भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search

कलियुगीयेतिहाससमुच्चयवर्णनम्

व्यास उवाच
चतुर्थचरणे जातैर्मनुजैरेकविंशतिः ।
अजीर्णभूता नरका यास्यन्ति च यमालयम् । । १
नमस्ते धर्मराजाय नश्च तृप्तिकराय च ।
वचनं शृणु सर्वज्ञ नश्च जातमजीर्णकम् । । २
यथा भजाम प्रकृतिं तथा कुरु सुरोत्तम ।
इति श्रुत्वा धर्मराजश्चित्रगुप्तेन संयुतः । । ३
ब्रह्माणं च गमिष्यन्ति सन्ध्यायां च कलौ युगे ।
चतुरश्च यमान्दृष्ट्वा परमेष्ठी पितामहः । । ४
तदीरितं स्वयं ज्ञात्वा क्षीराब्धिं प्रति यास्यति ।
पूजयित्या जगन्नाथं देवदेवं वृषाकपिम् । । ५
साङ्ख्यशास्त्रमयैः स्तोत्रैः संस्तोष्यति परम् प्रभुम् । । ६
जय जय जय निर्गुण गुणधारिन्रगजगजीवतत्त्वशुभकारिन् ।
सारभूतसद्गुणमय तत्त्वैर्देवान्रचयति पाति गुणसत्त्वैः । ।
तस्मै नमो नमो गुणराशे देववृन्दहृदि कृष्णविकाशे । । ७
रजोभूततत्त्वेभ्य उताशु विरचति भुवि च नरान्स्वयमाशु ।
पाति हन्ति यो देव उदारस्तस्य शिरसि संस्थितजगभारः । ।
पाहि नाथ नो दैत्यविनाशिन्कालजनितलीलागुणभासिन् । । ८
तेषामिति वचनं प्रभुः श्रुत्वा ह्यवनिमिवाशु ।
यथा जनिष्यति स प्रभुस्तच्छृणु वै मन आशु । । ९ ?
नम्रीभूतान्तुरान्विष्णुर्नमोवाक्येन तान्प्रति ।
वदिष्यति वचो रम्यं लोकमङ्गलहेतवे । । 3.4.25.१०
भोः सुराः सम्भलग्रामे कश्यपोऽयं जनिष्यति ।
नाम्ना विष्णुयशाः ख्यातो विष्णुकीर्तिस्तु तत्प्रिया । । ११
कृष्णलीलामयं ग्रन्थं नरांस्ताञ्छ्रावयिष्यति ।
तदा ते नन्दिनो भूत्वा चैकीभूय समन्ततः । । १२
तं द्विजं विष्णुयशसं गृहीत्वा निगडैर्दृढैः ।
बद्ध्वा सर्वे सपत्नीकं कारागारे दृढायसे । । १३
करिष्यन्ति महाधूर्ता नारका इव दारुणाः ।
विष्णुकीर्त्या स भगवान्पूर्णो नारायणो हरिः । । १४
जनिष्यति महाविष्णुः सर्वलोकशिवङ्करः ।
निशीथे तमसोद्भूते मार्गकृष्णाष्टमीदिने । । १५
ब्रह्माण्डं मङ्गलं कुर्वन्सुराः प्रादुर्भविष्यति ।
ब्रह्म विष्णुर्हरश्चैव गणेशो वासवो गुरुः । । १६
वह्निः पितृपतिः पक्षो वरुणः सविभीषणः ।
चित्रो वायु्र्ध्रुवो विश्वे रविः सोमः कुजो बुधः । । १७
गुरुः शुक्रः शनिः राहुः केतुस्तत्र गमिष्यति ।
पद्यैकैकेन ते देवाः स्तोष्यन्ति परमेश्वरम् । । १८
महत्तमा मूर्तिमयी तवाजा तदास्य पूर्वाज्जनितोहऽमादौ ।
मया ततं विश्वमिदं सदैव यतो नमस्तत्पुरुषोत्तमाय । । १९
अजस्य याम्याज्जनितोऽहमादौ विष्णुर्महाकल्पकरोऽधिकारी ।
स्वकीयनाम्ना तु मया ततं तद्विश्वे सदैवं च नमो नमस्ते । । 3.4.25.२०
अव्यक्तपाश्चात्यमुखात्सुजन्मा शिवोऽहमादौ सुरतत्त्वकारी ।
मया महाकल्पकरस्तृतीया त्वदाज्ञया देव नमो नमस्ते । । २१
प्रधानवक्त्रोत्तरतोऽहमादौ जातो गणेशः किल कल्पकर्ता ।
मया ततं विश्वमिदं सदैव तस्मै नमः कारुणिकोत्तमाय । । २२
अजार्द्धवक्त्राज्जनितोऽहमादौ मरुन्महाकल्पकरो महेन्द्रः ।
मया ततं विश्वमिदं स्वकल्पे यदाज्ञया देव नमो नमस्ते । । २३
प्रथानभालाक्षिसमुद्भवोऽहं वह्नेर्महाकल्पकरो गुहाख्यः ।
विनिर्मितं विश्वमिदं मया तद्यदाज्ञया नाथ नमो नमस्ते । । २४
अजामुखात्पूर्वगताच्च जातश्चादौ महाकल्पकरोऽहमग्निः ।
ब्रह्माण्डमेतच्च मया ततं वै ब्रह्माण्डकल्पाय नमो नमस्ते । । २५
