भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६९

विकिस्रोतः तः
Jump to navigation Jump to search

गोवत्सद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
अक्षौहिण्यो दशाष्टौ च मद्राज्यार्थे क्षयं गताः ।।
तेन पापेन मे चित्ते जुगुप्सातीव वर्तते ।। १ ।।
तत्र ब्राह्मणराजन्यवैश्यशूद्रादयो हताः ।।
भीष्मद्रोणकलिंगादिकर्णशल्यसुयोधनाः ।। २ ।।
तेषां वधेन यत्पापं तन्मे मर्माणि कृंतति ।।
पापप्रक्षालनं कञ्चिद्धर्मं ब्रूहि जगत्पते ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
सुमहत्पुण्यजननं गोवत्सद्वादशीव्रतम् ।।
अस्ति पार्थ महाबाहो पांडवानां धुरंधर ।। ४ ।। ।।
।। युधिष्ठिर उवाच ।। ।।
केयं गोद्वादशी नाम विधानं तत्र कीदृशम् ।।
कथमेषा समुत्पन्ना कस्मिन्काले जनार्दन ।। ५ ।।
एतत्सर्वं हरे ब्रूहि पाहि मां नरकार्णवात्।।६।।
श्रीकृष्ण उवाच।।
पुरा कृतयुगे पार्थ मुनिकोटिः समागता।।
तपश्चचार विपुलं नामव्रतधरा गिरौ।।७।।
हर्षेण महताविष्टा दैवदर्शनकांक्षया।।
जंबूमार्गे महापुण्ये नामतीर्थविभूषिते।।८।।
पारियात्रे सिद्धपात्रे रम्ये तंदुलिकाश्रमे।।
टंटाविरिति विख्याते उत्तमे शिखरे नृप ।। ९ ।।
तापसारण्यमतुलं दिव्यकाननमंडितम् ।।
वशिष्ठशुक्रांगिरसक्रतुदक्षादिभिर्वृतम् ।। 4.69.१० ।।
वल्कलाजिनसंवीतेर्भृगोराश्रममंडलम् ।।
नानामृगगणैर्जुष्टं शाखामृगगणैर्युतम् ।।११।।
प्रशांतसिंहहरिणं सर्ववस्तुगतद्रुमम् ।।
गहनं निर्ऋतं रम्यं लतासंतानसंकुलम् ।। १२ ।।
सिंहव्याघ्रगजैर्भिन्नं हरिणैः शबरैः शशैः ।।
वराहैरुरुभिश्चित्रैः समंतादुपशोभितम् ।। १३ ।।
तपस्यता तत्र तेषां मुनीनां दर्शनार्थिनाम् ।।
व्याजं चक्रे महीनाथ द्वादशार्धार्धलोचनः ।। १४ ।।
बभूव ब्राह्मणो वृद्धो जरापांडुरमूर्द्धजः ।।
श्लथच्चर्मतनुः कुब्जो यष्टिपाणिः सवेपथुः ।।
उमापि चक्रे गोरूपं शृणु तत्पार्थ यादृशम् ।। १५ ।।
क्षीरोदतोयसंभूता याः पुरामृतमंथने ।।
पञ्च गावः शुभाः पार्थ पञ्चलोकस्य मातरः ।। १६ ।।
नन्दा सुभद्रा सुरभी सुशीला बहुला इति ।।
एता लोकोपकाराय देवानां तर्पणाय च ।।१७।।
जमदग्निभारद्वाजवशिष्ठासितगौतमाः ।।
जगृहुः कामदाः पञ्च गावो दत्ताः सुरैस्ततः ।। १८ ।।
गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम् ।।
षडंगानि पवित्राणि संशुद्धिकरणानि च ।। १९ ।।
गोमयादुत्थितः श्रीमान्बिल्ववृक्षः शिवप्रियः ।।
तत्रास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन स स्मृतः ।।
बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् ।। 4.69.२० ।।
गोरोचना च मांगल्या पवित्रा सर्वसाधिका ।।
गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः ।।
आहारः सर्वदेवानां शिवस्य च विशेषतः ।। २१ ।।
यद्बीजं जगतः किञ्चित्तज्ज्ञेयं क्षीरसंभवम् ।।
दधुः सर्वाणि जातानि मङ्गलान्यर्थसिद्धये ।।
घृतादमृतमुत्पन्नं देवानां तृप्तिकारणम् ।। २२ ।।
