सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३२

विकिस्रोतः तः

विनायकस्नपनचतुर्थीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यन्न सिद्ध्यन्ति कर्माणि प्रारब्धानि नरोत्तमैः ।।
तत्केन कारणेनैतत्पृष्टो मे ब्रूहि माधव ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
विनायकोर्थसिद्ध्यर्थं लोकस्य विनियोजितः ।।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २ ।।
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। ३ ।।
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।।
अंत्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।। ४ ।।
व्रजमानस्तथात्मानं मन्यते तु गतं परैः ।।
विमना विफलारंभः ससीदत्यनिमित्ततः ।। ५ ।।
पातकी विहीनच्छायो म्लानत्वहेतुलक्षणः ।।
करभारूढमात्मानं महिषखरगं तथा ।।६।।
यातुधानाश्रितं यानं श्मशानस्यांतिकं नृप ।।
वीक्षेत कुरुशार्दूल स्वप्नांते नात्र संशयः ।।
तैलार्द्रमात्रं स्वं देहं करवीरविभूषितम्।।७।।
तेनोपसृष्टो लभते न राज्यं राजनंदनः ।।
कुमारी न च भर्तारमपत्यं गर्भमंगना ।। ८ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा।।
वणिग्लाभं न चाप्नोति कृषिं चैव कृषीवलः ।। ९ ।।
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।।
गौरसर्षपकल्केन वस्त्रेणाच्छादितस्य तु ।। 4.32.१० ।।
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।।
शुक्लपक्षे चतुर्थ्यां तु वारे वा धिषणस्य तु ।। ११ ।।
पुष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप ।।
भद्रासनोपविष्टस्य स्वस्तिर्वाच्या द्विजैः शुभैः ।। १२ ।।
चत्वार ऋग्यजुः सामाथर्वणप्रवणास्ततः ।।
व्योमकेशं तु संपूज्य पार्वतीं भूमिजं तथा ।। ।। १३ ।।
कृष्णस्य पितरं चाथ अवतारं सितं तथा ।।
धिषणं क्लेदपुत्रं च कोणं लक्ष्मीं च भारत ।।
विधुंतुदं बाहुलेयं नंदकस्य च धारिणम् ।। ।। १४।।
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।।
मृत्तिकां रोचनां रत्नं गुग्गुलुं चाप्सु निक्षिपेत् ।। १५ ।।
यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।।
चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ।। १६ ।।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।।
तेन त्वामभिषिंचामि पाव मान्यः पुनंतु मे ।। १७ ।।
ॐ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। १८ ।।
यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि ।।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नंतु सर्वदा ।। १९ ।।
स्नातस्य सार्षपं तैलं स्रुवेणौदुंबरेण तु ।।
जुहुयान्मूर्ध्नि शकलान्सव्येन प्रतिगृह्य च ।। 4.32.२० ।।
मितश्च सम्मितश्चैव तथा शालकटंकटो ।।
कूष्माण्डो राजपुत्रश्चेत्यंते स्वाहासमन्वितैः ।। २१ ।।
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ।। २२ ।।
कृताकृतांस्तंडुलांश्च पल लौदनमेव च ।।
मत्स्यान्ह्यपक्वांश्च तथा मांसमेतावदेव तु ।। २३ ।।
पुष्पान्वितं सुगन्धं च सुरां च त्रिविधामपि ।।
मूलकं पूरिका पूपांस्तथैवोंडेरकस्रजः ।। २४ ।।
दध्यन्नं पायसं चैव गुडवेष्टितमोदकम् ।।
विनायकस्य जननीमुपतिष्ठेत्ततोंबिकाम् ।।
दूर्वासर्षप पुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ।। २५ ।।
रूपंदेहि जयं देहि भगं भवति देहि मे ।।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ।। ।। २६ ।।
प्रबलं कुरु मे देवि बलविख्यातिसम्भवम् ।।
शुक्लमाल्यांबरधरः शुक्लगन्धानुलेपनः ।।
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।। २७ ।।
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।।
कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् ।। २८ ।।
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २९ ।।
वैनायकं विनयसत्त्ववतां नराणां स्नानं प्रशस्तमिह विघ्नविनाशकारि ।।
कुर्वंति ये विधिवदत्र भवंति तेषां कार्याण्यभीष्टफलदानि न संशयोऽत्र ।। 4.32.३० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्नपनचतुर्थीव्रतं नाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।