुलस्त्य उवाच ।। ।।
शृणु राजन्नवहितो व्रतं पापप्रणाशनम् ।।
तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ।। 4.74.२० ।।
अदीक्षिताय नो देया नाशिष्याय कदाचन ।।
विष्णुभक्ताय शांताय धर्मनिष्ठाय चैव हि ।। २१ ।।
वाच्यमेतन्महाराज भवतान्यस्य न क्वचित् ।।
ब्रह्महा गुरुघाती च बालस्त्रीघातकस्तथा ।। २२ ।।
कृतघ्नो मित्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा ।।
मुच्यते पातकैः सर्वैर्व्रतेनानेन भूपते ।। २३ ।।
शुद्धे तिथौ मुहूर्ते च मंडपं कारयेत्ततः ।।
दशहस्तप्रमाणेन दशपूर्वोत्तरे प्लवे ।। २४ ।।
तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत् ।।
शुक्लां सुकुट्टिमां भूमिं वेद्यां कृत्वा प्रयत्नतः ।। २५ ।।
विलिखेन्मंडलं तत्र पंचवर्णैर्विधानतः ।।
ब्राह्मणो वेदसंपन्नो विष्णुभक्तो जितेन्द्रियः ।। २६ ।।
पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तथा ।।
कुंडानि कल्पयेत्तत्र अष्टौ चत्वारि वा पुनः ।।२७।।
ब्राह्मणांस्तेषु युंजीत चातुश्चरणिकाञ्छुभान् ।।
मध्ये च मंडलस्याथ कर्णिकायां जनार्दनम् ।।२८ ।।
प्रत्यङ्मुखं न्यसेद्देवं चतुर्बाहुमरिंदम ।।
पूजयेत्तं विधानेन शास्त्रोक्तेन विचक्षणः ।। २९ ।।
गन्धैः पुष्पैस्तथा धूपैर्नैवेद्यैर्विविधैरपि ।।
एवं संपूज्य देवेशं ब्राह्मणैः सह देशिकः ।। 4.74.३० ।।
न्यसेत्स्तंभद्वयं पश्चात्तिष्ठन्काष्ठसमन्वितम् ।।
देवस्याभिमुखं तत्र पीठं तु परिकल्पयेत् ।। ३१ ।।
षट्त्रिंशदंगुलं श्रेष्ठं चतुरस्रं समंततः ।।
तत्र शिक्यं समालंब्य सुवृत्तं सुदृढं नवम् ।। ३२ ।।
आरोपयेद्धटं तत्र यादृशं तच्छृणुष्व मे ।।
कलधौतं तथा रौप्यं ताम्रं वाप्यथ मृन्मयम् ।। ३३ ।।
सर्वलक्षणसंयुक्तं दृढं व्यंगविवर्जितम् ।।
तत्सहस्रं शतं कुर्यादेकच्छिद्रमथापि वा ।। ३४ ।।
कुशलत्वानुरूपेण पाशैकच्छिद्रमेव वा ।।
सन्निधाने ततः कुर्यात्सलिलं वस्त्रपावनम् ।। ३५ ।।
होमार्थं कल्पयेच्चापि पालाश्यः समिधः शुभाः ।।
तिला घृतं तथा क्षीरं शमीपत्राणि चैव हि ।। ३६ ।।
वेद्याः पूर्वोत्तरे भागे ग्रहपीठं प्रकल्पयेत् ।।
तत्र पूज्या ग्रहाः सर्वे ग्रह यज्ञविधानतः ।। ३७ ।।
पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः ।।
दक्षिणस्यां यमस्याथ प्रतीच्यां वरुणस्य च ।। ३८
कुबेरस्य तथोदीच्यां बलिं कुर्यात्फलाक्षतैः ।।
एवं संभृत्य संभारं शुक्लांबरधरस्तथा ।। ३९ ।।
समालभ्य शुभैर्गंधैर्द्दर्भपाणिरतंद्रितः ।।
पीठमारोपयेयुस्ते यजमानं द्विजोत्तमाः ।।4.74.४० ।।
यजमानोऽपि देवस्य संमुखः प्रयतः शुचिः ।।
उपविश्य पठेन्मंत्रं पुराणोक्तमिदं शृणु ।। ४१ ।।
नमस्ते देवदेवेश नमस्ते भुवने श्वर ।।
व्रतेनानेन मां पाहि परमात्मन्नमोस्तु ते ।। ४२ ।।
ततोदकस्य धारास्ताः प्रत्यंगषु समन्विताः ।।
शिरसा धारयेत्तूष्णीं तद्गतेनांतरात्मना ।। ।। ४३ ।।
होमं कुर्युस्ततो विप्रा दिक्षु सर्वासु तत्पराः ।।
पठेयुः शांतिकाध्यायं विष्णुसंज्ञानि यानि वै ।। ४४ ।।
वादित्रैस्ताड्यमानैश्च शंखगेय स्वनैस्तथा ।।
पुण्याहजयशब्दैश्च वेदस्वनविमिश्रितैः ।। ४५ ।।
मंगलैः स्तुतिसंयुक्तैः कारयेत्तन्महोत्सवम् ।।
देवदेवस्य चरितं केशवस्य महाच्मनः।।४६।।
हरिवंशादिकं सर्वं श्रावयेद्ब्राह्मणो वरः ।।