अजाभुजाद्दक्षिणतोऽहमादौ जातो महाकल्पककरः सधर्मः ।
मया सदेवै रचितं समग्रं लिङ्गाख्यकल्पाय नमो नमस्ते । । २६
अजाभुजात्पश्चिमतोऽहमादौ जातो महाकल्पकरः स यज्ञः ।
मया ततं विश्वमिदं समग्रं मत्स्याख्यकल्पाय नमो नमस्ते । । २७
प्रधानबाहूत्तरतोऽहमादौ जातो महाकल्पकरः प्रचेताः ।
मया ततं नाथ तवाज्ञयेदं कर्माख्यकल्पाय नमो नमस्ते । । २८
ब्रह्माण्डतमसो जातस्त्वद्दासोऽहं विभीषणः ।
मया ततं त्रिलोकं च नमस्ते मनुरूपिणे । । २९
ब्रह्माण्डसद्गुणाज्जातश्चित्तोऽहं मनुकारकः ।
मया ततं च त्रैलोक्यं स्वायम्भुव नमोऽस्तु ते । । 3.4.25.३०
 ब्रह्माण्डरजसो जातो वायुर्मन्वन्तरं ततम् ।
मया स्वारोचिषं स्वामिन्नमस्ते मनुरूपिणे । । ३१
ब्रह्माण्डमनसो जातो ध्रुवोऽहं मनुकारकः ।
मयोत्तमं च रचितं नमस्तेऽस्तु तवाज्ञया । । ३२
ब्रह्माण्डश्रवणाज्जातो विश्वकर्माहमीश्वरः ।
मया ततं रैवतं च नमो देव तवाज्ञया । । ३३
ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः ।
तवाज्ञया ततं विश्वं मनुरूपाय ते नमः । । ३४
ब्रह्माण्डनेत्रतो जातः सोमोऽहं तु मया ततम् ।
वैवस्वतान्तरं रम्यं नमस्ते मनुरूपिणे । । ३५
ब्रह्माण्डरसनाज्जातो मोहोऽहं मनुकारकः ।
नमस्ते मनुरूपाय मया सावर्णिकं ततम् । । ३६
ब्रह्माण्डघ्राणतो जातो बुधोऽहं नाथ किङ्करः ।
निर्मितं ब्रह्मसावर्णं मया तात नमो नमः । । ३७
ब्रह्माण्डवक्त्रतो जातो जीवोऽहं मनुकारकः ।
मया वै दक्षसावर्णं ततं तत्ते नमो नमः । । ३८
ब्रह्माण्डकरतो जातः शुक्रोहं तव किङ्करः ।
निर्मितं रुद्रसावर्णं मया तुभ्यं नमो नमः । । ३९
ब्रह्माण्डपदतो जातोमन्दोऽहं नाथ तेऽनुगः ।
ततं वै धर्मसावर्णं प्रभातेस्मै नमो नमः । । 3.4.25.४०
ब्रह्माण्डलिङ्गतो जातो राहुश्चाहं तव प्रियः ।
मया भौमं कृतं नाथ नमस्ते मनुरूपिणे । । ४१
ब्रह्माण्डगुह्यतो जातः केतुश्चाहं तवानुगः ।
भौतं मन्वतरं सृष्टं तस्मै देवाय ते नमः । । ४२
व्यास उवाच
इति तेषां स्तवान्स्वामी श्रुत्वा देवान्वदिष्यति ।
वरं ब्रूहीति वचनं ततं प्रति मनुः क्रमात् । ।४ ३
इति कृत्वा तु ते देवा बालरूपं हरिं स्वयम् ।
नमस्कृत्य वदिष्यन्ति वाञ्छितं लोकहेतवे । ।
केयं भवान्ब्रूहि लोकानां कल्पे कल्पे तमुद्भवम् ।
तथा मन्वन्तरे चैव श्रोतुमिच्छामहे वयम् । ।४५
कल्क्युवाच
अष्टादश महाकल्पाः प्रकृतेश्च तनौ स्थिताः ।
आद्यो ब्रह्ममहाकल्पस्तत्र ब्रह्मा परः पुमान् । ।४६
तत्पूर्वार्द्धात्समुद्भूतास्त्रयस्त्रिंशच्च देवताः ।
परार्द्धाद्भगवान्ब्रह्मा योगिध्येयो निरञ्जनः । ।४७
तस्मिन्कल्पे तु या लीला ब्रह्मपौराणिकैः स्मृता ।
शतकोटिप्रविस्तारो ब्रह्मपौराणिकस्य वै । ।४८
पुराणपुरुषस्यान्ते महाकल्पः स्मृतो बुधैः ।
ब्रह्माण्डप्रलये कल्पो युगदैवसहस्रकः । ।४ ९
कल्पाश्चाष्टादश ख्यातास्तेषां नामानि मे शृणु ।
कूर्मकल्पो मत्स्य कल्पः श्वेतवाराहकल्पकः । । 3.4.25.५०
नृसिंहकल्पश्च तथा तथा वामनकल्पकः ।
स्कन्दकल्पो रामकल्पः कल्पो भागवतस्तथा । । ५१
तथा मार्कण्डकल्पश्च तथा भविष्यकल्पकः ।
लिङ्गकल्पस्तथा ज्ञेयस्तथा ब्रह्माण्डकल्पकः । । ५२
अग्निकल्पो वायुकल्पः पद्मकल्पस्तथैव च ।
शिवकल्पो विष्णुकल्पो ब्रह्मकल्पस्तथा क्रमात् । । ५३
द्विसहस्रमितावर्तैरेषां कल्पो महान्स्मृतः ।
