भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४५

विकिस्रोतः तः

त्रयोदशवर्ज्यसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यामुपोष्य नरः कामान्प्राप्नोति मनसेप्सितान् ।।
तामेकां वद मे देव सप्तमीं धनसौख्यदाम् ।। १ ।।
श्रीकृष्ण उवाच ।। ।।
भानोर्दिने सिते पक्षे अतीते चोत्तरायणे ।।
पुन्नामाह्वय नक्षत्रे गृह्णीयात्सप्तमीव्रतम् ।। २ ।।
सव्रीहिकान्यवतिलान्सह माषमुद्गैर्गोधूममांसमधुमैथुनकांस्यपात्रम् ।।
अभ्यंजनांजन शिलातलचूर्णितानि षष्ठ्यां परं परिहरेदहनि प्रसिद्ध्यै ।। ३ ।।
देवान्मुनीन्पितृगणान्सजलाञ्जलीभिः संतर्प्य पूज्य गगनांगणहस्तभुक्तान् ।।
हुत्वानले तिलयवान्बहुशो घृताक्तान्भूमौ स्वपेद्धृदि निधाय हि तं सवित्रम् ।। ४ ।।
यानि त्रयोदश जनैरिह वर्जितानि द्रव्याणि तानि परिहृत्य परिद्विषष्ट्या ।।
संप्राश्य वर्षमेकं प्राप्नोति भारत सुखं मनसेप्सितं च ।। ५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे त्रयोदशवर्ज्यसप्तमीव्रतं नाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।