भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २६

विकिस्रोतः तः

कलियुगीयेतिहाससमुच्चयवर्णनम्

व्यास उवाच
तदा स भगवान्कल्किः पुराणपुरुषोद्भवः ।
दिव्यं वाजिनमारुह्य खड्गी वर्मी च चर्मधृक् । ।
म्लेच्छांस्तान्दैत्यभूतांश्च हत्वा योगं गमिष्यति । । १
षोडशाब्दसहस्राणि तद्योगाग्निप्रतापिता ।
भस्मभूता कर्मभूमिर्निर्जीवा भविता तदा । । २
ततोऽनुयोगं जनितो मेघो भूत्वा लयङ्करः ।
प्रलयाग्रेण सा भूमिर्जलमध्ये गमिष्यति । । ३
तदा कलियुगो घोरो बलिपार्श्वं गमिष्यति ।
गते कलियुगे घोरे कर्मभूमिं पुनर्हरिः । ।
कृत्वा स्थलमयीं रम्यां यज्ञैर्देवान्यजिष्यति । । ४
यज्ञभागमुपादाय देवास्ते बलसंयुताः ।
वैवस्वतं मनुं गत्वा कथयिष्यन्ति कारणम् । । ५
कल्किनो वदनाज्जातो ब्राह्मणो वर्ण एव हि ।
बाह्वोः क्षत्रं विशो जान्वोः शूद्रो वर्णस्तदङ्घ्रयोः । । ६
गौरो रक्तस्तथा पीतः श्यामस्ते ब्राह्मणादयः ।
देव्याः शक्तिं समादाय जनिष्यन्ति सुतान्बहून् । । ७
एकविंशत्किष्कुमिता मनुजा धर्मरूपिणः ।
जातिधर्ममुपादाय यजिष्यंति सुरान्मुदा । । ८
तदा वैवस्वतो धीमान्नत्वा तं कल्किनं हरिम् ।
अयोध्यायां राजपदं करिष्यति तदाज्ञया । । ९
तच्छिक्षातो भवेत्पुत्रो यः स इक्ष्वाकुरेव हि ।
पितू राज्यं पुरस्कृत्य भूमौ दिव्यं शतं समाः । ।
दिव्यवर्षशतायुश्च त्यक्त्वा देहं गमिष्यति । । 3.4.26.१०
यदा तु भगवान्कल्की ब्रह्मसूत्रं करिष्यति ।
तदा वेदाश्च चत्वारो मूर्तिमन्तश्च साङ्गःकाः । ।
अष्टादशपुराणैश्च तत्रायास्यन्ति हर्षिताः । । ११
स्तोष्यन्ति कल्किनं देवं पुराणपुरुषांशकम् ।
कार्त्तिके शुक्लपक्षे च नवम्यां गुरुवासरे । । १२
यज्ञकुण्डाच्च पुरुषो भविष्यति महोत्तमः ।
नाम्ना सत्ययुगो ज्ञेयः सत्य मार्गप्रदर्शकः । । १३
दृष्टवा तं पुरुषं रम्यं तदा ब्रह्मादयः सुराः ।
तां तिथिं वर्णयिष्यन्ति कर्मक्षयकरीं मनोः । । १४
अस्यां तिथौ च मनुजो धातृवृक्षतटे मुदा ।
योऽर्चयिष्यति यान्देवान्देवास्ते तस्य वश्यगाः । । १५
अक्षया नवमी नाम युगादिनवमी हि सा ।
लोकमङ्गलदात्री च सर्वकिल्विषनाशिनी । । १६
धातृमूलतले चैव मालतीं तुलसीं मुदा ।
संस्थाप्य वेदविधिना शालग्रामं यजन्ति ये । ।
जीवन्मुक्ताश्च ते ज्ञेया पितॄणां तृप्तिकारकाः । । १७
धातृवृक्षतले गत्वा यो वै श्राद्धं करिष्यति ।
गयाश्राद्धसहस्रस्य लप्स्यते च फलं परम् । । १८
यः करोति तथा होमं सहस्रमखसन्निभम् ।
मृतः स स्वर्गमाप्नोति सकुलः सपरिच्छदः । । १९