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।।
एकत्र मन्त्रास्तिष्ठंति हविरन्यत्र तिष्ठति ।।२३।।
गोषु यज्ञाः प्रवर्तंते गोषु देवाः प्रतिष्ठिताः।।
गोषु वेदाः समुत्कीर्णाः सष डंगपदक्रमाः ।। २४ ।।
शृङ्गमूले गवां नित्यं ब्रह्मा विष्णुश्च संस्थितौ ।।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।। २५ ।।
शिवो मध्ये महादेवः सर्वकारणकारणम् ।।
सलाटे संस्थिता गौरी नासावंशे च षण्मुखः ।।२६।।
कंबलाश्वतरौ नागौ नासापुटसमाश्रितौ।।
कर्णयोरश्विनौ देवौ चक्षुर्भ्यां शशिभास्करौ ।। २७ ।।
दंतेषु वसवः सर्वे जिह्वायां वरुणः स्थितः ।।
सरस्वती च कुहरे यमयक्षौ च गण्डयोः ।। २८ ।।
संध्याद्वयं तथेष्टाभ्यां ग्रीवायां च पुरंदरः ।।
रक्षांसि ककुदे द्यौश्च पार्ष्णिकाये व्यवस्थिता ।। २९ ।।
चतुष्पात्सकलो धर्मो नित्यं जंघासु तिष्ठति ।।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ।। 4.69.३० ।।
खुराणां पश्चिमे भागे राक्षसाः संप्रतिष्ठिताः ।।
रुद्रा एकादश पृष्ठे वरुणः सर्वसन्धिषु ।। ३१ ।।
श्रोणीतटस्थाः पितरः कपोलेषु च मानवाः ।।
श्रीरपाने गवां नित्यं स्वाहालंकारमाश्रिताः ।। ३२ ।।
आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः।।
साक्षाद्गंगा च गोमूत्रे गोमये यमुना स्थिता ।। ३३ ।।
त्रयस्त्रिंशद्देवकोट्यो रोमकूपे व्यवस्थिताः ।।
उदरे पृथिवी सर्वा सशैलवनकानना ।। ३४ ।।
चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः ।।
पर्जन्यः क्षीरधारासु मेघा बिंदुव्यवस्थिताः ।।३५।।
जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्हृदिस्थितः ।।।
कण्ठे आहवनीयोऽग्निः सभ्योऽग्निस्तालुनि स्थितः ।। ३६ ।।
अस्थिव्यवस्थिताः शैला मज्जासु क्रतवः स्थिताः ।।
ऋग्वेदोऽथर्ववेदश्च सामवेदो यजु स्तथा ।। ३७ ।।
सुरक्तपीतकृष्णादौ गवां वर्णे व्यवस्थिताः ।।
तासां रूपमुमा स्मृत्वा सुरभीणां युधिष्ठिर ।। ३८ ।।
संस्मृत्य तत्क्षणाद्गौरी इयेष सदृशीं तनुम् ।।
आत्मानं विदधे देवी धर्मराज शृणुष्व ताम् ।। ३९ ।।
षडुन्नतां पञ्चनिम्नां मंडूकाक्षीं सुवालधिम् ।।
ताम्रस्तनीं रौप्यकटिं सुखुरीं सुमुखी सिताम् ।। 4.69.४० ।।
सुशीलां च सुतस्नेहां सुक्षीरां सुपयोधराम् ।।
गोरूपिणीमुमां स्पृष्ट्वा स्वामिनीं तां सवत्सिकाम् ।। ४१ ।।
चर्यया प्रतरन्हृष्टो महादेवः स्वचेतसि ।।
शनैःशनैर्ययौ पार्थ विप्ररूपी महाश्रमम् ।। ४२ ।।
दत्त्वा कुलपतेः पार्श्वं भृगोस्तां गां न्यवेदयत् ।।
तपस्विनां महातेजास्तां च सर्वेषु पांडव ।। ४३ ।।
न्यासरूपां ददौ धेनुं रक्षित्वा तां दिनद्वयम् ।।
यावत्स्नात्वा इतस्तीर्त्वा जंबूमार्गं वियाम्यहम् ।। ४४ ।।।
रक्षिष्यामः प्रतिज्ञाते मुनिभिः सुरभीमिमाम् ।।
अन्तर्द्धिमगमद्देवः पुनर्व्याघ्रो बभूव ह ।। ४५ ।।
वज्रचक्रनखो देवीं ज्वलत्पिंगललोचनः ।।
जिह्वा करालवदनो जिह्वालांगूलदारुणः ।। ४६ ।।