सहस्रयुगपर्यन्तं ब्रह्माण्डायुः प्रकीर्तितम् । । ५४
यन्नाम्ना च स्मृतः कल्पस्तस्माज्जातो विराडयम् ।।
चतुर्दशमनूनां च मध्ये कल्पः स कालवान्।। ५५।।
स्वायंभुवांतरे यद्वै जांतंजातं चतुर्युगम्।।
तस्मिंश्चतुर्युगे सर्वे नृणामायुर्हरे शृणु ।।५६।।
लक्षाब्दं वै सत्ययुगे त्रेतायामयुताब्दकम् ।।
द्वापरे च सहस्राब्दं कलौ चायुश्शताब्दकम्।।५७।।
स्वारोचिषेऽन्तरे ऐव जातंजातं चतुर्युगम् ।।
शृणु तत्र नृणामायुस्सत्येशीतिसहस्रकम् ।। ५८ ।।
त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।।
कलौ द्विक सहस्राब्दं नृणामायुः प्रकीर्तितम् ।। ५९ ।।
औत्तमस्यान्तरे चैव सत्ये षष्टिसहस्रकम् ।।
त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।।3.4.25.६०।।
कलौ सार्द्धसहस्राब्दं नृणामायुः प्रकीर्तितम् ।।
तामसान्तरके चैव षट्त्रिंशाब्दसहस्रकम् ।। ६१ ।।
नृणामायुः सत्ययुगे त्रेतायां च तदर्द्धकम् ।।
द्वापरे च तदर्द्धाब्दं कलौ वर्षसहस्रकम् ।। ६२ ।।
रैवतान्तरके चैव सत्ये त्रिंशत्सहस्रकम् ।।
त्रेतायां च तदर्द्धाब्दं द्वापरे च तदर्द्धकम् ।। ६३ ।।
कलौ चाष्टशताब्दायुर्नृणां वेदैः प्रकीर्तितम् ।।
चाक्षुषान्तरके चैव सत्ये तुर्यसहस्रकम्।। ६४ ।।
त्रेतायां त्रिसहस्राब्दं द्वापरे द्विसहस्रकम् ।।
कलौ सहस्र वर्षान्तं नृणामायुः प्रकीर्तितम्।। ६५ ।।
वैवस्वतेन्तरे चैव सत्ये तुर्यसहस्रकम् ।।
त्रेतायां त्रिशताब्दं च द्वापरे द्विशताब्दकम् ।। ६६ ।।
कलौ शताब्दकं प्रोक्तमायुर्वेदैस्तथा नृणाम् ।।
सावर्णिकेऽन्तरे देव नृणां विंशत्सहस्रकम् ।। ६७ ।।
आयुः सत्ये तदर्द्धं तु त्रेतायां च प्रकीर्तितम् ।।
द्वापरे च तदर्द्धाब्दं तदर्द्धाब्दं तु वै कलौ ।। ६८ ।।
ब्रह्मसावर्णिके चैव सत्ये दशसहस्रकम् ।।
त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।। ।। ६९ ।।
कलौ चैव तदर्द्धाब्दं नृणामायुः प्रकीर्तितम्।।
दक्षसावर्णिके चैव तथाब्दायुश्चतुर्युगे ।। 3.4.25.७० ।।
रुद्रसावर्णिके चैव सत्ये चाष्टसहस्रकम् ।।
त्रेतायां तदर्द्धाब्दं द्वापरे च तदर्द्धकम् ।। ७१ ।।
कलौ तदर्द्धकं ज्ञेयं नृणामायुः पुरातने ।।
धर्मसावर्णिके चैव तथाब्दायुश्चतुर्युगे ।। ७२ ।।
भौम मन्वंतरे चैव सत्ये तुर्यसहस्रकम् ।।
त्रेतायां त्रिसहस्राब्दं द्वापरे च तदर्द्धकम् ।। ७३ ।।
कलौ तदर्द्धकं ज्ञेयं नरायुश्चार्षसम्मतम् ।।
भौतमन्वंतरे चैव सत्ये तुर्यशताब्दकम्।। ७४ ।।
त्रेतायां त्रिशताब्दं च द्वापरे तु तदर्द्धकम् ।।
तदर्द्धकं कलौ घोरे नृणामायुः प्रकीर्तितम् ।। ७५ ।।
मन्वंतरे तु यन्नाम्ना भूपाश्चासंश्चतुर्युगे ।।
तन्नाम्ना च नृपा जातास्तेषां लीलाः पृथक्पृथक् ।। ७६ ।।
एवमन्यत्र वै ज्ञेयं युगे तुर्ये मनौ मनौ ।।
यो मनुस्तस्य वंशाश्च दिव्यैकयुगसप्ततौ ।। ७७ ।।
युगांते कर्मभूमेश्च लयः कल्पः स वै स्मृतः ।।
मन्वन्ते सर्वभूमेश्च प्रलयः स च कल्पकः ।। ७८ ।।
पुराण पुरुषस्यैव दिनान्ते प्रलयो हि यः ।।
मुख्यकल्पः स वै ज्ञेयः सर्वलोकविनाशकः ।। ७९ ।।
षड्विंशत्कल्पसाहस्रैर्महाकल्पो हि यः स्मृतः ।।
यदा पुराणपुरुषो मेषराशौ समास्थितः ।।3.4.25.८०।।
तदा ब्रह्मा सुरैः सार्द्धं भूपं स्वायंभुवं गतः ।।
यदा पुराणपुरुषो मकरे च समागतः ।।८१।।
