भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५७

विकिस्रोतः तः
← अध्यायः ०५६ भविष्यपुराणम्
अध्यायः ०५७
वेदव्यासः
अध्यायः ०५८ →

कृष्णाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
कृष्णाष्टमीव्रतं पार्थ शृणु पापभयापहम् ।।
धर्मसंजननं लोके रुद्रप्रीतिकरं परम् ।। १ ।।
मासि मार्गशिरे प्राप्ते दंतधावनपूर्वकम् ।।
उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः ।। २ ।।
अशक्तशक्तभेदेन गृहान्निष्क्रम्य बाह्यतः ।।
कृष्णाष्टम्यां वर्षमेकं गुरुं पृष्ट्वा विचक्षणः ।। ३ ।।
ब्रह्मचारी जितक्रोधः शिवार्चनजपे रतः ।।
ततोऽपराह्णसमये स्नात्वा नद्यां विशुद्धधीः ।। ।। ४ ।।
शिवलिङ्गं समभ्यर्च्य सुमनोभिः सुगंधिभिः ।।
गुग्गुलुं च शुभं दग्ध्वा दद्यान्नैवेद्यमुत्तमम् ।। ५ ।।
ततो देवस्य पुरतो होमं कुर्यात्तिलै र्गुरु ।।
मार्गशीर्षे शुभे मासि शंकरायेति पूजयेत् ।। ६ ।।
गोमूत्रप्राशनं कृत्वा स्वप्याद्भूमौ ततो निशि ।।
अतिरात्रस्य यज्ञस्य फलमाप्नोति मानवः ।। ७ ।।
एवं पुष्येपि संपूज्य शंभुं नाम महेश्वरम् ।।
कृष्णाष्टम्यां घृतं प्राश्य वाजपेयफलं भजेत् ।। ८ ।।
माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् ।।
निशि पीत्वा गवां क्षीरं गोमेधाष्टकमाप्नुयात ।। ९ ।।
फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् ।।
राजसूयस्य यज्ञस्य फलमष्टगुणं भजेत् ।। 5.57.१० ।।
चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां शिवं यजेत् ।।
यवाहारोश्वमेधस्य यज्ञस्य फलमाप्नुयात् ।। ११ ।।
वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् ।।
पीत्वा पुरुषमेधस्य फलं दशगुणं भजेत् ।। १२ ।।
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् ।।
गवां लक्षप्रदानस्य नरः फलमवाप्नुयात् ।। १३ ।।
आषाढे चोग्रनामानमिष्ट्वा संप्राश्य गोमयम् ।।
वर्षाणां नियुतं साग्रं रुद्रलोके महीयते ।।१४।।
श्रावणे शर्वनामानमिष्ट्वार्कं निशि भक्षयेत् ।।
बहुस्वर्णस्य यज्ञस्य नरः फलमवाप्नुयात् ।। १५ ।।
मासि भाद्रपदेऽष्टम्यां त्र्यंबकं नाम पूजयेत् ।।
बिल्वपत्रं निशि प्राश्य अन्नदीक्षाफलं भजेत् ।। १६ ।।
भवनामाश्विने पूज्यः प्राशयेत्तंडुलोदकम् ।।
पौण्डरीकस्य यज्ञस्य फलं शतगुणं भजेत् ।। १७ ।।
कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि ।।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।। १८ ।।
अब्दांते भोजयेद्विप्राञ्छिवभक्तिपरायणान् ।।
पायसं मधु संयुक्तं घृतेन समभिप्लुतम् ।।
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।।१९।।
सतिला कृष्णकलशा भक्ष्यभोज्येन संयुताः ।।
द्वादशात्र प्रदातव्याश्छत्रोपानद्युगान्विता ।।
निवेदयति रुद्राणां गां च कृष्णां पयस्विनीम् ।। 5.57.२० ।।
वर्षमेकं चरेदेवं नैरन्तर्य्येण यो नरः ।।
कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।। २१ ।।
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।।
मोदते भूपवन्नित्यं मर्त्यलोके शतं समाः ।। २२ ।।
अनेन विधिना देवाः सर्वे देवत्वमागताः ।।
देवी देवीत्वमापन्ना गुहः स्कंदत्वमागतः ।। २३ ।।
ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमागतः ।।
इन्द्रश्च देवराजत्वं गाणपत्यं गणो गतः ।। २४ ।।
नारी वा पुरुषो वापि कृत्वा कृष्णाष्टमीव्रतम् ।।
अखंडितं महाराज पुण्यं प्राप्नोत्यनुत्तमम् ।। २५ ।।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः ।।
रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ।। २६ ।।
नृत्यवादित्रसंयुक्तैरुत्कृष्टध्वनिनादितैः ।।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।। २७ ।।
त्रिनेत्रः शूलपाणिश्च शिवैश्वर्यसमन्वितः ।।
आस्ते शिवपुरे तावद्यावत्कल्पेषु चाष्टकम् ।। २८ ।।
इत्येतत्ते समाख्यातं पार्थ कृष्णाष्टमीव्रतम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २९ ।।
कृष्णाष्टमीव्रतमिदं शिवभावितात्मा सत्याशनैरुदितनामयुतैरुपोष्य ।।
कृष्णान्ददाति कलशान्सतिलान्नयुक्तान्योसौ प्रयाति पदमुत्तममिन्दुमौलेः ।। 5.57.३० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाष्टमीव्रतवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।