भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५१

विकिस्रोतः तः

शुभसप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अन्यामपि प्रवक्ष्यामि शोभनां शुभसप्तमीम् ।।
यामुपोष्य नरो रोगाच्छोकदुःखात्प्रमुच्यते ।। १ ।।
पुण्य आश्वयुजे मासि कृतस्नानः पयः शुचिः ।।
वाचयेत ततो विप्रानारभेच्छुभसप्तमीम् ।। २ ।।
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः ।।
नमामि सूर्यसंभूतामशेषभुवनालयाम् ।। ३ ।।
त्वामहं शुभकल्याणशरीरां सर्वसिद्धये ।।
अथाहृत्य तिलप्रस्थं ताम्रपात्रेण संयुतम् ।। ४ ।।
काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम् ।।
दद्याद्विकालवेलायामर्यमा प्रीयतामिति ।। ५ ।।
पञ्चगव्यं च संप्राश्य स्वप्याद्भूमौ विमत्सरः ।।
ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान् ।। ६ ।।
अनेन विधिना दद्यान्मासिमासि सदा नरः ।।
वाससी वृषभं हैमं तद्वद्धेनोस्तु पूजनम् ।। ७ ।।
संवत्सरांते शयनमिक्षुदण्डगुडान्वितम् ।।
सोपधानकविश्रामं भाजनासनसंयुतम् ।। ८ ।।
ताम्रपात्रं तिलप्रस्थं सौवर्णवृषसंयुतम् ।।
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ।। ९ ।।
अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् ।।
तस्य श्रीर्विमला कीर्तिर्भ वेजन्मनिजन्मनि ।। 4.51.१० ।।
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये ।।
वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् ।। ११ ।।
स कल्पादवतीर्णस्तु सप्तद्वीपाधिपो भवेत्।।
ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च ।। १२ ।।
नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी ।। १३ ।।
इमां पठेद्यः शृणुया न्मुहूर्तं वीक्षेत संगादपि दीयमानम् ।।
सोऽप्यत्र संबाध्य विमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ।।१८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभसप्तमीव्रतनिरूपणं नामैकपंचाशत्तमोऽध्यायः ।। ५१।।