स्वायंभुवमनोर्मध्ये वाराहोऽभूत्स वै भुवि ।।
यदा पुराणपुरुषो गतः सिंहे स्वकेच्छया ।। ८२ ।।
स्वारोचिषमनोरन्ते नृसिंहोऽभूत्स वै भुवि ।।
यदा पुराणपुरुषो वृषराशौ समास्थितः ।। ८३ ।।
तदौत्तममनोर्मध्ये रुद्रोऽभूत्सगणो भुवि ।।
यदा पुराणपुरुषो मीनराशौ समास्थितः ।। ८४ ।।
तामसान्तेऽभवन्मत्स्यः स वै भुवि सनातनः ।।
यदा पुराणपुरुषो युग्मराशौ समास्थितः ।। ८५ ।।
वैवस्वतमनोर्मध्ये कृष्णोभूद्भुवि स प्रभुः ।।
यदा पुराणपुरुषः कर्कराशौ समास्थितः ।। ८६ ।।
रैवतान्तेऽभवत्कूर्मः स वै भुवि सनातनः ।।
यदा पुराणपुरुषः कन्याराशौ समास्थितः ।। ८७ ।।
चाक्षुषान्ते जामदग्न्योऽभवद्रामः स वै भुवि ।।
यदा पुराणपुरुषः प्राप्तोऽलौ च स्वकेच्छया ।। ८८ ।।
वैवस्वतमनोरादौ वामनोऽभूत्स वै भुवि ।।
यदा पुराणपुरुषस्तुलाराशौ समास्थितः ।। ८९ ।।
वैवस्वतमनोर्मध्ये कल्की नाम्नाहमागतः ।।
यदा पुराणपुरुषः कुम्भराशौ समास्थितः ।।3.4.25.९०।।
सावर्णिकादौ भविता बुद्धो नाम्ना स वै भुवि ।।
यदा पुराणपुरुषो धनुराशौ समास्थितः ।। ९१ ।।
वैवस्वतमनोर्मध्ये रामो दाशरथिर्भुवि ।।
यदा पुराणपुरुषो नक्रराशौ समास्थितः ।। ९२ ।।
सर्वपूज्यावतारश्च न भवेद्वै कदाचन ।।
अस्मिंश्चतुर्युगे देवाः पुराणपुरुषस्य हि ।। ९३ ।।
त्रयोऽवताराः कथितास्तथा नान्यच्चतुर्युगे ।।
त्रेतायाः प्रथमे पादे रामो दाशरथिः प्रभुः ।। ९४ ।।
द्वापरस्य तथा कृष्णः शेषेण सह वै भुवि।।
कलेश्शेषे तथाहं वै द्वात्रिंशाब्दसहस्रके ।। ९५ ।।
अतः खंडः पवित्रोऽयं नृणां पातकनाशनः ।।
इमं चतुर्युगं खण्डं यः पठेच्छ्रावयेच्च यः ।। ९६ ।।
जन्म प्रभृति पापानि तस्य नश्यंति नान्यथा ।।
इति वः कथितं देवा महाकल्पचरित्रकम् ।। ९७।।
द्वितीयो यो महाकल्पो विष्णुकल्पः स वै स्मृतः ।।
तत्कथा पठिता देवा विष्णुपौराणिकैर्नरैः ।। ९८ ।।
शतकोटिप्रविस्तारो विष्णुपौराणिकस्य वै ।।
तत्रैव च महाकल्पो विष्णोर्नाभिसमुद्भवः ।। ।। ९९ ।।
पूर्वार्द्धाद्भगवान्ब्रह्मा .सर्वदेवसमन्वितः ।।
परार्द्धाद्भगवान्विष्णुः पुराणपुरुषः स वै ।। 3.4.25.१०० ।।
तृतीयो यो महाकल्पः शिवकल्पः स वै स्मृतः ।।
शिवपूर्वार्द्धतो जातो विष्णुस्तस्माद्विधिः स्वयम् ।। १०१ ।।
शतकोटिप्रविस्तारः शिवपौराणिकैः स्मृतः ।।
चतुर्थो यो महाकल्पः पद्म कल्पः स वै स्मृतः ।। १०२ ।।
गणेशस्तत्र भगवान्पुराणपुरुषासने ।।
गणेशादभवद्रुद्रो रुद्राद्विष्णुः सुरोत्तमः ।। १०३ ।।
विष्णोर्नाभिसमुद्भूतः परमेष्ठी पितामहः ।।
कल्पेकल्पे क्रमादादौ देवाश्चासन्समंततः ।।१०४।।
पंचमो यो महाकल्पो वायुकल्पः स वै स्मृतः ।।
महेंद्रस्तत्र भगवान्पुराण पुरुषासने ।। १०५ ।।
महेन्द्रादभवत्प्राप्तो महेंद्रादिंद्रियाणि च ।।
इन्द्रियेभ्यश्च तद्देवास्तेषां नामानि मे शृणु ।।१०६।।
शनिर्बुधो रविः शुक्रो विश्व कर्मा बृहस्पतिः ।।
इन्द्रो विष्णुस्तथा ब्रह्मा रुद्रः सोमः क्रमात्स्मृताः ।।१०७।।
सृष्टिकर्ता स वै ब्रह्मा लिङ्गेन्द्रियसमुद्भवः ।
सृष्टिपाता स वै विष्णुरवतारिपदोद्भवः । । १०८
चतुर्विंशतितत्त्वेषु कल्पेकल्पे प्रभुर्गतः ।
सनत्कुमारो हंसश्च वाराहो नारदस्तथा । । १०९
नारायणौ च कपिलात्रेयौ यज्ञाश्वकण्टकौ ।
वृषभश्च पृथुर्मत्स्यः कूर्मो धन्वन्तरिस्तथा । । 3.4.25.११०
