भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६६

विकिस्रोतः तः

अरण्यद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्ब्रूहि मे सम्यगरण्यद्वादशीव्रतम् ।।
सप्राशनं सोपवासं सरहस्यं समन्त्रकम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
कौंतेय यत्पुरा चीर्णं सीतया वनसंस्थया ।।
व्रतं राघववाक्येन प्रशस्तं दोषवर्जितम् ।। २ ।।
लोपामु्द्रालये साध्व्यो मुनिपत्न्यो बहुप्रजाः ।।
भोजितास्तर्पिताः सर्वैराहारैः सर्वकामिकैः ।। ३ ।।
पद्मिनीपत्रविस्तीर्णे सोपदंशै र्यथा नवैः ।।
भक्ष्यभोज्यैस्तथा लेह्यैश्चोष्यैश्चापि यदृच्छया ।। ४ ।।
तामिहैकमनाः पार्थः शृणुष्वारण्यद्वादशीम् ।।
मार्गशीर्षे सिते पक्षे एकादश्यां दिनोदये ।। ५ ।।
स्नात्वा नरः सोपवासः कृत्वा पूजां जनार्दने ।।
गंधपुष्पाक्षतैर्धूपैर्दीपैर्जागरणैर्निशाम् ।।६।।
नीत्वा प्रभाते गत्वा च वने वेदाङ्गपारगान् ।।
भोजयित्वा फलप्रायं स्वयं भुञ्जीत वाग्यतः ।। ७ ।।
पञ्चगव्यं प्राशयित्वा पूर्वमेवाथ तद्दिने ।।
वर्षमेकं शुभं पूर्ण पारयित्वा युधिष्ठिर।।८।।
श्रावणे कार्त्तिके माघे चैत्रे वाथ समर्चिते ।।
सोपदंशैः पत्रशाकैस्तिलशष्कुलिकादिभिः ।। ९ ।।
अपूपैः खण्डवेष्टैश्च मरीचैः सिंहकेसरैः ।।
धूलीमुखै रमृतफलैः स्वादुकोकरसैः शुभैः ।। 4.66.१० ।।
शीतलैस्तर्पयेद्विद्वानर्कपुष्पैः सुमालकैः ।।
दधिक्षीराज्यपाणिज्यैश्चातुर्जातकरंजितैः ।। ११ ।।
कर्पूरनख विद्धैश्च मधुरैः पनसोत्तमैः ।।
बहुवृक्षं वनं गत्वा सुस्वादुसलिलं शिवम् ।।१२।।
सुखासनोपविष्टांश्च प्रागुदङ्मुखवच्छुचीन् ।।
भोजयेद्दश च द्वौ वा मुनीनारण्यवासिनः ।। १३ ।।
एकदंडीस्त्रिदंडीश्च गृहस्थांश्चापि सुव्रतान् ।।
ब्राह्मणीर्विविधाः सप्त एकपत्नीः पतिव्रताः ।। १४ ।।
चार्वंग्यश्चार्चिताः स्नाताः सर्वावयमशोभनाः ।।
सुवस्त्राः कुकुमाक्ताङ्गाः सुगंधकुसुमांचिताः ।। १५ ।।
अंगैर्वा भोजनीयास्तास्ताश्चादित्यस्य देवताः ।।
वासुदेवजनार्दनदामोदरमधुसूदनाः ।। १६ ।।
पद्मनाभकृष्णविष्णुगोवर्द्धनत्रिविक्रमाः ।।
श्रीधरश्च हृषीकेशः पुण्डरीकाक्ष आदिवाराहाः ।। १७ ।।
एभिर्द्वादशभिर्मन्त्रैर्नमस्कारांतयोजितैः ।।
गंधचन्दनसंवस्त्रं धूपं दत्त्वा पृथक्पृथक् ।। १८ ।।
भोजयित्वा शुभान्नानि दद्यात्ताभ्यः सुदक्षिणाम् ।।
प्रणम्य प्रार्थयेद्भक्त्या विष्णुर्मे प्रीयतामिति ।। १९ ।।
ततो भुञ्जीत सहितो भृत्यैः प्रेष्यजनेन च ।।
आगताभ्यागतैर्लोकैः सुहृत्संबंधिबंधुभिः ।। ।। 4.66.२० ।।
एवं कौंतेय कुरुते योऽरण्यद्वादशीं नरः ।।
स देहांते विमानस्थो दिव्यकन्यासमावृतः ।।
याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः पुरम् ।। ।। २१ ।।
यत्र लोकाः पीतवस्त्राः श्यामदेहाश्चतुर्भुजाः ।।
शंखचक्रगदापद्मचारुहस्ताः सकौस्तुभाः ।। २२ ।।
गरुडासनाः साभरणा मुकुटोत्कट कुंडलाः ।।
नीलोत्पलोद्दामपद्ममालयालंकृतोरसः ।।२३।।
लक्ष्मीधरा मेघवर्णाः कूर्पराङ्गदभूषणाः ।।
तिष्ठंति विष्णुसामान्ये यावदाभूतसंप्लवम् ।। ।। २४ ।।
तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः ।।
मर्त्यलोके कीर्तिमंतः संभवंति नरोत्तमाः ।। २५ ।।
ततो यांति परं स्थानं मोक्षमार्गं शिवं शुभम् ।।
यत्र गत्वा न शोचंति न संसारे भ्रमंति च ।। २६ ।।
ये द्वादशीमुपवसंति सितामरण्यनाम्नीं वने द्विजवरानथ भोजयंति ।।
साध्व्यः स्त्रियः सुचरिताभरणाश्च तासां विष्णुः प्रसादमुपयाति ददाति मोक्षम् ।। २७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादेरण्यद्वादशीव्रतं नाम षट्षष्टितमोऽध्यायः ।। ६६ ।।