इत्युक्ते वचने तेषां कल्की देवो मुदान्वितः ।
तथास्त्वित्येव वचनं वदिष्यति सुरान्प्रति । । 3.4.26.२०
इत्युक्त्वा भगवान्कल्की पश्यतां देवरूपिणाम् ।
तत्रैवान्तर्गतो भूत्वा सुषुप्तश्च भविष्यति । । २१
गते तस्मिन्भगवति कर्मभूमिः सुदुःखिता ।
विरहाग्निमती भूत्वा बीजांस्तान्संक्षयिष्यति । । २२
तस्मिन्काले महादैत्याः पातालतलवासिनः ।
प्रह्लादं च पुरस्कृत्य गमिष्यन्ति सुरान्प्रति । । २३
खरोष्ट्रगृद्ध्रमहिषकाककर्कसमास्थिताः ।
सिंहव्याघ्रवृकारूढाः शृगालश्येनवाहनः । । २४
प्रासपट्टिशखड्गांश्च भुशुण्डीपरिघादिकान् ।
गृहीत्वा वेगवन्तस्ते गर्जिष्यन्ति पुनः पुनः । । २५
तदा शक्रादयो देवास्त्रयस्त्रिंशद्गणा मुदा ।
स्वायुधानि गृहीत्वाशु करिष्यन्ति रणं महत् । । २६
दिव्यवर्षमयं घोरं युद्धं तेषां भविष्यति ।
मृतान्मृतान्रणे दैत्यान्भार्गवो जीवयिष्यति । । २७
श्रमभूतास्तथा देवास्त्यक्त्वा युद्धं समन्ततः ।
क्षीराब्धिं च गमिष्यन्ति यत्र साक्षाद्हरिः स्वयम् । । २८
तेषां स्तुत्या स भगवान्देवमङ्गलहेतवे ।
स्वपूर्वार्द्ध स्वरूपं च करिष्यति सनातनः । । २९
स च हंसो हरिः साक्षाच्छतसूर्यसमप्रभः ।
शुक्रं प्रह्लादप्रमुखांस्तेजसा तापयिष्यति । । 3.4.26.३०
तदा पराजिता दैत्यास्त्यक्त्वा गां दुःखिता भृशम् ।
वितले च गमिष्यन्ति महादेवेन रक्षिताः । । ३१
पुनस्ते सकला देवा निर्भया निरुपद्रवाः ।
वैवस्वतस्य तनयं चाभिषेक्ष्यन्ति भूपदे । । ३२
दिव्यवर्षशतायुश्च स इक्ष्वाकुर्भविष्यति ।
वर्षाणां च प्रमाणेन नृणामायुश्चतुश्शतम् । । ३३
इति ते कथितं सर्वं यत्पृष्टोऽहं मनो त्वया ।
चतुर्युगानां चरितं नृपाणां च पृथक् पृथक् । । ३४
चतुष्पादा हि धर्मस्य ज्ञानं ध्यानं शमो दमः ।
आत्मज्ञानं स वै ज्ञानं ध्यानमध्यात्मचिन्तनम् । ।
मनः स्थिरत्वं च शमो दमस्त्विन्द्रियनिग्रहः । । ३५
चतुर्लक्षाब्दकान्येव द्वात्रिंशच्च सहस्रकम् ।
तत्सङ्ख्यया हि धर्मस्य पादश्चैकः प्रकीर्तितः । । ३६
प्राह्णमध्याह्नसायाह्नं त्रिसन्ध्यं च भवेत्सदा ।
एकैकेन पदा तस्य विराजो भुवि वर्तते । । ३७
यदा धर्मो भवेद्वृद्धस्तदायुश्चैव वर्द्धते ।
सप्तश्लोकसहस्राणि खण्डेऽस्मिन्कथितानि हि । ।
अतश्चोत्तरखण्डं हि वर्णयामि मनो शृणु । । ३ ८

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयवर्णनं नाम षड्विंशोऽध्यायः । २६

इति श्रीभविष्ये महापुराणे तृतीयं प्रतिसर्गपर्वचतुर्युगखण्डापरपर्यायं समाप्तम् । । ३ । ।