मोहिनी च नृसिंहश्च वामनो भार्गवस्तथा ।
रामो व्यासो बलः कृष्णो बुद्धः कल्की स्वतत्त्वगः । । १११
गुह्यजन्मा महादेवः सृष्टिदैत्यविनाशकः ।
एवं जातास्त्रयो देवा महाकल्पे च पञ्चमे । । ११२
षष्ठो यस्तु महाकल्पो वह्निकल्पः स वै स्मृतः ।
स्कन्दस्तत्रैव भगवान्पुराणपुरुषासने । । ११३
पुरुषाव्ययतः स्कन्नः स्कन्दस्तस्मान्महार्चिमान् ।
सूर्यरूपा महार्चिर्या तस्यां जातो हरिः स्वयम् । । ११४
वह्निरूपा महार्चिर्या तस्यां जातः पितामहः ।
चन्द्ररूपा महार्चिर्या तस्यां जातः स वै हरः । । ११५
ऋषयो मुनयो वर्णा लोका जाताः पितामहात् ।
आदित्या विश्ववसवस्तुषिता भास्वरानिलाः । । ११६
महाराजिकसाध्याश्च देवा विष्णुसमुद्भवाः ।
यक्षराक्षसगन्धर्वाः पिशाचाः किन्नरादयः । । ११७
दैत्याश्च दानवा भूतास्तामसा रुद्रसम्भवाः ।
कल्पे कल्पे समुद्भूतमेवं ब्रह्माण्डगोचरे । । ११८
सप्तमो यो महाकल्पः स वै ब्रह्माण्डकल्पकः ।
पावकस्तत्र भगवान्पुराणपुरुषासने । । ११९
अचिन्त्यतेजसस्तस्मात्पुरुषाद्वह्निरुद्भवः ।
ततो जातो महाब्धिश्च तस्माज्जातं विराण्मयम् । । 3.4.25.१२०
रोम्णि रोम्णि ततस्तस्य ब्रह्माण्डाः कोटिशोऽभवन् ।
ब्रह्माण्डादभवद्ब्रह्मा सर्वलोकपितामहः । । १२१
तस्माज्जातो विभुर्विष्णुस्तस्माज्जातो हरः स्वयम् ।
शतकोटिप्रविस्तारो ब्रह्माण्डाख्यपुराणके । । १२२
त्रिनेत्रं पञ्चवक्त्रं च दशबाहुर्भवस्य च ।
अष्टादशानां कल्पानां वायुर्वै वैदिकैः स्मृतः । । १२३
महाकल्पेऽभवन्सर्वे द्विसहस्राः क्षयं गताः ।
अष्टमो यो महाकल्पो लिङ्गकल्पः स वै स्मृतः । । १२४
तत्रैव भगवान्धर्मः पुराणपुरुषासने ।
अचिन्त्याव्यक्तरूपश्च जातो धर्मः सनातनः । । १२५
धर्मात्कामः समुद्भूतः कामाल्लिङ्गस्त्रिधाभवत् ।
पुंल्लिङ्गः क्लीबलिङ्गश्च स्त्रीलिङ्गश्च सुरोत्तम । । १२६
पुँल्लिङ्गादभवद्विष्णुः स्त्रीलिङ्गाच्च महेन्दिरा ।
क्लीबलिङ्गात्स वै शेषस्तस्योपरि स च स्थितः । । १२७
त्रिभ्यस्तमोमयेभ्यश्च जातमेकार्णवं जगत् ।
सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् । । १२८
जातं तस्मात्स वै ब्रह्मा तस्माज्जातो विराडयम् ।
शतकोटिप्रविस्तारैर्लिङ्गपौराणिकैः कथा । । १२९
गीता चैव विधेरग्रे तस्य सारोऽयमुत्तमः ।
नवमो यो महाकल्पो मत्स्यकल्पः स वै स्मृतः । । 3.4.25.१३०
कुबेरस्तत्र भगवान्पुराणपुरुषासने ।
अव्ययाच्च समुद्भूतो धूलिवृन्दो महांस्तथा । । १३१
रजोभूताच्च तस्माच्च कुबेरस्य समुद्भवः ।
कुबेरादुद्भवन्मत्स्यो वेदमूर्तिश्च सद्गुणः । । १३२
मत्स्योदरात्समुद्भूतो विष्णुर्नारायणो हरिः ।
विष्णोर्नाभेः समुद्भूतो ब्रह्मा लोकपितामहः । । १३३
ब्रह्मणश्चोद्भवं दैवं दैवाद्देवा बभूविरे ।
चतुर्विंशतितत्त्वानि तैर्देवैर्जनितानि वै । । १३४
कल्पेकल्पे क्रमादेवं कल्पनामान्यकारयत् ।
मत्स्यकल्पे तु मत्स्यश्च महामत्स्यात्समुद्भवः । । १३५
तन्मत्स्याद्भगवान्विष्णुस्ततो ब्रह्मण उद्भवः ।
कूर्मकल्पे महामत्स्यात्कूर्मो जातः स कच्छपः । । १३६
कूर्माच्च भगवान्विष्णुस्ततो ब्रह्मा ततो विराट् ।
श्वेतवाराहकल्पे च वराहाद्विष्णुरुद्भवः । । १३७
विष्णोर्नाभेश्च स ब्रह्मा ततो जातो विराडयम् ।
एवं सर्वे च वै कल्पा ज्ञेयाः सर्वत्र वै बुधैः । । १३८