संप्रायादाश्रमपदं तां च धेनुं सवत्सिकाम् ।।
त्रासयामास तां देव मुनीनां दिक्ष्ववस्थितः ।। ४७ ।।।
ऋषयोऽपि समाक्रांता आर्तनादं प्रचक्रिरे ।।
हाहेत्युच्चैः केचिदूचुर्हुंहुंकारैस्तथापरे ।। ४८ ।।
तालास्फोटान्ददुः केचिद्व्याघ्रं दृष्ट्वातिभैरवम् ।।
सापि हंभारवांश्चक्रे गौरुत्प्लुत्य सवत्सिका ।। ४९ ।।
तस्या व्याघ्रभयार्तायाः कपिलाया युधिष्ठिर ।।
पलायंत्या शिलामध्ये क्षणं खुरचतुष्टयम् ।।4.69.५०।।
व्याघ्रवत्सकयोस्तत्र वंदितं सुरकिन्नरैः ।।
दृश्यतेऽतीव सुव्यक्तं तदद्यापि चतुष्टयम् ।। ५१ ।।
सजलं शिवलिंगं च शम्भोस्तीर्थं तदुत्तमम् ।।
यस्संस्पृशति राजेन्द्र स गोवध्यां व्यपोहति ।। ५२ ।।
तत्र स्नात्वा महातीर्थे जंबूमार्गे नराधिप ।।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।। ।। ५३ ।।
ततस्ते मुनयः क्रुद्धा ब्रह्मदत्तां महास्वनाम् ।।
जघ्नुर्घंटां सुरैर्दत्तां गिरिकन्दरपूरणीम् ।। ५४ ।।
शब्देन तेन व्याघ्रोऽपि मुक्त्वा गावं सव त्सिकाम् ।।
विप्रैस्तत्र कृतं नाम ढुण्ढागिरिरिति श्रुतिः ।।
तं प्रपश्यंति ये पार्थ ते रुद्रा नात्र संशयः ।। ५५ ।।
अथ प्रत्यक्षतां श्रेष्ठस्तेषां देवो महेश्वरः ।।
शूलपाणिस्त्रिपुरहा कामघ्नो वृषभे स्थितः ।। ५६ ।।
उमासहायो वरदः सस्वामी सविनायकः ।।
सनंदिः समहाकालः सशृङ्गी समनो हरः ।। ५७ ।।
वीरभद्रा च चामुंडा घंटाकर्णादिभिर्वृता ।।
मातृभिर्भूतसंघातैर्यक्षराक्षसगुह्यकैः ।।
देवदानवगन्धर्वमुनिविद्याधरोरगैः ।। ५८ ।।
प्रणम्य देवदेवाय पत्नीभिः सहितैरुमा ।।
गोरूपिणी सवत्सा च पूजिता ब्रह्मचारिभिः ।।५९।।
कार्तिके शुक्लपक्षे तु द्वादश्यां नंदिनीव्रतम् ।।
ततः प्रभृति राजेन्द्र अवतीर्णं महीतले ।। 4.69.६० ।।
उत्तानपादेन तथा व्रतं चीर्णमिदं शृणु ।।
उत्तानपादनामासीत्क्षत्रियः पृथिवीपते ।।६१।।
तस्य भार्या द्वयं चासीद्रुचिशुघ्नीति विश्रुतम् ।।
शुघ्नीजातो ध्रुवः पुत्रो वामपादधरोऽलसः ।। ६२ ।।
रुच्याः समर्पितः शुघ्न्या ध्रुवोऽयं रक्ष्यतां सखि ।।
अहं करिष्ये शुश्रूषां भर्तुस्तावत्सदा स्वयम् ।। ६३ ।।
रुची रसवतीं नित्यं प्रत्यहं कुरुते गृहे ।।
अकरोद्भर्तृशुश्रूषां शुघ्नी नित्यं पतिव्रता ।।६४।।
कदाचित्क्रोधमात्सर्यात्सापत्न्यं दर्शितं तया ।।
स्वयं रुच्या निहत्यासौ शिशुः खंडलशः कृतः ।। ६५ ।।
तापिकायां तथा स्थाल्यां पक्वसिद्धः सुसं स्कृतः ।।
अन्नभोजनवेलायां ददाति नृपभाजने ।। ६६ ।।
तं वै भक्षयितुं दुष्टा सामिषं भोजनं किल ।।
अथ भोजनवेलायां वव्रे जीवितमाप्तवान् ।। ६७ ।।
तथैव प्रहसन्बालो मातुरुत्संगजोऽभवत् ।।
तं दृष्ट्वा महदाश्चर्यं रुची पप्रच्छ विस्मिता ।। ६८ ।।
किमेतद्ब्रूहि वृत्तांतं कस्येयं व्युष्टिरुत्तमा ।।
किं त्वयाचरितं किञ्चिद्व्रतं दत्तं हुतं तथा ।। ६९ ।।
सत्यंसत्यं पुनः सत्यं येन जीवति ते सुतः।।
ममायं सप्त वारांस्तु विशल्यशकली कृतः।।4.69.७०।।
पक्वः स्वयं कृतः स्थाल्यां व्यञ्जनैः सह भोजनैः।।