सोपर्णिकमथाख्यानं भारताख्यानमेव च ।। ४७ ।।
व्याख्यानकुशलाः केचिच्छ्रावयेयुरतंद्रिताः ।।
अनेन विधिना सर्वां तां रात्रिं प्रीतिवर्द्धिनीम् ।। ४८ ।।
यजमानो नयेद्धीमान्यावत्सूर्योदयो भवेत् ।।
ब्राह्मणाश्चापि तां रात्रीं जुह्वतो जातवेदसम् ।। ४९ ।।
मंत्रैस्तु वैष्णवैर्दिव्यैः क्षपयेयुर्महीपते ।।
वासुदेवस्य शिरसि वसोर्द्धारां प्रपातयेत् ।। 4.74.५० ।।
क्षीरेणाज्येन वा राजन्सर्वसिद्धि प्रदायिनीम् ।।
ततः प्रभातसमये यजमानो द्विजैः सह ।।५१।।
स्नानं कुर्यान्नृपश्रेष्ठ नद्यां सरसि वा पुनः ।।
अथ वा शक्तिहीनस्तु यजमानोष्ण वारिणा ।। ५२ ।।
ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः ।।
अर्घ्यं दत्त्वा भास्कराय सविधानं प्रसन्नधीः ।। ५३ ।।
पुष्पैर्धूपैः सनैवेद्यैः पूजयेत्पु रुषोत्तमम् ।।
हुत्वा हुताशनं भक्त्या दत्त्वा पूर्णहुतिं ततः ।। ५४ ।।
पूजयेद्ब्राह्मणान्सर्वान्होतारो यज्ञकल्पिताः ।।
शय्याभोजनगोदानैर्वस्त्रैराभरणैस्तथा ।। ५५ ।।
आचार्यः पूजनीयोऽत्र सर्वस्वेनापि भारत ।।
येन वा तस्य संतुष्टिर्देवतुल्यो गुरुर्यतः ।। ५६ ।।
वित्तशाठ्यविहीनस्तु भक्तिशक्तिसमन्वितः ।।
दीनानाथविशिष्टाश्च बंदिनश्च समागताः ।। ५७ ।।
तेषामन्नं हिरण्यं च दद्याच्छुद्धेन चेतसा ।।
एवं संपूज्य विप्राय भोजयित्वा यथेप्सितम् ।। ५८ ।।
यथाविभवसारेण पश्चाद्भुंजीत वाग्यतः ।।
हविष्यमन्नं यज्ञेन हविष्या सतिलास्तथा ।। ५९ ।।
एवं यज्ञो महाराजश्चोक्तस्ते संप्रकीर्तितः ।।
पापिष्ठाः सर्वपापेभ्यो मुच्यंते नात्र संशयः ।। 4.74.६० ।।
वाजपेयातिरात्राभ्यां ये यजंति शतं समाः ।।
सर्वे ते विष्णुयागस्य कलां नार्हंति षोडशीम् ।। ६१ ।।
सप्त जन्मानि सौभाग्यमायुरारोग्यसंपदः ।।
प्राप्नोति द्वादशीमेतां तामुपोष्य विधानतः ।। ६२ ।।
मृतो विष्णुपुरं याति विष्णुना सह मोदते ।।
चतुर्युगानि द्वात्रिंशद्विष्णुरूपधरः स्थितः ।।६३।।
रुद्रलोके तथा राजन्युगानि द्वादशैव तु ।।
ब्रह्मलोके तथा त्रीणि सूर्यलोके युगानि च ।। ६४ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
पृथिव्यधिपतिः श्रीमान्विजितारिः प्रतापवान् ।। ६५ ।।
व्रतमेतत्पुरा चीर्णं सगरेण महात्मना ।।
अजेन धुंधुमारेण दिलीपेन ययातिना ।। ६६ ।।
अन्यैश्च पृथिवीपालैः पालिताशेषभूतलैः।।
स्त्रीभिर्वैश्यैस्तथा शूद्रैर्धर्मकामैः सदा नृप ।। ६७ ।।
भृग्वाद्यैर्मुनिभिः सर्वैर्ब्राह्मणैर्वेदपारगैः ।।
त्वया च पृष्टेन मया कथितं ते नराधिप ।। ६८ ।।
अद्यप्रभृति चैवेयं ख्यातिं यास्यति भूतले ।।
भीमाख्या द्वादशी चेति कृतकृत्या च भारत ।। ६९ ।।
एषा पुलस्त्यमुनिना कथिता कुरुनंदन ।।
यश्चैनां कथितां ध्यात्वा कुर्याद्वा भक्तिभावतः ।। 4.74.७० ।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।।
दरिद्रश्चापि भोः पार्थ वित्तशाठ्यं विवर्जयेत् ।।
विष्णुभक्तेन कर्तव्या संसारभयभीरुणा ।। ७१ ।।
भीमेन या किल पुरा समुपोषिता च रात्रौ घटस्थिरसुशतिलवारिधारा ।।
तां द्वादशी दशमु खारिमुखाच्छ्रुतां च सम्यग्व्रती चरति याति स विष्णुलोके ।। ७२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनं नाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।।