दशमो यो महाकल्पः कूर्मकल्पः स वै स्मृतः ।
अचेतास्तत्र भगवान्पुराणपुरुषासने । । १३९
प्रकृतेश्च परो यो वै तुरीयोऽव्यय एव च ।
शून्यभूतात्ततो जातः प्रचेता भगवान्स्वयम् । । 3.4.25.१४०
तस्माज्जातो महानब्धिस्तत्र सुष्वाप स प्रभुः ।
नारायण इति ख्यातः स वै जलपतिः स्वयम् । । १४१
तदर्द्धाच्च महाकूर्मस्ततः शेषो महानभूत् ।
त्रिधाऽभवत्स वै शेषो भूमा शेषश्च भौमनी । । १४२
भूमा स वै विराड् ज्ञेयः शेषोपरि स चास्थितः ।
भौमनी च महालक्ष्मीः सा भूम्नो हृदि संस्थिता । । १४३
भूम्नो जातः स वै ब्रह्मा सृष्टिस्थितिविनाशकः ।
त्रिधामूर्तिः स वै ब्रह्मा कल्पेकल्पे क्रमादयम् ।। १४४
पटं सुषुप्तभूतं यत्पुराणपुरुषासनम् ।
यत्र गत्वेन्द्रियाण्येव तृप्तिं प्राप्य क्षयन्ति वै ।। १४५
अहङ्कारस्तदागत्य चैतन्यं मनसि स्थितम् ।
वञ्चयित्वा पुनर्लोकं करोति स्म स्वलीलया ।। १४६
तुरीयशक्तिर्या ज्ञेया महाकाली सनातनी ।
महाकल्पश्च तैः सर्वैस्तदङ्गं श्रुतिभिः स्मृतम् ।। १४७
नमस्तस्यै महाकाल्यै मम मात्रे नमो नमः ।
यतः पुराणपुरुषा भवन्ति च लियन्ति च ।। १४८
दशैव च महाकल्पा व्यतीता इह भोः सुराः ।
साम्प्रतं वर्तते यो वै महाकल्पो भविष्यकः ।। १४९
तदुत्पत्तिं शृणुध्वं भो देवाः सर्पिगणा मम ।
अचिन्त्यमक्षरं यत्तु तुरीयं च सदा स्थितम् ।। 3.4.25.१५०
यद्गत्वा न निवर्तन्ते नरास्तत्रैव तत्पदम् ।
अनेकसृष्टिरचनाः सन्ति तस्यैव लीलया ।। १५१
तस्यान्तं न विदुर्देवाः कथं जानन्ति वै नराः ।
भूतो भूतो महाकल्पो दृष्टो वैदेस्तदीरितः ।। १५२
भाव्या ये तु महाकल्पा न वै जानन्ति ते सदा ।
त्रयस्त्रिंशन्महाकल्पाः कैश्चिद्वेदैरुदीरिताः ।। १५३
अष्टादश महाकल्पाः पृथङ् नाम्नोपवर्णिताः ।
एकादश महाकल्पाः कैश्चित्प्रोक्ताः पुरातनैः ।। १५४
अतोऽहं निश्चयेनाद्य भाव्यकल्पेषु भोः सुराः ।
वेदानां वचनं सत्यं नान्यथा च भवेत्क्वचित् ।। १५५
तदव्ययात्समुद्भूतो राधाकृष्णः सनातनः ।
एकीभूतं द्वयोरङ्गं राधाकृष्णो बुधैः स्मृतः ।। १५६
सहस्रयुगपर्यन्तं यत्तेपे परमं तपः ।
तदा स च द्विधा जातो राधाकृष्णः पृथक्पृथक् ।। १५७
सहस्रयुगपर्यन्तं तेपतुस्तौ परं तपः ।
तयोरङ्गात्समुद्भूता ज्योत्स्ना तमनाशिनी । । १५८
तज्योत्स्नाभिः समुद्भूतं दिव्यं वृन्दावनं शुभम् ।
एकविंशत्प्रकृतयो योजने योजने स्मृताः । । १५९
दिव्यं वृन्दावनं जातं चतुराशीतिसम्मिते ।
क्रोशायामं महारम्यं तल्लिङ्गं शृणु मे प्रभो । । 3.4.25.१६०
इन्द्रियप्रकृतीनां च दशानां ग्रामतद्दश १ ।
गोकुलं वार्ष नान्दं भाण्डीरं माथुरं तथा । । १६१
व्रजं च यामुनं मान्यं श्रेयस्कं गोपिकं क्रमात् ।
मात्राभूतदशभ्यश्च प्रकृतिभ्यः समुद्भवम् । । १६२
तथा दशवनं रम्यं तेषां नामानि मे शृणु ।
वृन्दावनं गोपवनं बहुलावनमेव च । । १६३
मधुशृङ्गं कुञ्जवनं वनं दधिवनं तथा ।
रहः क्रीडावनं रम्यं वेणुपद्मवनं क्रमात् । । १६४
मनसः प्रकृतेर्जातो गिरिर्गोवर्द्धनो महान् ।
दिव्यं वृन्दावनं दृष्ट्वा परमानन्दमाप सः । । १६५
कृष्णादुदभवन्गोपास्तिस्रः कोट्यो गुणात्मकाः ।
श्रीदामाद्याः सात्विकाश्च राजसा अर्जुनादयः । । १६६
कंसाद्यास्तामसा जाता दिव्यलीलाप्रकारिणः ।
राधाङ्गादुद्भवा गोप्यस्तिस्रः कोट्यस्तथा क्रमात् । । १६७
