भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५२
स्नपनसप्तमीव्रतवर्णनम्
युधिष्ठिर उवाच ।।
किमुद्वेगाद्भवेत्कृत्यमलक्ष्मीः केन हन्यते ।।
मृतवत्सादिकार्येषु दुःस्वप्ने च किमिष्यते ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
पुरा कृतानि पापानि फलंत्यत्र युधिष्ठिर।।
रोगर्दौर्गत्यरूपेण तथैवेष्टविघातनैः ।। २ ।।
तद्विघाताय वक्ष्यामि सदा कल्याणसप्तमीम् ।।
सप्तमीस्नपनं नाम व्याधिपीडाविनाशनम् ।। ३ ।।
बालानां मरणं यत्र क्षीरपानं प्रशस्यते ।।
तद्वद्वृद्धातुराणां च यौवने वापि वर्तताम् ।।४।।
शान्तये तत्र वक्ष्यामि मृतवत्सादिके च यत् ।।
एतदेवाद्भुतोद्वेगचिंताविभ्रममानसम् ।।५।।
वराहकल्पे संप्राप्ते मनोर्वैवस्वतेंऽतरे।।
कृते युगे महाराज हैहयो रूपवर्द्धनः ।।६।।
आसीन्नृपोत्तमः पूर्वं कृतवीर्यः प्रतापवान् ।।
स सप्तद्वीपमखिलं पालयामास भूतलम् ।।७।।
यावद्वर्षसहस्राणि सप्तसप्तति भारत।।
जातमात्रं च तस्याथ शुभं पुत्रशतं किल ।।८।।
यवनस्य तु शापेन विनाशमगमत्पुरा ।।
कृतवीर्यः समाराध्य सहस्रांशुं दिवाकरम् ।।९।।
उपवासव्रतैर्दिव्यैर्वेदसूक्तैश्च भारत ।।
दर्शयामास चात्मानं कृतवीर्यस्य भानुमत् ।।4.52.१ ०।।
कृतवीर्येण वै पृष्टः प्रोवाचेदं बृहस्पतिः ।।
अतिक्लेशेन महता पुत्रस्तव नराधिप ।।११।।
भविष्यति चिरंजीवी किं तु कल्मषनाशनम् ।।
सप्तमीस्नपनं वाप्यां कुरु पापविनष्टये ।। १२ ।।
जातस्य मृतवत्सायाः सप्तमे मासि भूपते ।।
गृहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।।१३।।
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः ।।
सद्वृद्धातुरगाणां तु कृतं स्यादिति तेषु च ।।१४।।
गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान् ।।
तंडुलै रक्तशालेयैर्वरुणाक्षीरसंयुतम् ।।१५।।
निर्वपेत्सूर्यमुद्गाभ्यां मातृभ्योपि विधानतः ।।
कीर्तयेत्सूर्यदैवत्यं सप्तार्चिषि घृताहुतीः ।।१६।।
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय भारत ।।
होतव्याः समिधश्चात्र तत्र वार्कपलाशजाः ।।१७।।
यवकृष्णतिलैर्होमः कर्तव्योष्टशतं पुनः ।।
हुत्वा स्नानं च कर्तव्यं मध्ये गांगेन धीमता ।। १८ ।।
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना ।।
स्थापयित्वा चतुष्कोणे चतुष्कुंभान्प्रशोभनान् ।। १९ ।।
पञ्चमं च पुनर्मध्ये चाक्षतेन विभूषितम् ।।
स्थापयेद्दर्पणाक्रांतं सप्तर्षिणाभिमंत्रितम् ।। 4.52.२० ।।
सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितम् ।।
सर्वान्सर्वौषधियुतान्पञ्चभंगजलान्वितान् ।। २१ ।।
पंचरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान् ।।
गजाश्वरथ्याराजद्वार्वल्मीकाद्ध्रदगोकुलात् ।। २२ ।।
सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ।।
चतुर्ष्वपि च कुंभेषु रत्नगर्भेषु मध्यमम् ।। २३ ।।
गृहीत्वा ब्राह्मणं चात्र सौरान्मन्त्रानुदीरयेत् ।।
नारीभिः सप्तसंख्याभी रथाङ्गाङाभिरत्र च ।। २४ ।।
भोजिताभिर्यथाशक्ति माल्यवस्त्रविभूषणैः ।।
सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम्।। २५ ।।
दीर्घायुरस्तु बालोऽयं जीवपुत्रा च भाविनी ।।
आदित्यचन्द्रमासार्धं ग्रहनक्षत्रमण्डलम् ।। २६ ।।
शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः ।।
एते चान्ये च वै देवाः सदा पांतु कुमारकम् ।। २७ ।।
माशनिर्मा स हुतभुङ्मा च बालग्रहा क्वचित् ।।
पीडां कुर्वंतु बालस्य मा मातृजनकस्य वै ।। ।। २८ ।।
ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः ।।
सप्तकं पूजयेद्भक्त्या पुष्पैर्गन्धैः फलैः शुभैः ।। २९ ।।
काञ्चनीं च ततः कृत्वा तिलपात्रोपरि स्थिताम् ।।
प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ।। 4.52.३० ।।
वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः ।।
पूजयेद्ब्राह्मणास्तद्वद्वित्तशाठ्यं विवर्जयेत् ।।
भुक्त्वा च गुरुणा चेयमुच्चार्या मंत्रसंततिः ।। ३१ ।।
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी ।।
यत्किञ्चिदस्य दुरितं तत्क्षिप्तं वड वामुखे ।। ३२ ।।
ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्रो हुताशनः ।।
रक्षंतु सर्वे दुष्टेभ्यो वरदा यांतु सर्वदा ।।३३।।
एवमादीनि चान्यानि वदतः पूजयेद्गुरून् ।।
शक्तितः कपिलां दत्त्वा प्रणिपत्य विसर्जयेत् ।।३४।।
चरुं च पुत्रसहिता प्रणम्य रविशंकरौ ।।
हुतशेषं तदानीयादादित्याय नमोऽस्तु ते ।। ३५ ।।
अयमेवाद्भुतं योगो ह्यद्भुतेषु च शस्यते ।।
कर्तुर्जन्मनि वृक्षाणां देवान्त्संपूजयेत्तदा ।।
शांत्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति ।। ३६ ।।
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः ।।
कथयित्वा नरश्रेष्ठ तत्रैवांतरधीयत ।। ३७ ।।
स चानेन विधानेन कार्तवीर्योऽर्जुनो नृपः ।।
संवत्सराणामयुतं शशास पृथिवीमिमाम् ।।३८।।
आरोग्यं भास्कारादिच्छेद्धनमिच्छेद्धुताशनात् ।।
शंकराज्ज्ञानमिच्छेत्तु गतिमिच्छेज्जनार्दनात् ।। ।। ३९ ।।
एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठंति ।।
शृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदंति ।। 4.52.४० ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्नपनसप्तमीव्रतवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ।।५२।।