परिविष्यमाणः स पुनः कथं जीवितमाप्तवान्।।७१।।
किं ते सिद्धा महाविद्या मृतसञ्जीवनी शुभा।।
रत्नं मणिर्महारत्नं योगाञ्जनमहौषधम्।।७२।।
कथयस्व महाभागे सत्यंसत्यं भगिन्यसि ।।
एवमुक्ते रुचिस्तस्यै व्याचख्यौ वत्सगोव्रतम् ।। ७३ ।।
कार्त्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा ।।
व्रतस्यास्य प्रभावेण पुनर्जीवति मे सुतः ।। ७४ ।
वत्सो मे वत्सवेलायां मृतोऽर्थं लभते पुनः ।।
समागमश्च भवति व्रतैः प्रवसितैरपि ।। ७५ ।।
यथार्थमेतद्व्याख्यातं ते च गोद्वादशीव्रतम् ।।
तवापि रुचि तत्सर्वं भविष्यति शुभं प्रियम् ।। ७६ ।।
एवमुक्तं व्रतं चीर्णं रुच्या पुत्राः सुखं धनम् ।।
संप्राप्ता जीवितांते च ध्रुवस्थाने निवेशिताः ।। ७७ ।।
ब्रह्मणा सृष्टिकारेण रुचिर्भर्त्रा सहासिता ।।
दशनक्षत्रसंयुक्तो ध्रुवः सोद्यापि दृश्यते ।।
धुवर्क्षे च यदा दृष्टे लोकः पापैः प्रमुच्यते ।। ७८ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं तद्विधानं च तन्मे ब्रूहि जनार्दन।।
यत्कृतं शुघ्निवचनाद्रुच्या यदुकुलोद्भव ।। ७९ ।।
।। श्रीकृष्ण उवाच ।।
संप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम।।
द्वादश्यां स्नात्वा पुण्ये जलाशये ।।
नरो वा यदि वा नारी एकभक्तं प्रकल्पयेत् ।।4.69.८०।।
ततो मध्याह्नसमये दृष्ट्वा धेनुं सवत्सिकाम्।।
सुशीलां वत्सलां श्वेतां कपिलां रक्तरूपिणीम् ।।८१।।
ब्राह्मणक्षत्रियविशां शूद्राणां स्त्रीजनेश्वर ।।
यथाक्रमेण पूज्यैनां गंधपुप्पजलाक्षतैः ।। ८२।।
कुंकुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः ।।
कुसुमैर्वत्सकं चापि मंत्रेणानेन पांडव ।।८३।।
ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।।
प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट नमो नमः स्वाहा ।। ८४ ।।
इत्थं संपूज्य गां पृष्ट्वा पश्चात्तां च क्षमापयेत् ।।
ॐ सर्वदेवमये देवि लोकानां शुभनंदिनि ।।
मातर्ममाभिलषितं सफलं कुरु नंदिनि ।। ८५ ।।
एवमभ्यर्चयेदेकां गामेतद्धि गवाह्निकम् ।।
पर्युक्ष्य वारिणा भक्त्या प्रणम्य सुरभीं ततः ।। ८६ ।।
तद्दिने तापिकापक्वं स्थालीपाकं च वर्जयेत् ।।
भूमौ स्वयं ब्रह्मचारी शयीत फलमाप्नुयात्।। ८७ ।।
यावंति गात्रे रोमाणि गवां कौरवनंदन ।।
तावत्कालं स वसति गोलोके नात्र संशयः ।। ८८ ।।
मेरोः पुर्यष्टकं रम्यमिंद्राग्नियमरक्षसाम् ।।
वरुणानिलयक्षाणां रुद्रस्य च युधिष्ठिर ।।
तासामुपरि गोलोकस्तत्र याति स गोव्रती ।। ८९ ।।
ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयंति कुसुमैर्वटकैश्च हृद्यैः ।।
ताः सर्वकामसुखभोगविभूतिभाजो मर्त्ये वसंति सुचिरं बहुजीववत्साः ।। 4.69.९० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोवत्सद्वादशीव्रतं नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।

[सम्पाद्यताम्]

टिप्पणी

द्र. स्कन्दपुराणम् २.४.९.१४