ललिताद्याः सात्त्विकाश्च कुब्जाद्या राजसास्तथा ।
तामसाः पूतनाद्याश्च नानाहेलाचरित्रकाः । । १६८
सहस्रयुगपर्यन्तं तेषां लीला बभूव ह ।
ततस्तौ तान्समाहृत्य तेपतुश्च पुनस्तपः । । १६९
द्विधा जातः स वै कृष्णो राधा देवी तथा द्विधा ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । । 3.4.25.१७०
पूर्वार्द्धात्स च वै जातः परार्द्धात्कृष्ण एव हि ।
एकशीर्षा त्रिनेत्रा च द्विपदी द्विसहस्रिका । । १७१
पूर्वार्धात्सा तु वै जाता राधा देवी परार्द्धतः ।
पुरुषः प्रकृतिश्चोभौ तेपतुः परमं तपः । । १७२
सहस्रयुगपर्य्यन्तं दिव्ये वृन्दावने शुभे ।
तपसा ववृधाते तौ नाम्नानन्तो ह्यनन्तकः । । १७३
एकीभूतौ तु तत्पश्चात्संस्थितौ मैथुनेच्छया ।
तदङ्करोमकूपेषु ब्रह्माण्डाः कोटिशोऽभवन् । । १७४
कोट्यर्द्धयोजनायामास्ते तु सर्वे पृथक्पृथक् ।
हृदि रोमसमुद्भूतो ब्रह्माण्डोऽयं च भोः सुराः । । १७५
ब्रह्माण्डादुद्भवो ब्रह्मा पद्मपुष्पे समास्थितः ।
स पद्मो योजनायामो भूमिमण्डलसंस्थितः । । १७६
यतो जातं विधेः पद्मं तद्वै पद्मसरोवरम् ।
प्रसिद्धं पुष्करक्षेत्रं तत्पद्मसरसं सुराः । । १७७
विस्मितः स तदा ब्रह्मा नररूपश्चतुर्मुखः ।
नाले नाले गतोसौ वै दिव्यं जातं शतं समाः । । १७८
नान्तं जगाम पद्मस्य पुनर्ब्रह्मा स चागतः ।
मायया मोहितस्तत्र रुरोद बहुधा तदा । । १७९
रोदनाद्रुद्र उत्पन्नः स च तत्क्षेमकारकः ।
किं रोदिषि महाभाग त्वदीशो हृदये तव । । 3.4.25.१८०
इति श्रुत्वा वचस्तस्य ब्रह्मा लोकपितामहः ।
समाधिभूतो हृदये चिरं तेपे स्वकेच्छया । । १८१
दिव्यवर्षशताब्दे तु प्रादुर्भूतो हरिः स्वयम् ।
वचनं प्राह भगवान्मेघगम्भीरया गिरा । । १८२
कर्मभूमिरियं ब्रह्मञ्जीवान्ता जीवकारिणी ।
सहस्रयोजनायां तु विश्वस्मिन्भूमिमण्डले । । १८३
हिमाद्रिरुत्तरे तस्याः पूर्वेऽब्धिश्च महोदधिः ।
रत्नाकरः पश्चिमेऽब्धिर्दक्षिणे वडवाब्धिकः । । १८४
अतः सर्वे भविष्यन्ति लोकाश्चोर्द्ध्वं तथा ह्यधः ।
कर्मभूमेर्मध्यभूतः पुष्करोऽयं सनातनः । । १८५
मत्तो वेदान्भवान्प्राप्य करिष्यति मखं शुभम् ।
यज्ञाद्देवा भविष्यन्ति त्रिधाभूता गुणत्रयात् । । १८६
सिद्धा विद्याधराश्चैव चारणाः सात्त्विकास्त्रिधा ।
गन्धर्वयक्षरक्षांसि राजसा गिरिसंस्थिताः । । १८७
पिशाचगुह्यका भूतास्तामसा गामिनो ह्यधः ।
तथा स्वधामया यज्ञास्त्रिधा पितृगणा विधे । । १८८
भविष्यन्ति सुरै रम्या विमानसदृशाश्च खे ।
खेचरा गौरवर्णाश्च श्यामास्ते सात्त्विकाः स्मृताः । । १८९
गिरिद्वीपमया रम्याः सरोरूपाश्च राजसाः ।
भूचरास्ते भविष्यन्ति त्रिधा पितृगणा विधे । । 3.4.25.१९०
बिलेतलमया ये तु नारका यातनामयाः ।
तामसास्ते भविष्यन्ति पितरोऽधोमहीतले । । १९१
व्ययभूताश्च ते लोका वृद्धा मध्याः क्षयाः क्रमात् ।
इयं भूमिर्महाभागा सर्वदा च सनातनी । । १९२
मेरुर्वै च नमेरुश्च द्वीपाश्चासंस्तथा न हि ।
इलावर्तादिखण्डाश्च सन्ति नैव क्वचित्क्वचित् । । १९३
ये तु तारामया लोका विमानसदृशा विधे ।
स्वेच्छया च करिष्यन्ति रक्षिता यज्ञकर्मणा । । १९४
यज्ञो नास्ति यदा भूमौ तदा ते भगणा विधे ।
विघ्नभूताश्चरिष्यन्ति नित्यवक्रातिचारिणः । १९५
कर्मभूमिश्च गौर्ज्ञेया श्रुतिरूपा जगन्मयी ।
यस्तां पाति च भो ब्रह्मन्स गोप इति विश्रुतः । । १९६
गोपशक्तिः स वै गोपो गोपानामर्चको हरिः ।
कोटिकोटिसहस्राश्च सर्व गोपा हरेः कलाः । । १९७
तावन्तश्चैव ब्रह्माण्डा गोपनाम्ना प्रकीर्तिताः ।
कर्मभूमेस्तथोर्ध्वं च रविर्योजनलक्षकः । । १९८
ततश्शशी तथामानस्ततश्चोर्ध्वं भमण्डलम् ।
द्विलक्षयोजनगतस्ततो भौमस्तथाविधः । । १९९
भौमाद्बुधस्तथा ज्ञेयो बुधाच्च बृहतांपतिः ।
गुरोः शुक्रस्तथामानः शुक्रात्सौरिस्तथागतः । । 3.4.25.२००
शनेराहुस्तथा ज्ञेयो राहोः केतुस्तथोर्ध्वगः ।
सप्तलक्षमितं ज्ञेयं केतोः सप्तर्षिमण्डलम् । । २०१
लक्षैकादशगाः सर्वे ततश्चोर्ध्वं ध्रुवास्पदम् ।
लक्षयोजनगं चैव ततश्चोर्ध्वं महत्पदम् । । २०२
लक्षयोजनगं ज्ञेयं ततश्चोर्ध्वं जनास्पदम् ।
लक्षयोजनगं ज्ञेयं तदूर्ध्वं तपसः स्थलम् । । २०३
एवं च कर्मभूमेश्च तपः कोट्यर्धयोजनम् ।
कर्मभूमेरधश्चैव पातालाः सप्त चान्तराः । । २०४
लक्षयोजनगा ज्ञेयास्ततश्चाधोगताश्च ये ।
नरकाश्च क्रमाज्जेया भूमेः कोट्यर्द्धयोजनाः । । २०५
कर्मभूमेरुत्तरे च खण्डान्यष्टौ ततः परम् ।
लवणाब्धिस्ततो द्वीपस्ततः क्षीराब्धिरेव हि । ।
ततो द्वीपस्ततः सिन्धुस्ततो द्वीपस्ततोऽब्धिकः । । २०६
कोट्यर्द्धलक्षव्यानेन योजनेन विधे स्वयम् । । २०७
कर्मभूमेः स वै ज्ञेयो लोकालोका महाचलः ।
लोकालोको दक्षिणे च पश्चिमे च स वै गिरिः । । २०८
पूर्वे च कर्मभूमेश्च लोकालोकस्तथाविधः ।
एतेषां समुदायानां ब्रह्माण्डोऽयं प्रकीर्तितः । । २०९
त्वत्तो भविष्यति विधे कल्पपर्यन्तमेव हि ।
ओमित्येकाक्षरं ब्रह्म ततो विष्णुस्त्रिधाभवत् । । 3.4.25.२१०
अद्य विष्णुः स वै कृष्ण इह विष्णुः स वै विराट् ।
इति विष्णुः स वै ज्ञेयः पुराणपुरुषोत्तमः । । २११
पुराणपुरुषो ज्ञेय आदिब्रह्मा चिरायुगः ।
दैवे युगसहस्रे द्वेऽहोरात्रं तस्य कीर्तितम् । । २१२
विष्णोस्तु रोमकूपेषु ब्रह्माण्डाः कोटिशोऽभवन् ।
अद्य विष्णुरहं ब्रह्मन्विघ्नहा तव भूतले । । २१३
इत्युक्तवान्तर्दधे विष्णुर्ब्रह्मा सृष्टिमचीकरत् ।
तेन प्रोक्तं यतो भाव्यं महाकल्पो हि स स्मृतः । । २१४
भविष्यो नाम विख्यातो द्विसहस्रभवायुषा ।
पूर्वार्द्धश्च कूपरार्द्धश्च पुराणपुरुषस्य हिः । । २१५
अष्टादशसहस्राणि कल्पाः पूर्वार्द्धके गताः ।
परार्द्धः साम्प्रतं ज्ञेयो जातं तस्य दिनद्वयम् । । २१६
अद्याहं कूर्मकश्चैव वाहने मत्स्यः प्रकीर्तितः ।
तृतीयः श्वेतवाराहो दिवसस्तस्य कल्पवान् । । २१७
तथा मध्याह्नकालो हि साम्प्रतं वर्तते सुराः ।
भविष्याख्ये महाकल्पे कथा भाविष्यकैर्जनैः । । २१८
कथिता ब्रह्मणश्चाग्रे शतकोटिप्रविस्तरैः ।
दशलक्षणसंयुक्तं शतकोटिप्रविस्तरम् । । २१९
महापुराण कथितं पुराणं पञ्चलक्षणम् ।
पद्यत्रिंशत्सहस्रं च कल्पे कल्पे प्रकीर्तितम् । । 3.4.25.२२०
कल्पनाम्ना पुराणं च महादेवेन निर्मितम् ।
अष्टादशपुराणानि निर्मितानि शिवात्मना । । २२१
द्वापरान्ते च भगवान्व्यासः सत्यवतीसुतः ।
तान्येव जनयामास लोकमङ्गलहेतवे । । २२२
व्यास उवाच
इति कल्किवचः श्रुत्वा ते देवा विस्मयान्विताः ।
नमस्कृत्य गमिष्यन्ति स्वं स्वं धाम प्रहर्षिताः । । २२३

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयवर्णनं नाम पञ्चविंशोऽध्यायः । २५